भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
इह खलु ‘स्वाध्यायोऽध्येतव्यः’(श॰ब्रा॰ ११-५७) इति नित्याध्ययनविधिनाधीतसाङ्गस्वाध्याये ‘तद्विजिज्ञासस्व’ (तै.उ. ३ । १ । १), ’सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’ (छा.उ. ८ । ७ । १), ’आत्मा वा अरे द्रष्टव्यः श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति श्रवणविधिरुपलभ्यते । तस्यार्थः अमृतत्वकामेनाद्वैतात्मविचार एव वेदान्तवाक्यैः कर्तव्य इति । तेन काम्येन नियमविधिनार्थादेव भिन्नात्मशास्त्रप्रवृत्तिः(एवकारो नस्ति)* वैदिकानां पुराणादिप्राधान्यं वा निरस्यत इति वस्तुगतिः । तत्र कश्चिदिह जन्मनि जन्मान्तरे वानुष्ठितयज्ञादिभिर्नितान्तं निर्मलस्वान्तोऽस्य-नितान्तविमलस्वान्त- श्रवणविधेः को विषयः, किं फलम् , कोऽधिकारी, कः सम्बन्ध इति जिज्ञासते । तं जिज्ञासुमुपलभमानो भगवान्बादरायणस्तदनुबन्धचतुष्टयं श्रवणाद्यात्मकशास्त्रारम्भप्रयोजकं(श्रवणात्मक)* न्यायेन निर्णेतुमिदं सूत्रं रचयाञ्चकार ‘अथातो ब्रह्मजिज्ञासा’ (ब्र.सू. १ । १ । १) इति ॥ नन्वनुबन्धजातं विधिसन्निहितार्थवादवाक्यैरेव ज्ञातुं शक्यम् । तथाहि - ‘तद्यथेह कर्मचितो लोकः क्षीयत एवमेवामुत्र पुण्यचितो लोकः क्षीयते’ (छा. उ. ८ । १ । ६) इति श्रुत्या ‘यत्कृतकं तदनित्यम्’ इति न्यायवत्या ‘न जायते म्रियते वा विपश्चित्’ (क. उ. १ । २ । १८) ‘यो वै भूमा तदमृतम्’ (छा.उ. ७ । २४ । १) ‘अतोऽन्यदार्तम्’ (बृ॰उ॰ ३-४-२) इत्यादि श्रुत्या च भूमात्मा नित्यस्ततोऽन्यदनित्यमिति(ततोऽन्यदनित्यमज्ञानस्वरूपमिति)* विवेको लभ्यते । कर्मणा कृष्यादिना चितः सम्पादितः सस्यादिर्लोकः(सस्यादिलोकः)* - भोग्य इत्यर्थः । विपश्चिन्नित्यज्ञानस्वरूपः । ‘परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’ (मु.उ. १ । २ । १२), ‘आत्मनस्तु कामाय सर्वं प्रियं भवति’ (बृ. उ. २ । ४ । ५) इत्यादिश्रुत्यानात्ममात्रे(देहेन्द्रियादिसकलपदार्थजाते इत्यधिकः। वैराग्यं लभ्यते । परीक्ष्यानित्यत्वेन निश्चित्य, अकृतो मोक्षः कृतेन कर्मणा नास्तीति कर्मतत्फलेभ्यो वैराग्यं प्राप्नुयादित्यर्थः । ‘शान्तो दान्त उपरतस्तितिक्षुः  समाहितः श्रद्धावित्तो भूत्वात्मन्येवात्मानं पश्येत्’ (बृ.उ. ४ । ४ । २३) इति श्रुत्या शमादिषट्कं लभ्यते । ‘समाहितो भूत्वा’ इति काण्वपाठः । उपरतिः सन्न्यासः । ‘न स पुनरावर्तते’ (कालाग्निरु० २) इति स्वयञ्ज्योतिरानन्दात्मकमोक्षस्य नित्यत्वश्रुत्या मुमुक्षा लभ्यते । तथा च विवेकादिविशेषणवानधिकारीति ज्ञातुं शक्यम् । यथा ‘य एता रात्रीरुपयन्ति’ इति रात्रिसत्रविधौ ‘प्रतितिष्ठन्ति’ इत्यर्थवादस्थप्रतिष्ठाकामस्तद्वत् तथा ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इत्यत्र प्रत्ययार्थस्य नियोगस्य प्रकृत्यर्थो विचारो विषयः विचारस्य वेदान्ता विषय इति शक्यं ज्ञातुम् , ‘आत्मा द्रष्टव्यः’ इत्यद्वैतात्मदर्शनमुद्दिश्य ‘श्रोतव्यः’ इति विचारविधानात् । न हि विचारः साक्षाद्दर्शनहेतुः, अप्रमाणत्वात् , अपि तु प्रमाणविषयत्वेन । प्रमाणं चाद्वैतात्मनि वेदान्ता एव, ‘तं त्वौपनिषदंं पुरुषम्’, ‘वेदान्तविज्ञानसुनिश्चितार्थाः’ (मु.उ. ३ । २ । ६) इति श्रुतेः । वेदान्तानां च प्रत्यग्ब्रह्मैक्यं विषयः, ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७), ‘अहं ब्रह्मास्मि’ (बृ.उ. १ । ४ । १०) इति श्रुतेः । एवं विचारविधेः फलमपि ज्ञानद्वारा मुक्तिः, ‘तरति शोकमात्मवित्’ (छा.उ. ७ । १ । ३), ‘ब्रह्मविद्ब्रह्मैव भवति’ (मु.उ. ३ । २ । ९) इत्यादिश्रुतेः । तथा सम्बन्धोऽप्यधिकारिणा विचारस्य कर्तव्यतारूपः, फलस्य प्राप्यतारूप इति यथायोगं (यथायोग्यं)* सुबोधः । तस्मादिदं सूत्रं व्यर्थमिति चेत् । न । तासामधिकार्यादिश्रुतीनां स्वार्थे तात्पर्यनिर्णायकन्यायसूत्राभावे किं विवेकादिविशेषणवानधिकारी उतान्यः, किं वेदान्ताः पूर्वतन्त्रेण अगतार्था वा, किं ब्रह्म प्रत्यगभिन्नं न वा, किं मुक्तिः स्वर्गादिवल्लोकान्तरम् , आत्मस्वरूपा वेति संशयानिवृत्तेः । तस्मादागमवाक्यैरापाततः प्रतिपन्नाधिकार्यादिनिर्णयार्थमिदं सूत्रमावश्यकम् । तदुक्तं प्रकाशात्मश्रीचरणैः - ‘अधिकार्यादीनामागमिकत्वेऽपि न्यायेन निर्णयार्थमिदं सूत्रम्’ इति । येषां मते श्रवणे विधिर्नास्ति तेषामविहितश्रवणेऽधिकार्यादिनिर्णयानपेक्षणात्सूत्रं व्यर्थमित्यापततीत्यलं प्रसङ्गेन ॥ तथा चास्य सूत्रस्य श्रवणविध्यपेक्षिताधिकार्यादिश्रुतिभिः स्वार्थनिर्णयायोत्थापितत्वाद्धेतुहेतुमद्भावः श्रुतिसङ्गतिः, शास्त्रारम्भहेत्वनुबन्धनिर्णायकत्वेनोपोद्घातत्वाच्छास्त्रादौ सङ्गतिः, अधिकार्यादिश्रुतीनां स्वार्थे समन्वयोक्तेः समन्वयाध्यायसङ्गतिः, ‘ऐतदात्म्यमिदं सर्वं  तत्सत्यं स आत्मा तत्त्वमसि’ (छा.उ. ६ । ८ । ७) इत्यादिश्रुतीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां विषयादौ समन्वयोक्तेः पादसङ्गतिः, एवं सर्वसूत्राणां श्रुत्यर्थनिर्णायकत्वाच्छ्रुतिसङ्गतिः, तत्तदध्याये तत्तत्पादे च समानप्रमेयत्वेन सङ्गतिरूहनीया । प्रमेयं च कृत्स्नशास्त्रस्य ब्रह्म । अध्यायानां तु समन्वयाविरोधसाधनफलानि । तत्र प्रथमपादस्य स्पष्टब्रह्मलिङ्गानां श्रुतीनां समन्वयः प्रमेयः । द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानाम् । चतुर्थपादस्य पदमात्रसमन्वय इति भेदः । अस्याधिकरणस्य प्राथम्यान्नाधिकरणसङ्गतिरपेक्षिता ॥ अथाधिकरणमारच्यते - ‘श्रोतव्यः’ (बृ.उ. २ । ४ । ५) इति विहितश्रवणात्मकं वेदान्तमीमांसाशास्त्रं विषयः । तत्किमारब्धव्यं न वेति विषयप्रयोजनसम्भवासम्भवाभ्यां संशयः । तत्र नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण कर्तृत्वाकर्तृत्वादिविरुद्धधर्मवत्त्वलिङ्गकानुमानेन च विरोधेन ब्रह्मात्मनोरैक्यस्य विषयस्यासम्भवात् , सत्यबन्धस्य ज्ञानान्निवृत्तिरूपफलासम्भवान्नारम्भणीयमिति प्राप्ते सिद्धान्तः ‘अथातो ब्रह्मजिज्ञासा’ इति । अत्र श्रवणविधिसमानार्थत्वाय ‘कर्तव्या’ इति पदमध्याहर्तव्यम् । अध्याहृतं च भाष्यकृता ‘ब्रह्मजिज्ञासा कर्तव्या’ इति । तत्र प्रकृतिप्रत्ययार्थयोर्ज्ञानेच्छयोः कर्तव्यत्वानन्वयात्प्रकृत्या फलीभूतं ज्ञानमजहल्लक्षणयोच्यते । प्रत्ययेनेच्छासाध्यो विचारो जहल्लक्षणया । तथा च ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रस्य श्रौतोऽर्थः सम्पद्यते । तत्र ज्ञानस्य स्वतःफलत्वायोगात्प्रमातृत्वकर्तृत्वभोक्तृत्वात्मकानर्थनिवर्तकत्वेनैव फलत्वं वक्तव्यम् । तत्रानर्थस्य सत्यत्वे ज्ञानमात्रान्निवृत्त्ययोगादध्यस्तत्वं वक्तव्यमिति बन्धस्याध्यस्तत्वमर्थात्सूचितम् । तच्च शास्त्रस्य विषयप्रयोजनवत्त्वसिद्धिहेतुः । तथाहि शास्त्रमारब्धव्यम् , विषयप्रयोजनवत्त्वात् , भोजनादिवत् । शास्त्रं प्रयोजनवत् , बन्धनिवर्तकज्ञानहेतुत्वात् , रज्जुरियमित्यादिवाक्यवत् । बन्धो ज्ञाननिवर्त्योऽध्यस्तत्वात् , रज्जुसर्पवत् । इति प्रयोजनसिद्धिः । एवमर्थाद्ब्रह्मज्ञानाज्जीवगतानर्थभ्रमनिवृत्तिं फलं सूत्रयन् जीवब्रह्मणोरैक्यं विषयमप्यर्थात्सूचयति, अन्यज्ञानादन्यत्र भ्रमानिवृत्तेः । जीवो ब्रह्माभिन्नः, तज्ज्ञाननिवर्त्याध्यासाश्रयत्वात् । यदित्थं तत्तथा, यथा शुक्त्यभिन्न इदमंश इति विषयसिद्धिहेतुरध्यासः । इत्येवं विषयप्रयोजनवत्त्वाच्छास्त्रमारम्भणीयमिति। । अत्र पूर्वपक्षे बन्धस्य सत्यत्वेन ज्ञानादनिवृत्तेरुपायान्तरसाध्या मुक्तिरिति फलम् । सिद्धान्ते ज्ञानादेव मुक्तिरिति विवेकः । इति सर्वं मनसि निधाय ब्रह्मसूत्राणि व्याख्यातुकामो भगवान् भाष्यकारः सूत्रबोधितविचारकर्तव्यता(सूत्रेण विचारकर्तव्यता)*रूपश्रौतार्थान्यथानुपपत्त्यार्थात्सूत्रितविषय(सूत्रितं विषय)*प्रयोजनवत्वमुपोद्धातत्वात्तत्सिद्धिहेत्वध्यासमाक्षेप-हेत्वध्यासाक्षेप-समाधानभाष्याभ्यां प्रथमं वर्णयति -

युष्मदस्मत्प्रत्ययगोचरयोरिति ।

एतेन सूत्रार्थास्पर्शित्वादध्यासग्रन्थो न भाष्यमिति निरस्तम् , आर्थिकार्थस्पर्शित्वात् ॥ यत्तु मङ्गलाचरणाभावादव्याख्येयमिदं भाष्यमिति, तन्न । ‘सुतरामितरेतरभावानुपपत्तिः’ इत्यन्तभाष्यरचनार्थं तदर्थस्य सर्वोपप्लवरहितस्य विज्ञानघनप्रत्यगर्थस्य तत्त्वस्य स्मृतत्वात् । अतो निर्दोषत्वादिदं भाष्यं व्याख्येयम् ॥

लोके शुक्ताविदं रजतमिति भ्रमः, सत्यरजते इदं रजतमित्यधिष्ठानसामान्यारोप्यविशेषयोरैक्यप्रमाहितसंस्कारजन्यो दृष्ट इत्यत्राप्यात्मन्यनात्माहङ्काराध्यासे पूर्वप्रमा वाच्या, सा चात्मानात्मनोर्वास्तवैक्यमपेक्षते, न हि तदस्ति । तथाहि आत्मानात्मानावैक्यशून्यौ, परस्परैक्यायोग्यत्वात् , तमःप्रकाशवत् । इति मत्वा हेतुभूतं विरोधं वस्तुतः प्रतीतितो व्यवहारतश्च साधयति -

युष्मदस्मत्प्रत्ययगोचरयोरिति ।

न च ‘प्रत्ययोत्तरपदयोश्च’(पा॰सू॰ ७-२-९८) इति सूत्रेण ‘प्रत्यये उत्तरपदे च परतो युष्मदस्मदोर्मपर्यन्तस्य त्वमादेशौ स्तः’ इति विधानात् , त्वदीयं मदीयं त्वत्पुत्रो मत्पुत्र इतिवत् ‘त्वन्मत्प्रत्ययगोचरयोः’ इति स्यादिति वाच्यम् । ‘त्वमावेकवचने’(पा॰सू॰ ७-२-९७) इत्येकवचनाधिकारात् । अत्र च युष्मदस्मत्पदयोरेकार्थ(युष्मदस्मदोरेकार्थ)*वाचित्वाभावादनात्मनां युष्मदर्थानां बहुत्वादस्मदर्थचैतन्यस्याप्युपाधितो बहुत्वात् ॥ नन्वेवं सति कथमत्र भाष्ये विग्रहः । न च यूयमिति प्रत्ययो युष्मत्प्रत्ययः, वयमिति प्रत्ययोऽस्मत्प्रत्ययस्तद्गोचरयोरिति विग्रह इति वाच्यम् , शब्दसाधुत्वेऽप्यर्थासाधुत्वात् । न ह्यहङ्काराद्यनात्मनो यूयमिति प्रत्ययविषयत्वमस्तीति चेत् , न । गोचरपदस्य योग्यतापरत्वात् । चिदात्मा तावदस्मत्प्रत्यययोग्यः, तत्प्रयुक्तसंशयादिनिवृत्तिफलभाक्त्वात् , ‘न तावदयमेकान्तेनाविषयः, अस्मत्प्रत्ययविषयत्वात्’ इति भाष्योक्तेश्च । यद्यप्यहङ्कारादिरपि तद्योग्यस्तथापि चिदात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं युष्मत्प्रत्यययोग्य इत्युच्यते ॥ आश्रमश्रीचरणास्तु टीकायोजनायामेवमाहुः ‘सम्बोध्यचेतनो युष्मत्पदवाच्यः, अहङ्कारादिविशिष्टचेतनोऽस्मत्पदवाच्यः, तथा च युष्मदस्मदोः स्वार्थे प्रयुज्यमानयोरेव त्वमादेशनियमो न लाक्षणिकयोः, ‘युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वानावौ’(पा०सू० ८-१-२०) इति सूत्रासाङ्गत्यप्रसड्गात् । अत्र शब्दलक्षकयोरिव चिन्मात्रजडमात्रलक्षकयोरपि न त्वमादेशौ (त्वमादेशो)* लक्षकत्वाविशेषात्’ इति । यदि तयोः शब्दबोधकत्वे सत्येव त्वमादेशाभाव इत्यनेन सूत्रेण ज्ञापितं तदास्मिन्भाष्ये युष्मत्पदेन युष्मच्छब्दजन्यप्रत्यययोग्यः परागर्थो लक्ष्यते, अस्मच्छब्देन अस्मच्छब्दजन्यप्रत्यययोग्यः प्रत्यगात्मा । तथा च लक्ष्यतावच्छेदकतया शब्दोऽपि बोध्यत इति न त्वमादेशः । न च पराक्त्वप्रत्यक्त्वयोरेव लक्ष्यतावच्छेदकत्वम् , न शब्दयोग्यत्वांशस्य, गौरवादिति वाच्यम् । पराक्प्रतीचोर्विरोधस्फुरणार्थं विरुद्धशब्दयोग्यत्वस्यापि वक्तव्यत्वात् । अत एवेदमस्मत्प्रत्ययगोचरयोरिति वक्तव्येऽपीदंशब्दोऽस्मदर्थे लोके वेदे च बहुशः, इमे वयमास्महे, इमे विदेहाः, अयमहमस्मीति च प्रयोगदर्शनान्नास्मच्छब्दविरोधीति मत्वा युष्मच्छब्दः प्रयुक्तः, इदंशब्दप्रयोगे विरोधास्फूर्तेः । एतेन चेतनवाचित्वादस्मच्छब्दः पूर्वं प्रयोक्तव्यः ‘अभ्यर्हितं पूर्व’ इति न्यायात् , ‘त्यदादीनि सर्वैर्नित्यम्’(पा०सू० १-२-७२) इति सूत्रेण विहित एकशेषश्च स्यादिति निरस्तम् । ‘युष्मदस्मदोः’ इति सूत्र इवात्रापि पूर्वनिपातैकशेषयोरप्राप्तेः, एकशेषे विवक्षितविरोधास्फूर्तेश्च । वृद्धास्तु ‘युष्मदर्थादनात्मनो निष्कृष्य शुद्धस्य चिद्धातोरध्यारोपापवादन्यायेन ग्रहणं द्योतयितुमादौ युष्मद्ग्रहणम् ’ इत्याहुः । तत्र युष्मदस्मत्पदाभ्यां पराक्प्रत्यक्त्वेनात्मानात्मनोर्वस्तुतो विरोध उक्तः । प्रत्ययपदेन प्रतीतितो विरोध उक्तः । प्रतीयत इति प्रत्ययोऽहङ्कारादिरनात्मा दृश्यतया भाति । आत्मा तु प्रतीतित्वात्प्रत्ययः स्वप्रकाशतया भाति । गोचरपदेन व्यवहारतो विरोध उक्तः । युष्मदर्थः प्रत्यगात्मतिरस्कारेण कर्ताहमित्यादिव्यवहारगोचरः, अस्मदर्थस्त्वनात्मप्रविलापेन, अहं ब्रह्मेति व्यवहारगोचर इति त्रिधा विरोधः स्फुटीकृतः । युष्मच्चास्मच्च युष्मदस्मदी, ते एव प्रत्ययौ च तौ गोचरौ चेति युष्मदस्मत्प्रत्ययगोचरौ, तयोस्त्रिधा विरुद्धस्वभावयोरितरेतरभावोऽत्यन्ताभेदस्तादात्म्यं वा तदनुपपत्तौ सिद्धायामित्यन्वयः ।

ऐक्यासम्भवेऽपि शुक्लो घट इतिवत्तादात्म्यं किं न स्यादित्यत आह -

विषयविषयिणोरिति ।

चिज्जडयोर्विषयविषयित्वाद्दीपघटयोरिव न तादात्म्यमिति भावः ।

युष्मदस्मदी पराप्रत्यग्वस्तुनी, ते एव प्रत्ययश्च गोचरश्चेति वा विग्रहः । अत्र प्रत्ययगोचरपदाभ्यामात्मानात्मनोः प्रत्यक्पराग्भावे चिदचित्त्वं हेतुरुक्तस्तत्र हेतुमाह -

विषयविषयिणोरिति ।

अनात्मनो ग्राह्यत्वादचित्त्वम् , आत्मनस्तु ग्राहकत्वाच्चित्त्वं वाच्यम् । अचित्त्वे स्वस्य स्वेन ग्रहस्य कर्मकर्तृत्वविरोधेनासम्भवादप्रत्यक्षत्वापत्तेरित्यर्थः । यथेष्टं वा हेतुहेतुमद्भावः ।

नन्वेवमात्मानात्मनोः पराक्प्रत्यक्त्वेन, चिदचित्त्वेन, ग्राह्यग्राहकत्वेन च विरोधात्तमःप्रकाशवदैक्यस्य तादात्म्यस्य वानुपपत्तौ सत्याम् , तत्प्रमित्यभावेनाध्यासाभावेऽपि तद्धर्माणां चैतन्यसुखजाड्यदुःखादीनां विनिमयेनाध्यासोऽस्त्वित्यत आह -

तद्धर्माणामपीति ।

तयोरात्मानात्मनोर्धर्मास्तद्धर्मास्तेषामपीतरेतरभावानुपपत्तिः । इतरत्र धर्म्यन्तरे इतरेषां धर्माणां भावः संसर्गस्तस्यानुपपत्तिरित्यर्थः । न हि धर्मिणोः संसर्गं विना धर्माणां विनिमयो अस्ति । स्फटिके लोहितवस्तुसान्निध्याल्लौहित्यधर्मसंसर्गः ।

असङ्गात्मधर्मिणः केनाप्यसंसर्गाद्धर्मिसंसर्गपूर्वको धर्मसंसर्गः  कुतस्त्य इत्यभिप्रेत्योक्तं -

सुतरामिति ।

नन्वात्मानात्मनोस्तादात्म्यस्य तद्धर्मसंसर्गस्य चाभावेऽप्यध्यासः किं न स्यादित्यत आह -

इत्यत इति ।

इत्युक्तरीत्या तादात्म्याद्यभावेन तत्प्रमाया अभावादतः प्रमाजन्यसंस्कारस्याध्यासहेतोरभावात् ‘अध्यासो मिथ्येति भवितुं युक्तम्’ इत्यन्वयः । मिथ्याशब्दो द्व्यर्थः अपह्नववचनः, अनिर्वचनीयतावचनश्चेति । अत्र चापह्नवार्थः ।

ननु कुत्र कस्याध्यासोऽपह्नूयत इत्याशङ्क्य, आत्मन्यनात्मतद्धर्माणामनात्मन्यात्मतद्धर्माणामध्यासो निरस्यत इत्याह -

अस्मत्प्रत्ययगोचर इत्यादिना ।

इह खल्वित्यादिना – प्रथमं वर्णयतीत्यन्तेन ; स्वाध्याय इति ; तद्विजिज्ञासस्वेति ; तस्यार्थ इति ; अमृतत्वेति ; तेनेति ; अर्थादिति ; तत्रेति ; भगवानिति ; श्रवणाद्यात्मकेति ; न्यायेनेति ; सूत्रमिति ; नन्विति ; तथा हीत्यादिना ; तद्यथेति ; तथा चेति ; तथा श्रोतव्य इत्यादिना ; श्रोतव्य इति ; विचारस्येति ; आत्मेति ; न हीति ; नहीति ; अपि त्विति ; प्रमाणञ्चेति ; वेदान्तानामिति ; तत्त्वमिति ; एवमिति ; तथेति ; यथायोगमिति ; तस्मादिति ; न्यायसूत्रेति ; किं विवेकेति ; किं वेदान्ता इति ; किं वेदान्ता इति ; संशयेति ; आगामिकत्वेऽपीति ; येषामिति ; इत्यलमिति ; तथा चेति ; शास्त्रेत्यादिना ; शास्त्रारम्भेति ; शास्त्रादाविति ; अधिकारीति ; ऐतदात्म्यमिति ; एवमिति ; तत्तदिति ; प्रमेयमिति ; अध्यायानामिति ; तत्रेति ; द्वितीयेति ; वेदान्तेति ; विषयप्रयोजनेति ; अत्रेति ; सिद्धान्त इति ; अत्रेति ; अध्याहर्तव्यमिति ; तत्रेति ; फलीभूतमिति ; अजहदिति ; प्रत्ययेनेति ; तत्रेति ; तत्रानर्थस्येति ; इति बन्धस्येति ; तच्चेति ; तथाहीति ; शास्त्रमिति ; बन्ध इति ; एवमिति ; अर्थादिति ; जीवेति ; जीवब्रह्मणोरिति ; अर्थादिति ; जीव इति ; यदिति ; यथेति ; उपायेति ; एतदिति ; सूत्रेणेति ; अर्थादिति ; आर्थिकार्थेति ; भाष्यमिति ; तन्नेति ॥ ; स्मृतत्वादिति ; लोक इति ; इत्यत्रेति ; तथाहीति ; आत्मेति ; परस्परेति ; हेत्विति ; न चेत्यादिना ; त्वदीयमिति ; त्वमाविति ; अस्मदर्थेति ; नन्वेवं सतीति ; यूयमितीति ; नहीति ; न गोचरेति ; चिदात्मेति ; तत्प्रयुक्तेति ; न तावदिति ; यद्यपीति ; आश्रमेति ; तथाचेति ; युष्मदिति ; अत्रेति ; यदीति ; तथेति ; न चेत्यादिना ; विरुद्धेति ; अत एवेति ; इमे विदेहा इति ; एतेनेति ; युष्मदिति ; एकशेष इति ; वृद्धास्त्विति ; तत्रेति ; युष्मच्चेति ; त्रिधेति ; शुक्ल इति ; चिदिति ; यष्मदिति ; अत्र प्रत्ययेति ; अचित्व इति ; यथेष्टमिति ; नन्विति ; ग्राह्येति ; तदिति ; संसर्ग इति ; नहीति ; स्फटिक इति ; असङ्गेति ; इत्यभिप्रेत्येति ; नन्विति ; इत्युक्तेति ; तादात्म्येति ; मिथ्येति ; अनिर्वचनीयतेति ; अपह्नवार्थक इति ;

ननु प्रथमसूत्रस्य विषयवाक्यत्वेनाभिमता श्रोतव्यादिश्रुतिः विधिप्रतिपादिका, प्रथमसूत्रं तु जिज्ञासाप्रतिपादकम् , युष्मदस्मदित्यादिभाष्यमध्यासप्रतिपादकं भवति, तथा च भिन्नार्थप्रतिपादकत्वात् श्रुतिसूत्राध्यासभाष्याणां कथमेकवाक्यतेत्याशङ्क्य व्याचिख्यासितस्य वेदान्तशास्त्रस्यानारम्भणीयत्वदोषनिरासे प्रवृत्तप्रथमसूत्राध्यासभाष्ययोः श्रोतव्य इत्यादिश्रुतिसूत्रयोश्च सूत्रोत्पत्तिसाधनपूर्वकमेकार्थत्वप्रतिपादनद्वारै एकवाक्यतां साधयितुं पातनिकां रचयति –

इह खल्वित्यादिना – प्रथमं वर्णयतीत्यन्तेन ।

तत्र इह खल्वित्यारभ्य ब्रह्मजिज्ञासा कर्तव्येतीत्यन्तग्रन्थः सूत्रसाधनद्वारा श्रुतिसूत्रयोः प्राधान्येनैकवाक्यताप्रतिपादनपरः । तत्र प्रकृतिप्रत्ययार्थयोरित्यारभ्य प्रथमं वर्णयतीत्यन्तग्रन्थस्तु सूत्राध्यासभाष्ययोः प्राधान्येनैकवाक्यताप्रतिपादनपर इति पातनिकाग्रन्थविभागः । इदानीं पातनिकायां कानिचित् पदानि सङ्गृह्य सुखबोधाय वाक्यार्थो विरच्यते । इह वेदान्तशास्त्रे श्रोतव्य इति विधिरुपलभ्यते, उपलभ्यमानस्य विधेः कश्चिदनुबन्धचतुष्टयं जिज्ञासते तज्जिज्ञासितमनुबन्धचतुष्टयं न्यायेन निर्णेतुं श्रीबादरायणः सूत्रं रचयाञ्चकार, तस्य सूत्रस्य प्रसक्तानुप्रसक्तिपूर्वकमेकार्थप्रतिपादकत्वरूपं श्रोतव्य इत्यादिश्रुतिसम्बन्धं कथयन्नध्यासभाष्यसम्बन्धं कथयतीति पीठिकाग्रन्थस्य निष्कृष्टोऽर्थः । इह वेदान्तशास्त्रे श्रवणविधिरुपलभ्यत इत्यन्वयः ।

ननु किं ज्ञानिनं प्रति विधिरुपलभ्यते उताज्ञानिनं प्रति, उभयथा विधिवैयर्थ्यं स्यात् , जिज्ञासाऽनुपपत्तेरित्यत आह –

स्वाध्याय इति ।

विधेर्नित्यत्वं नामाकरणे प्रत्यवायबोधकत्वम् । अधीतः साङ्गस्वाध्यायो येन स इति विग्रहः । अधीतसाङ्गस्वाध्याये पुरुषे - इत्यर्थः । तथा चाधीतसाङ्गस्वाध्यायेनापातनिर्विशेषब्रह्मज्ञानवन्तं पुरुषमुद्दिश्य विधिरुपलभ्यत इति भावः ।

विधिवाक्यान्युदाहरति –

तद्विजिज्ञासस्वेति ।

केचित्तु – श्रोतव्य इत्यत्र न विधिः, सर्वेषां वेदान्तानामद्वितीयब्रह्मतात्पर्यनिश्चयात्मके श्रवणे विध्ययोगात् , किन्तु श्रोतव्य इत्यादिः विधिच्छायापऽऽन्नः स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थं इति वदन्ति । केचिदपूर्वविधिरिति । केचित्परिसङ्क्याविधिरिति वदन्ति । तेषां मतं निराकर्तुं नियमविधिं साधयति –

तस्यार्थ इति ।

श्रवणपदस्य विचारार्थकत्वं कथयन् वेधेरर्थं कथयति –

अमृतत्वेति ।

विचारो नामो हापोहात्मकमानसक्रियारूपस्तर्कः । एवकारस्योभयत्रान्वयः । वेदान्तवाक्यैरेव विचार इत्यनेन स्त्रीशूद्रादीनां पुराणादिश्रवणेन परोक्षमेव ज्ञानं जायते, तेन जन्मान्तरे वेदान्तश्रवणेऽधिकारः, तेनापरोक्षज्ञानमित्यर्थोऽपि गम्यते । अद्वैतात्मविचार एवेत्यनेन द्वैतशास्त्रविचारो निरस्यते ।

वेदान्तवाक्यैरेवेत्यनेन वैदिकानां पुराणादिप्राधान्यं निरस्यत इति विभागमभिप्रेत्य नियमविध्यङ्गीकारे फलितमर्थमाह –

तेनेति ।

तेनेतितृतीया समानाधिकरणा । विधेः काम्यत्वं नाम कामनाविषयसाधनबोधकत्वम् । पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिः नियमविधिरित्यर्थः ।

परिसङ्ख्याविधिभेदं ज्ञापयति –

अर्थादिति ।

विधिप्रतिपाद्यविचारस्य विधिसन्निहितवेदान्तवाक्याकाङ्क्षासत्त्वेन पुराणादिप्राधान्यादेर्निराकाङ्क्षत्वादित्यर्थः । वाशब्दश्चार्थे, वस्तुगतिः वास्तविकं ज्ञानम् , तथा चोक्तार्थे सर्वेषां वैदिकानां प्रमाऽऽत्मकनिश्चय एव न सन्देह इति भावः ।

तत्रेति ।

श्रवणविधावुपलभ्यमाने सतीत्यर्थः ।

उपलम्भे हेतुमाह –

भगवानिति ।

“उत्पत्तिं च विनाशं च भूतानामागतिं गतिम् ॥
वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति”
भगवच्छब्दार्थः । बदराः बदरीवृक्षाः यस्मिन् देशे सन्ति स देशविशेषो बादरः स एवायनं स्थानं यस्य स बादरायणः श्रीवेदव्यासः, अत्र संज्ञात्वाण्णत्वप्राप्त्या कीटादिवृत्तिर्बोध्या । तदिति जिज्ञासाविषयीभूतमित्यर्थः ।

श्रवणाद्यात्मकेति ।

श्रवणाद्यात्मकं यच्छास्त्रं तस्यारम्भः प्रवृत्तिः तस्मिन् प्रयोजकं कारणमित्यर्थः । श्रवणादिबोधकशब्दात्मकत्वाच्छास्त्रस्य श्रवणाद्यात्मकत्वमिति भावः । एवमुत्तरत्र विज्ञेयम् ।

न्यायेनेति ।

“विशयो विषयश्चैव पूर्वपक्षस्तथोत्तरम् ।
सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् “
इति पञ्चावयवोपेताधिकरणात्मकन्यायेनेत्यर्थः ।

सूत्रमिति ।

“अल्पाक्षरमसन्दिग्धं सारवद्विश्वतो मुखम् ।
अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः”
इति सूत्रलक्षणं विज्ञेयम् । (साम्नि “हा वूहा वूहा” इत्याद्यर्थरहितवर्णः स्तोभसंज्ञकः, तद्रहितमस्तोभमित्यर्थः । )

अर्थवादवाक्यैरधिकारी ज्ञातुं शक्यते, कर्तव्यतारूपसम्बन्धस्तु विधिना ज्ञातुं शक्यते, विषयप्रयोजने तूभयथा ज्ञातुं शक्येते इत्यतः प्रथमसूत्रं व्यर्थमिति शङ्कते –

नन्विति ।

विधिवत्सन्निहितार्थवादवाक्यैरित्यर्थः । विधिसन्निहितत्वं विध्येकवाक्यतापन्नत्वम् । अर्थवादवाक्यत्वं नाम विध्यघटितत्वे सति वैदिकवाक्यत्वम् । तेन स्वार्थतात्पर्यकाणां “तत्त्वमसि, अहं ब्रह्मास्मि” इत्यादीनामर्थवादवाक्यत्वं युज्यत इति भावः ।

प्रथमतोऽधिकारिणां निरूपयति –

तथा हीत्यादिना ।

श्रोतव्य इति विधिसन्निहितार्थवादवाक्यैः साधनचतुष्टयमुपपादयति –

तद्यथेति ।

कृतकं कार्यम् । लोक्यतेऽनुभूयत इति लोकः सस्यादिरित्यर्थः । निर्वेदं वैराग्यमित्यर्थः । श्रद्धैव वित्तं यस्य सः श्रद्धावित्तः । समाहितः = एकाग्रचित्तः ।

ननु श्रुतिभिर्विवेकादिविशेषणान्येव प्रतिपाद्यन्ते नाधिकारी प्रतिपाद्यते, उभयत्र तात्पर्ये वाक्यभेदप्रसङ्गादित्याशङ्क्य विशेषणानां धर्मत्वेन धर्मिणं विना सत्त्वासम्भवाद्धर्भिरूपाधिकारी चार्थाज्ज्ञातुं शक्यत एवेत्याह –

तथा चेति ।

यथेति प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीति वाक्यम् । अस्यार्थः – प्रतितिष्ठन्ति प्रतितिष्ठासन्तीत्यर्थः । प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्तीति यावत् । उपयन्तीत्यत्र उपेयुरिति विधेः परिणामः, ये प्रतिष्ठां प्राप्तुमिच्छन्ति ते रात्रिसत्राख्यानि कर्माणि कुर्युरिति । प्रतिष्ठाकामो यथाऽधिकारी तद्वदित्यन्वयः ।

अहं ब्रह्मास्मीत्यादिना विधिसन्निहितवाक्येन सिद्धं ब्रह्मात्मैक्यरूपं विषयं विधितत्त्वमसीत्यादिश्रुत्योरेकवाक्यत्वाय दार्ढ्याय च परम्परया विधितोऽपि साधयति –

तथा श्रोतव्य इत्यादिना ।

तथाऽधिकारिवदित्यर्थः ।

नियोगोऽपूर्वमिति प्राभाकरमतम् , तन्मतमवलम्ब्य विधेरर्थं कथयति –

श्रोतव्य इति ।

प्रत्ययस्तव्यप्रत्ययः, श्रु श्रवण इति श्रुधातुः प्रकृतिरिति विवेकः । विचारस्य नियोगविषयत्वं नाम नियोगहेतुककृतिविषयत्वम् ।

भवतु विचारो विषयस्तथाऽपि प्रकृते किमायातमित्यत आह –

विचारस्येति ।

विषया उद्देश्या इत्यर्थः ।

उक्तार्थे हेतुमाह –

आत्मेति ।

उक्तं हेतुं विवृणोति -

न हीति ।

अथवा –

ननु विचारस्य दर्शनहेतुत्वेऽपि कथं वेदान्तानां विचारविषयत्वमित्याशङ्क्य किं तद्देतुत्वं साक्षात्परम्परया वा, नाद्य इत्याह –

नहीति ।

प्रमाणमेव साक्षाद्दर्शनहेतुः, प्रमाणन्तु वेदान्ता एव, अतः प्रमाणभिन्नत्वात्तर्करूपविचारो न साक्षाद्दर्शनहेतुरिति भावः ।

द्वितीये वेदान्तानां तद्विषयत्वं दुर्वारमित्याह –

अपि त्विति ।

प्रमाणं विषयः उद्देश्यं यस्य विचारस्य स तथा, वेदान्तवाक्यान्युद्दिश्य विचारः क्रियतेऽतो वेदान्तानामुद्देश्यत्वरूपविषयत्वं सम्भवति निश्चितवेदान्तानामेव शाब्दबुद्धौ हेतुत्वान्निश्चयविशिष्टवेदान्तप्रमाणद्वारा विचारस्य हेतुत्वं च सम्भवतीति भावः । ननु प्रमाणस्य विचारजन्यत्वाभावात् कथं विचारस्य प्रमाणद्वारा हेतुत्वमिति चेद् ? न – सर्वं वेदान्तवाक्यं ब्रह्मतात्पर्यकमिति तात्पर्यनिश्चयस्य विचारजन्यत्वेन विशिष्टप्रमाणस्यापि विचारजन्यत्वोपचारादिति भावः ।

अतीन्द्रियार्थे श्रुतिरेव स्वतन्त्रप्रमाणमित्याह –

प्रमाणञ्चेति ।

एवकारेणानुमानादेः प्रामाण्यं निरस्यते, श्रौतार्थसम्भावनाऽर्थत्वेन गुणतया प्रामाण्याङ्गीकारेऽपि न मुख्यप्रामाण्यमिति भावः । औपनिषदमुपनिषदेकगम्यमित्यर्थः ।

परमप्रकृतमाह –

वेदान्तानामिति ।

विषयः प्रतिपाद्यः ।

ननु विधिना ब्रह्मात्मैक्यं स्फुटं न प्रतिभासते तस्मात्कथं विषयसिद्धिरित्याशङ्कायां तत्र स्फुटप्रतिपादकं प्रमाणमाह –

तत्त्वमिति ।

विधिसन्निहितस्य स्वार्थतात्पर्यकार्थवादस्य तरति शोकमात्मविदित्यादिवाक्यद्वयस्य विधिना सहैकवाक्यत्वाय दार्ढ्याय च विधिफलं निरूपयन् प्रयोजनं निरूपयति –

एवमिति ।

येन तरति शोकमित्यादिवाक्येन प्रयोजनं विदितं तेनैव प्राप्यतारूपसम्बन्धोऽपि वेदितव्य इत्याह –

तथेति ।

कर्तव्यतारूपसम्बन्धः इति विधिनैव वेदितव्य इति भावः । ननु अधिकारिणा विचारस्य कर्तव्यतारूपः कथं सम्बन्धः, उभयनिष्ठत्वाभावादिति चेद् ? न – कर्तृनिरूपितकर्तव्यतारूपसम्बन्धस्याश्रयतासम्बन्धेन विचारनिष्ठत्वान्निरूपकतासम्बन्धेन कर्तृनिष्ठत्वाच्चोभयनिष्ठत्वमुपपद्यत इति भावः । एवमन्यत्र योजनीयम् । इतिपदस्य पूर्वेण व्यवहितेनाप्यन्वयः । तथा च यथा साधनचतुष्टयसम्पन्नोऽधिकारीति ज्ञातुं शक्यं तथा ब्रह्मात्मैक्यं विषय इति, मुक्तिश्च फलमिति, कर्तव्यतारूपः सम्बन्ध इति, ज्ञातुं शक्यमिति भावः ।

ननूक्तसम्बन्धः ज्ञानमोक्षयोर्न सम्भवतीत्यतः प्रथमसूत्रमावश्यकमित्यत आह –

यथायोगमिति ।

ज्ञानमोक्षयोः जन्यजनकभावः सम्बन्धः । सोऽपि तरति शोकमात्मविदित्यादिश्रुत्यैव ज्ञातुं शक्यतेऽतो न सूत्रमावश्यकमिति भावः । सुबोधः अनायासेन बोद्धुं योग्य इत्यर्थः ।

तस्मादिति ।

सौत्राथादिशब्दबोधितस्याधिकार्याद्यर्थस्याधिकार्यादिप्रतिपादकश्रुतिभिरेव ज्ञातुं शक्यत्वात्सूत्रं व्यर्थमिति शङ्कितुरभिप्रायः ।

न्यायसूत्रेति ।

न्यायात्मकसूत्रेत्यर्थः ।

अनुबन्धचतुष्टये संशयमुपपादयति –

किं विवेकेति ।

विषये संशयमाह –

किं वेदान्ता इति ।

विचारविषया वेदान्ता इत्यर्थः ।

अथवा श्रोतव्य इति विधिप्रतिपादिते कर्तव्यतारूपसम्बन्धे संशयमाह –

किं वेदान्ता इति ।

संशयेति ।

श्रुत्या प्रतीतेऽप्यन्यथान्यथार्थस्य स्वस्यैव भासमानत्वाद्वादिभिर्वा प्रतिपादितत्वात्संशयानिवृत्तिरिति भावः । आपाततः स्वबुध्या वादिभिर्वा प्रयुक्ताप्रामाण्यशङ्काकलङ्कितत्वेन जायमाना या प्रतिपत्तिः संशयादिस्तद्विषयीभूतः प्रतिपन्नः स चासावधिकार्यादिश्च तस्येत्यर्थः ।

आगामिकत्वेऽपीति ।

आगमेन प्रतिपाद्यत्वेऽपीत्यर्थः ।

वाचस्पतितन्मतानुसारिणां मतं दूषयति –

येषामिति ।

वादिनां मते श्रवणं नाम आगमाचार्योपदेशजन्यं ज्ञानम् , तथा च कृत्यसाध्ये ज्ञाने विधिर्न सम्भवतीति भावः ।

नन्वविहितश्रवणे माऽस्त्वधिकार्यादिनिर्णयापेक्षा, तद्विज्ञानार्थं स गुरुमेवाभिगच्छेदिति ज्ञानार्थतया विधीयमाने गुरूपसदनेऽधिकार्यादिनिर्णयापेक्षायाः सत्त्वात्कथं सूत्रं व्यर्थम् ? इत्यत आह –

इत्यलमिति ।

इतिशब्दः शङ्कार्थकः, एतस्याः शङ्कायाः परिहारः उक्तश्चेद्ग्रन्थविस्तरो भवति तस्मादलमिति भावः । अयमाशयः – गुरूपसदनस्य श्रवणाङ्गतयाऽङ्गिश्रवणविध्यभावे गुरूपसदनविधेरभावेनाधिकार्यादिनिर्णयानपेक्षणात् सूत्रं व्यर्थमेवेति दिक् ।

ननु भगवतो वेदव्यासस्य श्रुत्यर्थे सन्देहाभावात् सूत्रकरणं व्यर्थमिति चेद् ? न – शिष्यसन्देहं निमित्तीकृत्य तेषां निश्चयार्थं सूत्राणामवश्यकरणीयत्वादित्यभिप्रेत्य श्रुतिसूत्रयोः सम्बन्धमाह –

तथा चेति ।

श्रवणविधिनाऽपेक्षितो योऽधिकार्यादिः तत्प्रतिपादिकाभिः श्रुतिभिरधिकार्याद्यर्थनिर्णयायोत्पादितत्वात्प्रयोज्यप्रयोजकभावः प्रथमसूत्रस्य श्रुत्या सह सङ्गतिरित्यर्थः । नन्वधिकार्यादिश्रुतीनां स्वार्थबोधकत्वं चेत्सर्वासां श्रुतीनां ब्रह्मबोधकत्वमिति सिद्धान्तविरोध इति चेद् ? न – शक्त्या स्वार्थबोधनद्वारा तात्पर्येण ब्रह्मबोधकत्वान्न विरोध इति भावः ।

ननु तथापि कथमस्य सूत्रस्य शास्त्राध्यायपादेषु प्रवृत्तिः सम्बन्धाभावादित्याशङ्क्य तैः सम्बन्धमाह –

शास्त्रेत्यादिना ।

तथा च एतत्सूत्रविशिष्टत्वं शास्त्राध्यायपादानां युक्तमिति भावः ।

“चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षते” इत्युपोद्घातलक्षणमुपपादयन् सूत्रस्य शास्त्रादिस्वरूपेण जन्माद्यस्य यत इति सुत्रेण सङ्गतिमाह –

शास्त्रारम्भेति ।

सूत्रार्थविचारं विना निर्णयानुदयाद् निर्णायकपदं निर्णयानुकूलविचारजनकपरम् । तथा च शास्त्रारम्भः प्रकृतः तद्धेत्वनुबन्धचतुष्टयनिश्चयानुकूलविचार एव तत्सिध्यर्थचिन्तारूपोपोद्घातः तद्धेतुत्वेन सूत्रस्योपोद्घातत्वमुपचर्यत इति भावः ।

शास्त्रादाविति ।

शास्त्रं सूत्रसन्दर्भः तस्यादिर्जन्मादिसूत्रं तस्मिन्नित्यर्थः । वर्तत इति शेषः । शास्त्रादिसङ्गतिप्रदर्शनेन शास्त्रसङ्गतिरप्युक्तैवेति भावः ।

अधिकार्यादिश्रुतिनिष्ठं यत्स्वार्थबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्रसमन्वयाध्याययोः सम्बन्धः इत्याह –

अधिकारीति ।

सूत्रस्येत्यस्यात्राप्यनुषङ्गः । तस्य सङ्गतिरित्यनेनान्वयः । अधिकार्यादिश्रुतीनां यः स्वार्थोऽधिकार्यादिः तस्मिन्नधिकार्यादिश्रुतीनां यः समन्वयोऽवान्तरतात्पर्येण बोधकत्वं तस्योक्तेः सूत्रसमन्वयाध्यायाभ्यां प्रतिपादनादित्यर्थः । अधिकार्यादिश्रुतिनिष्ठः यः स्वार्थसमन्वयः तत्प्रतिपादकत्वात्सूत्राध्याययोरिति यावत् । तथा च विवेकादिविशेषणविशिष्टोऽधिकारी, अन्यो वेत्याद्युक्तरीत्या श्रुतिप्रतिपादिताधिकार्याद्यनुबन्धचतुष्टये सन्देहं प्राप्तेऽधिकारिश्रुतेः विवेकादविशेषणविशिष्टाधिकारिबोधकत्वमेव । विषयश्रुतेः ब्रह्मात्मैक्यरूपविषयसमन्वय एवेत्येवं समन्वयप्रतिपादनार्थं प्रवृत्तयोः प्रथमसूत्राध्याययोरधिकार्यादिश्रुतिनिष्ठाधिकार्यादिसमन्वयप्रतिपादकत्वस्य सत्त्वात् प्रथमाध्यायेन प्रथमसूत्रस्य सङ्गतिरिति भावः । ननु समन्वयाध्यायेनाधिकार्यादिश्रुतिनिष्ठसमन्वयो न कुत्रापि प्रतिपाद्यतेऽतः कथमधिकार्यादिश्रुतिसमन्वयप्रतिपादकत्वमस्येति चेद् ! न – अध्यायस्थितसमन्वयसूत्रेण सर्वश्रुतीनां स्वार्थबोधकत्वप्रतिपादनद्वारा तात्पर्येण ब्रह्मसमन्वयस्य प्रतिपादनादधिकार्यादिश्रुतीनां समन्वयोऽपि तात्पर्येण प्रतिपाद्यत एव । अथवाऽध्यायसम्बन्धिजिज्ञासासूत्रेण तत्प्रतिपादनमेवाध्यायेन तत्प्रतिपादनमित्यङ्गीकारान्न पूर्वोक्तदोषः । तथा चाधिकार्यादिश्रुतिनिष्ठमवान्तरतात्पर्येण स्वार्थबोधकत्वद्वारा महातात्पर्येण यद्ब्रह्मबोधकत्वं तद्रूपैकार्थप्रतिपादकत्वं सूत्राध्याययोः सम्बन्ध इति प्रथमाध्याये जिज्ञासासूत्रस्य प्रवेश इति निष्कृष्टोऽर्थः । एवमेव पादसङ्गतावप्यूहनीयम् ।

स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठस्वार्थबोधकत्वरूपैकार्थप्रतिपादकत्वं सूत्रप्रथमपादयोः सङ्गतिरित्याह –

ऐतदात्म्यमिति ।

अध्यायसम्बन्धवैलक्षण्याय द्वितीयादिपादवैलक्षण्याय च श्रुतीनां स्पष्टब्रह्मलिङ्गत्वविशेषणम् । विषयादावित्यत्रादिशब्देन प्रयोजनादिकं बोध्यते । प्रथमसूत्रप्रथमपादयोः स्पष्टब्रह्मलिङ्गकश्रुतिनिष्ठविषयादिसमन्वयप्रतिपादकत्वात्सूत्रस्य पादेन सह सङ्गतिरिति भावः ।

ननु प्रथमसूत्रस्य श्रुत्या सहोक्तसम्बन्धोऽस्तु को वेतरेषां सूत्राणां सम्बन्ध इत्यत आह –

एवमिति ।

तथेत्यर्थः । यथा प्रथमसूत्रस्याधिकार्यादिश्रुतिभिः प्रयोज्यप्रयोजकभावः सम्बन्धः तथेतरेषां तत्तत्सूत्राणां प्रयोज्यप्रयोजकभावः सम्बन्ध इति भावः ।

नन्वध्यायादौ प्रथमसूत्रस्य कथमितरसूत्राणामध्याये प्रवेशः, सम्बन्धाभावादित्यत आह –

तत्तदिति ।

सूत्राणामित्यस्यात्रानुषङ्गः कर्तव्यस्तेषां सङ्गतिरूहनीयेत्यनेनान्वयः शास्त्रपदस्याप्यनुषङ्गः, तथा च तत्तत्सूत्रस्य शास्त्रेण तत्तदध्यायेन तत्तत्पादेन च सहैकविषयत्वात्सङ्गतिरूहनीयेति भावः ।

शास्त्राध्यायपादानां किं तत्प्रमेयमित्याकाङ्क्षायां क्रमेण तन्निरूपयति –

प्रमेयमिति ।

सम्पूर्णशास्त्रेण प्रतिपाद्यं ब्रह्मैवेति भावः ।

शास्त्रस्याध्यायचतुष्टयात्मकत्वेनाध्यायभेदकं तदवान्तरप्रमेयमाह –

अध्यायानामिति ।

फलानीत्यस्य पूर्वेण प्रमेयमित्यनेनान्वयः, प्रथमाध्यायस्य समन्वयः प्रमेयम् , द्वितीयाध्यायस्याविरोधः प्रमेयमित्येवं वाक्ययोजना । तथा चाध्यायैः समन्वयादिकं प्रतिपाद्यत इति भावः ।

अध्यायस्य पादचतुष्टयात्मकत्वेन पादभेदकं प्रमेयमाह -

तत्रेति ।

प्रथमाध्याय इत्यर्थः । प्रमेयं विषय इत्यर्थः ।

द्वितीयतृतीयपादयोः प्रायेण सविशेषनिर्विशेषब्रह्मप्रतिपादकत्वात्परस्परं भेद इत्यभिप्रेत्य प्रमेयं निरूपयति –

द्वितीयेति ।

अस्पष्टब्रह्मलिङ्गानां समन्वयः प्रमेयमित्यर्थः ।

वेदान्तेति ।

वेदान्तविषयकपूजितविचारात्मकशास्त्रमित्यर्थः । विषय उद्देश्यमित्यर्थः ।

विषयप्रयोजनेति ।

नन्वधिकारिसम्बन्धसम्भवासम्भवाभ्यामप्यधिकरणं रच्यताम् ; किं विषयप्रयोजनसम्भवासम्भवाभ्यामेव, चतुर्णां प्रसक्तेस्तुल्यत्वादिति चेद् ? न – तृतीयचतुर्थवर्णकयोरधिकारिसम्बन्धसम्भवासम्भवाभ्यामधिकरणस्य निरूपणीयत्वान्नात्र प्रथमवर्णके ताभ्यामधिकरणं रच्यते । न च विनिगमनाविरह इति वाच्यम् ? प्रयोजनस्य प्रथममाकाङ्क्षितत्वेन मुख्यत्वात्तत्सिद्धेः विषयसिद्धिमन्तरा निरूपयितुमशक्यत्वाद्विषयप्रयोजने पुरस्कृत्याधिकरणं रच्यत इति भावः ।

ब्रह्मात्मना ऐक्यशून्यौ विरुद्धधर्मवत्वाद्दहनतुहिनवदित्यनुमानमभिप्रेत्य पूर्वपक्षयति -

अत्रेति ।

नाहं ब्रह्मेति प्रत्यक्षस्याहमंशे विशिष्टविषयकत्वेन विशिष्टत्वेन रूपेणात्मनः ब्रह्मैक्यानङ्गीकारेण प्रत्यक्षविरोधाभावादुक्तानुमानस्य सत्प्रतिपक्षत्वादिदोषग्रस्तत्वाद्बन्धस्याध्यस्तत्वाच्च विषयप्रयोजनसिद्धिरिति सिद्धान्तसूत्रं पठति –

सिद्धान्त इति ।

सत्प्रतिपक्षानुमानमनुपदं वक्ष्यते ।

नन्वस्य सूत्रस्य कथं श्रोतव्य इति श्रुतिमूलकत्वं भिन्नार्थकत्वादित्यत आह –

अत्रेति ।

इदमुपलक्षणं पुरुषप्रवृत्तिसिद्ध्यनुवादपरिहारयोः । तथा च विधिसमानार्थत्वायानुवादपरिहाराय च शास्त्रे पुरुषप्रवृत्तिसिद्धये च सूत्रे कर्तव्येति पदमध्याहर्तव्यमिति भावः ।

कर्तव्यपदाध्याहारे श्रीभाष्यकारसम्मतिमाह –

अध्याहर्तव्यमिति ।

मिश्रमतानुसारिणस्तु - श्रुतिसूत्रयोरैक्यरूपनियमाभावं, विषयप्रयोजनज्ञानादेव पुरुषप्रवृत्तिसिद्धिं, श्रवणे विध्यसम्भवं च मन्वानाः कर्तव्यपदं नाध्याहर्तव्यमिति वदन्ति । तन्मते साधनचतुष्टयसम्पत्त्यनन्तरं ब्रह्मजिज्ञासेच्छा भवति, कर्मफलस्यानित्यत्वाद् ब्रह्मज्ञानात्परमपुरुषार्थश्रवणाच्चेति श्रौतोऽर्थः । ज्ञानस्य विचारसाध्यत्वात् विचारकर्तव्यताऽर्थिकैवेति । अत्र विचारानारम्भवादिनः उपायान्तरसाध्या मुक्तिरिति फलमिति ज्ञेयम् ।

ननु कर्तव्यत्वं कृतिसाध्यत्वं, तथा च ज्ञानेच्छयोः कृत्यसाध्यत्वेन कर्तव्यत्वस्यानन्वयात्कर्तव्यपदं कथमध्याहर्तव्यमतः श्रुतिरूपमूलप्रमाणरहितत्वेनेदं सूत्रप्रमाणमित्याशङ्कां सङ्ग्रहेणोद्घाट्य परिहरति -

तत्रेति ।

सूत्रेऽध्याहारेऽवश्यकर्तव्ये सतीत्यर्थः । ज्ञाऽवबोधन इति धातुः प्रकृतिः, प्रत्ययः सन्प्रत्यय इति विवेकः ।

फलीभूतमिति ।

अज्ञाननिवृत्तिरूपफलसाधनत्वेन फलीभूतमित्यर्थः ।

अजहदिति ।

वाच्यार्थस्य ज्ञानस्यात्यागादजहल्लक्षणेति भावः ।

ननु तथाऽप्युक्तदोषतादवस्थ्यमित्यत आह –

प्रत्ययेनेति ।

शक्यसम्बन्धिनी लक्षणेति ज्ञानार्थं इच्छासाध्यपदम् । वाच्यार्थेच्छायाः परित्यागाज्जहल्लक्षणेति भावः । श्रौतोऽर्थः व्यङ्ग्यार्थाद्भिन्नोऽर्थः लाक्षणिकार्थ इति यावत् । सौत्राथशब्देन विशिष्टाधिकारी बोध्यते । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य श्रौतोऽर्थः । मोक्षेच्छाया अधिकारिविशेषणत्वेन तद्द्वाराऽधिकारिविशेषणीभूतो यो मोक्षस्तत्साधनं ब्रह्मज्ञानमित्यर्थात्सिद्ध्यति । अस्ति तावद्वेदान्तवाक्यसान्निध्यं श्रवणविधेः विधिसमानार्थकत्वेन सूत्रस्यापि तत्सान्निध्यमस्तीत्यतः वेदान्तवाक्यैरद्वैतात्मविचारः सिद्ध्यति । तथा च साधनचतुष्टयसम्पन्नेनाधिकारिणा मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यैरद्वैतात्मविचारः कर्तव्य इति सूत्रस्य तात्पर्येण प्रतिपाद्योऽर्थः । ननु विचारलक्षणायैव कर्तव्यपदस्यान्वयासम्भवादप्रमाणिकी ज्ञानलक्षणेति चेद् ? न – ज्ञानलक्षणानङ्गीकारे ज्ञानस्य सुखप्राप्तिदुःखनिवृत्त्यन्तररूपत्वाभावेन स्वतः पुरुषार्थत्वायोगाद् ज्ञानाय विचारः किमर्थ इति विचारलक्षणाया अप्यप्रयोजकत्वेनानावश्यकत्वादन्वयानुपपत्तेस्तादवस्थ्यमित्याशङ्कां वारयितुं ज्ञानेऽपि लक्षणायाः स्वीकार्यत्वात् ।

ननु तथापि ज्ञानस्य स्वतः फलत्वायोगो दुर्वार इत्याक्षेपे तदयोगं सूचयन् ज्ञानस्य फलत्वं सूत्रतात्पर्यार्थकथनव्याजेन विवृणोति –

तत्रेति ।

सूत्रज्ञानपदस्य लक्षणाङ्गीकार इत्यर्थः । ब्रह्मज्ञानस्य इच्छाविषयत्वात्पुरुषार्थरूपफलत्वं प्रतीयते प्रतीयमानस्य फलत्वस्य स्वरूपेणायोगात्फलसाधनत्वेनैव तत् वक्तव्यं तत्साध्यफलं किमित्याकाङ्क्षायाम् अथशब्दोपात्ताधिकारिविशेषणीभूतोऽनर्थनिवृत्तिरूपो मोक्षः फलत्वेन सम्बध्यते । यथा – स्वर्गकामो यजेतेत्यत्र अधिकारिविशेषणीभूतः स्वर्गः फलत्वेन सम्बध्यते तद्वत् । अतः फलीभूतमोक्षसाधनत्वेन ब्रह्मज्ञानस्य फलत्वं युज्यत इति ज्ञानाय विचारो युक्त इति भावः ।

हेतूक्तिद्वारा अनर्थनिवर्तकत्वमुपपादयति –

तत्रानर्थस्येति ।

अध्यस्तत्वं मिथ्यात्वम् । ननु बन्धस्य सत्यत्वमेवास्तु मास्तु ज्ञानमात्रनिवृत्तिरिति चेन्न । श्रुतिसूत्रविद्वदनुभवानां विरोधात् । तस्मात् तदज्ञाननिष्ठानर्थनिवर्तकत्वेन बन्धस्याध्यस्तत्वं सिद्धमिति भावः ।

नन्वेदं सर्वमितिचित्रतुल्यत्वेनानुपपन्नं शक्त्या लक्षणया वाऽध्यस्तत्वस्य सूत्रेणाप्रतिपादनादित्यत आह –

इति बन्धस्येति ।

इति शब्दो हेत्वर्थकः । सौत्रज्ञाननिष्ठनिवर्तकान्यथानुपपत्तिप्रमाणबलादित्यर्थः । अर्थात् सूत्रव्यङ्ग्यार्थतया सूत्रेणैव प्रतिपादितमित्यर्थः ।

अस्तु वा फलीभूतज्ञानविचारयोर्लक्षणा तथापि विषयप्रयोजनसिद्ध्यभावादनारम्भणीयत्वदोषो दुर्वार इत्यत आह –

तच्चेति ।

ननु कथं प्रतिज्ञामात्रेणार्थसिद्धिरित्यत आह –

तथाहीति ।

भोजनस्यान्नादिर्विषयः क्षुन्निवृत्तिः प्रयोजनमिति विवेकः ।

शास्त्रमिति ।

ननु पक्षे हेत्वसिद्धिशङ्कायास्तुल्यत्वात् हेतौ प्रथमोपस्थितत्वाच्च विषय एव साधनीयः कथं प्रयोजनं प्रथमतः साध्यते । न च प्रयोजनान्यथानुपपत्त्या सिद्धस्य विषयस्य प्रयोजनसाधनमन्तरा साधयितुमशक्यत्वात् प्रथमं प्रयोजनं साधयतीति वाच्यम् । विषयस्य प्रयोजनापेक्षा यथा तद्वदस्त्येव प्रयोजनस्याऽपि विषयापेक्षा स्वाज्ञानद्वारा विषयस्यापि प्रयोजनं प्रति हेतुत्वात् तथा प्रथमोपस्थितत्वेन प्रथमं विषयस्यैव निरूपयितुमुचितत्वात्कथं प्रयोजनं निरूप्यत इति चेत् , अत्रोच्यते – प्रयोजनं विषयापेक्षया अभ्यर्हितत्वात्प्रथमं निरूप्यत इति । तथा च जीवगतानर्थनिवृत्त्यात्मकप्रयोजनरूपकार्यान्यथानुपपत्त्या कारणीभूतविषयसिद्धिरिति समुदायग्रन्थार्थः ।

रज्जुविषयकाज्ञानरूपकारणसहितः सर्पज्ञानजनितभयकम्पादिरूपोऽनर्थः बन्धः तस्य निवर्तकं नायं सर्पः किन्तु रज्जुरेवेति विशेषदर्शनात्मकं यज्ज्ञानं तद्धेतुत्वं वर्तत इति दृष्टान्ते हेतुसमन्वयः । ज्ञाने बन्धनिवर्तकत्वरूपविशेषणं कथमित्याशङ्कायां पूर्वोक्तानुमानेन साधयति –

बन्ध इति ।

बन्धस्य ज्ञाननिवर्त्यत्वे साधिते हि ज्ञानमर्थाद्बन्धनिवर्तकं भवति तथा च बन्धनिवर्तकत्वाध्यस्तत्वयोः ज्ञप्तौ कार्यकारणभावः न स्वरूप इति भावः ।

न केवलमध्यस्तत्वमेवार्थात् तत्सूत्रितं किन्तु विषयप्रयोजनद्वयमपीहीत्याह –

एवमिति ।

उक्तेन प्रकरणेत्यर्थः ।

अर्थादिति ।

यदध्यस्तं तज्ज्ञानमात्रनिवर्त्यमिति व्याप्तिविषयकानुमानप्रमाणबलादित्यर्थः ।

ईश्वर ह्यज्ञाने सत्यपि जीवगत एवानर्थ इत्याह –

जीवेति ।

जीवगतः अनर्थरूपो यो भ्रमः कारणसहितकर्तृत्वादिबन्धः तन्निवृत्तिरूपं फलमित्यर्थः ।

ननु यद्विषकमज्ञानं तद्विषयकज्ञानेनैव निवर्त्यमिति ज्ञानाज्ञानयोः समानविषयकत्वनियमेनान्यज्ञानादन्यविषयकाज्ञाननिवृत्तेरयोगात् कथं ब्रह्मज्ञानाद्ब्रह्मभिन्नजीवगताध्यासात्मकतूलाज्ञाननिवृत्तिरित्याशङ्क्याभेदोऽपि सूत्रित इत्याह –

जीवब्रह्मणोरिति ।

अर्थादिति ।

ब्रह्माभेदसाध्यकाध्यासाश्रयत्वहेतुकानुमानबलादित्यर्थः । यद्यपि जीवो नाम विशिष्टः तद्गतमध्यासात्मकतूलाज्ञानं तद्धेतुको बन्धश्च तद्गत एव तथापि स एव जीवः शोधितश्चेत् प्रत्यक्स्वरूपत्वेन ब्रह्माभिन्न इति तदभेदस्तस्माद्विशेष्यांशमादाय समानविषयकत्वं सम्भवतीति भावः ।

पूर्ववाद्यनुमानस्य सत्प्रतिपक्षानुमानं रचयति –

जीव इति ।

विशिष्टे ब्रह्माभेदस्यासम्भवादन्तःकरणातिरिक्तो जीवः पक्ष इत्यर्थः । प्रबलश्रुतिमूलकत्वादिदमनुमानं प्रबलमिति भावः । अध्यासाश्रयत्वादध्यासाधिष्ठानत्वादित्यर्थः । शुद्धस्यात्मनः अध्यासाश्रयत्वाभावेऽपि तदधिष्ठानत्वमप्रतिहतमिति भावः ।
सत्यज्ञानसुखात्मा केनायं शोकसागरे मग्नः ॥
इत्यालोच्य यतीन्द्रः प्रागध्यासं प्रदर्शयामास ॥ १ ॥

यत् यत् ज्ञाननिवर्त्याध्यासाश्रयः तत्तदभिन्नमिति सामान्यव्याप्तिं प्रदर्शयति –

यदिति ।

इत्थं यदज्ञाननिवर्त्याध्यासाश्रय इत्यर्थः । तथा तदभिन्नमित्यर्थः ।

इदमंशः श्रुतिज्ञाननिवर्त्याध्यासाश्रयत्वाच्छुक्त्यभिन्न इति विशेषे सामान्यव्याप्तेः पर्यवसानमाह –

यथेति ।

हेतुः हेतुप्रविष्टत्वेन हेतुरित्यर्थः ।

उपायेति ।

केवलकर्मणो वा ज्ञानकर्मसमुच्चयाद्वा षोडशपदार्थज्ञानाद्वा साध्या मुक्तिरिति भावः ।

पूर्वोक्तमुपसंहरन् भाष्यमवतारयति -

एतदिति ।

जीवस्य ब्रह्मत्वबोधकानि सूत्राणि ब्रह्मसूत्राणि भगवान् भाष्यकारोऽध्यासं वर्णयतीति क्रियाकारकयोजना ।

ननु सूत्रेण प्रथमप्रतिपन्नं प्रतिपाद्यं श्रौतार्थमुल्लङ्घ्य चरमप्रतिपन्नमार्थिकार्थमेव श्रीभाष्यकारः प्रथमं किमिति वर्णयतीत्यत आह –

सूत्रेणेति ।

सूत्रेण लक्षिता या विचारकर्तव्यता तद्रूपश्रौताऽर्थस्यान्यथानुपपत्तिर्नाम विना विषयप्रयोजने कर्तव्यता न सम्भवतीत्याकारिका तयेत्यर्थः ।

श्रौतार्थो नामार्थिकार्थाद्भिन्नोऽर्थः –

अर्थादिति ।

अर्थात्सूत्रितत्वं नामार्थिकार्थतया सूत्रेण प्रतिपादितत्वम् । विषयश्च प्रयोजनं च ते अस्य स्त इति विषयप्रयोजनवच्छास्त्रं तद्वतो भावं तद्वत्त्वं विषयप्रयोजनद्वयवदिति यावत् । सूत्रितं च तद्विषयप्रयोजनवत्त्वं च तस्येति विग्रहः । उपोद्घातत्वादुपोद्घातविषयत्वेनोपोद्घातत्वादित्यर्थः । अत्र विवरणाचार्याः प्रतिपाद्यमर्थं बुद्धौ सङ्गृह्य प्रागेव तदर्थमर्थान्तरवर्णनमुपोद्घातसङ्गतिरिति उपोद्घातलक्षणं वदन्ति । वर्णनं चिन्तेत्यर्थः । तथा च विषयप्रयोजनद्वयस्य प्रतिपाद्यविचारकर्तव्यतासिद्ध्यर्थचिन्ताविषयत्वादुपोद्घातत्वमुपचर्यत इति भावः । तस्योपोद्घातसङ्गत्या अवश्यं निरूपणीयस्य विषयप्रयोजनद्वयस्य सिद्धिः तत्सिद्धिः ।

आर्थिकार्थेति ।

व्यङ्ग्यार्थभूतविषयप्रयोजनद्वयसिद्धिहेत्वध्यासप्रतिपादकत्वादित्यर्थः ।

भाष्यमिति ।

सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्णन्ते भाष्यं ’भाष्यविदो विदुः’ ॥
इति भाष्यलक्षणम् । यत्रार्थो वर्ण्यते तद्भाष्यमित्युक्ते सागरगिरिवर्णनस्यापि भाष्यत्वप्रसङ्गस्तद्व्यावृत्त्यर्थं सूत्रपदम् । “अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखमि”त्यादिविशेषणविशिष्टं सङ्ग्रहवाक्यं सूत्रशब्दार्थः, तथा च श्रुतिस्मृत्योः सूत्रत्वसम्भवाच्छ्रुतिस्मृतिसूत्राणां यद्भाष्यं तत्साधारणमिदं लक्षणं भवति । गिरिनदीप्रतिपादककाव्ये सङ्ग्रहवाक्यत्वाभावान्न सूत्रत्वमिति न भाष्यलक्षणस्यातिव्याप्तिरिति भावः । वार्तिकव्यावृत्त्यर्थं सूत्रानुकारिभिरिति, वार्तिके सूत्रप्रतिकूलवर्णनस्यापि सम्भवात्तद्व्यावृत्तिर्बोध्या । वृत्तिव्यावृत्त्यर्थं स्वपदानीत्युक्तम् ।
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनं हरिः ॥
इति स्मृतेः ।

विशिष्टाचारपरिपालनाय विघ्नोपशमनाय च विशिष्टेष्टदेवतातत्त्वानुस्मरणलक्षणं मङ्गलं ग्रन्थकरणरूपकार्यारम्भसमये कृतं श्रीभाष्यकारेणेत्यभिप्रेत्य दूषयति –

तन्नेति ॥

सर्वोपप्लवरहितस्य निरस्तसमस्तदुरितस्येत्यर्थः । विज्ञानघनत्वं चैतन्यैकतानत्वं प्रत्यक्पदस्यार्थस्याध्यासप्रमाणग्रन्थे वक्ष्यते ।

स्मृतत्वादिति ।

वाक्यरचनायामर्थबोधस्य हेतुत्वेन वाक्यार्थस्य स्मृतत्वादित्यर्थः । युष्मदस्मदित्यादिसुतरामितरेतरभावानुपपत्तिरित्यन्तभाष्यमेव मङ्गलाचरणे प्रमाणम् । तथा च निरस्तसमस्तोपप्लवं चैतन्यैकतानमभेदेन प्रतिपाद्यमानस्य श्रीभाष्यकृतः कुतः शिष्टाचारोल्लङ्घनदोषः तस्मादग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः इति भावः । ननु विशिष्टेष्टदेवतातत्त्वमनुस्मर्यते चेत्तर्हि तदेव भाष्ये प्रतिपादनीयं तत्तु न प्रतिपाद्यते किन्त्वध्यासाभावस्तस्मान्न तत्त्वस्मृतिरिति चेन्न । अध्यासाभावप्रतिपादनायैव प्रत्यक्तत्वस्य स्मृतत्वात् । न चान्यार्थं तत्त्वानुस्मरणं कार्यकारीति वाच्यम् । अन्यार्थमपि देवतानुस्मरणं स्वभावादेव विघ्नोपप्लवं दहति धूमार्थो वह्निस्तृणादिकमिवेति प्रसिद्धत्वात् । न च प्राथमिकेनास्मत्पदेनैव प्रत्यगात्मनः स्मृतत्वात् किमनुपपत्तिपर्यन्तग्रहणमिति वाच्यम् । प्रत्यक्त्वप्रत्ययत्वविषयित्वधर्मभेदेन अनेकधा प्रत्यगर्थोऽनुस्मर्यत इति द्योतनार्थत्वात्तथा च दार्ढ्याय तदन्तं ग्रहणमावश्यकमिति भावः ॥

नन्वात्मानात्मनोरध्यासस्य काराणाभावेन निरूपयितुमशक्यत्वात्कथमार्थिकत्वम् , अतो येन विषयप्रयोजनसिद्धिरित्यध्यासपूर्वपक्षभाष्यमवतारयन् प्रथमतः कारणाभावं निरूपयति –

लोक इति ।

हट्टपट्टणादिस्थितं रजतं सत्यरजतं तस्मिन्नित्यर्थः । इदम्पदार्थः अधिष्ठानसामान्यम् आरोप्यविशेषो रजतं इदम्पदार्थस्य रजतस्य च भ्रमविषयत्वज्ञापनायाधिष्ठानसामान्यत्वेनारोप्यविशेषत्वेन च ग्रहणमिति भावः । आहितः जनित इत्यर्थः ।

नन्वात्मानात्मनोरध्यासेप्युक्तसंस्कारः कारणं स्यादित्यत आह –

इत्यत्रेति ।

भाष्यगर्भितमनुमानं स्फोरयति –

तथाहीति ।

भाष्ये शेषपूर्त्या पक्षांशः इतरेतरभावानुपपत्तावित्यनेन साध्यांशो बोध्यत इत्यभिप्रेत्याह -

आत्मेति ।

विरुद्धस्वभावत्वं नाम विरुद्धत्वमेव विरुद्धत्वं च विरोधः विरोधो नाम परस्परैक्यायोग्यत्वमित्यभिप्रेत्य विरुद्धस्वभावयोरिति भाष्यफलितार्थमाह –

परस्परेति ।

अनुमानान्तरस्येदमनुमानमुपलक्षणं तथा चात्मानात्मानौ तादात्म्यशून्यौ परस्परतादात्म्यायोग्यत्वात्तमःप्रकाशवदिति भावः ।

आत्मानात्मनोः कथं विरोधः इत्याशङ्कां वारयितुं युष्मदस्मदित्यादिविशेषणं प्रवृत्तमित्याशयं स्फुटीकरोति –

हेत्विति ।

ऐक्यायोग्यत्वं न विरोधहेतुः किन्तु तदेव विरोध इति ज्ञापयितु हेतुभूतमित्युक्तम् । वस्तुतः स्वभावत इत्यर्थः प्रत्यक्पराग्भावत इति यावत् । प्रतीतितः प्रकाश्यप्रकाशत्वत इत्यर्थः । व्यवहारतः ज्ञानरूपव्यवहारत इत्यर्थः । अहं कर्त्ताहं ब्रह्मेति परस्परभिन्नं यत् ज्ञानं तद्विषयत्वत इति यावत् । वृद्धमतोक्तप्रथमविग्रहानुसारेणायं त्रिधा विरोधो योजनीयः, इतरविग्रहेषु त्रिधा विरोधस्यासम्भवादिति भावः ।

बुद्धिस्थस्योपेक्षानर्हत्वं प्रसङ्गसङ्गतिस्तया प्रयोगासाधुत्वमाशङ्क्य निषेधति –

न चेत्यादिना ।

सूत्रेण व्याकरणसूत्रेणेत्यर्थः परतः परे सतीत्यर्थः । युष्मच्छब्दस्य यन्मपर्यन्तं तस्य त्वेत्यादेशः अस्मच्छब्दस्य यन्मपर्यन्तस्य मेत्यादेशः प्राप्नोतीति भावः ।

सौत्रसप्तमीद्विवचनान्तपदं पृथगन्वयत्वेन व्याख्याय क्रमेण पृथगुदाहरणं दर्शयति –

त्वदीयमिति ।

तव इदं त्वदीयं धनमिति शेषः त्वदीयमित्युदाहरणे प्रत्ययपरत्वमस्ति प्रत्ययस्तु छप्रत्ययः छस्येयादेशः प्राप्नोति तथा च युष्मत् – इयेति स्थिते मपर्यन्तस्य त्वेत्यादेशे प्राप्ते शत्रुवदादेश इत्यभियुक्तव्यवहारेण वर्णादर्शनप्राप्तेः त्वत् इयेति स्थिते सुप्रत्ययविधानानन्तरं सहोच्चारणेन त्वदीयमिति रूपनिष्पत्तिः । एवं मदीयमित्यत्र अस्मत्पुत्र इति स्थिते पुत्रपदस्य उत्तरपदत्वं परत्वं च विज्ञेयम् । तथा च युष्मदस्मदित्यादिभाष्ये उत्तरपदस्य परत्वसत्त्वात् त्वन्मत्प्रत्ययगोचरयोरिति स्यादिति भावः ।

त्वमाविति ।

यदा युष्मदस्मत्पदयोः प्रत्येकमकार्थवाचित्वं तदा प्रत्यये चोत्तरपदे च परे सति मपर्यन्तस्य त्वमावित्यादेशौ स्त इति व्याकरणसूत्रस्यार्थः ।

ननु युष्मदर्थस्य बहुत्वेऽपि प्रत्यगात्मनः एकत्वेनास्मदर्थैकत्वादस्मत्पदस्य मपर्यन्तस्य मेत्यादेशः स्यादित्यत आह –

अस्मदर्थेति ।

नन्वस्मच्छब्दः पूर्वं प्रयोक्तव्यः एकशेषश्च स्यादिति प्राप्तं दूषणद्वयं किमिति नोद्घाट्य परिहृतमिति चेन्न । आश्रमश्रीचरणमतनिरूपणे अस्य दूषणद्वयस्य परिहरिष्यमाणत्वादत्रोद्घाट्य न परिहृतमिति भावः ।

एवं स्वमतानुसारेण प्रयोगं साधयित्वा स्वमतानुसारिव्याख्यानं स्फुटीकर्तुं शङ्कामवतारयति –

नन्वेवं सतीति ।

विरोधं साधयतीति प्रतिज्ञाय बहुत्वाङ्गीकरे सतीत्यर्थः । समासादिरूपवृत्त्यर्थप्रतिपादकं वाक्यं विग्रहः ।

यूयमितीति ।

युष्मच्छब्दोल्लिख्यमानप्रत्ययः युष्मत्प्रत्यय इत्यर्थः । यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इति वृद्धव्यवहारानुसार्यलौकिकोऽयं विग्रहः लौकिकस्त्वसाधुः । यदि युष्मच्चास्मच्च युष्मदस्मदी तयोः प्रत्ययः युष्मत्प्रत्ययोऽस्मत्प्रत्ययश्चेति लौकिकविग्रह एव स्यदित्युच्येत, तदा युष्मदस्मत्पदयोर्बह्वर्थवाचित्वपक्षे युष्मच्चास्मच्चेति विग्रह एवानुपपन्नस्स्यात्तयोरेकार्थवाचित्वाभावात्तस्मादलौकिकोयं विग्रहः । ननु विग्रहो द्विविधः लौकिकोऽलौकिकश्चेति अलौकिकत्वमरूपपरिनिष्ठितत्वं रूपादिनिष्पत्त्यर्थं प्रयुक्तत्वमिति यावत् । तथाहि राजपुरुष इत्यत्र राज्ञः पुरुष इति लौकिकोयं विग्रहः राजन् ङस् पुरुष सु इत्यलौकिकोयं विग्रहः, तथा च यूयं प्रत्यय इति कथमलौकिकविग्रहः तस्य यूयमिति सिद्धरूपबोधकत्वेन रूपनिष्पत्त्यर्थं प्रयुक्तवाक्यत्वाभावादिति चेन्न । लौकिकविग्रहभिन्नं वाक्यान्तरमेवात्रालौकिकविग्रह इति विवक्षितत्वात् अलौकिकस्त्वेवं साधनीयः, तथाहि युष्मच्छब्दस्य युष्मच्छब्दोल्लेखिनी लक्षणा अस्मच्छब्दस्यास्मच्छब्दोल्लेखिनी लक्षणा तथाच युष्मच्छब्दोल्लेखी चास्मच्छब्दोल्लेखी च युष्मच्छब्दोल्लेख्यस्मच्छब्दोल्लेखिनौ प्रत्ययश्च प्रत्ययश्च प्रत्ययौ उल्लेखिनौ च तौ प्रत्ययौ च तयोर्गोचरौ च तयोरिति विग्रहो द्रष्टव्यः । यद्यपि लक्षणाङ्गीकरपक्षे युष्मच्चास्मच्च युष्मदस्मदी युष्मदस्मदी च तौ प्रत्ययौ चेति विग्रहः साधुरेव तथापि उल्लेखिपदविशिष्टत्वेन विग्रहप्रतिपादनं वाक्यान्तराभिप्रायेणेति विवेकः । केचित्तु देव इति बुद्धिः देवबुद्धिरितिवत् युष्मदस्मदी इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति भाष्ये विग्रहः । तत्र युष्मदस्मदी इति प्रत्ययावित्यनेन युष्मत्प्रत्ययोस्मत्प्रत्यय इति प्राप्ते युष्मत्प्रत्यय इत्यस्य यूयमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरम् , अस्मत्प्रत्यय इत्यस्य वयमिति प्रत्यय इति अर्थबोधकं वाक्यान्तरमित्यभिप्रायेण यूयमिति प्रत्ययो युष्मत्प्रत्ययः वयमिति प्रत्ययोऽस्मत्प्रत्यय इत्याख्यातमित्याहुः । शब्दो विग्रह इत्यर्थः । विग्रहप्रतिपादितार्थः विषयत्वमित्यर्थः ।

विशिष्टचेतन एव युष्मच्छब्दप्रयोगो दृश्यते त्वं गच्छागच्छेति गेमनादेः सम्भवान्नाचेतनाहङ्कारादौ केवले तदसम्भवादित्यर्थासाधुत्वं विवृणोति -

नहीति ।

इदमुपलक्षणम् , वयमिति प्रत्ययविषयत्वमात्मन्यपि नास्तीति द्रष्टव्यम् । तथा च उभयत्र विषयत्वं नास्तीति शङ्कितुरभिप्रायः ।

अहङ्करविशिष्टचेतने भासमानत्वरूपं प्रत्ययविषयत्वं मुख्यं केवलाहङ्कारादौ गौणं तथा चाऽहङ्कारादौ भासमानत्वरूपमुख्यविषयत्वाभावेपि भासमानत्वरूपगौणविषयत्वमादाय साधुत्वमस्तीति परिहरति –

न गोचरेति ।

योग्यता गौणविषयतेत्यर्थः । अहङ्काराद्यनात्मा युष्मत्प्रत्यययोग्यः युष्मत्प्रत्ययप्रयुक्तसंशयादिनिवृत्तफलभाक्त्वात् चैतन्यांशवद्व्यतिरेकेण घटवद्वेति प्रयोगः ।

नन्वहङ्कारादिवच्चिदात्मापि युष्मत्प्रत्यययोग्यः युष्मच्छब्दस्याहङ्कारादिविशिष्टचेतनवाचित्वेन विशिष्टनिष्ठविषयत्वस्य विशेषणांश इव विशेष्यांशेपिसत्त्वादयो व्यावर्तकधर्माभावात्कथमात्मानात्मनोर्विरोध इति चेन्न । अनात्मनः सकाशादत्यन्तभेदसिद्ध्यर्थं चिदात्मनस्तावदस्मत्प्रत्यययोग्यत्वमेव विवक्षते न युष्मत्प्रत्यययोग्यत्वमित्येतद्ग्रन्थकर्तुराशयादित्येतत्सर्वं हृदि निधायाऽनया रित्या चिदात्मनः गौणविषयत्वरूपमस्मत्प्रत्यययोग्यत्वं पूर्वपक्षेप्यनात्मनिष्ठविषयत्वशङ्कोत्थानज्ञापनाय कण्ठोक्त्या साधयति –

चिदात्मेति ।

योग्यं गौणविषय इत्यर्थः ।

गुणमाह –

तत्प्रयुक्तेति ।

अस्मत्प्रत्ययप्रयुक्तं संशयादिनिवृत्तिरूपं यत्फलं तदाश्रयत्वादित्यर्थः, आदिशब्देनाहं नास्मीति विपर्ययो गृह्यते तदा चात्मनः अहमिति सर्वदा भासमानत्वादहमस्मि न वेति संशयाभावः सति निश्चये संशयाद्ययोगादतो निवृत्तिफलभाक्त्वमात्मनोऽस्तीति भावः । केवलाहङ्कारो वा व्यतिरेकेण घटो वात्र दृष्टान्तः ।

आत्मनः गौणविषयत्वे भाष्योक्तिमपि प्रमाणयति –

न तावदिति ।

एकान्तपदं नियमार्थकं विषयत्वाद्भासमानत्वादित्यर्थः । इदंविषयत्वमहङ्कारादविशिष्टचेतने मुख्यं आत्मादौ तु गौणमिति विवेकः ।

ननु विशेष्यस्यास्मत्प्रत्यययोग्यत्वे विशेषणाहङ्कारादेरप्यस्मत्प्रत्यययोग्यत्वेन, आत्मनोर्व्यावर्तकधर्माभावात्कथमत्यन्तभेदसिद्धिरित्याशङ्कामनूद्य परिहरति –

यद्यपीति ।

अत्यन्तभेदासाध्यर्थमहङ्काराद्यनात्मनः युष्मत्प्रत्यययोग्यत्वमेवाङ्गीक्रियते नास्मत्प्रत्यययोग्यत्वं भेदासिद्धेरिति भावः । ननु तथाप्यत्र योग्यता वर्तते अत्र नास्तीत्येतान्नियामकमात्मव्यावृत्तमनात्मनिष्ठं युष्मत्प्रत्यययोग्यतावच्छेदकं किञ्चिद्वक्तव्यम् , तथा अनात्मव्यावृत्तमात्मनिष्ठमस्मत्प्रत्यययोग्यतावच्छेदकम् किञ्चिद्वक्तव्यमिति चेत् । उच्यते । युष्मदर्थाहङ्कारादिभिन्नार्थत्वमेवास्मत्प्रत्यययोग्यतावच्छेदकमस्मदर्थचिदात्मभिन्नार्थत्वमेव युष्मत्प्रत्यययोग्यतायामवच्छेदकमित्येवमत्यन्तभेदसिद्ध्यर्थं वेदितव्यमिति दिक् ।

अहङ्कारादिदेहान्तस्यानात्मनः युष्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमात्मनस्त्वस्मच्छब्दोल्लिख्यमानप्रत्यययोग्यत्वमित्यर्थपर्यवसानेन व्याख्यानेन व्यवहारतः विरोधो दर्शितः युष्मदस्मच्छब्दतश्च विरोधो दर्शित इति गम्यते एवं स्वाभिमतं प्रयोगसाधुत्वं व्याख्यानं चोपपाद्य पराभिमतं प्रयोगसाधुत्वं व्याख्यानं च प्रतिपादयितुमारभते -

आश्रमेति ।

सम्बोध्यः सम्बोधनार्हः इत्यर्थः । अचेतने सम्बोध्यत्वाभवान्न युष्मत्पदशक्यार्थत्वमिति भावः ।

प्रत्ययोत्तरपदयोरिति सूत्रस्यार्थमाह -

तथाचेति ।

स्वार्थे शक्यार्थे विशिष्टचेतन इत्यर्थः । यदा शक्यार्थबोधकत्वं युष्मदस्मत्पदयोस्तदैव त्वमादेशः न लक्षणयेति भावः ।

विपक्षे बाधकमाह –

युष्मदिति ।

वां च नौश्च वांनावौ तथाचेति शब्दसमभिव्याहारे वांनावाविति सन्धिर्भवति सूत्रस्य व्याकरणसूत्रस्य पदसाङ्गत्यं त्वन्मदोः षष्ठीत्येव स्यात् न युष्मदस्मदोः षष्ठीत्येवं रूपं तस्य प्रसक्तेरित्यर्थः । तथाच षष्ट्यादिविभक्तिस्थयोः युष्मदस्मच्छब्दयोरेव वां नावावित्यादेशः नार्थयोरिति युष्मदस्मदोः षष्ठीत्यत्र युष्मदस्मच्छब्दयोर्लक्षणया शब्द एवार्थः न चेतनस्ततो नत्वं मादेश इति भावः ।

भाष्यप्रयोगं साधयति –

अत्रेति ।

शङ्कते –

यदीति ।

अत्रापिशब्दलक्षकत्वमस्त्येवेति परिहरति -

तथेति ।

अहङ्कारादिदेहान्तानात्मा परागर्थः लक्ष्यतावच्छेदकतया लक्ष्यतावच्छेदकप्रविष्टतयेत्यर्थः लक्ष्यांशतयेति यावत् । युष्मच्छब्दयोग्यत्वावच्छिन्ने परागर्थे युष्मच्छब्दस्य लक्षणा स्वीक्रियते अतो युष्मच्छब्दयोग्यत्वं लक्ष्यतावच्छेदकं भवति तथा च लक्ष्यतावच्छेदकनिविष्टः सन् युष्मच्छब्दश्च लक्षणया तस्यार्थः यथा परागर्थस्तद्वदतो न त्वेत्यादेश इति भावः ।

ननु पराक्त्वावच्छिन्न एव लक्षणा स्वीक्रियते लाघवादतस्त्वमादेशः स्यादित्याशङ्क्य निषेधति –

न चेत्यादिना ।

यद्यपि पराक्त्वादिना विरोधोऽस्त्येव तथापि श्रीभाष्यकृत्तात्पर्यानुरोधात्तद्योगत्वेनापि स वक्तव्य इत्याह –

विरुद्धेति ।

तात्पर्ये ज्ञापकमाह –

अत एवेति ।

लौकिकप्रयोगमुक्त्वा वेदप्रयोगमाह –

इमे विदेहा इति ।

याज्ञवल्क्यं प्रति जनकस्योत्तरमिदं तथा च विदेहाख्यदेशविशेषपरम् , इमे विदेहाः यथेष्टं भुज्यन्तामयमहं चास्मि दासभावे स्थितः दासान्तर्गत इति यावत् । राज्यं मां च यथेष्टं प्रतिपद्यस्वेत्यर्थः, राज्यं भवदधीनम् इति भावः । इमे विदेहा इत्यंशस्य नात्रोपयोगः किन्तु तदंशग्रहणं श्रुतिज्ञापनार्थमिति वेदितव्यम् ।

एतेनेति ।

वक्ष्यमाणहेतुनेत्यर्थः चेतनवाचित्वाल्लक्षणया प्रत्यग्बोधकत्वादित्यर्थः । सर्वैः पदैः सहोक्तौ सत्यां त्यदादीनि शिष्यन्त इति व्याकरणसूत्रार्थः । त्यदादिगणपठितानां परस्परसहोक्तौ गणमध्ये यत्परं तच्छिष्यत इति वेदितव्यम् , तथा च युष्मदस्मत्पदयोस्त्यदादिगणपठितत्वेनैकशेषे प्राप्ते सत्यस्मत्प्रत्ययगोचरयोरित्येवात्र स्यादिति भावः ।

एतेनेत्यनेन सूचितं हेतुं प्रदर्शयति –

युष्मदिति ।

यथा सूत्रे पूर्वनिपातैकशेषयोरप्राप्तिस्तद्वदत्रापि तयोरप्राप्तिरिति भावः ।

न केवलं महर्षिप्रयोगेनैवैकशेषाप्राप्तिरपि तु युक्त्या चेत्याह –

एकशेष इति ।

नन्वेकशेषानङ्गीकारे तत्प्रतिपादकशास्त्रविरोध इति चेदुच्यते वृद्धप्रयोगानुसारादेतद्व्यतिरिक्तस्थले एवैकशेषप्राप्तिरिति तच्छास्त्रस्य सङ्कोचः कल्पनीय इति भावः । पूर्वव्याख्याने युष्मदस्मच्छब्दयोः बह्वर्थकत्वाद्यूयमिति प्रत्यय इति विग्रहः अस्मिन् व्याख्याने चिज्जडमात्रलक्षकत्वेन त्वमिति प्रत्यय इति विग्रहभेदो द्रष्टव्यः । अयं विग्रहः अस्मत्प्रत्ययगोचर इत्यादिभाष्यव्याख्यानावसरे स्फुटीक्रियते । प्रयोगसाधुत्वसाधनप्रकारभेदस्तु स्फुट एव । यष्मच्छब्दोल्लिख्यमानप्रत्ययविषयत्वमित्यर्थपर्यवसानेन व्यवहारतो विरोधो युष्मदस्मच्छब्दतश्च विरोधो दर्शित इत्यनवद्यम् । नन्वस्मिन् व्याख्याने भाष्ये कथं विग्रह इति । उच्यते । युष्मदस्मत्पदयोरेकार्थवाचित्वाद्युष्मच्चास्मच्चेति विग्रहः साधुर्भवति लक्षकत्वादेव त्वमादेशाप्राप्तिश्च, तथा च युष्मच्चास्मच्च युष्मदस्मदीय इति प्रत्ययौ युष्मदस्मत्प्रत्ययौ तयोर्गोचराविति विग्रहः । तथा चात्र युष्मत्प्रत्यय इत्यस्यार्थबोधकत्वं त्वमिति प्रत्यय इति वाक्यान्तरम् अस्मत्प्रत्ययस्याहमिति प्रत्यय इत्यर्थबोधकं वाक्यान्तरमिति वेदितव्यम् । अथवा युष्मदस्मच्छब्दयोरुल्लेखिनि लक्षणामङ्गीकृत्य स्वव्याख्यानविग्रहानुसारेणैव विग्रहो योजनीय इति रहस्यम् ।

मतद्वयेति युष्मत्पदस्य पूर्वप्रयोग एव हेतुरिति प्रतिपाद्य हेत्वन्तरं प्रतिपादयितुं मतान्तरमुत्थापयति –

वृद्धास्त्विति ।

पूर्वप्रयोगे अध्यारोपापवादन्याय एव मूलमिति भावः ।

पूर्वसङ्ग्रहेण प्रतिज्ञातं त्रिधा विरोधं विवृणोति –

तत्रेति ।

वृद्धमत इत्यर्थः । युष्मदस्मत्पदाभ्यामुक्तो विरोधो वस्तुतो विरोध इत्यन्वयः । पराक्प्रत्यग्भावतः उक्तो विरोधः यः सः वस्तुतो विरोध इत्यर्थः । पदाभ्यामिति प्रयोगस्वारस्याद्युष्मदस्मच्छब्दतोपि विरोधोऽस्तीति वेदितव्यम् । प्रत्ययपदन प्रकाश्यप्रकाशत्वतः उक्तो विरोधः प्रतीतितो विरोध इत्यर्थः । गोचरपदेन परस्परभिन्नज्ञानविषयत्वतः उक्तो विरोधः व्यवहारतो विरोध इत्यर्थः ।

पूर्ववद्युष्मच्छब्दोल्लेखिनी लक्षणा न स्वीकर्तव्या शब्दलक्षकत्वं तु स्वीकर्तव्यमित्यभिप्रेत्य वृद्धाभिमतविग्रहमुपपादयति –

युष्मच्चेति ।

ननु त्वं चाहं चेति विग्रहे वक्तव्ये युष्मच्चास्मच्चेति विग्रहः कथमिति चेन्न । शब्दलक्षकत्वादेव युष्मदस्मत्पदयोस्त्वमादेशस्याप्राप्तत्वात् यथा ’युष्मदस्मदोः षष्ठी चतुर्थी’ति सूत्रे शब्दलक्षकत्वेन त्वमादेशाप्राप्त्या युष्मच्चास्मच्चेति विग्रहस्तद्वत् , तथा च प्रत्ययश्च प्रत्ययश्च प्रत्ययौ गोचरश्च गोचरश्च गोचराविति विग्रहं सिद्धवत्कृत्य कर्मधारयसमासं ज्ञापयतीति भावः ।

ननु युष्मदस्मदी च तौ प्रत्ययौ चेति कथं कर्मधारयः उभयोर्लिङ्गव्यत्ययवत्त्वादिति चेन्न । युष्मच्चास्मच्चेति नित्यनपुंसकमितरन्नित्यपुल्लिङ्गमित्यदोषादिति ज्ञेयम् । मतत्रयपरिष्कृतार्थेन साधितार्थैकदेशशङ्कानिरासप्रतिपादकत्वेन विषयविषयिणोरिति भाष्यं व्याख्यातुकामः शङ्कावताराय प्रथममर्थकथनद्वारा भाष्यान्वयमाविष्करोति –

त्रिधेति ।

आत्मानात्मनोरिति शेषः । असम्भवोनुपपत्तिशब्दार्थः धर्मितादात्म्याद्यभावे सिद्धे सतीति भावः ।

शुक्ल इति ।

सिद्धान्ते शुक्लगुणतादात्म्यापन्नो घट इति शुक्लगुणघटयोः विरुद्धयोस्तादात्म्याङ्गीकारवदित्यर्थः ।

यत्र विरुद्धयोस्तादात्म्यं तत्र प्रकाशमप्रकाशकत्वाभाव इति व्याप्तिरनुभवसिद्धा यथा शुक्लो घटः तथा च प्रकृते व्यापकाभावाद्व्याप्याभाव इत्याह –

चिदिति ।

वृद्धमत एव तत्प्रकृतविग्रहान्तरमुपपादयति –

यष्मदिति ।

प्रत्यगात्मा प्रत्ययस्वरूपः गोचरस्वरूपः परागिति व्युत्क्रमेण विवेकः प्रत्ययश्च गोचरश्च प्रत्ययगोचरौ युष्मदस्मदी च तौ प्रत्ययगोचरौ च युष्मदस्मत्प्रत्ययगोचरौ तयोरिति विग्रहो द्रष्टव्यः ।

एतद्विग्रहप्रतिपादितेऽर्थे पुनर्विषयविषयिणोरिति भाष्यं योजयति –

अत्र प्रत्ययेति ।

अव्यवहितविग्रहः सप्तम्या परामृश्यते -

अचित्व इति ।

स्वस्येति पदस्याप्रत्यक्षत्वापत्तेरित्यनेनाप्यन्वयः । एकस्य स्वस्य ज्ञानविषयत्वरूपं कर्मत्वं तज्ज्ञानाश्रयत्वरूपं कर्तृत्वं च विरुद्धमिति भावः ।

विषयित्वचिदचित्वप्रत्यक्त्वानां समव्याप्तत्वात्परस्परहेतुहेतुमद्भाव इत्यभिप्रेत्याह –

यथेष्टमिति ।

अतः मतत्रयेण विग्रहचतुष्टयं प्रयोगसाधुत्वं च दर्शितम् विग्रहत्रयनिरूपणानन्तरमुक्तविरोधानुवादपूर्वकं भाष्यान्वयो दर्शितः इदानीमव्यवहितविग्रहोक्तविरोधप्रतिपादनद्वारा वृत्तं कथयन् शङ्कापूर्वकमुत्तरभाष्यमवतारयति –

नन्विति ।

विषयविषयिणोरित्यनेन द्वितीयविशेषणेन प्रतिपादितमर्थं ज्ञापयति –

ग्राह्येति ।

ऐक्यं नामात्यन्ताभेदः भेदसहिष्णुरभेदस्तादात्म्यमिति विवेकः ।

तदिति ।

ऐक्यप्रमाया अभावेन तज्जन्यसंस्काररूपकारणाभावादध्यासाभावेपीत्यर्थः । तयोरात्मानात्मनोर्धर्माणामित्यर्थः । चैतन्यं सुखं च आत्मनो धर्मः जाड्यं दुःखं च अनात्मनो धर्म इति विवेकः । सुखादेरात्मनः स्वरूपत्वेपि धर्मत्वेन व्यपदेशस्त्वौपचारिक इति भावः । विनिमयेन व्यत्यासेनेत्यर्थः । इत्यत आहेति इतिशब्दः शङ्कार्थकः ; अतःशब्दो हेत्वर्थकः, आहेत्यनेन परिहारमाहत्युच्यते यथा चैवंरूपा शङ्का यतः कारणात्प्राप्ता अतः कारणात् परिहारमाहेति पदत्रयपरिष्कृतार्थः । एवं सर्वत्र ।

संसर्ग इति ।

प्रकृते ह्याधाराधेयभावरूपस्तादात्म्यैकदेशः संसर्ग इत्यर्थः । अनुपपत्तिरसम्भव इत्यर्थः । धर्म्यन्तरे हीतरधर्मसंसर्गो नास्तीति भावः ।

उत्तरभाष्यार्थे पूर्वभाष्यार्थो हेतुरिति ज्ञापयन् आत्मन्यनात्मधर्मसंसर्गानुपपत्तौ अनात्मन्यात्मधर्मसंसर्गानुपपत्तौ च धर्मसंसर्गाभावो हेतुस्तमुपपादयति –

नहीति ।

संसर्गं विना तादात्म्यरूपसम्बन्धं विनेत्यर्थः । विनिमयः व्यत्यासेनाधाराधेयभावरूपसंसर्ग इत्यर्थः ।

ननु धर्मसंसर्गं प्रति धर्मिसंसर्गो हेतुश्चेत्तर्हि धर्मिणोः स्फटिकजपाकुसुमयोः संसर्गाभावेनौपाधिकलौहित्यधर्मसंसर्गाभावात् स्फटिके लौहित्यमस्तीत्यध्यासात्मकग्रहो न स्यादित्यत आह –

स्फटिक इति ।

लोहितं वस्तु जपाकुसुमादि तस्य सान्निध्यं परम्परासम्बन्धः तस्मादित्यर्थः, तथा च क्वचित्साक्षात् क्वचित्परम्परया धर्मिसंसर्गो हेतुः प्रकृते परम्परया धर्मिसम्बन्धसम्भवाद्भ्रमात्मकग्रहोपपत्तिरिति भावः ।

ननु तर्ह्यात्मनात्मनोर्विरोधात्साक्षात् सम्बन्धाभावेपि स्फटिकजपाकुसुमवत् परम्परासम्बन्धोऽस्तु तेन धर्मसंसर्गः स्यादित्यत आह –

असङ्गेति ।

केनापि वस्तुना सह सम्बन्धाभावादित्यर्थः ।

असङ्गत्वादेव परम्पराधर्मिसंसर्गहेतुकधर्मसङ्गोपि नास्तीति यदुक्तं तद्भाष्यारूढं करोति –

इत्यभिप्रेत्येति ।

लोके शुक्ताविदमित्यादि नहि तदस्तीत्यन्तेन स्वप्रतिपादितेन ग्रन्थेनोक्तं हेतुं भाष्यारूढं कर्त्तुमिच्छन्नाक्षेपसमाधानाभ्यामुत्तरभाष्यमवतारयते –

नन्विति ।

वास्तवतादात्म्याद्यभावेप्याध्यासिकतादात्म्यादिकमादायाध्यासस्सम्भवत्येवेति सिद्धान्तिनः शङ्कितुरभिप्रायः ।

भाष्योक्तस्य इत्यतः पदद्वयस्य प्रतीकमादायार्थप्रतिपादनपूर्वकं व्यवहितेनान्वयं वक्तुमारभते –

इत्युक्तेति ।

उक्तरीतिमेव विवृणोति –

तादात्म्येति ।

वास्तवतादात्म्याभावेनेत्यर्थः ।

मिथ्येति ।

नास्तीत्यर्थः । तथा च कारणाभावादध्यसो नास्तीति वक्तुं युक्तमिति भावः ।

अनिर्वचनीयतेति ।

तत्त्वान्यत्त्वाभ्यां निर्वक्तुमशक्यतेत्यर्थः ।

अपह्नवार्थक इति ।

अभावार्थक इत्यर्थः । अपह्नूयते निरस्यत इत्यर्थः ।