उच्यते । नैव सूत्रकारभाष्यकारयोरभिप्रायो लौकिको वा न्यायः सम्यगवगतो भवता । पश्यतु भवान् देवदत्त ! ‘गामभ्याज’ ‘शुक्लां दण्डेने’ति प्रवर्तकाभ्याजेतिपदातिरेकिणां देवदत्तादिभूतार्थवादिनामप्रवर्तकानामपि प्रवर्तकादेव वाक्याद्भूतवस्तुविषयमपि सामर्थ्यं प्रतीयते ? न वेति ? प्रतीयते चेत् , निष्प्रयोजनत्वमानर्थक्यं, न निरालम्बनत्वम् ।
तदाह भाष्यकारः —
अपि च आम्नायस्य क्रियार्थत्वादित्यादिना भाष्येण ।
प्रयोजनं चानन्तरं पारम्पर्येण वा सुखावाप्तिर्दुःखपरिहारो वा स्यात् । अतस्तदर्थक्रियानुपयोग्यर्थवाचिनां ‘सोऽरोदीदि’त्यादिपदानां भवत्वानर्थक्यं, ब्रह्मात्मत्वावगतिसमन्वितानां तु परमपुरुषार्थफलानां कथं निष्प्रयोजनत्वम् । स्यादेतत् यद्यपि प्रवर्तकादेव वाक्याद्भूतार्थविषयमपि सामर्थ्यं प्रतीयते ; तथाऽपि नाप्रतिपन्नभूतार्थावगतेः सम्भवः । क्रियार्थतयैव संसर्गावगमात् । न हि गोपदात्तदर्थः सास्नादिमत्पिण्डधर्मत्वेनावगतो व्युत्पत्तिकाले पुनः प्रयोगान्तरेष्वप्रतिष्ठितः केसरादिमत्पिण्डधर्मत्वेन वा प्रतीयते ।
लौकिकोलौकिक को वेति वा न्याय इति ।
शब्दस्यार्थज्ञानेनान्वयव्यतिरेकौव्यतिरेका इति न क्रियासंसृष्टार्थज्ञानेनेति भवताभवतो नावगत इत्यर्थः ।
अनन्वितकेवलपदार्थे शक्तिग्रहणात् अक्रियार्थानामपि सालम्बनत्वान्निरालम्बनत्वमानर्थक्यशब्देन वक्तुं न शक्यमित्यभिहितान्वयपक्षाश्रयेण परिहरति -
पश्यतु भानितिभवानिति ।
भूतवस्तुविषयमपीति ।
अनन्वितदेवदत्तगवादिभूतवस्तुविषयमपीत्यर्थः ।
तर्ह्यानर्थक्यशब्देनाक्रियार्थानां प्रयोजनाभाव उच्यते इत्याशङ्क्य क्रियायाः प्रयोजनत्वाभावात् अक्रियार्थानां प्रयोजनाभावोऽपि न वक्तुं शक्य इत्याह -
प्रयोजनं चानन्तरमिति ।
क्रियायाः प्रयोजनत्वाभावेऽपि क्रियाद्वारमेव प्रयोजनं स्यात् , अतोऽक्रियार्थानां निष्प्रयोजनत्वमित्याशङ्क्य सत्यं, केषाञ्चित् शब्दानां क्रियाद्वारप्रयोजनानां क्रियानुपयोग्यर्थत्वे निष्प्रयोजनत्वं स्यादित्याह -
अतस्तदर्थं क्रियेति ।
ननु सर्वं प्रयोजनं क्रियाद्वारमेव अतः क्रियानुपयोग्यर्थानां वेदान्तानां निष्प्रयोजनत्वमिति नेत्याह -
ब्रह्माब्रह्मायावगतीतित्मत्वावगतीति ।
कथं निष्प्रयोजनत्वमिति ।
अक्रियार्थत्वे क्रियानुपयोग्यर्थत्वेऽपि कथं निष्प्रयोजनत्वमित्यर्थः ।
अन्विताभिधानपक्षमाश्रित्य कार्यान्विते पदसामर्थ्यात् कार्यानुपयोगिभूतार्थवादिनामानर्थक्यमिति प्राभाकरः प्रत्यवतिष्ठते -
स्यादेतत् - यद्यपीति ।
सामर्थ्यग्रहणसमये भूतार्थे सामर्थ्यं प्रतीयते चेत् गृहीतसम्बन्धात् शब्दात् संसृष्टभूतार्थोऽपि प्रतीयतामिति, नेत्याह -
तथापि नाप्रतिपन्न इति ।
सामर्थ्यग्रहणसमये शक्तिविषयतया अप्रतिपन्नस्य संसृष्टभूतार्थस्य बोधनकाले अवगतिर्नअवगतिमिति सम्भवति, तस्मादवगतिरस्ति चेत् संसृष्टभूतार्थे सामर्थ्यमित्यर्थः ।
संसृष्टस्वार्थे शब्दसामर्थ्यं चेत् भूतार्थेन संसृष्टेऽपि सामर्थ्यं गृह्यतामिति नेत्याह -
क्रियार्थतयैवेति ।
नियोगसंसृष्टतयैवनियोगसंसृष्टतयैवसामर्थ्यविषयतयावगमादिति स्वार्थे सामर्थ्यावगमादित्यर्थः ।
कार्यसंसृष्टस्वार्थे सामर्थ्यग्रहणेऽप्यन्वितस्यार्थस्य तत्रान्तर्भावात् तेनैव प्रयोजकेन पुनर्गृहीतसम्बन्धात् शब्दात् भूतार्थसंसर्गोऽपि प्रतीयतामिति, नेत्याह -
न हि गोपदात्तदर्थ इति ।
गोत्वजातिरित्यर्थः । स्वप्रतिष्ठः स्वतन्त्र इत्यर्थः । अतो गृहीतसामर्थ्यानुसारेण कार्यसंसृष्टतयैव भूतमर्थं बोधयतीति भावः ।