तत्र नियोगमुखेन ब्रह्मणोऽवगतिमितितो इतिमिच्छतो नियोगब्रह्मणी उभे अपि न प्रमाणेन प्रमातुं शक्येते इत्येतद्दर्शयितुं प्रथमं विधेयाभावमाह -
अत्रोच्यत इति ।
अदृष्टफलत्वे मोक्षस्य स्वर्गादिवदनित्यत्वप्रसङ्गात् एव तदयोगात् । दृष्टफलाभावमाह -
न तस्येति ।
इष्टविषयस्य ज्ञानसन्तानस्येति ।
इदं न स्पष्टम्मर्दनज्ञानसन्तानस्येत्यर्थः ।
तर्हि अन्वयव्यतिरेकसिद्धसाधनत्वात् मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह -
यद्येवमिति ।
ज्ञानसन्तानविधिरिति ।
शब्दजन्यस्यैव ज्ञानस्य सन्तानविधिरित्यर्थः ।
साक्षात्करणस्यादृष्टफलत्वायोगात् दृष्टफलत्वेऽप्यनुपलम्भादेवासम्भव इत्याह -
न हि दृष्टाधिकार इति ।
दृष्टप्रयोजन इत्यर्थः ।
शाब्दपरोक्षज्ञानाभ्यासात् आपरोक्ष्याभावे दृष्टान्तमाह -
न हि लैङ्गिक इति ।
मा भूत् साक्षात्करणाय शाब्दज्ञानसन्तानविधिः किन्तु साक्षात्करणहेतुज्ञानान्तरायशाब्दज्ञानसन्तानविधिः स्यादिति चोदयति -
मा भूत् शाब्दज्ञानादेवेति ।
इत्थम्भाव इति ।
शाब्दज्ञानाभ्यासस्य ज्ञानान्तरफलत्व इत्यर्थः । अत्र शाब्दज्ञानाभ्यास इति स्मृतिसन्तान उच्यते ।