युक्तिरपि लक्षणनिर्णयेऽर्थात् सूत्रितैव ।
जन्म उत्पत्तिः आदिरस्येति तद्गुणसंविज्ञानो बहुव्रीहिरिति
पदच्छेदः पदार्थः पदविग्रह इत्येतत् त्रितयमपि व्याख्यानाङ्गं सम्पादयति । तद्गुणसंविज्ञाने प्रयोजनमाह —
जन्मस्थितिभङ्गं समासार्थ इति ॥
तृतीयलिङ्गनिर्देशात् संहतिप्रधानं समासार्थः ।
ननु आदिः पूर्वकालकोटिमतो भवति, तदभावे प्रपञ्चस्य को नामाऽऽदिः ? इत्याशङ्क्याह —
जन्मनश्चादित्वं श्रुतिनिर्देशापेक्षं वस्तुवृत्तापेक्षं चेति ॥
यदनेन सूत्रेण लक्षितं ब्रह्म, तत्स्वरूपकथनपरं वाक्यम् । तत्रादौ जन्म निर्दिष्टमिति तस्यादित्वम् । वस्तुस्वभावापेक्षमपि । न हि वस्तु प्रलीय तिष्ठति । स्थित्वा वा जायते । नापि जनित्वैव प्रलीयते ; क्षणिकत्वनिराकरणात् । अतो जनित्वा स्थित्वा प्रलीयते । एवमनादिरयं प्रपञ्चः ।
‘अस्य’ इति भाष्येण पदभागस्येदमः प्रकृतिमात्रस्यार्थनिर्देशः । तथाहि सर्वत्र सर्वनामप्रक्रमादिकारणान्तरबलेन कतिपयाभिधेयपरं, तदभावे स्वमहिम्ना प्रमाणविषयमात्राभिधायकं, तेनाह —
प्रत्यक्षादिसन्निधापितस्य धर्मिण इदमा निर्देश इति ॥
षष्ठी जन्मादिधर्मसम्बन्धार्थेति ।
सर्व एवेह सम्बन्धः सम्भवति, न तद्विशेष आदरणीय इति कथयति । यत इति कारणनिर्देश इति प्रकृतित्वनिबन्धना हि पञ्चमी, नान्यनिबन्धनेति दर्शयति ॥
अस्येदं लक्षणमिदं चानेन लक्ष्यमिति लक्ष्यलक्षणयोरव्याप्त्यतिव्याप्तिपरिहारेण अविनाभावः प्रमाणयुक्तिव्यतिरेकेण ननेति न दृश्यते सिद्ध्यति, तत्कथं स्वरूपलक्षणपरमेव सूत्रमिति तत्राह -
युक्तिरपीति ।
अपिशब्दात् प्रमाणमपीत्यर्थः ।
अतः सूत्रितयोः ब्रह्मणः प्रमाणयुक्त्योः अध्यायद्वयेन निर्णयः क्रियते । पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना । आक्षेपस्यआक्षेपश्चेति दृश्यते समाधानं व्याख्यानं पञ्चलक्षणम् , इति वचनसिद्धव्याख्यानाङ्गपञ्चके त्रितयं सम्पादयत्युपात्तभाष्यमित्याह -
पदच्छेद इति ।
तद्गुणसंविज्ञान इति ।
विशेष्यैकदेशमेव विशेषणं कृत्वा समास इत्यर्थः ।
प्रयोजनमाहेति ।
समासप्रतिपाद्यमाहेत्यर्थः ।
जन्मस्थितिभङ्गानां प्रयाणां इतित्रयाणां विशेष्यत्वात् भङ्गशब्दस्य पुल्लिङ्गत्वाच्चैकवचनं नपुंसकलिङ्गं चायुक्तमित्याशङ्क्य संहतिप्रधानधर्मजातस्य समासार्थत्वसिद्धौसिद्धा इति युज्यत इत्याह -
तृतीयलिङ्गनिर्देशादिति ।
संहतेरवस्तुत्वात् समासार्थत्वमयुक्तमिति तत्राह -
धर्मजातमिति ।
संहतिगतंग्रस्त्वतृतीयमिति त्रितयमित्यर्थः ।
प्रतिकल्पं प्रपञ्चाख्यधर्मिभेदे सति एकैकस्मिन् धर्मिणि जन्मन एवादित्वात् स्थित्यादीनां चारम्यात् जन्मादिरित्युक्तिः सङ्गच्छते, धर्मिणस्तु प्रपञ्चस्य कल्पभेदेषु एकत्वात् तस्मिन्नेकस्मिन् धर्मिणि घटीयन्त्रवत् अनिशअनियमेतिमावर्त्यमानजन्मादीनां मध्ये स्थित्यादीनामादित्वं विहाय जन्मनः कथमादित्वमुच्यत इत्याक्षिपति -
नन्वादिरिति ।
पूर्वकालकोटिमत इति ।
पूर्वं स्वाभावव्याप्यकालवतो हि प्राथमिकः सधर्मः स्यादित्यर्थः ।
तदभावे प्रपञ्चस्येति ।
प्रपञ्चस्य पूर्वकालकोटिमत्वाभाव इत्यर्थः ।
को नामादिरिति ।
एकस्यां प्रपञ्चव्यक्तौ पर्यायेणानिशमावर्त्यमानेषु धर्मेषु कः प्रथमः स्यात् , न कोऽपीत्यर्थः ।
प्रतिकल्पं प्रपञ्चव्यक्तिभेदोऽस्तीत्यङ्गीकृत्य कस्याकस्यामितिञ्चन व्यक्तौ जन्मनः प्राथम्यात् जन्मन आदित्वंआदित्वा इति श्रुत्यादिनिर्दिष्टं तदनुसारेण जन्मन आदित्वं सूत्रेणाप्युच्यत इति परिहरति -
जन्मनाश्चादित्वमिति ।
वस्तुवृत्तापेक्षं चेति ।
घटादिवस्तुषु जन्मनः प्राथम्यदर्शनात् वस्तुस्वभावापेक्षं च जन्मनः आदित्वमित्यर्थः ।
भाष्यं व्याचष्टे -
यदनेन सूत्रेणेति ।
सर्वं जनित्वैव नश्यति, न कंश्चिदितिकञ्चित्कालं तिष्ठति, स्वसत्ताप्रयुक्तत्वात् विनाशस्येत्यत आह -
क्षणिकत्वनिराकरणादिति ।
एवमनाअनादिरितिदिरयं प्रपञ्च इति ।
प्रतिकल्पं प्रपञ्चव्यक्तिभेदे सत्यपि प्रवाहरूपेणानादिरयं प्रपञ्चः, न तु दण्डायमानतया कल्पभेदेष्वेकैव प्रपञ्चव्यक्तिरनुवर्तत इत्यर्थः ।
पदभागस्येदम इति ।
सूत्रगतासूत्रगतस्येतिस्येति पदभागस्येदम इत्यर्थः ।
भवतु प्रत्यक्षसन्निहितस्येदमा निर्देशः कथमादिशब्दोपात्तेतरप्रमाणसन्निहितस्य निर्देश इति तत्राह -
तथाहि सर्वत्रेति ।
स्वमहिम्ना स्वशक्त्येत्यर्थः । प्रमाणमात्रविषयाभिधायीति वा मात्रशब्दस्यान्वयः ।
जन्मादीनां जगतश्च कः सम्बन्धः सूत्रगतासूत्रगतस्येतिस्येति षष्ठ्या विवक्षित इति तत्राह -
सर्व एवेति ।
कारणं नाम कार्योत्पादक्रियावदुत्पादनशक्तिमत्शक्तिवदिति तच्च मायाविशिष्टं ब्रह्म, न तु शुद्धम् , अतो विशिष्टाख्यकारणं सूत्रगतपञ्चम्या शुद्धब्रह्म प्रत्युपलक्षणत्वेन निर्दिश्यत इत्याह -
यत इति कारणनिर्देश इति ।
प्रकृतित्वनिबन्धना पञ्चमीइति शब्दो न दृश्यते इति ।
निमित्तत्वस्याप्युपलक्षणमेतदुभयत्र पञ्चमीविधानात् निमित्तोपादानकारणविषयेत्यर्थः । लक्ष्यस्य ब्रह्मण इति कारणत्वेनोपलक्षणेन लक्षितस्य उपलक्षणानुवादेन स्वरूपलक्षणं कथयितुमित्यर्थः ।