अथापि स्यान्नैकत्वविज्ञानं यथावस्थितवस्तुविषयं, येन मिथ्यारूपं भेदावभासं निवर्तयेत् , अपि तु सम्पदादिरूपम् ; विधितः पुरुषेच्छया कर्तव्यमिति । सम्पन्नामाल्पमपि वस्त्वालम्बनीकृत्य केनचित्सामान्येन दर्शनमात्रान्महद्वस्तुसम्पादनम् । ततश्च तत्फलावाप्तिः, फलस्यैव वा सम्पादनं ; यथा मनसो वृत्त्यनन्तत्वसामान्येनानन्तविश्वदेवसम्पादनं कृत्वाऽनन्तलोकजयः । एवं जीवस्य चिद्रूपसामान्येन ब्रह्मरूपसम्पादनं कृत्वा ब्रह्मफलमवाप्यत इति । अध्यासस्वब्रह्मणि मन आदित्यादौ ब्रह्मदृष्ट्योपासनं, जीवस्यापि ब्रह्मदृष्ट्योपासनम् । सम्पाद्य आलम्बनमविद्यमानसमं कृत्वा सम्पाद्यमानस्यैव प्राधान्येन मनसाऽनुचिन्तनम् , अध्यासे त्वालम्बनस्यैव प्राधान्येनानुचिन्तनं, क्रियायोगो वायोरग्न्यादीनां सम्हरणात्संवर्गगुणत्वेनोपासनम् । एवं जीवस्य स्वगतेन बृंहत्यर्थयोगेन ब्रह्मेत्युपासनम् । कार्यान्तरेण गुणभूतस्य ब्रह्मदृष्टिः संस्कार आज्यस्येवावेक्षणम् ॥ अत्रोत्तरम् —
सम्पदादिरूपे हीत्यादि ॥
तथा सति तत्त्वमस्यादिवाक्यानां निरुपचरितब्रह्मात्मैकत्वावगमपरः पदसमन्वयो विना कारणेन स्वेच्छामात्रेण सम्पदादिपरः परिकल्प्येत । तदवगमनिमित्तं च मिथ्याज्ञानापायपूर्विका विस्मृतहस्तगतसुवर्णावाप्तिवद्ब्रह्मावाप्तिः फलमनुभवारूढमपह्नूयेत । ‘नेह नानास्ति किञ्चने’ति च भेदाभावश्रुतिरुपरुद्ध्येत । तस्मान्न सम्पदादिवत्पुरुषव्यापारतन्त्रा ब्रह्मविद्या, किन्तु प्रत्यक्षादिजनितज्ञानवदपरामृष्टहानोपादानवस्तुस्वरूपमात्रनिष्ठेत्यभ्युपगन्तव्यम् ॥ तत्रेवं सति कथं ब्रह्म प्रतिपत्युत्तरकालं कर्मकारकतां नीयेत ? तत्तज्ज्ञानं वा तदधिगमफलपर्यन्तं सद् विधिविषयो भवेत् ? अतो मिथ्यैव भेदावभासः । तस्य प्रतिपक्षादभेदावभासादपनयः । तस्माद् मिथ्याज्ञाननिवृत्तिमात्रं मोक्ष इति श्रुतिन्यायाभ्यां सिद्धम् ॥
यथावस्थितस्थितद्वस्तु इतिवस्तुविषयमिति ।
ब्रह्मात्मनोः पूर्वसिद्धसत्यैक्यविषयं न भवति शब्दस्य तत्र तात्पर्याभावादित्यर्थः । आलम्बनीकृत्येत्यत्रालम्बनशब्देन आरोपणस्याधिष्ठानं प्रतीतमुच्यते ।
दर्शनमात्रादिति ।
अर्थस्यारोपणं विहायेत्यर्थः । अनन्तविश्वेदेवसंवादनमितिसम्पादनं कृत्वा अनन्तलोकसम्पादनंसंवादनमिति वा कृत्वेति योजना ।
स्वगतेन बृहत्यर्थयोगेनेति ।
इन्द्रियादिभ्यः परत्वाख्यबृहत्यर्थयोगेनेत्यर्थः ।
गुणभूतस्य
वैदिककर्मसु कर्तृत्वेनान्वितत्वात् गुणभूतस्येत्यर्थः ।
किं प्रमाणान्तरविरोधात् सम्पदादिपरः पदसमन्वयः किं वार्थेवार्थो इति तात्पर्याभावादिति । न तावत् प्रमाणान्तरविरोधः जीवब्रह्मणोस्तदगोचरत्वात् भेदावभासेऽपि तयोर्बिम्बप्रतिबिम्बन्यायावतारात् । न च संवादादि इतिसम्पदादिपरः तात्पर्याभावादिति द्विवारं दृश्यतेतात्पर्याभावादित्याह -
अत्रोत्तरमिति ।
किं चाविद्यानिवृत्तिर्ब्रह्मात्मभावश्च विद्याफलं श्रूयते । न च सम्पदादिपरत्वे तदुपपद्यते । अन्यस्यान्यात्मताविरोधादप्रमाणत्वाच्च । अतः फलवचनसामर्थ्यादपि ब्रह्मात्मैकत्वपरः पदसमन्वय इत्याह -
तदवगमनिमित्तं चेति ।