अस्ति तावद् ब्रह्म इत्यादिना
त्रितयमपि समाधत्ते श्रोतृप्रवृत्त्यर्थम् । ननु प्रेक्षावताऽविसंवादकेन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्विषयमसम्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयोजनवत्त्वप्रतीतिः प्रणेतृगौरवात् , न तु तावन्मात्रेण प्रवृत्तिः । अभिप्रेतप्रयोजनाय हि प्रवर्तन्ते, न तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । न च विषयभावमनापन्नमशक्यप्रतिपादनं च प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयोजनमित्युच्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयप्रभृतीनि बहूनि, यथा वा तण्डुलनिष्पत्तिप्रयोजना अवघातनखनिर्भेददलनक्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथेहाप्यन्यस्मादपि कथञ्चिद् ब्रह्मावगतिसिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्यनन्यसाधारणता प्रतीयते । तेनानन्यसाधारणत्वाय विषयो निर्देश्यः प्रवृत्त्यङ्गत्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृत्त्यङ्गत्वेनैव । यथा साधुशब्दपरिज्ञानं व्याकरणारम्भात् प्राक् न केनचित्साध्यते, तेन न केनचित् सम्बद्धम् ; अतस्तदर्थी न क्वचित् प्रवर्तते, यथा वौदननिष्पत्तिरेकक्रिया नियताऽपि न गमनाद्येकक्रियासाध्या, तेन न तया सम्बन्धः । ततश्च न गमनादिक्रियायामोदनार्थी प्रवर्तते, तेन पुरुषार्थरूपताऽनन्यसिद्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विषयसम्बन्धप्रयोजनानि । तानि च त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काकदन्तपरीक्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रुतादिसिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दलनसिद्धेष्ववघाते । नाप्यनन्यसिद्धेऽपि साधुशब्दपरिज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामप्रसिद्धतां च निरस्य शक्यप्रतिपाद्यमानतामनन्यसिद्धतां च दर्शयन् विषयसम्बन्धौ समर्थितवान् ,
‘निःश्रेयसप्रयोजना प्रस्तूयते’
इति च प्रयोजनम् ॥
त्रितयमपि समाधत्त इति ।
सामान्येन प्रतिपन्नं विशेषरूपेण निर्णयाय विचारयोग्यं भवति विशेषरूपेणापि आपातदर्शनेन प्रतिपन्नं विशेषनिर्णयाय विचारयोग्यं भवति । तत्र ब्रह्मणोऽपि ब्रह्मपदेनानिश्चितविशेषप्रतिभासगोचरतया प्रतीतत्वादेव विचारयोग्यत्वात् सम्बन्धसिद्धेः पदस्य प्रमाणत्वाभावादेव शास्त्रातिरिक्तप्रमाणेन प्रमितत्वाभावात् । शास्त्रेण प्रमीयमाणतया विषयत्वसिद्धेः, शास्त्रेण प्रमिततया शास्त्रं प्रति प्रयोजनत्वसिद्धेश्च त्रितयमपि युज्यत इति समाधत्त इति भावः । अभिप्रेतप्रयोजनसाधन इत्यर्थः ।
प्रमितिविशिष्टब्रह्मणः प्रयोजनत्वं तस्यैव प्रमीयमाणतया विषयत्वं तस्यैवाज्ञाततया प्रमेयत्वयोग्यतारूपसम्बन्धित्वमिति नियमात् । प्रयोजनं ब्रह्म, तस्य साधनं विचारशास्त्रमित्युक्तम् । विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च प्रयोजनबुद्ध्या प्रतीयत इति पृथगेव न वदितव्यौ विषयसम्बन्धाविति चोदयति -
एवमपीति ।
सम्बन्धाविति चोदयति -
एवमपीति ।
मृदेव मृदे इतिघटावस्थेति न घटः प्रयोजनमित्यर्थः ।
द्विविधं विषयत्वं तेन साधनेन जायमानातिशयभाक्त्वमन्येनासाध्यत्वं च तत्र जायमानातिशयभाक्त्वं नाम विषयत्वं प्रयोजनबुद्ध्या प्रतीयत एव न त्वन्यसाध्यतारूपविषयत्वं प्रतीयत इति पृथग्वक्तव्यमित्याह -
सत्यमेवमिति ।
पृथग्वक्तव्यत्वसिद्धये नान्यसाध्यतारूपविषयस्य प्रयोजनस्य सम्बन्धस्य च पृथगेव वर्तनादन्यतमेन सहान्यतमस्य अवस्थानं नास्तीति दर्शयति -
यथा चिकित्सेत्यादिना ।
बहूनीति ।
बहूनि साधनानि विद्यन्ते अतस्तेषां सम्बन्धप्रयोजनयोः भावेऽपि अनन्यसाध्यरूपविषयो नास्तीत्यर्थः ।
इतरयोर्भावे विषयस्याभावे लौकिकोदाहरणमाह -
यथा तण्डुलनिष्पत्तीति ।
दलनं प्रस्थपृष्ठादिना मर्दनमुच्यते ।
अनन्यसाधारणोविषयः शब्दार्थत्वेन क्व दृश्यत इति तत्राह -
यथा अर्जुनस्यायं विषय इति ।
कर्णो विषय इत्यर्थः ।
विषयप्रयोजनप्रयोर्भावे इतियोर्भावेऽपि सम्बन्धाभावे उदाहरणमाह -
यथा साधुशब्दपरिज्ञानमिति ।
केनचिदिति ।
चिकित्साव्यापारादिनेत्यर्थः ।
यथा चोदनेतिवौदननिष्पत्तिरिति ।
सम्बन्धाभावे लौकिकदृष्टान्तः ।
एकक्रियानियतापीति ।
पाकक्रियातः प्रागेकक्रियानियतापीत्यर्थः ।
भिद्यत इति ।
सहैवस्थितानि न भवन्तीत्येकबुद्ध्या तदितरप्रतीतिरेकाभिधानेनेतरस्यार्थात् सिद्धिरिति च नास्तीति पृथग्वक्तव्यानीत्यर्थः ।
स्वरूपभेदे पृथगभिधानापेक्षायामविकलं त्रितयं सम्भूय प्रवृत्त्यङ्गमिति तत्र व्यतिरेकमुखेन प्रवृत्तिहेतुत्वं दर्शयति -
तानि चेति ।
प्रसिद्धाप्रसिद्धपक्षयोरुक्तप्रयोजनविषयसम्बन्धासम्भवाशङ्कानिराकरणपरत्वेन उत्तरभाष्यस्याधिकरणसमाप्तेः तात्पर्यमाह -
तत्र विप्रतिपत्त्या इत्यादिना ।
विप्रतिपत्त्येति ।
विप्रतिपत्तिप्रदर्शनेन ब्रह्मशब्दव्युत्पत्तिप्रदर्शनेन चेत्यर्थः । प्रत्यगर्थोप्रत्यर्थमिति नामाहमिति प्रतीयमानं रूपं तस्य देहाद्यनेकसाधारणत्वप्रतीतेः साधारणरूपत्वम् , तद्योगितया ब्रह्मभूतात्मनोऽहंप्रत्ययेन प्रतीतेः ब्रह्मणः सामान्यप्रतीतिरस्ति । न तु विशेषेणाहं ब्रह्मेति प्रत्यक्त्वस्य, विशेषणत्वेन देहादीनां विप्रतिपत्तेरतो ब्रह्मणः सामान्यप्रसिद्धेरनूद्य प्रतिपादनसम्भवात् सम्बन्धः सम्भवति । ब्रह्मात्मैक्यमिति विशेषरूपस्य अन्येनाप्रमिततया अपूर्वत्वेन शास्त्रं प्रति विषयत्वं च विद्यत इति दर्शयन् विषयसम्बन्धौ समर्थितवानिति भावः ।