ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; न हीमां पृथिवीं जायमानां पश्यामः, नापो न तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशः । अपामपि चन्द्रकान्तादिषु जन्म, क्रमेण च शोषः । पृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेते । दृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौ । वाय्वाकाशकालदिशामपि ‘यावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ ।
न यथोक्तविशेषणस्येत्यादिना
भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति ।
अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,
यथोक्तविशेषणमीश्वरं मुक्त्वेति
सर्वज्ञं सर्वशक्तिं विहाय
नान्यतः
परपरिकल्पितात्
प्रधानादेरचेतनात् ,
चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः
संसारिणो
हिरण्यगर्भात्
उत्पत्त्यादि सम्भावयितुमपि शक्यम् ॥
भौतिकानां च भूतोपादानभूतोपादानत्वादितिकत्वात् भूतानां चोत्पत्त्याद्यभावात् न जगदुत्पत्त्यादि कारणत्वं सिद्धवत् ब्रह्मलक्षणत्वेनोपादातुं शक्यमिति चोदयति -
ननु श्रुतिनिर्दिष्ट ग्रहण इति ।
पृथिव्यप्तेजांसि जन्मविनाशवन्ति पृथिव्यप्तेजोबुद्धिगोचरत्वात् तदेकदेशपृथिव्यप्तेजोवदित्यनुमानमभिप्रेत्य पृथिव्याद्येकदेशेषु जन्मविनाशौ दर्शयति -
उच्यत इति ।
दृश्येते चेति ।
अनूपादिष्वितिअबादिषु दृश्येते इत्यर्थः ।
वक्ष्यमाणेन न्यायेनेति ।
विभक्तत्वात् कार्यं घटादिघटादिवति इतिवदिति न्यायेनेत्यर्थः ।
न यथोक्तविशेषणस्येत्यादिभाष्यस्य तात्पर्यमाह -
युक्तिरपीति ।
अस्य जगतो जन्मादि ब्रह्मण एव सम्भवति नान्यतः सम्भवति, यतो जन्मादिकारणं ब्रह्मैवेत्येवं रूपा युक्तिः सूत्रितेति स्फुटीकरणाय सूत्रं योजयति -
जन्माद्यस्य यतः सम्भवतीति ।
यथोक्तविशेषणस्येति भाष्यांशं व्याचष्टे -
अस्य जगत इति ।