ननु अन्येऽपि परिणामादयो भावविकाराः सन्ति, ते किमिति न सङ्गृह्यन्ते ? इत्याशङ्क्याह —
अन्येषामपीति ॥
न क्वचिद्वस्तुनो ह्यवस्थाविशेषो विनाशरहितः, नाप्यनिर्वृत्तजन्मनोऽस्थित स्वभावस्य विनाशः । अतस्त्रिष्वेवान्तर्भावान्न पृथगुपन्यासस्तेषाम् ।
ननु षड् भावविकारा इति नैरुक्ताः । तेषां ग्रहणेऽन्तर्भावोक्तिप्रयासोऽपि परिहृतः स्यादित्याशङ्क्याह —
यास्कपरिपठितानां तु जायतेऽस्तीत्यादीनामिति ॥
पृथिव्यप्तेजःसु जगद्रचनारूपस्थितेषु तन्मयानामेव ते सम्भाव्यन्ते । ततस्तद्ग्रहणे तेषामेव ब्रह्मत्वेन लक्षितत्वाशङ्का स्यात् , न च तद्युक्तम् ; अतः सूत्रार्थवत्त्वाय श्रुतिनिर्दिष्टा एवोत्पत्त्यादयो गृह्यन्ते ; तदर्थनिर्णयार्थत्वात्सूत्राणाम् । अतो यदवष्टम्भो विश्वो विवर्तते प्रपञ्चः, तदेव मूलकारणं ब्रह्मेति सूत्रार्थः ॥
वस्तुनः परिणामोवस्तुनोपिचिणामो इति नाम पूर्वावस्थाविशिष्टरूपेण नाशः, उत्तरावस्थाविशिष्टरूपेण जन्म, स्वरूपेण स्थितिरित्येवं विपरिणामस्य जन्मस्थितिभङ्गेषु अन्तर्भावो भवति । विवृद्ध्यादेरपि तथान्तर्भावो भवतीत्यङ्गीकृत्य षड्भावभावाविकारेतिविकारकारणं ब्रह्मेति न लक्षितमित्याह -
न कश्चिदितिक्वचिद्वस्तुन इति ।
अनिर्वृत्तजन्मन
उत्तरावस्थाविशिष्टरूपेण जन्महीनस्येत्यर्थः ।
अस्थितअस्थिर ? स्वभावस्य
स्वरूपेणास्थितस्येत्यर्थः ।
विनाशः
पूर्वावस्थाविशिष्टरूपेण विनाश इत्यर्थः ।
निरुक्तवाक्यमेव मूलीकृत्य सूत्रेऽपि षड्भावविकारा गृह्यन्तामिति चोदयति -
ननु षड् भावविकारा इति ।
योस्केतियास्कपरिपठितानामित्यादेः परिहारस्यायमर्थः, यास्कप्रोक्त निरुक्तवाक्यस्य मूलप्रमाणं प्रत्यक्षमागमो वा भवति । अनुमानादीनामस्माकमपि प्रवृत्तेः यास्कवाक्यानपेक्षणात् । तत्र प्रत्यक्षमूलत्वे यास्कवाक्यस्य षड्भावविकाराणां स्थूलभूतभौतिकेष्वेव भावात् तद्गतधर्मा एव भावविकाराः प्रत्यक्षेणावगन्तुं शक्यन्ते । अतो यास्कं वाक्यं मूलीकृत्य स्थूलभूतभौतिकगतषड्भावविकारकारणे ब्रह्मणि गृह्यमाणे सूक्ष्मभूतपञ्चकमेव ब्रह्म गृहीतं स्यात् । श्रुतौ तु मूलत्वेन सूत्रकारेण गृह्यमाणायां श्रुतेर्मूलप्रमाणानपेक्षत्वात् यत्किञ्चिद्भवनधर्मवत्तस्य मूलकारणं ब्रह्मैव ग्रहीतुं शक्यते । अतः श्रुतिनिर्दिष्टजन्मस्थितिनाशानामेव ग्रहणमिति ।
पृथिव्यप्तेजःस्विति ।
सूक्ष्मभूतेष्वित्यर्थः ।
जगद्रचनारूपस्थितेषु
जगदाख्यकार्यरूपेण स्थितेष्वित्यर्थः ।
तन्मयानामिति ।
सावयवस्थूलरूपभूतभौतिकानामित्यर्थः ।
त इति ।
षड्भावविकारा इत्यर्थः ।
तद्ग्रहणे
तेषां षड्भावविकाराणां ग्रहण इत्यर्थः ।
तेषामेव
सूक्ष्मभूतानामेवेत्यर्थः ।
न च तद्युक्तमिति ।
जिज्ञास्यब्रह्मत्वायोगादिति भावः ।
श्रुत्यर्थनिर्णयपरत्वाच्च सूत्राणां श्रुतिरेव जन्मादिसूत्र मूलमित्याह -
तदर्थनिर्णयार्थत्वादिति ।
प्रपञ्चस्य मायाकार्यत्वेन तन्त्रत्वेऽपीत्येवतत्तन्त्रत्वेऽपि मायाया अपि ब्रह्मतन्त्रत्वात् प्रपञ्चस्यापि ब्रह्मतन्त्रत्वमस्तीत्यङ्गीकृत्य ब्रह्माश्रयतया विश्वप्रपञ्चो विवर्तत इत्याह -
अतो यदवष्टम्भ इति ।
यदाश्रय इत्यर्थः ।
ब्रह्मैव जगदाकारेण परिणमते मृदिव घटाकारेणेति शङ्कां व्यावर्तयति -
विवर्तत इति ।
एकस्य सत्वादितितत्त्वादप्रच्युतस्य पूर्वरूपविपरीतासत्यानेकरूपापत्तिर्विवर्तः । एकस्य पूर्वरूपपरित्यागेन सत्यरूपान्तरापत्तिः परिणाम इति विभागो द्रष्टव्यः ।