पञ्चपादिका
वक्तव्यकाशिका
 

अत्रोच्यते, किमिदं ज्ञानं ब्रह्मकर्मकं विधीयते ? तावच्छब्दजन्यम्स्वाध्यायपाठादेव तत्सिद्धेः, अथ शब्दजन्यस्यैव ज्ञानस्याभ्यासो विधीयत इति, तस्य प्रयोजनं पश्यामःननु इष्टविषयस्य ज्ञानसन्तानस्य सुखसन्तानहेतुत्वं दृश्यते, यद्येवं तद्वदेव विध्यानर्थक्यम्अथ पुनः साक्षात्करणाय ज्ञानसन्तानविधिरुच्यते, नैतद्युक्तम् ; हि दृष्टाधिकारो विधिरसम्भावितदृष्टफलो भवति हि लैङ्गिकोऽर्थो लिङ्गजन्मनैव ज्ञानेन सहस्रशोऽप्यभ्यस्यमानेन साक्षात्क्रियतेमा भूत् शाब्दज्ञानादेवाभ्यस्यमानात्साक्षाद्भावः, तज्जन्मनो ज्ञानान्तराद्भविष्यति, नेत्थम्भावे प्रमाणमस्ति

तत्र नियोगमुखेन ब्रह्मणोऽवगतिमितितो इतिमिच्छतो नियोगब्रह्मणी उभे अपि न प्रमाणेन प्रमातुं शक्येते इत्येतद्दर्शयितुं प्रथमं विधेयाभावमाह -

अत्रोच्यत इति ।

अदृष्टफलत्वे मोक्षस्य स्वर्गादिवदनित्यत्वप्रसङ्गात् एव तदयोगात् । दृष्टफलाभावमाह -

न तस्येति ।

इष्टविषयस्य ज्ञानसन्तानस्येति ।

इदं न स्पष्टम्मर्दनज्ञानसन्तानस्येत्यर्थः ।

तर्हि अन्वयव्यतिरेकसिद्धसाधनत्वात् मर्दनादिवत् स्मृतिसन्तानो न विधेय इत्याह -

यद्येवमिति ।

ज्ञानसन्तानविधिरिति ।

शब्दजन्यस्यैव ज्ञानस्य सन्तानविधिरित्यर्थः ।

साक्षात्करणस्यादृष्टफलत्वायोगात् दृष्टफलत्वेऽप्यनुपलम्भादेवासम्भव इत्याह -

न हि दृष्टाधिकार इति ।

दृष्टप्रयोजन इत्यर्थः ।

शाब्दपरोक्षज्ञानाभ्यासात् आपरोक्ष्याभावे दृष्टान्तमाह -

न हि लैङ्गिक इति ।

मा भूत् साक्षात्करणाय शाब्दज्ञानसन्तानविधिः किन्तु साक्षात्करणहेतुज्ञानान्तरायशाब्दज्ञानसन्तानविधिः स्यादिति चोदयति -

मा भूत् शाब्दज्ञानादेवेति ।

इत्थम्भाव इति ।

शाब्दज्ञानाभ्यासस्य ज्ञानान्तरफलत्व इत्यर्थः । अत्र शाब्दज्ञानाभ्यास इति स्मृतिसन्तान उच्यते ।