पञ्चपादिका
वक्तव्यकाशिका
 

यत् पुनरुक्तंप्रतिपन्नब्रह्मात्मभावस्यापि पूर्ववत्संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमस्य समन्वयस्य, ततो तन्मात्रे तस्य पर्यवसानमिति, अत्रोत्तरम्

नावगतब्रह्मात्मभावस्येत्यादि

अस्यायमर्थः कर्मनिमित्तस्तावच्छरीरसम्बन्धः ; इतरेतराश्रयदोषात्क्रियादिरहितत्वाच्च चैतन्यस्यअनादित्वेऽप्यन्धपरम्परावदप्रतिष्ठितत्वात्तन्निमित्तत्वे पुत्रादिशरीरेष्विव गौणत्वप्रसङ्गात् , तथानुभवाभावात् , प्रसिद्धगौणत्वप्रकारासम्भवात् , पुत्रादिशरीरेणेव स्वशरीरेणापि प्रमातृत्वाभावप्रसङ्गात्पारिशेष्यादविद्यानिमित्तः शरीरसम्बन्धःतस्यां निवृत्तायां तत्सम्बन्धनिवृत्तौ कथं पूर्ववत्त्वनिमित्तः सुखदुःखानुभवः ? तथाच श्रुतिस्मृतिवादा ब्रह्मविदः सर्वसंसारप्रवृत्त्यभावं दर्शयन्त उदाहृता भाष्येतस्मान्न ब्रह्मात्माभिमानिनः पूर्ववत्संसारित्वम् ; तदभिमानविरोधात्वैषयिकस्तु साक्षादनुभवाभिमानः संसारविषय आरब्धकर्मशेषनिमित्तः तिमिरनिमित्तद्विचन्द्रवत्मनननिदिध्यासनयोर्न ब्रह्मावगत्युत्तरकालीनता, किन्तु श्रवणवदवगत्युपायतया पूर्वकालतैवेत्युक्तम्

तन्मात्रे

ब्रह्मात्मत्वमात्र इत्यर्थः ।

अवगतब्रह्मात्मभावस्येति ।

विधिनिरपेक्षतयोत्पन्नशाब्दज्ञानतदभ्यासाभ्यामुत्पन्नापरोक्षज्ञानेन अवगतब्रह्मात्मभावस्येत्यर्थः ।

कथमपरोक्षज्ञानवतः संसारासंस्काराभाव इतिभावः कर्माभिनिर्वृत्तकर्माभिनिमित्तेतिशरीरशरीरमितिनिमित्तत्वात् संसारस्याविद्यात्वाभावादिति तत्राह -

न कर्मनिमित्त इति ।

आत्मनो न शरीरसम्बन्धात् कर्म भवत्यपि तु स्वत एव, अतो नेतरेतराश्रयतेति तत्राह -

क्रियादिरहितत्वात् चैतन्यस्येति ।

अनादित्वेऽपि अद्यतनशरीरसम्बन्धः पूर्वकर्मणा, तच्चातीतशरीरसम्बन्धात् , सोऽपि पूर्वतनदेहसम्बन्धनिमित्तनिमित्तत्व इति इति शरीरसम्बन्धस्य कर्मनिमित्तत्व इत्यर्थः ।

गौणत्वप्रसङ्गादिति ।

शरीरे अहंमानस्य पुत्रादिशरीरविषयाहंमानस्येव गौणत्वप्रसङ्गादित्यर्थः ।

तथा अनुभवाअनुभावाद्भावादितिभावात् ,

गौणत्वेनानुभवाभावादित्यर्थः ।

प्रसिद्धगौणत्वप्राकारेतिप्रकारासम्भवात् ।

प्रसिद्धयोरभेदावभासस्य गौणत्वप्रसिद्धेरात्मनः स्वशरीरेणाहं मनुष्य इत्यभेदावभासस्य तथात्वाभावादित्यर्थः ।

अविद्यानिमित्तशरीरसम्बन्ध इति ।

अहं मनुष्य इति भ्रान्तिरविद्येत्युच्यते । तज्जन्योतर्गम्यो इति मिथ्यारूपाभेदः शरीरसम्बन्ध इत्यर्थः । मूलाविद्याकार्यरूपशरीरसम्बन्ध इति वार्थः ।

अपरोक्षज्ञानान्मिथ्याज्ञाने निवृत्ते कुतो द्वैतदर्शनमिति तत्राह -

वैषयिकस्त्विति ।

ननु श्रवणश्रवणे इतिजन्ये ज्ञाने सत्यपि पुनर्मनननिदिध्यासनविधानात् न ज्ञानमात्रलभ्यो मोक्ष इत्युक्तमिति नेत्याह -

मनननिदिध्यासनयोरिति ।

अवगत्युत्तरकालीनतेति ।

नापरोक्षावगत्युत्तरकालीनतेत्यर्थः ।