ननु ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’त्यक्रियार्थानां पदानामर्थशून्यत्वं शास्त्रतात्पर्यविद आहुः । तस्मात्प्रवृत्तिनिवृत्तिव्यतिरिक्तार्थवादिनां निरालम्बनत्वाद् ततो वस्त्ववगमः सामान्यतोदृष्टनिबन्धनो भ्रमः । तेन प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते, अत एव तन्मिथ्येति शक्यते वक्तुम् ; प्रमाणान्तरस्यापि तद्विषयस्यासम्भवात् । कथं पुनः प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते ? शब्दस्य तत्र सामर्थ्याग्रहणात् । न चागृहीतसामर्थ्य एव शब्दश्चक्षुरादिवद्विज्ञानं जनयति । सामर्थ्यग्रहणं च ज्ञानकार्योन्नेयम् । ज्ञानं च विशिष्टार्थविषयं तद्विषयप्रवृत्त्याऽवगम्यते । तदभावे कुतः सामर्थ्यकल्पना स्यात् ? अक्लृप्तसामर्थ्यश्च शब्दोऽक्रियाशेषेऽर्थे कथं विज्ञानं जनयेत् ?
शास्त्रतात्पर्यविदः
वेदतात्पर्यविदः सूत्रकृत् इत्यर्थः ।
शब्दश्रवणान्तरं भूतेऽप्यर्थे प्रमितिरूपजायत इति नेत्याह -
ततो वस्त्ववगम इति ।
सामान्यतो दृष्टमिति ।
शब्दत्वात् अर्थोऽस्ति क्रियार्थशब्दवदिति सामान्यतो दृष्टमित्यर्थः ।
तत इतिअत एवेति ।
शब्दसामर्थ्याभावात् संवादाभावाच्चेत्यर्थः ।
ज्ञानकार्योन्नेयमिति ।
मध्यमवृद्धस्य शब्दादुत्पन्नज्ञानाख्यकार्योन्नेयमित्यर्थः ।
विशिष्टार्थविषयमिति ।
प्रवर्तकविषयमित्यर्थः ।
तदभावे कुत इति ।
साध्येऽभिप्रवृत्तिर्न भूतार्थ इति भावः ।