पञ्चपादिका
वक्तव्यकाशिका
 

ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं तेषां ब्रह्मप्रतिपादनानुसरणोपायन्यायविषयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मार्थविषययोरिव शास्त्रयोः कामावाप्तिःननु आग्नेयादीनां स्वर्गफलानां प्रयाजादीतिकर्तव्यतावत् वेदान्तानामप्यर्थमवबोधयतामितिकर्तव्यता मीमांसा, तेनार्थावबोधे वेदान्तानामुपकारकत्वाद् भवति शास्त्रमपि तद्विषयम् हि शालिबीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो कार्यम्तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेतिकर्तव्यताभागं पूरयति ; तथाऽपि ब्रह्मविषयैव हि छेत्तुरुद्यमननिपातनलक्षणो व्यापारः परशुविषयो वृक्षविषयः ; तदर्थत्वात् , करणस्य द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृव्यापारोऽन्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यतेविषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्बन्धग्रहणतदनुस्मरणबुद्धिसन्निधानमात्रोपकृतं वाक्यमर्थमवगमयति, नापरमपेक्षतेननु संशयविपर्यासनिरासद्वारेण निर्णयहेतुत्वान्निर्णयस्य निर्णेयप्रधानत्वाद्भवति निर्णेयं वस्तु निर्णयहेतोर्विषयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमांसानिरपेक्षमेव, तत्रैकं वाक्यजन्यम् ; एकार्थनियतत्वादेकस्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामान्यतोदृष्टनिबन्धनानितत्र मीमांसया लोकप्रसिद्धशब्दशक्त्यनुसारिण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽन्यदुपेक्षते, पुनर्निर्णयज्ञानोत्पत्तौ व्यापारः शास्त्रस्ययथा चक्षुः कुतश्चिन्निमित्तात्सम्प्रयुक्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुनर्निमित्तान्तरानुगृहीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञानमुत्पादयति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुनस्तदनुमहान्निर्णयात्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमांसानुग्रहात् स्वसामर्थ्यजन्यं ज्ञानमजीजनदेवतस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यतेयद्यपि वाक्यार्थज्ञानं शास्त्रानुग्रहात्प्रागेवोदेति ; तथाऽपि स्वोत्पत्तिसमकालसमुत्थेन तत्र सामान्यतोदृष्टनिबन्धनेनार्थान्तरनिवेशिना समकक्षाभिमतेन ज्ञानेन विरोधादुन्मज्जननिमज्जनमिवानुभवदस्यामवस्थायां संशयज्ञानकोटिनिक्षिप्तं सत् मीमांसया शब्दशक्त्यनुसरणे सति प्रतिपक्षज्ञानस्यानुत्पत्तौ निमज्जनाभावान्निश्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, पुनः साक्षान्निर्णयज्ञानहेतुत्वात्तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्मज्ञानविषयं शास्त्रमभिधीयतेतच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृत्त्यङ्गत्वेनयद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि प्रयोजनविशेषसिद्धिस्तत्प्रत्ययमात्रेण निर्देशादृतेतस्मात्तन्निर्देश्यम्निर्दिष्टेऽपि तस्मिंस्तस्याशक्यप्रतिपादनतां मन्वानो विहतश्रद्धत्वान्न प्रवर्तेतेति साध्यो निर्देश्यःशक्यप्रतिपादनप्रतिपत्तावप्यन्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृत्तिरित्यनन्यसाध्योऽपि निर्देश्यःतदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्यलमतिविस्तरेण

ब्रह्मणो वेदान्तविषयत्वसम्बन्धित्वसम्भवेऽपि विचारशास्त्रं प्रति विषयत्वं सम्बन्धित्वं च नास्तीति चोदयति -

ननु ब्रह्मेति ।

ब्रह्मजिज्ञासेति शास्त्रस्यापि ब्रह्मविषयत्वं प्रतीयत इति नेत्याह -

शास्त्रं च तेषामिति ।

न्यायविषयमिति ।

शास्त्रशब्दोदितसूत्रवाक्यानि न्यायविषयाणि, न्यायाश्च प्रमाणप्रमेयसम्भावनादिविषया इत्यर्थः ।

प्रयोजनं त्विति ।

सम्भावनावगमअवगमाव्यापारेतिव्यापारान्तरप्रयोजनद्वारेण परम्परया ब्रह्म प्रयोजनं भवतीत्यर्थः । धर्मार्थाभ्यां हि कामाख्यसुखमेव प्राप्यत इति शास्त्रयोस्तत्परतोक्तेति द्रष्टव्यम् ।

करणेतिकर्तव्ययोरेकमेव प्रयोजनमिति निर्णीतं प्रथमे तन्त्रे । इहापि निर्णीतशक्तितात्पर्यविशिष्टवेदान्ता एव ब्रह्मावबोधे करणम् । तत्र वेदान्तवाक्यविषयविचारः शक्तितात्पर्यनिर्णयहेतुतया करणस्वरूपोपकार्याङ्गम् । ब्रह्मविषयविचारश्च करणसाध्यब्रह्मावगमाख्यफलोपकार्यङ्गमत मतोभयेतिउभयविधविचारस्य करणस्य ब्रह्मावगत्येकअवगतौकेतिफलत्वमवगम्यमानब्रह्मैकविषयत्वं च विद्यत इति न विषयभेद इति चोदयति -

नन्वाग्नेयादीनामिति ।

कथं सम्भावनाबुद्धिहेतुतया तद्विषयस्य विचारस्य ब्रह्मावगमजनकतया तद्विषयत, न ह्यन्यविषयो व्यापारोऽन्यविषय इत्याशङ्क्य विचारस्य प्रमाणप्रमेयसम्भावनावगमफलद्वारेण ब्रह्मावगमफलं प्रत्यपि हेतुत्वात् अनवगमहेतोरनवगम्यविषयत्वात् ब्रह्मकर्मता न विरुध्यत इत्येतदभिप्रेत्याह -

न हि छेत्तुरिति ।

परशुविषयव्यापारस्य परशोरूर्ध्वाधोदेशसंयोगविभागाख्यफलजननद्वारेण वृक्षद्वैधीभावाख्योद्देश्यफलं प्रत्यपि हेतुत्वात् वृक्षविषयत्वमित्याह -

तदर्थत्वादिति ।

द्वैधीभावफलविशिष्टवृक्षार्थत्वात् वृक्षविषयत्वमित्यर्थः ।

कारणस्येतिकरणस्य द्वारत्वादिति ।

ऊर्ध्वाधोदेशसंयोगविभागाख्यफलविशिष्टकरणस्य द्वारत्वात् करणार्थयोस्तद्विषयत्वमित्यर्थः ।

अन्यथेति ।

परशुरेव विषयो न वृक्षो विषय इति चेत् वृक्षे फलं न स्यादिति भावः ।

आगमात् अन्वयव्यतिरेकाभ्यां वा इतिकर्तव्यता गम्येत, विचारस्य तु इति कर्तव्यतायामुभयत्र प्रमाणस्याप्यभावात् वेदान्तशब्दादेव ब्रह्मावगमोत्पत्तेर्न विचारस्येतिकर्तव्यतया ब्रह्मावमगजनकत्व इत्यपसिद्धान्तिनं परिहरति पूर्ववादी -

विषम उपन्यास इति ।

अङ्कुरद्वैधीभावाङ्गभूतमृज्जलकर्तृव्यापारावभिप्रेत्याह -

यत्र यदुपकारमन्तरेणेति ।

यथा चक्षुरादयः सम्यग्ज्ञानहेतवोऽपि दोषदोषः इतिसंयोगात् संशयविपर्यासौ जनयन्ति पुनः सम्यग्ज्ञानजन्मनि च दोषादोषाथेतिपकर्षमपेक्षन्ते । एवं शब्दः शक्तितात्पर्याज्ञानतद्विपर्यासज्ञानदोषात् संशयादिज्ञानमुत्पादयति । तत्र दोषापनयनेन शाब्दविपर्यासादिनिवर्तनेन ब्रह्मनिर्णयाय शक्तितात्पर्यविचारोऽङ्गभावमश्नुत इति चोदयति -

ननु संशयविपर्यासेति ।

शाब्दसंशयविपर्यासनिरासद्वारेण ब्रह्मनिर्णयहेतुत्वादित्यर्थः । अत्र निर्णेयेति ब्रह्मोच्यते । निर्णयहेतोर्विचारस्येत्यर्थः ।

शब्द एव दोषवशात् अन्यथाज्ञानं जनयति । विचारश्च दोषनिरासेन विपर्यासादिकं निरस्य ब्रह्मावगमहेतुतया ब्रह्मविषय इति पक्षो न सम्भवति । शब्दे दोषाभावादपि तु प्रयोगान्तरेष्वन्यथाशक्तितात्पर्योन्नयनदर्शनादिहापिनादिभावि इति तथाविधत्वमस्तीति सामान्यतो दर्शनेन अर्थविरोधबुद्ध्या च पुरुषशेषेणेतिदोषेण अन्यथाज्ञानान्युत्पद्यन्ते, न तु शब्दात् , शब्दाच्च तत्त्वज्ञानमेवोत्पद्यते । ततश्च शब्दात् पुरुषदोषाच्च बहुषु परस्परविरोधिषु ज्ञानेषु जातेषु शब्दशक्तितात्पर्यावधारणहेतुविचारः पुरुषदोषापनयनेन प्रतिपक्षज्ञानान्तराख्यं प्रतिबन्धं निवर्तयति । निवृत्ते च प्रतिबन्धे शब्दादेव तत्त्वज्ञानंज्ञायत इतिजायते, जातं वा निश्चलमवतिष्ठते, तस्मात् न विचारः प्रमाणेतिकर्तव्यतया ब्रह्म विषय इत्याह -

नैतत् सारमिति ।

सामान्यतो दृष्टनिबन्धनानीति ।

सामान्यतो दृष्टं तु पुरुषदोषः न शब्ददोष इति भावः ।

निर्णयज्ञानोज्ञातोत्पत्तावितित्पत्ताविति ।

ब्रह्मनिर्णयज्ञानोत्पत्तावित्यर्थः ।

वैधर्म्यदृष्टान्तमाह -

यथा चक्षुरिति ।

निमित्तान्तरानुगृहीतमिति ।

दोषनिरासानुगृहीतमित्यर्थः ।

एवं पूर्ववादिना प्रसिद्धान्त इतिअपसिद्धान्ते निरस्ते सिद्धान्तयति -

अत्रोच्यत इति ।

शुक्तिज्ञानोदये रजतभ्रमवन्नित्याशङ्कां अत्रापूर्णं दृश्यतेनिरस्यति -

स्वोत्पत्तीति ।

सामान्यतो ननेत्यधिकं दृश्यते दृष्टनिबन्धनस्य न बाधः, समकालत्वादित्याह -

समकालेति ।

अनेन सहोत्पन्नत्वे शब्देनान्वयव्यतिरेकाद्धेत्वन्तराभावाच्च, शब्दजन्यमेव स्यादिति -

नेति ।

प्रयोगान्तरेष्वन्यथा अन्यथा शक्तितात्पर्यदर्शनात् इहापि तथाभावबुद्ध्या तथाविधार्थस्य च लोकेऽन्यथाभावदर्शनादिहापि अन्यथाभावबुद्ध्या जातेनेत्यर्थः ।

सामग्रीयेऽन्यविषयत्वाविषयतादितिन्न विरोध इति तत्राह -

अर्थान्तरेति ।

यथा द्वौ चन्द्राविति भ्रान्त्या एकश्चन्द्र इति सम्यग्दर्शनस्य सहवृत्तित्वेऽपि तदिद्वत्वज्ञानमपबाध्यैव वर्तते तद्वत् शाब्दं ज्ञानं किमिति न बाध्यत इति निश्चलमिवेति इवशब्दस्य सम्बन्धः ।

लक्षणयेति ।

शाब्दब्रह्मनिर्णयप्रतिबन्धनिवर्तकत्वात् मीमांसायाः निर्णयाहेतुत्वेऽपि निर्णयजनने न ब्रह्मविषयत्वमुपचारेणोच्यत इत्यर्थः ।

उक्तमर्थं निगमयति -

तच्चेदं त्रयमित्यादिना ।

तत्प्रत्ययमात्रेणेति ।

तस्य भगवतः प्रामाणिकत्वप्रतिपत्त्येत्यर्थः ।

तन्निर्देशादितिनिर्देशादृत इति ।

प्रयोजनविशेषनिर्देशेन विनेत्यर्थः ।

तस्येति ।

प्रयोजनरूपब्रह्मण इत्यर्थः ।

साध्योऽपीति ।

सम्बन्धोसम्बन्ध्येतिऽपीत्यर्थः ।

निर्दिष्ट इति ।

निर्दिष्टे साधने प्रवृत्तिर्नैव स्यादित्यर्थः । तत्र सम्बन्धो नाम शास्त्रेण प्रतिपादयितुं योग्यत्वं तस्य योग्यस्यानेनैव प्रतिपाद्यत्वं विषयत्वं योग्यस्य विषयस्य शास्त्रजन्यप्रमितिविशिष्टत्वं प्रयोजनत्वमिति ब्रह्मण एव शास्त्रं प्रति सम्बन्धित्वं विषयत्वं प्रयोजनत्वं च वक्तव्यमिति भावः ।