शरीरस्य केवलपार्थिवत्वं नैयायिकवैशेषिकाभिमतं व्यावर्तयति -
भूतसङ्घातस्तावत् शरीरमिति ।
भूतैरारब्धावयविरूपं शरीरमित्यनङ्गीकृत्य भूतसङ्घातः शरीरमित्यभ्युपगमे सङ्घातस्य भूतेभ्यो भेदे वस्तुत्वे च तत्त्वातिरेकप्रसङ्गादवस्तुत्वे च चैतन्यवत्वाख्यभोक्तृत्वायोगात्योगासम्भवति इति सह व्युपहितभूतानां भोक्तृत्वे वक्तव्ये विकल्पयति -
तत्र व्यस्तानामिति ।
व्यस्तानां चैतन्यरूपभोग इति पक्षे विकल्पयति -
युगपत् क्रमेण वेतिचेति इति ।
स्वार्थ प्रयुक्तत्वादिति ।
स्वप्रयोजनार्थत्वात् प्रवृत्तेरित्यर्थः ।
क्रमपक्षेऽपि भोक्तॄणां न सङ्घातापत्तिरिति, तत्राह -
विरोधाद्अविरोधादितिवरगोष्ठीवदिति ।
क्रमेणोद्वाहेन कन्या भोक्तृणां वराणां समिदाहरणादिना उपकार्योपकारकभावेन सङ्घातापत्तिवदित्यर्थः ।
(किंरूपरससन्दर्भः)इदं न स्पष्टम् भाष्यं विवृणोति । प्रतीकदर्शनेनात्र द्विरावृत्तिः दृश्यते वराणां तु क्रमेणोपस्थितकन्यावस्तुष्वेकैकस्य भोग्यस्यैकैकवरं प्रत्यसाधारणत्वात् क्रमेण भोक्तृत्वस्याप्यसाधारणत्वमतो गुणप्रधानतया वराणां सङ्घातश्च सिध्यतीत्याह -
नैतदेवमिति ।
प्रतिपुरुषनियमादिति ।
प्रतिपुरुषं विषयभेदनियमात् । क्रमभावित्वनियमाच्च विषयस्येत्यर्थः ।
साधारणे च भोग्य इति ।
सर्वभूतानां विषयस्यैकत्वे बहुत्वे च युगपत् सर्वभूतानां विषयसद्भावे सतीत्यर्थः ।
प्रतिनियतनियमेतिभोगव्यवस्थेति ।
प्रतिनियतभोगस्य क्रमभावे हेत्वसम्भवादित्यर्थः ।
समूहस्येति ।
एकस्मिन् भूते चैतन्यं नास्ति, चतुष्टयेऽप्येकं चैतन्यं जायत इति चतुष्टयाख्यसमूहस्य भोक्तृत्वमित्यर्थः ।
एकस्मिन् भूते अविद्यमानचैतन्यं कथं चतुष्टयाख्यसमूहे जन्यत इति तदाह -
तिलज्वालावदिति ।
तिलसमूहे ज्वालाजन्मवदित्यर्थः ।
समूहस्य भूतातिरिक्तस्यानतिरिक्तस्य चानिरूप्यत्वादेव तस्य भोगायोगात् दुर्निरूपसमूहोपहितभूतानामेव भोक्तृत्वे वक्तव्ये सत्यागामिभोगं प्रति भूतानां समानत्वात् गुणगणप्रधानतया सङ्घातसङ्घातसिद्धिरितिसिद्धिरित्याह -
नैतदेवं, भोगेष्विति ।
भोगेषु साध्यतया निमित्तेषु सत्स्वित्यर्थः ।
भोगान्वयात् प्राग्भूतानां कर्तृत्वात् , कर्तॄणां भोगे गुणभावेन सङ्घातोपपत्तिरिति चोदयति -
कथमसम्भव इति ।
भोगान्वयात् प्रागप्यागामिभोगं प्रति स्वामितया भोक्तृत्वात् भोक्तॄणां न गुणप्रधानतया सङ्घातसिद्धिरिति परिहरति -
भोक्तुः भोगं प्रति इति ।
साध्यभोगार्थं तद्भोक्तॄणां समूहो दृष्ट इति चोदयति -
ननु भोगेऽपीति ।
शरीरयोरभोक्त्रोः भोक्त्रात्मार्थतया गुणप्रधानभावेन सङ्घातः, न तु भोक्त्रात्मनोरित्यभिप्रेत्य परिहरति -
नैतत् सारमिति ।
समूहस्येति ।
संहतशरीरद्वयस्य भोक्तृत्वं नास्तीत्यर्थः ।
तिलज्वालायां तु विपरीतमिति ।
ज्वालायाः कार्यत्वात् तां प्रति कर्तृत्वेनान्वितानां तिलानां गुणभावः सम्भवति । चैतन्यस्य तु भोगत्वात् तं प्रति भोक्तृत्वेनान्वितभूतानां गुणप्रधानभावो न घटत इत्यर्थः ।
अनेकभोक्तृणां सङ्घातासम्भवश्चेत् सङ्घातसिद्ध्यर्थमेकस्यैव संहत्युपहितस्य भोग इति पक्षमाह -
अस्त्वेकस्य तर्हि नियत इति ।
रूपरसगन्धस्पर्शेषु भोग्येषु कठिन - मृदु - पाक - चलनगुणवति भूतसङ्घाते च भोगान्वयिनि परिदृश्यमाने सति कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषणमाह -
न तत्रापीति ।
यस्य कस्यचिद्भोगः स्यात् तावतैव शरीरव्यतिरिक्तस्य भोक्तुरभावो विवक्षितः सिद्ध इति चोदयति -
किमवधारणेनेति ।
समेष्विति ।
चतुर्णां भूतानां भोगान्वयदर्शनात् भोक्तृत्वेन समेष्वित्यर्थः ।
अयुक्तमितिअयुक्त इति ।
शरीरात्मकेषु भूतेषु भोक्तृत्वमयुक्तमित्यर्थः ।
इन्द्रियात्मकेषु भूतेषु भोक्तृत्वं शरीरेन्द्रियाख्योभयात्मकभूतेषु भोक्तृत्वमिति च लोकायतपक्षौ तयोरपि तयोरविवक्षयोरितिपक्षयोरुक्तं दूषणं समानमित्याह -
एवं करणात्मकेकरणत्माष्वितिष्वित्यादिना ।