तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति ॥
तत्रैवं स्थिते मुमुक्षुर्ब्रह्मज्ञानेन परं निःश्रेयसमाप्तुकामोऽविचार्य एतच्छास्त्रमश्रुत्वा प्रवर्तमानोऽन्त्यपक्षादर्वाचीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चातथाभावान्निःश्रेयसात् प्रतिहन्येत मोक्षफलं न प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाः’ इति श्रुतेः । अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनमात्महननम् । एवंरूपस्यात्महननस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृतानुपयोगादिति ॥
यस्य यस्मिन्नभिरुचिरुत्पद्यते तं पक्षमाश्रित्य पुरुषार्थं साधयेत् , किं विचारेणेति ? तत्राह -
तत्राविचार्येतितत्र विचार्येति ।
अतथाभावादिति ।
तस्य पक्षस्य सम्यग्ज्ञानाज्ञानो इतिहेतुत्वादित्यर्थः ।
श्रुतावात्महननमनर्थहेतुरुक्तो न त्वात्मआत्मा इतिप्रतिपत्तिरिति तत्राह -
अनात्मदर्शनेनेति ।
आत्महनोहनजना इति जना इति प्राणत्यागिन उच्यन्त इत्याशङ्क्यात्मप्रकरणत्वात् न प्राणत्यागस्य सङ्गतिरित्याह -
प्राणत्यागस्येति ।