ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं न भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो न विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह —
न व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति ॥
स्वयमेव परोक्तमाशङ्क्योत्तरमाह —
न ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ।
सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम् । एतदेव प्रपञ्चयति —
ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येव, इति न पृथक् सूत्रयितव्यानि । यथा ‘राजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति ॥
शेषषष्ठ्या ब्रह्मसम्बन्धिजिज्ञासेत्युक्ते ब्रह्मस्वरूपप्रमाणयुक्तिसाधनप्रयोजनानां जिज्ञास्यत्वमुक्तं स्यादिति चोदयति -
ननु किमिति व्यर्थ इति ।
प्रधानपरिग्रह इति ।
विचारसाध्यज्ञाननिमित्तापरोक्ष्यफलभागित्वादापरोक्ष्यस्य च ब्रह्मसुखापरोक्षत्वात् विशिष्टं ब्रह्मविचारप्रवृत्तेः प्रधानं भवति । तस्य प्रधानभूतस्य ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मस्वरूपनिर्णयापेक्षितप्रमाणादिविचाराणाम् अर्थाक्षिप्तअर्थाक्षितत्वादितित्वादित्यर्थः ।