पञ्चपादिका
वक्तव्यकाशिका
 

ननु श्रुतिनिर्दिष्टग्रहणे सूत्रमर्थशून्यं स्यात् ; हीमां पृथिवीं जायमानां पश्यामः, नापो तेजः, कथं सिद्धवल्लक्षणत्वोनोपादीयेतेति ? उच्यते, तेजसस्तावदरणिनिर्मथनादिषु दृश्यते जन्म, इन्धनापाये विनाशःअपामपि चन्द्रकान्तादिषु जन्म, क्रमेण शोषःपृथिव्या अप्यवयवसंयोगविभागदर्शनात् तन्निमित्तौ जन्मविनाशावनुमीयेतेदृश्येत चाद्याऽप्यवयवसंयोगविभागकृतौ पृथिव्येकदेशस्य जन्मविनाशौवाय्वाकाशकालदिशामपियावद्विकारं तु विभागो लोकवदि’ति वक्ष्यमाणेन न्यायेन स्त एव जन्मविनाशौ

यथोक्तविशेषणस्येत्यादिना

भाष्येण युक्तिरपि ब्रह्मस्वरूपनिर्णयायानेनैव सूत्रेण तन्त्रेणावृत्त्या वा जन्माद्यस्य यतः सम्भवतीति सूत्रितेति दर्शयति

अस्य जगतो नामरूपाभ्यां व्याकृतस्येत्याद्यभिहितविशेषणचतुष्टयस्य,

यथोक्तविशेषणमीश्वरं मुक्त्वेति

सर्वज्ञं सर्वशक्तिं विहाय

नान्यतः

परपरिकल्पितात्

प्रधानादेरचेतनात् ,

चेतनादपि परिच्छिन्नज्ञानक्रियाशक्तेः

संसारिणो

हिरण्यगर्भात्

उत्पत्त्यादि सम्भावयितुमपि शक्यम्

भौतिकानां च भूतोपादानभूतोपादानत्वादितिकत्वात् भूतानां चोत्पत्त्याद्यभावात् न जगदुत्पत्त्यादि कारणत्वं सिद्धवत् ब्रह्मलक्षणत्वेनोपादातुं शक्यमिति चोदयति -

ननु श्रुतिनिर्दिष्ट ग्रहण इति ।

पृथिव्यप्तेजांसि जन्मविनाशवन्ति पृथिव्यप्तेजोबुद्धिगोचरत्वात् तदेकदेशपृथिव्यप्तेजोवदित्यनुमानमभिप्रेत्य पृथिव्याद्येकदेशेषु जन्मविनाशौ दर्शयति -

उच्यत इति ।

दृश्येते चेति ।

अनूपादिष्वितिअबादिषु दृश्येते इत्यर्थः ।

वक्ष्यमाणेन न्यायेनेति ।

विभक्तत्वात् कार्यं घटादिघटादिवति इतिवदिति न्यायेनेत्यर्थः ।

न यथोक्तविशेषणस्येत्यादिभाष्यस्य तात्पर्यमाह -

युक्तिरपीति ।

अस्य जगतो जन्मादि ब्रह्मण एव सम्भवति नान्यतः सम्भवति, यतो जन्मादिकारणं ब्रह्मैवेत्येवं रूपा युक्तिः सूत्रितेति स्फुटीकरणाय सूत्रं योजयति -

जन्माद्यस्य यतः सम्भवतीति ।

यथोक्तविशेषणस्येति भाष्यांशं व्याचष्टे -

अस्य जगत इति ।