यत् पुनरुक्तं — प्रतिपन्नब्रह्मात्मभावस्यापि पूर्ववत्संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमस्य समन्वयस्य, ततो न तन्मात्रे तस्य पर्यवसानमिति, अत्रोत्तरम् —
नावगतब्रह्मात्मभावस्येत्यादि ॥
अस्यायमर्थः — न कर्मनिमित्तस्तावच्छरीरसम्बन्धः ; इतरेतराश्रयदोषात्क्रियादिरहितत्वाच्च चैतन्यस्य । अनादित्वेऽप्यन्धपरम्परावदप्रतिष्ठितत्वात् । तन्निमित्तत्वे च पुत्रादिशरीरेष्विव गौणत्वप्रसङ्गात् , तथानुभवाभावात् , प्रसिद्धगौणत्वप्रकारासम्भवात् , पुत्रादिशरीरेणेव स्वशरीरेणापि प्रमातृत्वाभावप्रसङ्गात् । पारिशेष्यादविद्यानिमित्तः शरीरसम्बन्धः । तस्यां च निवृत्तायां तत्सम्बन्धनिवृत्तौ कथं पूर्ववत्त्वनिमित्तः सुखदुःखानुभवः ? तथाच श्रुतिस्मृतिवादा ब्रह्मविदः सर्वसंसारप्रवृत्त्यभावं दर्शयन्त उदाहृता भाष्ये । तस्मान्न ब्रह्मात्माभिमानिनः पूर्ववत्संसारित्वम् ; तदभिमानविरोधात् । वैषयिकस्तु साक्षादनुभवाभिमानः संसारविषय आरब्धकर्मशेषनिमित्तः तिमिरनिमित्तद्विचन्द्रवत् । मनननिदिध्यासनयोर्न ब्रह्मावगत्युत्तरकालीनता, किन्तु श्रवणवदवगत्युपायतया पूर्वकालतैवेत्युक्तम् ॥
तन्मात्रे
ब्रह्मात्मत्वमात्र इत्यर्थः ।
अवगतब्रह्मात्मभावस्येति ।
विधिनिरपेक्षतयोत्पन्नशाब्दज्ञानतदभ्यासाभ्यामुत्पन्नापरोक्षज्ञानेन अवगतब्रह्मात्मभावस्येत्यर्थः ।
कथमपरोक्षज्ञानवतः संसारासंस्काराभाव इतिभावः कर्माभिनिर्वृत्तकर्माभिनिमित्तेतिशरीरशरीरमितिनिमित्तत्वात् संसारस्याविद्यात्वाभावादिति तत्राह -
न कर्मनिमित्त इति ।
आत्मनो न शरीरसम्बन्धात् कर्म भवत्यपि तु स्वत एव, अतो नेतरेतराश्रयतेति तत्राह -
क्रियादिरहितत्वात् चैतन्यस्येति ।
अनादित्वेऽपि अद्यतनशरीरसम्बन्धः पूर्वकर्मणा, तच्चातीतशरीरसम्बन्धात् , सोऽपि पूर्वतनदेहसम्बन्धनिमित्तनिमित्तत्व इति इति शरीरसम्बन्धस्य कर्मनिमित्तत्व इत्यर्थः ।
गौणत्वप्रसङ्गादिति ।
शरीरे अहंमानस्य पुत्रादिशरीरविषयाहंमानस्येव गौणत्वप्रसङ्गादित्यर्थः ।
तथा अनुभवाअनुभावाद्भावादितिभावात् ,
गौणत्वेनानुभवाभावादित्यर्थः ।
प्रसिद्धगौणत्वप्राकारेतिप्रकारासम्भवात् ।
प्रसिद्धयोरभेदावभासस्य गौणत्वप्रसिद्धेरात्मनः स्वशरीरेणाहं मनुष्य इत्यभेदावभासस्य तथात्वाभावादित्यर्थः ।
अविद्यानिमित्तशरीरसम्बन्ध इति ।
अहं मनुष्य इति भ्रान्तिरविद्येत्युच्यते । तज्जन्योतर्गम्यो इति मिथ्यारूपाभेदः शरीरसम्बन्ध इत्यर्थः । मूलाविद्याकार्यरूपशरीरसम्बन्ध इति वार्थः ।
अपरोक्षज्ञानान्मिथ्याज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह -
वैषयिकस्त्विति ।
ननु श्रवणश्रवणे इतिजन्ये ज्ञाने सत्यपि पुनर्मनननिदिध्यासनविधानात् न ज्ञानमात्रलभ्यो मोक्ष इत्युक्तमिति नेत्याह -
मनननिदिध्यासनयोरिति ।
अवगत्युत्तरकालीनतेति ।
नापरोक्षावगत्युत्तरकालीनतेत्यर्थः ।