अपिचाहुरिति ।
प्रसिद्धमेतद् ब्रह्मविदामिति पूर्वोक्तं न्यायं सङ्क्षेपतः श्लोकैः सङ्गृह्णाति
गौणमिथ्यात्मन इति ॥
गौणोऽहंमानो ममत्वेन सम्बन्धात्पुत्रदारादौ । अतः स गौण आत्मा । मिथ्यादेहादारभ्याहङ्कर्तुरिदमंशपर्यन्तोऽहंमानो नात्मन्यात्माभिमानात् ; अतः स मिथ्यात्मा । तस्योभयस्याप्यात्मनो मुख्यपरमार्थब्रह्मात्मावगमेन तदाधारपुत्रदेहादिबाधनादसत्त्वं तन्निमित्तं शास्त्रीयं नियोज्यत्वं शारीरं च भोक्तृत्वं निमित्ताभावान्न कथञ्चिदुद्भवेदित्यर्थः । तदेतद्द्रढयन्नाह —
अन्वेष्टव्यात्मेति ॥
‘सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) इत्याद्युपक्रमेणोपदिष्टापास्ताशेषसंसाररूपब्रह्मात्मावगमात्प्रागेव प्रमातृत्वाभिमानः प्रत्यक्चितेर्यदा पुनस्तद्रूपं विस्मृतसुवर्णवदवाप्तं, तदा स एव प्रमातृत्वाभिमतो निरस्तसंसारदोषः सम्पन्नः । कुतस्तस्य कर्तृत्वभोक्तृत्वे भवतः । यद्ययमहमुल्लेखप्रमुखप्रमातृत्वादिव्यवहारः कल्पितः, कथमिदानीमस्य प्रामाण्यम् ? इत्याशङ्क्याह —
देहात्मप्रत्यय इति ।
यथा देहे विशिष्टजातीये तद्व्यतिरिक्तस्याहङ्कर्तुरहंमानसम्बन्धः कल्पितोऽपि स्वनिबन्धने लोकशास्त्रव्यवहारे यथाऽवगतितत्त्वहेतुः, तथाऽयं कल्पितोऽप्यलौकिकात्मस्वरूपप्रतिपत्तेः प्राक् प्रमाणम् ; निश्चितप्रत्ययोत्पादनाद्बाधानुपलब्धेश्चेति ॥
इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नाम नवमं वर्णकं समाप्तम् ॥
अपि चाहुरिति भाष्यांशमुपादाय तस्यार्थमाह -
अपि चाहुरिति ।
श्लोकत्रयस्य तात्पर्यमाह -
पूर्वोक्त साधनमितिन्यायमिति ।
प्रथमश्लोकमुपादाय व्याचष्टे -
गौणमिथ्यात्मन इति ।
पर्यन्तोहंमानः पर्यन्ते केवलदेहेदेहाहमितिऽहमित्यभिमानाभावाज्जात्यादिविशिष्टेऽभिमान इत्याह -
विशिष्टजातीय इति ।
यथावगतितत्त्वअवगतित्वहेतुरिति ।
प्रामाण्यहेतुरतश्च देहादावहंमानः प्रमाणमित्यर्थः ।
अनुत्पत्तिसंशयविपर्यासलक्षणालक्षणप्रामाण्येतिप्रामाण्यहेतुश्च नास्तीत्याह -
निश्चितेत्यादिना ॥
इति परानन्दपरिज्ञानपरितृप्तपरमहंसपरिव्राजकाचार्य श्रीमज्ज्ञानोत्तमभगवत्पूज्यपादशिष्येण उत्तमज्ञयतिवरेण विरचितायां पञ्चपादिकावक्तव्यकाशिकायां चतुर्थंचतुर्थ इति समन्वयसूत्रम् । श्री विद्यारण्यगुरवे नमः । श्री श्री नृसिंहभारतीगुरवे नमः । । ००००० । ॥ श्रीमद्विद्याशङ्करेश्वराय नमः । शुभं भवतु || इति नवमवर्णककारिका ||