यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना न सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, न पृथगभिधानेन कृत्यमस्ति । यथा ‘राजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं न सम्पद्यते, तावतो गमनमाक्षिप्तमिति न पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । ‘पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्य ‘ब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं ‘तद्विजिज्ञासस्व’ (तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाह — श्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः —
‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः ‘तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥
ब्रह्मावाप्तिः पुरुषार्थ इति ।
सुखापरोक्ष्यं ब्रह्मापरोक्ष्यं पुरुषार्थ इत्यर्थः ।
तेन तत् ज्ञानेनाप्तुमिष्टतममिति ।
आपरोक्ष्यस्य पुरुषार्थरूपत्वात् तदापरोक्ष्यं ब्रह्मज्ञानेनाप्तुमिष्टतमंइष्टमतमिति ज्ञानाधीनफलभागीत्यर्थः ।
तदर्थत्वादिति ।
ज्ञानद्वारेण फलविशिष्टब्रह्मशेषत्वात् विचारप्रवृत्तेः फलविशिष्टं ब्रह्मप्रधानमित्यर्थः ।
अर्थादेवेति ।
कर्मणि षष्ठ्या ब्रह्मणो जिज्ञासेति ब्रह्मस्वरूपजिज्ञासाभिधाने प्रमाणादीनामर्थादेव जिज्ञास्यत्वात् न पृथक् शेषषष्ठ्यङ्गीकारेण सूत्रयितव्यानीत्यर्थः ।
शास्त्रप्रवृत्तिरेवेति ।
श्रौतविचारविधिनिर्णयपरतया प्रथमसूत्रप्रवृत्तिरेवेत्यर्थः ।
अथशब्दसूचिताधिकारिप्रतिपादकश्रुत्यर्थमाह -
पुण्यजित इति ।
परेति ।
परा विद्यत इति यस्मादित्यर्थः ।
ब्रह्मजिज्ञासेत्यंशेन सूचितश्रुत्यर्थमाह -
तद्विजिज्ञासस्वेति ।
इच्छाप्रदर्शनार्थमितीच्छाया वाक्यार्थत्वप्रदर्शनार्थमित्यर्थः ।