अथ प्रथमवर्णकम्
यमिह कारुणिकं शरणं गतोऽप्यरिसहोदर आप महत्पदम् ।
तमहमाशु हरिं परमाश्रये जनकजाङ्कमनन्तसुखाकृतिम् ॥ १ ॥
श्रीगौर्या सकलार्थदं निजपदाम्भोजेन मुक्तिप्रदं प्रौढं विघ्नवनं हरन्तमनघं श्रीढुण्ढितुण्डासिना ।
वन्दे चर्मकपालिकोपकरणैर्वैराग्यसौख्यात्परं नास्तीति प्रदिशन्तमन्तविधुरं श्रीकाशिकेशं शिवम् ॥ २ ॥
यत्कृपालवमात्रेण मूको भवति पण्डितः ।
वेदशास्त्रशरीरां तां वाणीं वीणाकरां भजे ॥ ३ ॥
कामाक्षीदत्तदुग्धप्रचुरसुरनुतप्राज्यभोज्याधिपूज्यश्रीगौरीनायकाभित्प्रकटनशिवरामार्यलब्धात्मबोधैः ।
श्रीमद्गोपालगीर्भिः प्रकटितपरमाद्वैतभासास्मितास्यश्रीमद्गोविन्दवाणीचरणकमलगो निर्वृतोऽहं यथालिः ॥ ४ ॥
श्रीशङ्करं भाष्यकृतं प्रणम्य व्यासं हरिं सूत्रकृतं च वच्मि ।
श्रीभाष्यतीर्थे परहंसतुष्ट्यै वाग्जालबन्धच्छिदमभ्युपायम् ॥ ५ ॥
विस्तृतग्रन्थवीक्षायामलसं यस्य मानसम् ।
व्याख्या तदर्थमारब्धा भाष्यरत्नप्रभाभिधा ॥ ६ ॥
श्रीमच्छारीरकं भाष्यं प्राप्य वाक्शुद्धिमाप्नुयात् ।
इति श्रमो मे सफलो गङ्गां रथ्योदकं यथा ॥ ७ ॥
यदज्ञानसमुद्भूतमिन्द्रजालमिदं जगत् ।
सत्यज्ञानसुखानन्तं तदहं ब्रह्म निर्भयम् ॥ ८ ॥
पूर्णानन्दी
यद्ब्रह्मगोचरविचित्रतमःप्रभावात्संसारधीजनितदुःखमभूज्जनस्य । >
यद्ब्रह्मधीजनितसौख्यमभूच्च तस्य तं रुक्मिणीसहितकृष्णमहं नमामि ॥ १ ॥
यत्पादपद्मभजनेष्वनुरक्तचित्ताः मोक्षङ्गता ह्यतिदुरात्मजनाः किमन्ये ।
यल्लीलया जगदभूद्विविधस्वरूपं तं रुक्मिणीसहितकृष्णमहं नमामि ॥ २ ॥
काशिकाधीशविश्वेशं नमामि करुणानिधिम् ।
उमाङ्गसङ्गादनिशं पिशङ्गाङ्गप्रकाशकम् ॥ ३ ॥
यस्य स्मृतेरपि च शिष्यजना भवन्ति कामादिदोषरहिता ह्यतिशुद्धचित्ताः ।
यद्ध्यानतः परमकारणसुस्थिरास्ते तं श्रीगुरुं परमहंसयतिं नमामि ॥ ४ ॥
यो दृश्यते॓ऽयमिति सत्यचिदात्मकात्मा शिष्यादिपुण्यपरिपाकवशादिदानीम् ।
चिद्योगधारिणमजस्त्रमजं स्मितास्यं तं श्रीगुरुं परमहंसयतीं नमामि ॥ ५ ॥
षट्शास्त्रपारीणधुरीणशिष्यैर्युक्तं सदा ब्रह्मविचारशीलैः ।
अद्वैतवाणीचरणाब्जयुग्मं मुक्तिप्रदं तत्प्रणतोऽस्मि नित्यम् ॥ ६ ॥
सूत्रभाष्यकृतौ नत्वा ह्यतिश्रेष्ठान् गुरूनपि ।
अभिव्यक्ताभिधाव्याख्या क्रियते बुद्धिशुद्धये ॥ ७ ॥
रत्नप्रभां दुरूहां व्याखरोमि यथामति ।
धीकृतानमितान्दोषान् क्षमध्वं विबुधा ! मम ॥ ८ ॥
अत्र तावत्स्वरूपतटस्तलक्षणप्रमाणतत्साधनैस्तात्पर्यादद्वितीयब्रह्मबोधकं श्रीमच्छारीरकं भाष्यं व्याचिख्यासुः श्रीरामानन्दाचार्यः प्रारिप्सितग्रन्थपरिसमाप्तये प्रचयगमनाय शिष्टाचारपरिपालनाय च “समाप्तिकामो मङ्गलमाचरेत्“ इत्यनुमितश्रुतिबोधितकर्तव्यताकं शास्त्रप्रतिपाद्यस्वविशिष्टेष्टदेवतानमस्कारलक्षणं मङ्गलमाचरन् शिष्यशिक्षायै ग्रन्थथो निबध्नाति –
यमिहेति ।
इह व्यवहारभूमावित्यर्थः । अपिशब्दस्य व्युत्क्रमेणान्वयः । अरिसहोदरोऽपि बिभीषणः मोक्षलङ्कासाम्राज्यरूपं महत्पदमाप प्राप्तोऽभूदिति क्रियाकारकयोजना । अनन्तसुखकृतिमित्यनेन स्वरूपलक्षणम् , इतरेण तटस्थलक्षणं चोक्तमिति भावः ॥ १ ॥
श्रीगौर्येति ।
श्रीगौर्येत्यादितृतीयात्रयं कारणार्थकम् , करणं नामासाधारणं कारणम् , तथा च करणार्थे तृतीयेत्युक्त्याऽर्थप्रधानादिकं प्रति श्रीगौर्यादिः करणम् , ईश्वरस्तु साधारणकारणमिति ज्ञापितम् । नचेतरापेक्षायां सत्यमीश्वरस्य स्वातन्त्र्यहानिः स्यादिति वाच्यम् ? पाकादेः काष्टाद्यपेक्षासत्त्वेऽपि देवदत्तस्य तत्कर्तृत्वेन कारकाप्रेयत्वरूपस्वातन्त्र्यदर्शनात् , अतः स्वेष्टदेवताया न स्वातन्त्र्यहानिरिति भावः । दुण्डिः विघ्नेश्वरः इत्यर्थः । इदं पदं रूढमिति ज्ञेयम् । उपकरणैः साधनैरित्यर्थः । अन्तविधुरं नाशरहितं षड्भावविकाररहितमिति भावः ॥ २ ॥
मूकरहित इति ।
मूकोऽपि पण्डितः शास्त्रार्थज्ञानपूर्वकवाक्प्रौढिमशाली इत्यर्थः ॥ ३ ॥
गुरुपरमगुरुपरमेष्ठीगुरून् स्तौति –
कामाक्षीति ।
अद्वैतभासेति ।
अद्वैतब्रह्मविषयकशास्त्रजन्यप्रमित्येत्यर्थः । श्रीगुरोः स्मितास्यत्वं नाम जीवन्मुक्तिद्योतकमुखविकासवत्वम् । निवृत्तः मोक्षमुखं प्राप्तोऽस्मि । यथाऽलिः कमलगः सन् मकरन्दपानेन निवृत्तो भवति तथा श्रीगुरुपादपद्मानुसन्धानः सन् तत्प्रसादासादिताद्वैतज्ञानेनाहं ब्रह्मानन्दमनुभवामीति भावः ।
ग्रन्थद्रष्ट्रूणामनायासेनार्थबोधाय स्वकृतश्लोकानां स्वयमेव व्याख्यामारभते –
मोक्षपुर्यामिति ।
“प्रकृष्टं प्रचुरं प्राज्यमदब्रं बहुलं” इति कोशमाश्रित्य व्याख्याति –
सम्पूर्णमिति ।
अभित्पदस्याभेदार्थकत्वं कथयन् शिवराम इति स्वनाम्नैव शिवरामयोर्वेदान्तेतिहासपुराणप्रतिपाद्यमभेद्यं श्रीशिवरामयोगिनो ज्ञापयन्तीत्यतो देवताकटाक्षलब्धाद्द्वैतनिष्ठापराश्च परमेष्ठीगुरवः इत्येतमर्थं स्फुटीकरोति किञ्च शिवश्चासाविति । स्वनाम्नेत्यनेनाद्वैतसाधकयुक्त्यन्वेषणाय तेषां चित्तव्यग्रता नास्तीति द्योत्यते । गुरुभ्यः परमेष्ठिगुरुभ्य इत्यर्थः । श्रीमद्गोपालसरस्वतीभिरिति परमगुरुभिरित्यर्थः ॥ ४ ॥ तीर्थ इति शास्त्र इत्यर्थः । हंसपदस्य पक्षिपरत्वे तु जाल इत्यर्थः ॥ ५ ॥
व्याख्येति ।
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपश्च समाधानमेतद् व्याख्यानलक्षणम् ॥
इति व्याख्यानलक्षणं वेदितव्यम् ।
भाष्यरत्नप्रभेति ।
भाष्यमेव रत्नं तस्य प्रभेत्यर्थः । भाष्यार्थप्रकाशकत्वादस्य ग्रन्थस्य भाष्यरत्नप्रभेति नामधेयमिति भावः ॥ ६ ॥
भाष्यं प्राप्येति ।
भाष्येण सम्बध्येति यावत् । वाग्भाष्ययोर्व्याख्यानव्याख्येयभावः ॥ ७ ॥
ननु “सिद्धार्थं सिद्धसम्बन्दं श्रोतुं श्रोता प्रवर्तते” इत्यवश्यवक्तव्यस्य सम्बन्धप्रयोजनादेरप्रतिपादनात् प्रेक्षावतां प्रवृत्तिर्न स्यादित्याशङ्क्य शास्त्रस्य ये विषयप्रयोजनाधिकारि सम्बन्धास्त एव स्वकृतग्रन्थस्येति भाष्योक्तविषयादीन् ज्ञापयन् कृत्स्नशास्त्रस्य मुख्यं विषयं सङ्गृह्णाति –
यदज्ञानेति ।
तदहं ब्रह्मास्मीत्यनेन विषयो बोध्यते, तेनैव फलस्य प्राप्यतासम्बन्धः, आनन्दावाप्तिरूपप्रयोजनमपि द्योत्यते, निर्भयमित्यनेनानर्थनिवृत्तिरूपप्रयोजनमुच्यते । अधिकारी त्वर्थात्सिद्ध्यतीति भावः ॥ ८ ॥