तदेवं सिद्धस्य वस्तुनः स्वरूपसत्तामात्रेणाप्रतिपन्नस्य प्रमाणविषयतया प्रमेयत्वाद्विधीयमानक्रियाकर्मत्वे तु कारकत्वस्य प्रमाणान्तरसिद्ध्यपेक्षत्वात्ततः सिद्ध्यनुपपत्तेर्वाक्यभेदप्रसङ्गात्प्रत्यक्षादिविरोधे देवताधिकरणन्यायासिद्धेर्वाक्यान्तरसिद्धस्य कर्मकारकत्वे चतुर्विधस्यापि कर्मकार्यस्य तत्रासम्भवात् , तत्कर्मकोपासनाद्देवताकर्मयागादिवत्स्वर्गोपमो मोक्षः फलं कल्प्येत ; तस्य तद्वदेवानित्यत्वप्रसङ्गात् , ‘ब्रह्म वेद ब्रह्मैव भवती’त्यादिभ्यो ब्रह्मवेदनमोक्षफलयोः निरन्तरत्वप्रतिपादकेभ्यो वाक्येभ्योऽर्थादन्तराले क्रियानुप्रवेशनिराकरणात् , ‘तरति शोकमात्मविदि’त्यादिश्रुतिभ्यो मोक्षप्रतिबन्धनिवृत्तिमात्रस्यैवात्मज्ञानफलस्य दर्शितत्वात् , साध्यान्तराभावे क्रियानुपपत्तेर्ब्रह्मात्मावगमस्य च मुख्यैक्याधिकरणस्य सम्पदादिवद्विकल्पनानुपपत्तेः, प्रमाणजन्याया अपि विदिक्रियायः कर्मत्वनिषेधाद्विधीयमानोपास्तिक्रियाविषयत्वस्य दूरनिरस्तत्वाद् विदिक्रियाविषयत्वेऽपि समारोपितनिवर्तनमुखेन नित्यसिद्धचैतन्यस्य ब्रह्मस्वरूपतासमर्पणाद् वाक्यविषयत्वोपपत्तेः, सत्यपि वा विधिक्रियाकर्मत्वे तस्य च विध्यनायत्तत्वाद्विधिच्छायानां संस्तावकत्वेनाहार्यत्वात् संसारनिवृत्तेश्च ज्ञानफलस्य दृष्टत्वात् । अतो विधिनिरपेक्षं स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम् ॥
इदानीं वर्णकद्वयोक्तमनुवदति -
तदेवं सिद्धस्येत्यादिना ।
स्वरूपसत्तामात्रेणाप्रतिपन्नस्येति ।
अतिरूपेतिरूपाद्यभावादेव सिद्धवस्तुनः सद्भावमात्रेण प्रमाणान्तरेणाप्रतिपन्नस्यैवावगमप्रमाणविषयतया प्रमेयत्वादित्यर्थः ।
वाक्यभेदप्रसङ्गादिति ।
विधेः कारकतालपत्रमत्र त्रुटितमतः किमपि न दृश्यतेत्वस्य विधिवाक्यादेव सिद्धौ वाक्यभेदप्रसङ्गादित्यर्थः ।
कारकस्यावान्तरतात्पर्येणापि सिद्ध्यसम्भवमाह -
प्रत्यक्षादिविरोध इति ।