पञ्चपादिका
वक्तव्यकाशिका
 

कथं तस्य भोक्तृत्वानुपपत्तिरिति ? उच्यतेभूतसङ्घातस्तावत् शरीरम्तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवःयदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थप्रयुक्तत्वात् प्रवृत्तेरङ्गाङ्गिभावो नावकल्पेत चाङ्गाङ्गिभावमन्तरेण सङ्घात उपपद्यतेतस्मान्न व्यस्तेषु युगपद् भोगःअस्ति तर्हि क्रमेण विरोधाद्वरगोष्ठीवदिति, नैतदेवं युक्तम् ; तत्र भोग्यस्यासाधारणत्वात् , असाधारणत्वञ्च प्रतिपुरुषनियमात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे भोग्ये प्रतिनियतभोगव्यवस्थाहेत्वसम्भवात्अस्तु तर्हि समूहस्य ; तिलज्वालावच्चेतनासमन्वयोपपत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात्कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात्ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्यतिरिक्तस्येतितिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेःअस्त्वेकस्य तर्हि नियतो भोगः, ; तत्रापि कस्यैकस्येत्यनवधारणात्किमवधारणेन ? विनाऽपि तेन विवक्षितार्थोपपत्तेः ? यद्येवं, समेषु केषाञ्चिद्गुणभावानुपपत्तेरयुक्तः कार्यात्मकेषुएवं कारणात्मकेष्वपि समानश्चर्चः ; भूतस्वाभाव्याविशेषात्तथोभयात्मके समूहेतस्माद् देहादिव्यतिरिक्तमहंप्रत्ययविषयं मन्यन्ते

शरीरस्य केवलपार्थिवत्वं नैयायिकवैशेषिकाभिमतं व्यावर्तयति -

भूतसङ्घातस्तावत् शरीरमिति ।

भूतैरारब्धावयविरूपं शरीरमित्यनङ्गीकृत्य भूतसङ्घातः शरीरमित्यभ्युपगमे सङ्घातस्य भूतेभ्यो भेदे वस्तुत्वे च तत्त्वातिरेकप्रसङ्गादवस्तुत्वे च चैतन्यवत्वाख्यभोक्तृत्वायोगात्योगासम्भवति इति सह व्युपहितभूतानां भोक्तृत्वे वक्तव्ये विकल्पयति -

तत्र व्यस्तानामिति ।

व्यस्तानां चैतन्यरूपभोग इति पक्षे विकल्पयति -

युगपत् क्रमेण वेतिचेति इति ।

स्वार्थ प्रयुक्तत्वादिति ।

स्वप्रयोजनार्थत्वात् प्रवृत्तेरित्यर्थः ।

क्रमपक्षेऽपि भोक्तॄणां न सङ्घातापत्तिरिति, तत्राह -

विरोधाद्अविरोधादितिवरगोष्ठीवदिति ।

क्रमेणोद्वाहेन कन्या भोक्तृणां वराणां समिदाहरणादिना उपकार्योपकारकभावेन सङ्घातापत्तिवदित्यर्थः ।

(किंरूपरससन्दर्भः)इदं न स्पष्टम् भाष्यं विवृणोति । प्रतीकदर्शनेनात्र द्विरावृत्तिः दृश्यते वराणां तु क्रमेणोपस्थितकन्यावस्तुष्वेकैकस्य भोग्यस्यैकैकवरं प्रत्यसाधारणत्वात् क्रमेण भोक्तृत्वस्याप्यसाधारणत्वमतो गुणप्रधानतया वराणां सङ्घातश्च सिध्यतीत्याह -

नैतदेवमिति ।

प्रतिपुरुषनियमादिति ।

प्रतिपुरुषं विषयभेदनियमात् । क्रमभावित्वनियमाच्च विषयस्येत्यर्थः ।

साधारणे च भोग्य इति ।

सर्वभूतानां विषयस्यैकत्वे बहुत्वे च युगपत् सर्वभूतानां विषयसद्भावे सतीत्यर्थः ।

प्रतिनियतनियमेतिभोगव्यवस्थेति ।

प्रतिनियतभोगस्य क्रमभावे हेत्वसम्भवादित्यर्थः ।

समूहस्येति ।

एकस्मिन् भूते चैतन्यं नास्ति, चतुष्टयेऽप्येकं चैतन्यं जायत इति चतुष्टयाख्यसमूहस्य भोक्तृत्वमित्यर्थः ।

एकस्मिन् भूते अविद्यमानचैतन्यं कथं चतुष्टयाख्यसमूहे जन्यत इति तदाह -

तिलज्वालावदिति ।

तिलसमूहे ज्वालाजन्मवदित्यर्थः ।

समूहस्य भूतातिरिक्तस्यानतिरिक्तस्य चानिरूप्यत्वादेव तस्य भोगायोगात् दुर्निरूपसमूहोपहितभूतानामेव भोक्तृत्वे वक्तव्ये सत्यागामिभोगं प्रति भूतानां समानत्वात् गुणगणप्रधानतया सङ्घातसङ्घातसिद्धिरितिसिद्धिरित्याह -

नैतदेवं, भोगेष्विति ।

भोगेषु साध्यतया निमित्तेषु सत्स्वित्यर्थः ।

भोगान्वयात् प्राग्भूतानां कर्तृत्वात् , कर्तॄणां भोगे गुणभावेन सङ्घातोपपत्तिरिति चोदयति -

कथमसम्भव इति ।

भोगान्वयात् प्रागप्यागामिभोगं प्रति स्वामितया भोक्तृत्वात् भोक्तॄणां न गुणप्रधानतया सङ्घातसिद्धिरिति परिहरति -

भोक्तुः भोगं प्रति इति ।

साध्यभोगार्थं तद्भोक्तॄणां समूहो दृष्ट इति चोदयति -

ननु भोगेऽपीति ।

शरीरयोरभोक्त्रोः भोक्त्रात्मार्थतया गुणप्रधानभावेन सङ्घातः, न तु भोक्त्रात्मनोरित्यभिप्रेत्य परिहरति -

नैतत् सारमिति ।

समूहस्येति ।

संहतशरीरद्वयस्य भोक्तृत्वं नास्तीत्यर्थः ।

तिलज्वालायां तु विपरीतमिति ।

ज्वालायाः कार्यत्वात् तां प्रति कर्तृत्वेनान्वितानां तिलानां गुणभावः सम्भवति । चैतन्यस्य तु भोगत्वात् तं प्रति भोक्तृत्वेनान्वितभूतानां गुणप्रधानभावो न घटत इत्यर्थः ।

अनेकभोक्तृणां सङ्घातासम्भवश्चेत् सङ्घातसिद्ध्यर्थमेकस्यैव संहत्युपहितस्य भोग इति पक्षमाह -

अस्त्वेकस्य तर्हि नियत इति ।

रूपरसगन्धस्पर्शेषु भोग्येषु कठिन - मृदु - पाक - चलनगुणवति भूतसङ्घाते च भोगान्वयिनि परिदृश्यमाने सति कस्यैकस्य भोग इत्यनवधारितो भोगः स्यादिति दूषणमाह -

न तत्रापीति ।

यस्य कस्यचिद्भोगः स्यात् तावतैव शरीरव्यतिरिक्तस्य भोक्तुरभावो विवक्षितः सिद्ध इति चोदयति -

किमवधारणेनेति ।

समेष्विति ।

चतुर्णां भूतानां भोगान्वयदर्शनात् भोक्तृत्वेन समेष्वित्यर्थः ।

अयुक्तमितिअयुक्त इति ।

शरीरात्मकेषु भूतेषु भोक्तृत्वमयुक्तमित्यर्थः ।

इन्द्रियात्मकेषु भूतेषु भोक्तृत्वं शरीरेन्द्रियाख्योभयात्मकभूतेषु भोक्तृत्वमिति च लोकायतपक्षौ तयोरपि तयोरविवक्षयोरितिपक्षयोरुक्तं दूषणं समानमित्याह -

एवं करणात्मकेकरणत्माष्वितिष्वित्यादिना ।