ब्रह्मणो वेदान्तविषयत्वसम्बन्धित्वसम्भवेऽपि विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च नास्तीति चोदयति -
ननु ब्रह्मेति ।
ब्रह्मजिज्ञासेति शास्त्रस्यापि ब्रह्मविषयत्वं प्रतीयत इति नेत्याह -
शास्त्रं च तेषामिति ।
न्यायविषयमिति ।
शास्त्रशब्दोदितसूत्रवाक्यानि न्यायविषयाणि, न्यायाश्च प्रमाणप्रमेयसम्भावनादिविषया इत्यर्थः ।
प्रयोजनं त्विति ।
सम्भावनावगमअवगमाव्यापारेतिव्यापारान्तरप्रयोजनद्वारेण परम्परया ब्रह्म प्रयोजनं भवतीत्यर्थः । धर्मार्थाभ्यां हि कामाख्यसुखमेव प्राप्यत इति शास्त्रयोस्तत्परतोक्तेति द्रष्टव्यम् ।
करणेतिकर्तव्ययोरेकमेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे । इहापि निर्णीतशक्तितात्पर्यविशिष्टवेदान्ता एव ब्रह्मावबोधे करणम् । तत्र वेदान्तवाक्यविषयविचारः शक्तितात्पर्यनिर्णयहेतुतया करणस्वरूपोपकार्याङ्गम् । ब्रह्मविषयविचारश्च करणसाध्यब्रह्मावगमाख्यफलोपकार्यङ्गमत मतोभयेतिउभयविधविचारस्य करणस्य ब्रह्मावगत्येकअवगतौकेतिफलत्वमवगम्यमानब्रह्मैकविषयत्वं च विद्यत इति न विषयभेद इति चोदयति -
नन्वाग्नेयादीनामिति ।
कथं सम्भावनाबुद्धिहेतुतया तद्विषयस्य विचारस्य ब्रह्मावगमजनकतया तद्विषयत, न ह्यन्यविषयो व्यापारोऽन्यविषय इत्याशङ्क्य विचारस्य प्रमाणप्रमेयसम्भावनावगमफलद्वारेण ब्रह्मावगमफलं प्रत्यपि हेतुत्वात् अनवगमहेतोरनवगम्यविषयत्वात् ब्रह्मकर्मता न विरुध्यत इत्येतदभिप्रेत्याह -
न हि छेत्तुरिति ।
परशुविषयव्यापारस्य परशोरूर्ध्वाधोदेशसंयोगविभागाख्यफलजननद्वारेण वृक्षद्वैधीभावाख्योद्देश्यफलं प्रत्यपि हेतुत्वात् वृक्षविषयत्वमित्याह -
तदर्थत्वादिति ।
द्वैधीभावफलविशिष्टवृक्षार्थत्वात् वृक्षविषयत्वमित्यर्थः ।
कारणस्येतिकरणस्य द्वारत्वादिति ।
ऊर्ध्वाधोदेशसंयोगविभागाख्यफलविशिष्टकरणस्य द्वारत्वात् करणार्थयोस्तद्विषयत्वमित्यर्थः ।
अन्यथेति ।
परशुरेव विषयो न वृक्षो विषय इति चेत् वृक्षे फलं न स्यादिति भावः ।
आगमात् अन्वयव्यतिरेकाभ्यां वा इतिकर्तव्यता गम्येत, विचारस्य तु इति कर्तव्यतायामुभयत्र प्रमाणस्याप्यभावात् वेदान्तशब्दादेव ब्रह्मावगमोत्पत्तेर्न विचारस्येतिकर्तव्यतया ब्रह्मावमगजनकत्व इत्यपसिद्धान्तिनं परिहरति पूर्ववादी -
विषम उपन्यास इति ।
अङ्कुरद्वैधीभावाङ्गभूतमृज्जलकर्तृव्यापारावभिप्रेत्याह -
यत्र यदुपकारमन्तरेणेति ।
यथा चक्षुरादयः सम्यग्ज्ञानहेतवोऽपि दोषदोषः इतिसंयोगात् संशयविपर्यासौ जनयन्ति पुनः सम्यग्ज्ञानजन्मनि च दोषादोषाथेतिपकर्षमपेक्षन्ते । एवं शब्दः शक्तितात्पर्याज्ञानतद्विपर्यासज्ञानदोषात् संशयादिज्ञानमुत्पादयति । तत्र दोषापनयनेन शाब्दविपर्यासादिनिवर्तनेन ब्रह्मनिर्णयाय शक्तितात्पर्यविचारोऽङ्गभावमश्नुत इति चोदयति -
ननु संशयविपर्यासेति ।
शाब्दसंशयविपर्यासनिरासद्वारेण ब्रह्मनिर्णयहेतुत्वादित्यर्थः । अत्र निर्णेयेति ब्रह्मोच्यते । निर्णयहेतोर्विचारस्येत्यर्थः ।
शब्द एव दोषवशात् अन्यथाज्ञानं जनयति । विचारश्च दोषनिरासेन विपर्यासादिकं निरस्य ब्रह्मावगमहेतुतया ब्रह्मविषय इति पक्षो न सम्भवति । शब्दे दोषाभावादपि तु प्रयोगान्तरेष्वन्यथाशक्तितात्पर्योन्नयनदर्शनादिहापिनादिभावि इति तथाविधत्वमस्तीति सामान्यतो दर्शनेन अर्थविरोधबुद्ध्या च पुरुषशेषेणेतिदोषेण अन्यथाज्ञानान्युत्पद्यन्ते, न तु शब्दात् , शब्दाच्च तत्त्वज्ञानमेवोत्पद्यते । ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्दशक्तितात्पर्यावधारणहेतुविचारः पुरुषदोषापनयनेन प्रतिपक्षज्ञानान्तराख्यं प्रतिबन्धं निवर्तयति । निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानंज्ञायत इतिजायते, जातं वा निश्चलमवतिष्ठते, तस्मात् न विचारः प्रमाणेतिकर्तव्यतया ब्रह्म विषय इत्याह -
नैतत् सारमिति ।
सामान्यतो दृष्टनिबन्धनानीति ।
सामान्यतो दृष्टं तु पुरुषदोषः न शब्ददोष इति भावः ।
निर्णयज्ञानोज्ञातोत्पत्तावितित्पत्ताविति ।
ब्रह्मनिर्णयज्ञानोत्पत्तावित्यर्थः ।
वैधर्म्यदृष्टान्तमाह -
यथा चक्षुरिति ।
निमित्तान्तरानुगृहीतमिति ।
दोषनिरासानुगृहीतमित्यर्थः ।
एवं पूर्ववादिना प्रसिद्धान्त इतिअपसिद्धान्ते निरस्ते सिद्धान्तयति -
अत्रोच्यत इति ।
शुक्तिज्ञानोदये रजतभ्रमवन्नित्याशङ्कां अत्रापूर्णं दृश्यतेनिरस्यति -
स्वोत्पत्तीति ।
सामान्यतो ननेत्यधिकं दृश्यते दृष्टनिबन्धनस्य न बाधः, समकालत्वादित्याह -
समकालेति ।
अनेन सहोत्पन्नत्वे शब्देनान्वयव्यतिरेकाद्धेत्वन्तराभावाच्च, शब्दजन्यमेव स्यादिति -
नेति ।
प्रयोगान्तरेष्वन्यथा अन्यथा शक्तितात्पर्यदर्शनात् इहापि तथाभावबुद्ध्या तथाविधार्थस्य च लोकेऽन्यथाभावदर्शनादिहापि अन्यथाभावबुद्ध्या जातेनेत्यर्थः ।
सामग्रीयेऽन्यविषयत्वाविषयतादितिन्न विरोध इति तत्राह -
अर्थान्तरेति ।
यथा द्वौ चन्द्राविति भ्रान्त्या एकश्चन्द्र इति सम्यग्दर्शनस्य सहवृत्तित्वेऽपि तदिद्वत्वज्ञानमपबाध्यैव वर्तते तद्वत् शाब्दं ज्ञानं किमिति न बाध्यत इति निश्चलमिवेति इवशब्दस्य सम्बन्धः ।
लक्षणयेति ।
शाब्दब्रह्मनिर्णयप्रतिबन्धनिवर्तकत्वात् मीमांसायाः निर्णयाहेतुत्वेऽपि निर्णयजनने न ब्रह्मविषयत्वमुपचारेणोच्यत इत्यर्थः ।
उक्तमर्थं निगमयति -
तच्चेदं त्रयमित्यादिना ।
तत्प्रत्ययमात्रेणेति ।
तस्य भगवतः प्रामाणिकत्वप्रतिपत्त्येत्यर्थः ।
तन्निर्देशादितिनिर्देशादृत इति ।
प्रयोजनविशेषनिर्देशेन विनेत्यर्थः ।
तस्येति ।
प्रयोजनरूपब्रह्मण इत्यर्थः ।
साध्योऽपीति ।
सम्बन्धोसम्बन्ध्येतिऽपीत्यर्थः ।
निर्दिष्ट इति ।
निर्दिष्टे साधने प्रवृत्तिर्नैव स्यादित्यर्थः । तत्र सम्बन्धो नाम शास्त्रेण प्रतिपादयितुं योग्यत्वं तस्य योग्यस्यानेनैव प्रतिपाद्यत्वं विषयत्वं योग्यस्य विषयस्य शास्त्रजन्यप्रमितिविशिष्टत्वं प्रयोजनत्वमिति ब्रह्मण एव शास्त्रं प्रति सम्बन्धित्वं विषयत्वं प्रयोजनत्वं च वक्तव्यमिति भावः ।