अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्तीति मत्वा तत आत्मानं विवेचयति -
विषयिणीति ।
बुद्ध्यादिसाक्षिणीत्यर्थः ।
साक्षित्वे हेतुः -
चिदात्मक इति ।
अहमिति भासमाने चिदंशात्मनीत्यर्थः ।
युष्मत्प्रत्ययगोचरस्येति ।
त्वङ्कारयोग्यस्य । इदमर्थस्येति यावत् ।
नन्वहमिति भासमानबुद्ध्यादेः कथमिदमर्थत्वमित्यत आह -
विषयस्येति ।
साक्षिभास्यस्येत्यर्थः । साक्षिभास्यत्वरूपलक्षणयोगाद्बुद्ध्यादेर्घटादिवदिदमर्थत्वं न प्रतिभासत इति भावः । अथवा यदात्मनो मुख्यं सर्वान्तरत्वरूपं प्रत्यक्त्वं प्रतीतित्वं ब्रह्मास्मीति व्यवहारगोचरत्वं चोक्तं तदसिद्धम् , अहमिति प्रतीयमानत्वात् ,
अहङ्कारवदित्याशङ्क्याह -
अस्मत्प्रत्ययगोचर इति ।
अस्मच्चासौ प्रत्ययश्चासौ गोचरश्च तस्मिन्नित्यर्थः । अहंवृत्तिव्यङ्ग्यस्फुरणत्वं स्फुरणविषयत्वं वा हेतुः । आद्ये दृष्टान्ते हेत्वसिद्धिः । द्वितीये तु पक्षे तदसिद्धिरित्यात्मनो मुख्यं प्रत्यक्त्वादि युक्तमिति भावः ।
ननु यदात्मनो विषयित्वं तदसिद्धम् , अनुभवामीति शब्दवत्वात् , अहङ्कारवदित्यत आह -
विषयिणीति ।
वाच्यत्वं लक्ष्यत्वं वा हेतुः । नाद्यः, पक्षे तदसिद्धेः । नान्त्यः, दृष्टान्ते तद्वैकल्यादिति भावः ।
देहं जानामीति देहाहङ्कारयोर्विषयविषयित्वेऽपि मनुष्योऽहमित्यभेदाध्यासवदात्माहङ्कारयोरप्यभेदाध्यासः स्यादित्यत आह -
चिदात्मक इति ।
तयोर्जाड्याल्पत्वाभ्यां सादृश्यादध्यासेऽपि चिदात्मन्यनवच्छिन्ने जडाल्पाहङ्कारादेर्नाध्यास इति भावः ।
अहमिति भास्यत्वादात्मवदहङ्कारस्यापि प्रत्यक्त्वादिकं मुख्यमेव, ततः पूर्वोक्तपराक्त्वाद्यसिद्धिरित्याशङ्क्याह -
युष्मदिति ।
अहंवृत्तिभास्यत्वमहङ्कारे नास्ति कर्तृकर्मत्वविरोधात् , चिद्भास्यत्वं चिदात्मनि नास्तीति हेत्वसिद्धिः । अतो बुद्ध्यादेः प्रतिभासतः प्रत्यक्त्वेऽपि पराक्त्वादिकं मुख्यमेवेति भावः । युष्मत्पराक्तच्चासौ प्रतीयत इति प्रत्ययश्चासौ कर्तृत्वादिव्यवहारगोचरश्च तस्येति विग्रहः ।
तस्य हेयत्वार्थमाह -
विषयस्येति ।
षिञ् बन्धने । विसिनोति बध्नाति इति विषयस्तस्येत्यर्थः ।
आत्मन्यनात्मतद्धर्माध्यासो मिथ्या भवतु, अनात्मन्यात्मतद्धर्माध्यासः किं न स्यात् , अहं स्फुरामि सुखीत्याद्यनुभवादित्याशङ्क्याह -
तद्विपर्ययेणेति ।
तस्मादनात्मनो विपर्ययो विरुद्धस्वभावश्चैतन्यम् । इत्थम्भावे तृतीया । चैतन्यात्मना विषयिणस्तद्धर्माणां च योऽहङ्कारादौ विषयेऽध्यासः स मिथ्येति नास्तीति भवितुं युक्तम् , अध्याससामग्र्यभावात् । न ह्यत्र पूर्वप्रमाहितसंस्कारः सादृश्यमज्ञानं वास्ति । निरवयवनिर्गुणस्वप्रकाशात्मनि गुणावयवसादृश्यस्य अज्ञानस्य(चाज्ञानस्य)* चायोगात् ॥
आश्रमश्रीचरणव्याख्यानमनुसृत्य पदानामर्थं कथयन् प्रयोजनमाह –
अहमित्यादिना ।
स्वव्याख्यानानुरोधेन भाष्यपदयोजनां परित्यज्य एतद्व्याख्यानानुरोधेन योजनापि युक्तैव स्वव्याख्यानेनैतद्व्याख्यानयोरीषद्भेदस्याकिञ्चित्करत्वात् , तथाच स्वव्याख्यानानुरोधेन योजनाप्युक्तप्रायैवेति विभावनीयम् । अहमितिप्रत्यययोग्यत्वं बुद्ध्यादेरप्यस्ति तथा च बुद्ध्यादौ बुद्ध्यादेरध्यासो निरस्यत इत्यर्थो लभ्यते नात्मनीति मत्वेत्यर्थः ।
ननु चिदात्मकत्वमहमिति भासमानस्य विशिष्टस्याप्यस्तीत्याशङ्क्य निषेधति –
अहमितीति ।
जडांशमविवक्षित्वा चिदंशमात्रं विवक्षितमिति भावः ।
त्वङ्कारेति ।
त्वमिति प्रत्यययोग्यस्य बुध्यादेरित्यर्थः ।
नन्वहमिति ।
यत्रेदमर्थत्वं तत्र वृत्तिरूपप्रत्यक्षविषयत्वमिति व्याप्तिर्घटादौ प्रसिद्धा, तथा च बुध्यादावहमिति भासमाने व्यापकाभवाद्व्याप्याभाव इति शङ्कितुरभिप्रायः ।
ननु शङ्कायाः कः परिहार इत्याशङ्क्य यत्र साक्षिभास्यत्वं तत्रेदमर्थत्वमिति व्याप्तिः घटदावेव अनुभवसिद्धेति साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरिदमर्थत्वमस्तीत्याह –
साक्षिभास्यत्वेति ।
लक्षणयोगाद्गुणयोगादित्यर्थः । हेतोः सत्त्वादिति यावत् । घटादेरिव साक्षिभास्यत्वरूपहेतुना बुद्ध्यादेरपीदमर्थत्वमस्ति, तथाचात्रैव बुद्धौ व्यभिचाराद्भवदुक्तव्याप्तिरप्रयोजकेति भावः ।
यद्यपि यत्र प्रत्यक्षविषयत्वं तत्रेदमर्थत्वमिति व्याप्तिरपि घटादावनुभवसिद्धा तथापि प्रकृते न सम्भवतीत्याह -
न प्रतिभासत इति ।
प्रतिभासतः प्रत्यक्षेणेत्यर्थः । बुद्ध्यादेर्घटादिवदिदमर्थत्वमित्यात्रानुषङ्गः, तथाचाहमिति भासत्वात् बुद्ध्यादेरिव वृत्तिरूपप्रत्यक्षेणेदमर्थत्वं नास्तीति भावः ।
वृद्धमतोक्तं प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकत्वेन तदेव भाष्यं योजयितुं पुनस्तदवतारयति –
अथवेति ।
नास्वरसद्योतकं किन्तु मतान्तरमवलम्ब्य योजनाद्योतकमिति भावः ।
नन्विदं भाष्यं वृद्धमतोक्तं द्वितीयविग्रहप्रतिपादितार्थशङ्कानिरासप्रतिपादकत्वेन कुतो न व्याख्यायत इति चेन्न । प्रथमविग्रहप्रतिपादितार्थशङ्कानिरासकव्याख्यानेन एतस्य गतार्थत्वमित्यभिप्रायादिति मन्तव्यम् । आत्मा मुख्यप्रत्यक्त्वाद्यभाववान् अहमिति भासमानत्वादहङ्कारवदित्यनुमानप्रयोगः । अस्मच्चासौ प्रत्ययश्चास्मत्प्रत्ययः स चासौ गोचरश्चास्मत्प्रत्ययगोचर इति कर्मधारयं ज्ञापयति –
अस्मदिति ।
ननु प्रत्यक्त्वादिकं पुनः प्रतिज्ञातं किमेतावतानुमानस्य दूषणमित्याशङ्क्य भाष्यतात्पर्येणाहमिति भासमानत्वादिति हेतुं विकल्प्य स्वयं खण्डयति –
अहमिति ।
अहङ्कारवृत्त्या व्यङ्ग्यमभिव्यक्तं यत्स्फुरणतत्त्वमित्यर्थः । वृत्तेरावरणरूपप्रतिबन्धकनिवर्तकत्वमस्तीत्येतावता स्वप्रकाशचैतन्यस्यात्मनः वृत्तिकृताभिव्यक्तिश्चौपचारिकीति भावः ।
विषयत्वमिति ।
विषयविषयिणोरिति भाष्येणोक्तं विषयत्वमित्यर्थः । शब्दवत्त्वाच्छब्देन व्यवह्रियमाणत्वादित्यर्थः ।
शब्देन व्यवह्रियमाणत्वं नाम शब्दवाच्यत्वं शब्दलक्ष्यत्वं वेति विकल्प्य हेतुं स्वयं दूषयति वाच्यत्वमिति कल्पितत्वात् । यद्यपि विषयित्वं विशिष्टप्रमातृचैतन्यस्यैव न तु केवलाहङ्कारस्य तथापि विशिष्टे पर्याप्तं विषयित्वं अहङ्कारे विशेषेणेपि विद्यत इत्यभिप्रेत्याह –
देहमिति ।
अथवाऽहङ्कारे सत्येव चैतन्येऽपि विशिष्टे देहं जानामीति विषयिता तदभावे तदभावादित्यन्वयव्यतिरेकाभ्यां विशिष्टे प्राप्तं विषयित्वं पर्यवसानाद्विशेषणस्याहङ्कारस्यैवेत्यभिप्रेत्याह –
देहमिति ।
मनुष्यपदं देहविशेषणपरं, मनुष्यत्वं जातिविशेषः देहनिष्ठसंस्थानविशेषात्मकधर्मो वा, तद्विशिष्टस्य देहस्य चित्तादात्म्यापन्नाहङ्कारस्य च मनुष्योऽहमित्यभेदाध्यासवदित्यर्थः । यत्र विषयविषयित्वं तत्राभेदाध्यासाभावः यथा दीपघटवदित्युक्तनियमः अहङ्कारव्यतिरिक्त स्थल एवेति नियमस्य प्रथमापिशब्देन सङ्कोचः सूच्यत इति भावः ।
अल्पत्वं परिच्छिन्नत्वम् अध्यासे सादृश्यं हेतुः प्रकृते त्वात्मानात्मनोः पृथग्विशेषणद्वयेन सादृश्याभावमुपपादयन् फलितमाह –
चिदिति ।
अनवच्छिन्नत्वमपरिच्छिन्नत्वं व्यापकत्वमिति यावत् । अहङ्कारः मुख्यप्रत्यक्त्वादिमान् अहमिति भास्यत्वादात्मवदिति प्रयोगे अहमिति भास्यत्वं किं केवलाहमाकाराकारितवृत्तिभास्यत्वम् अहमाकाराकारितसाक्षिभास्यत्वं वेति विकल्प्य हेतुदूषणे भाष्याशयं स्फुटीकरोति अहंवृत्तीति भावप्रधानो निर्देशः परिणामरूपवृत्त्याश्रयत्ववृत्तिविषयत्वस्वरूपयोः कर्त्तृत्वकर्मत्वयोरेकस्याहङ्कारस्य विरोधादित्यर्थः । अथवा कर्तृकर्मणोः परस्परैक्यायोग्यत्वरूपविरोधस्य सत्त्वादित्यर्थः । अहङ्कारस्य साक्षिभास्यत्वं न चिद्व्यतिरिक्तवृत्तिभास्यत्वं अन्यथा कर्मकर्तृत्वविरोधः स्यादिति भावः । स्वप्रकाशात्मनि कर्मकर्तृत्वविरोधादेव न चिद्भास्यत्वमित्याह चिद्भास्यत्वमिति, प्रतिभासतः भ्रान्तिरूपप्रत्यक्षेणेत्यर्थः ।
अहङ्कारस्य मुख्यप्रत्यक्त्वादिकं निरस्य पराक्त्वादिकं साधयन् कर्मधारयं ज्ञापयति –
युष्मदिति ।
अहङ्कारः मुख्यपराक्त्ववान्प्रतीयमानत्वाद्गोचरत्वाद्वेति साधनीयम् ।
विषयो नाम बन्धहेतुरित्याह –
षिञ्बन्धन इति ।
स्फुरामीत्यनेनात्माध्यासः सुखीत्यनेनात्मधर्माध्यस इति विवेकः ।
इत्थम्भाव इति ।
वैशिष्ट्यं इत्यर्थः । प्रकृते वैशिष्ट्यं नामाभेदः । चैतन्यात्मनेति । चैतन्यात्मना स्थितस्येत्यर्थः । अध्यासस्य इति अतद्रूपे तद्रूपावभासोऽध्यासः स नास्तीति वक्तुं युक्तमिति भावः ।
सामग्रीकारणसमुदायः स नास्तीत्युपपादयति –
निरवयवेति ।
सादृश्यं द्विविधं अवयवसादृश्यं गुणसादृश्यं चेति, तथा च निरवयवत्वादवयवसादृश्यरूपनिर्गुणत्वाद्गुणसादृश्यरूपं च कारणमात्मनि नास्ति स्वप्रकाशत्वादज्ञानरूपकारणं चात्मनि नास्ति इति भावः । संस्कारो नास्तीत्यत्र पूर्वक्तहेतुरेव वेदितव्यः ।