न च तस्य कदाचिदभावः सम्भवति ; अभावहेतूनामविषयत्वात् । न च निर्हेतुको विनाशः चितेरेकरूपावभासेन क्षणभङ्गनिराकरणात् । अतोऽवच्छेदत्रयशून्ये तस्मिन् स्वयम्प्रकाशमाने सर्वस्य पुरुषावधिर्विनाशः । सा काष्ठा सा परा गतिः ॥ तदेवमसंसार्यात्मनि प्रमाणान्तरागोचरे वेदान्तवाक्यसमन्वयात् प्रतीयमाने कथं तत्परो वेदभागो न भवेत् ? कथं वा प्रतीयमानो निराक्रियेत ?
पुरुषावधिरिति ।
स्वयं प्रकाशमाने पुरुषे कल्पिततया प्रतिपन्नस्य सर्वस्य पुरुषावशेषतया विनाश इत्यर्थः ।
काष्ठेति ।
बाधाबाधनार्ह इतिनर्हः सत्य इत्यर्थः ।
परा गतिः इति ।
पूर्णचिद्रूप इत्यर्थः ।