नन्वात्मनो निर्गुणत्वे तद्धर्माणामिति भाष्यं कथमिति चेत् , उच्यते । बुद्धिवृत्त्यभिव्यक्तं चैतन्यं ज्ञानम् , विषयाभेदेनाभिव्यक्तं स्फुरणम् , शुभकर्मजन्यवृत्तिव्यक्तमानन्द इत्येवं वृत्त्युपाधिकृतभेदात् ज्ञानादीनामात्मधर्मत्वव्यपदेशः । तदुक्तं टीकायां ‘आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्मा अपृथक्त्वेऽपि चैतन्यात् (चैतन्यत्वात्)* पृथगिवावभासन्ते’ इति । अतो निर्गुणब्रह्मात्मत्वमते, अहं करोमीति प्रतीतेरर्थस्य चाध्यासत्वायोगात्प्रमात्वं (सत्यत्वं चेत्यधिकः पाठः)* अहं नर इति सामानाधिकरण्यस्य गौणत्वमिति मतमास्थेयम् । तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोर्जीवब्रह्मणोरैक्यायोगेन विषयासम्भवात् शास्त्रं नारम्भणीयमिति पूर्वपक्षभाष्यतात्पर्यम् । युक्तग्रहणात्पूर्वपक्षस्य दुर्बलत्वं सूचयति । तथाहि किमध्यासस्य नास्तित्वमयुक्तत्वादभानाद्वा कारणाभावाद्वा ? आद्य इष्ट इत्याह -
तथापीति ।
एतदनुरोधादादौ यद्यपीति पठितव्यम् । अध्यासस्यासङ्गस्वप्रकाशात्मन्ययुक्तत्वमलङ्कार इति भावः ।
न द्वितीय इत्याह -
अयमिति ।
अज्ञः कर्ता मनुष्योऽहमिति प्रत्यक्षानुभवादध्यासस्याभानमसिद्धमित्यर्थः । न चेदं प्रत्यक्षं कर्तृत्वादौ प्रमेति वाच्यम् । अपौरुषेयतया निर्दोषेण, उपक्रमादिलिङ्गावधृततात्पर्येण च तत्वमस्यादिवाक्येनाकर्तृब्रह्मत्वबोधनेनास्य-अकर्तत्व- भ्रमत्वनिश्चयात् । न च ज्येष्ठप्रत्यक्षविरोधादागमज्ञानस्यैव बाध इति वाच्यम् , देहात्मवादप्रसङ्गात् , मनुष्योऽहमिति प्रत्यक्षविरोधेन ‘अथायमशरीरः’(बृ॰उ॰ ४-४-७) इत्यादिश्रुत्या देहादन्यात्मासिद्धेः । तस्मादिदं रजतमितिवत्सामानाधिकरण्यप्रत्यक्षस्य भ्रमत्वशङ्काकलङ्कितस्य नागमात्प्राबल्यमित्यास्थेयम् । किञ्च ज्येष्ठत्वं पूर्वभावित्वं वा आगमज्ञानं प्रत्युपजीव्यत्वं वा ? आद्ये न प्राबल्यम् , ज्येष्ठस्यापि रजतभ्रमस्य पश्चाद्भाविना शुक्तिज्ञानेन बाधदर्शनात् । न द्वितीयः । आगमज्ञानोत्पत्तौ प्रत्यक्षादिमूलवृद्धव्यवहारे च(चेति नास्ति)* सङ्गतिग्रहद्वारा, शब्दोपलब्धिद्वारा च प्रत्यक्षादेर्व्यावहारिकप्रामाण्यस्योपजीव्यत्वेऽपि तात्त्विकप्रामाण्यस्यानपेक्षितत्वात् , अनपेक्षितांशस्यागमेन बाधसम्भवादिति । यत्तु क्षणिकयागस्य श्रुतिबलात्कालान्तरभाविफलहेतुत्ववत् ‘तथा विद्वान्नामरूपाद्विमुक्तः’(मु॰उ॰ ३-२-७) इति श्रुतिबलात्सत्यस्यापि ज्ञानान्निवृत्तिसम्भवादध्यासवर्णनं व्यर्थमिति, तन्न । ज्ञानमात्रनिवर्त्यस्य क्वापि सत्यत्वादर्शनात् , सत्यस्य चात्मनो निवृत्त्यदर्शनाच्च, अयोग्यतानिश्चये सति सत्यबन्धस्य ज्ञानान्निवृत्तिश्रुतेर्बोधकत्वायोगात् । न च सेतुदर्शनात्सत्यस्य पापस्य नाशदर्शनान्नायोग्यतानिश्चय इति वाच्यम् , तस्य श्रद्धानियमादिसापेक्षज्ञाननाश्यत्वात् । बन्धस्य च ‘नान्यः पन्था’(श्वे॰उ॰ ३-८) इति श्रुत्या ज्ञानमात्रान्निवृत्तिप्रतीतेः, अतः श्रुतज्ञाननिवर्त्यत्वनिर्वाहार्थमध्यस्तत्वं वर्णनीयम् । किं च ज्ञानैकनिवर्त्यस्य किं नाम सत्यत्वम् , न तावदज्ञानाजन्यत्वम् । ‘मायां तु प्रकृतिम्’(श्वे॰उ॰ ४-१०) इति श्रुतिविरोधान्मायाविद्ययोरैक्यात् । नापि स्वाधिष्ठाने स्वाभावशून्यत्वं ‘अस्थूलम्’ (बृ॰उ॰ ३-८-८) इत्यादिनिषेधश्रुतिविरोधात् । नापि ब्रह्मवद्बाधायोग्यत्वम् , ज्ञानान्निवृत्तिश्रुतिविरोधात् । अथ व्यवहारकाले बाधशून्यत्वम् , तर्हि व्यावहारिकमेव सत्यत्वमित्यागतमध्यस्तत्वम् । तच्च श्रुत्यर्थे योग्यताज्ञानार्थं वर्णनीयमेव, यागस्यापूर्वद्वारत्ववत् । न च ‘तदनन्यत्वाधिकरणे’(ब्र॰सू॰ २-१-१४) तस्य वर्णनात्पौनरुक्त्यम् , तत्रोक्ताध्यासस्यैव प्रवृत्त्यङ्गविषयादिसिद्ध्यर्थमादौ स्मार्यमाणत्वादिति दिक् ॥
अध्यासं द्वेधा दर्शयति -
लोकव्यवहार इति ।
लोक्यते मनुष्योऽहमित्यभिमन्यत इति लोकोऽर्थाध्यासः, तद्विषयो व्यवहारोऽभिमान इति ज्ञानाध्यासो दर्शितः ।
द्विविधाध्यासस्वरूपलक्षणमाह -
अन्योन्यस्मिन् इत्यादिना धर्मधर्मिणोः इत्यन्तेन ।
जाड्यचैतन्यादिधर्माणां धर्मिणावहङ्कारात्मानौ, तयोरत्यन्तं भिन्नयोरितरेतरभेदाग्रहेणान्योन्यस्मिन् अन्योन्यतादात्म्यमन्योन्यधर्मांश्च व्यत्यासेनाध्यस्य लोकव्यवहार इति योजना । अतः सोऽयमिति प्रमाया नाध्यासत्वम् , तदिदमर्थयोः कालभेदेन कल्पितभेदेऽप्यत्यन्तभेदाभावादिति वक्तुमत्यन्तेत्युक्तम् । न च धर्मितादात्म्याध्यासे धर्माध्याससिद्धेः ‘धर्मांश्च’ इति व्यर्थमिति वाच्यम् , अन्धत्वादीनामिन्द्रियधर्माणां धर्म्यध्यासास्फुटत्वेऽप्यन्धोऽहमिति स्फुटोऽध्यास इति ज्ञापनार्थत्वात् ।
नन्वात्मानात्मनोः परस्पराध्यस्तत्वे शून्यवादः स्यादित्याशङ्क्याह -
सत्यानृते मिथुनीकृत्येति ।
सत्यमनिदं चैतन्यं तस्यानात्मनि संसर्गमात्राध्यासो न स्वरूपस्य । अनृतं युष्मदर्थः तस्य स्वरूपतोऽप्यध्यासात्तयोर्मिथुनीकरणमध्यास इति न शून्यतेत्यर्थः ॥
नन्वध्यासमिथुनीकरणलोकव्यवहारशब्दानामेकार्थत्वेऽध्यस्य मिथुनीकृत्येति पूर्वकालत्ववाचिक्त्वाप्रत्ययादेशस्य ल्यपः कथं प्रयोग इति चेन्न, अध्यासव्यक्तिभेदात् । तत्र पूर्वपूर्वाध्यासस्योत्तरोत्तराध्यासं प्रति संस्कारद्वारा पूर्वकालत्वेन हेतुत्वद्योतनार्थं ल्यपः प्रयोगः । तदेव स्पष्टयति -
नैसर्गिक इति ।
प्रत्यगात्मनि हेतुहेतुमद्भावेनाध्यासप्रवाहोऽनादिरित्यर्थः । ननु प्रवाहस्यावस्तुत्वात् , अध्यासव्यक्तीनां सादित्वात् , कथमनादित्वमिति चेत् । उच्यते - अध्यासत्वावच्छिन्नव्यक्तीनां मध्येऽन्यतमया व्यक्त्या विनाऽनादिकालस्यावर्तनं कार्यानादित्वमित्यङ्गीकारात् । एतेन कारणाभावादिति कल्पो निरस्तः, संस्कारस्य निमित्तस्य नैसर्गिकपदेनोक्तत्वात् । न च पूर्वप्रमाजन्य एव संस्कारो हेतुरिति वाच्यम् , लाघवेन पूर्वानुभवजन्यसंस्कारस्य हेतुत्वात् । अतः पूर्वाध्यासजन्यः संस्कारोऽस्तीति सिद्धम् ।
अध्यासस्योपादानमाह -
मिथ्याज्ञाननिमित्त इति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तन्निमित्तमुपादानं यस्य स तन्निमित्तः । तदुपादान(तदुपादानक)* इत्यर्थः । अज्ञानस्योपादानत्वेऽपि संस्फुरदात्मतत्त्वावरकतया दोषत्वेनाहङ्काराध्यासकर्तुरीश्वरस्योपाधित्वेन संस्कारकालकर्मादिनिमित्तपरिणामित्वेन च निमित्तत्वमिति द्योतयितुं निमित्तपदम् । स्वप्रकाशात्मन्यसङ्गे कथमविद्यासङ्गः, (संस्कारादिसामग्र्यभावात् इत्यधिकः)*, इति शङ्कानिरासार्थं मिथ्यापदम् । प्रचण्डमार्तण्डमण्डले पेचकानुभवसिद्धान्धकारवत् , अहमज्ञ इत्यनुभवसिद्धमज्ञानं दुरपह्नवम् , कल्पितस्याधिष्ठानास्पर्शित्वात् , नित्यस्वरूपज्ञानस्याविरोधित्वाच्चेति । यद्वा अज्ञानं ज्ञानाभाव इति शङ्कानिरासार्थं मिथ्यापदम् । मिथ्यात्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानस्य लक्षणं मिथ्याज्ञानपदेनोक्तम् । ज्ञानेनेच्छाप्रागभावः साक्षान्निवर्त्यत इति वदन्तं प्रति मिथ्यात्वे सतीत्युक्तम् । अज्ञाननिवृत्तिद्वारा ज्ञाननिवर्त्यबन्धेऽतिव्याप्तिनिरासाय साक्षादिति । अनाद्युपादानत्वे सति मिथ्यात्वं वा लक्षणम् । ब्रह्मनिरासार्थं मिथ्यात्वमिति । मृदादिनिरासार्थमनादीति । अविद्यात्मनोः सम्बन्धनिरासार्थमुपादानत्वे सतीति ।
सम्प्रति अध्यासं द्रढयितुमभिलपति -
अहमिदं ममेदमिति ।
आध्यात्मिककार्याध्यासेष्वहमिति प्रथमोऽध्यासः । न चाधिष्ठानारोप्यांशद्वयानुपलम्भात् नायमध्यास इति वाच्यम् , अयो दहतीतिवदहमुपलभ इति दृग्दृश्यांशयोरुपलम्भात् । इदम्पदेन भोग्यः सङ्घात उच्यते । अत्राहमिदमित्यनेन मनुष्योऽहमिति तादात्म्याध्यासो दर्शितः । ममेदमित्यनेन ममेदं (ममेदमित्यनेन इति नास्ति)* शरीरमिति संसर्गाध्यासः ॥ ननु देहात्मनोस्तादात्म्यमेव संसर्ग इति तयोः को भेद इति चेत् , सत्यम् । सत्तैक्ये सति मिथो भेदस्तादात्म्यम् । तत्र मनुष्योऽहमित्यैक्यांशभानं ममेदमिति भेदांशरूपसंसर्गभानमिति भेदः । एवं सामग्रीसत्त्वादनुभवसत्त्वाच्च (चेति नास्ति)* अध्यासोऽस्तीत्यतो ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनयोः सत्त्वात्शास्त्रमारम्भणीयमिति सिद्धान्तभाष्यतात्पर्यम् ।
एवं (एवं चेति चकारोऽधिकः)* सूत्रेणार्थात्सूचिते विषयप्रयोजने प्रतिपाद्य तद्धेतुमध्यासं लक्षणसम्भावनाप्रमाणैः साधयितुं लक्षणं पृच्छति -
आहेति ।
किंलक्षणकोऽध्यास इत्याह पूर्ववादीत्यर्थः । अस्य शास्त्रस्य तत्त्वनिर्णयप्रधानत्वेन वादकथात्वद्योतनार्थमाहेति परोक्तिः । ‘आह’ इत्यादि ‘कथं पुनःप्रत्यगात्मनि’ इत्यतः प्रागध्यासलक्षणपरं भाष्यम् । तदारभ्य सम्भावनापरम् । "तमेतमविद्याख्यम्" इत्यारभ्य "सर्वलोकप्रत्यक्षः" इत्यन्तं प्रमाणपरमिति विभागः ।
लक्षणमाह -
उच्यते - स्मृतिरूप इति ।
अध्यास इत्यनुषङ्गः । अत्र परत्रावभास इत्येव लक्षणम् , शिष्टं पदद्वयं तदुपपादनार्थम् । तथाहि अवभास्यत इत्यवभासो रजताद्यर्थः तस्यायोग्यमधिकरणं परत्रपदार्थः । अधिकरणस्यायोग्यत्वमारोप्यात्यन्ताभावत्वं तद्वत्त्वं वा । तथा चैकावच्छेदेन स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वमध्यस्तत्वमित्यर्थः । इदं च साद्यनाद्यध्याससाधारणं लक्षणम् । संयोगेऽतिव्याप्तिनिरासायैकावच्छेदेनेति । संयोगस्य स्वसंसृज्यमाने वृक्षे स्वात्यन्ताभाववत्यवभास्यत्वेऽपि स्वस्वात्यन्ताभावयोर्मूलाग्रावच्छेदकभेदान्नातिव्याप्तिः(स्वात्यन्ताभावेत्यादि)* । पूर्वं स्वाभाववति भूतले पश्चादानीतो घटो भातीति घटेऽतिव्याप्तिनिरासाय स्वसंसृज्यमान इति पदम् , तेन स्वाभावकाले प्रतियोगिसंसर्गस्य विद्यमानतोच्यते इति नातिव्याप्तिः । भूत्वावच्छेदेनावभास्यगन्धेऽतिव्याप्तिवारणाय स्वात्यन्ताभाववतीति पदम् । शुक्ताविदन्त्वावच्छेदेन रजतसंसर्गकालेऽत्यन्ताभावोऽस्तीति नाव्याप्तिः ।
निर्गुणत्वं धर्मराहित्यमिति मत्वा शङ्कते –
नन्विति ।
ज्ञानमित्यनेन प्रत्यक्षानुमित्यादिकमुच्यते स्फुरणमित्यनेन प्रत्यक्षं शुभकर्मेत्यनेन शुभकर्महेतुकमाधुर्यादिरसवस्तुभक्षणादिकमुच्यते विषयानुभव इत्यनेन प्रत्यक्षानुमित्यादिकं नित्यत्वमुत्पत्त्यादिराहित्यं शुद्धत्वादेरिदमुपलक्षणम् । अवभासन्त इत्यस्य तदुक्तमित्यनेनान्वयः । अन्तःकरणवृत्तिरूपोपाधिवशान्नानेवावभासन्त इत्यर्थः ।
अद्वैतमते अध्याससामग्र्यभावादहं स्फुरामीत्यादिस्थले ज्ञानाध्यासोऽर्थाध्यासश्च न सम्भवतीति तार्किकादिपूर्वपक्षितात्पर्यमध्यासाक्षेपोपसंहारव्याजेनाविष्करोति –
अत इति ।
प्रतीतेः प्रमात्वं यथार्थानुभवत्वमर्थस्य प्रमात्वं त्वबाधितत्वमिति भेदः प्रमात्वमित्यस्योत्तरेणेतिशब्देनान्वयः ।
नन्वध्यासाङ्गीकारे एकविभक्त्यवरुद्धत्वे सत्येकार्थबोधकत्वरूपस्याहं नर इति पदयोः सामानाधिकरण्यस्य प्रयोगः कथमित्याशङ्क्य नीलो घट इत्यत्र नीलगुणाश्रयो घट इतिवन्नरत्वविशिष्टदेहसम्बन्ध्यहमित्यात्मीयत्वरूपगुणयोगात् गौणोऽयं सामानाधिकरण्यप्रयोग इति पूर्वपक्षितात्पर्यमाह –
अहं नर इति ।
नरपदं नरत्वविशिष्टदेहपरं नरत्वमवयवसंस्थानरूपधर्मविशेषः ब्रह्मात्मत्वमते प्रमात्वं गौणत्वं चावश्यं वक्तव्यमिति मतमास्थेयं स्थितमिति भावः ।
व्यवहितवृत्तावनुवादपूर्वकं परमतमुपसंहरति –
तथा चेति ।
नारम्भणीयमिति न विचारणीयमित्यर्थः । पूजितोपि वेदान्तविचारो न कर्तव्य इति भावः । वस्तुतः प्रतीतितो व्यवहारतः शब्दतश्चेति चतुर्विधप्रयुक्ताद्ग्राह्यग्राहकत्वप्रयुक्तत्वाच्च परस्परैक्याद्ययोगत्वरूपविरोधात्तमःप्रकाशवदात्मानात्मनोर्धर्मिणोर्वास्तवतादात्म्याद्यभावे न धर्मसंसर्गाभाव इति तत्प्रमायासम्भवेन तज्जन्यसंस्कारस्याध्यासहेतोरसम्भवादतद्रूपे तद्रूपावभासरूपोऽध्यासो नास्ति, तथा च बन्धस्य सत्यतया ज्ञानान्निवृत्तिरूपफलासम्भवाद्बद्धमुक्तयोः जीवब्रह्मणोरैक्यायोगेन विषयाभावाच्छास्त्रं नारम्भणीयमित्यध्यासपूर्वपक्षभाष्यतात्पर्यमिति सुधीभिर्विभावनीयम् ।
आत्मानात्मनोर्वास्तवैक्यादौ युक्त्यभावादेवानुभवसिद्धाध्यासापलापे अनुभवसिद्धघटादिपदार्थानामपलापप्रसङ्गस्तथा च शून्यमतप्रवेशः स्यादित्यतोऽनुभवसिद्धत्वाद्वास्तवैक्याभावेपि सामग्रीसत्त्वाच्च अध्यासोऽस्तीति विषयादिसम्भवेन शास्त्रारम्भो युक्त इति सिद्धान्तयितुं पूर्वपक्षस्य दौर्बल्यं विवृणोति –
तथाहीति ।
अङ्गीकारार्थकेन तथापि इत्यनेनैवाद्यपक्षे परिहारो वेदितव्यः ।
आदाविति ।
युष्मदस्मदित्यादिभाष्यस्यादावित्यर्थः ।
अर्थक्रमस्य पाठ्यक्रमापेक्षया प्रबलत्वादर्थक्रममनुसृत्य क्रमेण पदान्यवतारयति –
नेत्यादना ।
अयमिति ।
प्रत्यक्षात्मकानुभवसिद्ध इत्यर्थः । अयमित्यनेनैव द्वितीयकल्पपरिहारो द्रष्टव्यः । प्रत्यक्षानुभवादिति । साक्षिरूपप्रत्यक्षानुभवविषयत्वादित्यर्थः । अहमज्ञ इत्यादिवृत्तिरूपस्यानुभवस्य भ्रमस्वरूपत्वादध्यासः सिद्धः । सिद्धे वृत्तिस्वरूपे अध्यासे साक्ष्यात्मकभानसत्त्वादभानमयुक्तं वृत्तीनां साक्षिभास्यत्वनियमादिति भावः ।
जीवात्मनि कर्तृत्वादिकं वास्तवमेवेत्याशङ्क्य निषेधति –
न चेत्यादिना ।
अहं कर्त्तेत्यादिप्रत्यक्षं कर्तृत्वादिमदात्मविशेष्यककर्तृत्वादिप्रकारकत्वात् प्रमात्मकमेव नाध्यासात्मकमतोऽध्यासो नानुभवसिद्ध इत्यर्थः । विशेषणद्वयेन तत्त्वमस्यादिवाक्यस्याप्रामाण्यान्यपरत्वयोर्निरासः क्रियते । “उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये “ इति श्लोकोक्तोपक्रमादिपदेन ग्राह्यम् उपक्रमोपसंहारावेव लिङ्गम् । बोधनेन ज्ञानेनेत्यर्थः । व्यधिकरणीयं तृतीया तथा च जीवस्याकर्तृब्रह्मबोधकागमवाक्यजन्यज्ञानेनाहं कर्तेत्यादिप्रत्यक्षस्य भ्रमत्वनिश्चयादध्याससिद्धिरिति भावः ।
प्रसङ्गमेवोपपादयति –
मनुष्य इति ।
तस्मादिति ।
देहात्मवादप्रसङ्गादित्यर्थः । देहात्मवादप्रसङ्गादुभयवादिसिद्धस्य मनुष्योहमिति सामानाधिकरण्यप्रत्यक्षस्य यथा भ्रमत्वं तथा अहं कर्तेत्यादिप्रत्यक्षस्यापि भ्रमत्वमास्थेयमिति भ्रमस्वरूपत्वेन सिद्धस्याध्यासस्य साक्षिप्रत्यक्षात्मकभानसम्भवादभानमयक्तमिति भावः ।
ज्ञानप्रत्यक्षनिष्ठं ज्येष्ठत्वमविवक्षित्वा प्रत्यक्षस्य प्राबल्याभावः साधितः सम्प्रति ज्येष्ठत्वं विवक्षित्वा प्राबल्याभावं साधयति –
किञ्चेति ।
पूर्वभावित्वं पूर्वकालवृत्तित्वम् उपजीव्यत्वं हेतुत्वं प्रत्यक्षस्य व्यावहारिकप्रामात्वेनैवोपजीव्यता न तात्विकप्रमात्वेनेति तात्विकप्रमात्वांशस्य ’नेह नानास्ति किञ्चने’त्याद्यागमेन बाधसम्भवान्न तस्य प्राबल्यमिति दूषयति –
न द्वितीय इति ।
आगमज्ञानोत्पत्तौ आगमरूपशब्दविषकज्ञानजन्याकर्तृब्रह्मविषयकशाब्दबोधोत्पत्तावित्यर्थः । प्रत्यक्षादिमूलः वाक्यप्रयोगादिरूपेण वृद्धव्यवहारेण जन्यः यः सङ्गतिग्रहः शक्तिज्ञानं तद्द्वारा या शब्दोपलब्धिस्तद्द्वारा चेत्यर्थः । तथा च उत्तमवृद्धः गामानयेति वाक्यं प्रयुङ्क्ते तद्वाक्यश्रोता मध्यमवृद्धः गवानयने प्रवर्तते तां प्रवृत्तिं पश्यतः व्युत्पित्सोर्बालस्य तदा अस्य पदस्यास्मिन्नर्थे शक्तिरित्यादिशक्तिग्रहो जायते तेनानन्तरं पदार्थज्ञानादिद्वारा तस्य बालस्य शाब्दबोधो भवति तस्मिन् शाब्दबोधे शक्तिज्ञानादिद्वारा श्रवणप्रत्यक्षादेरुपजीव्यत्वमस्तीति भावः । व्यावहारिकं यावद्ब्रह्मज्ञानं न जायते तावदबाधितं प्रामाण्यं प्रमात्वं यस्य प्रत्यक्षस्य तत्तस्येत्यर्थः । तात्विकं पारमार्थिकं प्रामाण्यं प्रमात्वं यस्य तत्तस्येत्यर्थः । अनपेक्षितत्वादनुपजीव्यत्वादित्यर्थः ।
ननु धर्मिरूपप्रत्यक्षस्य उपजीव्यस्य धर्मभेदेनानुपजीव्यत्वेप्यागमबाधितत्वेनोपजीव्यविरोधो दुर्वार इत्याशङ्कायां धर्मिनिषेधे तावदागमस्य तात्पर्याभावाद्धर्मस्यैव बाध इत्याह –
अनपेक्षितांशस्येति ।
अनवच्छेदकतात्विकप्रमात्वरूपधर्मस्येत्यर्थः । आगमेन – नेह नानास्ति किञ्चनेत्यागमेनेत्यर्थः । व्यावहारिकप्रमात्वस्यातिरिक्तवृत्तित्वेप्युपजीव्यतावच्छेदकत्वमितरनिवर्तकत्वरूपमौपचारिकमिति भावः ।
अथवा प्रत्यक्षकारणं व्यावहारिकप्रमात्वं तु सहकारिकारणम् , तथा च तयोरागमेन बाधो नास्ति किन्तु तात्विकप्रमात्वबाधस्ततो नोपजीव्यविरोधो न प्राबल्यं चेति दूषयति –
न द्वितीय इति ।
षष्ठीद्वयं प्रत्यक्षादेर्न विशेषणं बहुव्रीहिरपि पूर्ववन्नाश्रयणीयः । उपजीव्यत्वेपीति प्रत्यक्षादिनिष्ठव्यावहारिकप्रमात्वस्य सहकारिकारणत्वसत्त्वेपीति भावः । अनपेक्षितत्वादसहकारित्वादित्यर्थः ।
तर्हि कस्य बाध इत्यत आह –
अनपेक्षितेति ।
असहकारिधर्मस्येत्यर्थः । एतदुक्तं भवति । उपजीव्ये वर्णपदवाक्यानां श्रवणप्रत्यक्षे वेदान्त्यभिमतव्यावहारिकप्रमात्वांश एकः पूर्ववाद्यभिमततात्विकप्रमात्वांशश्चेत्यंशद्वयं वर्तते तत्र शाब्दबोधस्योत्पत्त्यर्थं व्यावहारिकप्रमात्वांशमेवापेक्षते यावद्ब्रह्मज्ञानं न जायते तावद्व्यावहारिकसत्यत्वेन प्रत्यक्षादिपदार्थानां सद्भावाभावे स्वोत्पत्त्यसम्भवादतो नापेक्षितांश एव आगमेन बाध्यते तत्रैव श्रुतेस्तात्पर्यादिति । तथा च प्रत्यक्षस्य पारमार्थिकस्वरूपबाधापेक्षया भ्रमत्वं अहं कर्ता भोक्ताहमिति आत्मविशेष्यकानात्मनिष्ठकर्तृत्वादिधर्माध्यासरूपं ज्ञानं धर्म्यध्यासमन्तरा न सम्भवतीति धर्मिणोरात्मानात्मनोरध्यासोऽनुभवसिद्ध इत्यनवद्यम् ।
नामरूपादिति ।
बन्धादित्यर्थः ।
सत्यस्येति ।
सत्यस्य कर्तृत्वादिबन्धस्येत्यर्थः ।
यज्ज्ञानमात्रनिवर्त्यं तदसत्यमिति शुक्तिरजतादिस्थले क्लृप्तनियमभङ्गः स्यादिति दूषयति –
तन्नेति ।
यत्सत्यं तत्कस्मादपि निवृत्तिरहितं यथात्मवदिति व्याप्तिविरोधोपि तव मते स्यादिति दूषणान्तरमाह –
सत्यस्य चेति ।
श्रुतेर्बोधकत्वमङ्गीकृत्य व्याप्तिद्वयविरोधो दर्शितः व्याप्तिद्वयविरोधादेव संप्रत्यङ्गीकारं त्यजति –
अयोग्यतेति ।
योग्यता ह्यर्थाबाधः तद्भिन्ना तु अयोग्यतेत्यर्थः । सत्यबन्धस्य या ज्ञानान्निवृत्तिस्तस्याः यद्बोधकत्वं श्रुतिनिष्ठं तदयोगादित्यर्थः । आदौ विषयत्वं षष्ठ्यर्थः श्रुतिनिष्ठस्य निवृत्तिविषयकबोधजनकत्वस्यायोगादिति फलितार्थः । निवृत्तिश्रुतेरिति पाठान्तरम् । तत्र निवृत्तिप्रतिपादकश्रुतेः बोधकत्वायोगादित्यर्थः । यदि कर्तृत्वादिबन्धः सत्यः स्यात्तर्हि ब्रह्मण इव सत्यबन्धस्यापि ज्ञानमात्रान्निवृत्तिरयोग्येति ज्ञानमात्रजन्यसत्यबन्धनिवृत्तिरूपश्रुत्यर्थे तावदयोग्यताविषयकनिश्चये सति निवृत्तिबोधकत्वं तथा विद्वानित्यादिश्रुतेरयुक्तं दृष्टान्ते ज्योतिष्टोमश्रुतेस्तु अपूर्वद्वारवर्णनेन योग्यतानिश्चयसत्त्वाद्बोधकत्वं युज्यत इति भावः ।
ननु पापकर्म किमसत्यं सत्यं वा ? नाद्यः, तन्नाशार्थं सेतुर्दर्शनादौ प्रयत्नो न स्यात् , द्वितीये यत्सत्यं तज्ज्ञानान्निवृत्तिं प्राप्तुं योग्यं तथा पापकर्मेऽति व्याप्त्या श्रुत्यर्थेऽपि योग्यतानिश्चयोस्तीत्याशङ्क्य दृष्टान्तवैषम्येण परिहरति –
न चेत्यादिना ।
तस्य पापस्येति ।
यद्यपि पापकर्म सत्यं तथापि श्रद्धानियमादिसापेक्षज्ञाननिवर्त्त्यमेव न तु ज्ञानमात्रनिवर्त्यं, बन्धस्तु ज्ञानमात्रनिवर्त्यत्वेन शुक्तिरजतादिवदसत्य एवेत्ययोग्यतानिश्चयो दुर्वार इति भावः । एतेन नियमाप्रविष्टमात्रपदव्यावर्त्यं दर्शितम् । पापकर्मणः उभयवाद्यभिमतं सत्यत्वं नाम व्यवहारकाले बाधशून्यत्वं व्यवहारयोग्यत्वेन विद्यमानत्वं वा ।
बन्धस्य ज्ञानमात्रनिवर्त्यत्वे श्रुतिं प्रमाणयति –
बन्धस्य चेति ।
श्रौतं तथा विद्वानित्यादिश्रुत्या प्रतिपादितं यज्ज्ञाननिवर्त्यत्वं ज्ञानजन्यबन्धनिवृत्तिरूपं तन्निर्वाहार्थं तस्मिन् श्रुत्यर्थे योग्यतानिश्चयार्थमित्यर्थः ।
ज्ञानैकनिवर्त्यस्य बन्धस्य सामान्यतः सत्यत्वं दूषितमिदानीं विकल्प्य दूषयति –
किञ्चेति ।
किं सत्यत्वमज्ञानाजन्यत्वं स्वाधिष्ठाने स्वाभावशून्यत्वं वा ब्रह्मवद्बाधायोग्यत्वं व्यवहारकाले बाधशून्यत्वं वा ? नाद्य इत्याह –
नेति ।
सत्ये ब्रह्मण्यज्ञानाजन्यत्वं प्रसिद्धमिति लक्षणसमन्बयः । एवं सर्वत्र । प्रकृतिमिति । जगदुपादानमित्यर्थः ।
श्रुत्या बन्धस्य मायाजन्यत्वमुच्यते नाज्ञानजन्यत्वमतो नाज्ञानजन्यत्वे श्रुतिविरोध इत्याशङ्क्याज्ञानमविद्या माया चेति पर्याय इत्यज्ञानजन्यत्वप्रतिपादकश्रुतिविरोधो दुर्वार इति परिहरति –
मायेति ।
न द्वितीय इत्याह –
नापीति ।
स्वशब्देन बन्धो ग्राह्यः बन्धाधिष्ठाने ब्रह्मणि बन्धाभावेन शून्यत्वं अवृत्तित्वमित्यर्थः । बन्धः स्वभावेन सह ब्रह्मणि वृत्तिमान् भवतीति भावः । अनेन स्वाधिष्ठानवृत्त्यभावाप्रतियोगित्वं सत्यत्वमिति लक्षणमुक्तं भवति । तस्यार्थः बन्धाधिष्ठानवृत्तिर्य अभावः न तु बन्धाभावः किं त्वन्याभावः तत्प्रतियोगित्वं बन्धेऽस्तीति । यदि ब्रह्मणि जगद्रूपो बन्धस्तदा तेन स्थूलत्वं धर्मत्वं च स्यात्तथा च निर्धर्मिकत्वास्थूलत्वादिप्रतिपादिकास्थूलमित्यादिश्रुतिविरोधः ।
किं च यदि ब्रह्मणि बन्धाभावो नास्ति तदा अस्थूलमित्यादिश्रुतेः बन्धाभावप्रतिपादनेपि तात्पर्यात्तद्विरोध इत्याह –
अस्थूलमित्यादीति ।
यद्यपि सिद्धान्ते ब्रह्मण्येव बन्धस्तथापि तस्याध्यस्तत्वेन श्रुतिविरोध इति भावः ।
तृतीये विरोधमाह –
नापि ब्रह्मवदिति ।
चरमे पक्षे तु मन्मतप्रविष्टोसीत्याह –
अथेति ।
’आदावन्ते च यन्नास्ति वर्तमानेपि तत्तथेति’ न्यायेन व्यावहारिकसत्यत्वाध्यस्तत्वयोर्न विरोध इति भावः ।
ननु विरोधाभावेन आगतेप्यध्यस्तत्वे प्रयोजनाभावात्किं तद्वर्णनेनेत्यत आह –
तच्चेति ।
यदि बन्धस्याध्यस्तत्वमङ्गीक्रियते तथैव ज्ञानमात्रजन्यबन्धनिवृत्तिरूपश्रुत्यर्थे यदि बन्धः सत्यः स्यात् ज्ञानमात्रान्निवर्तितुमयोग्यः स्यादित्येतादृशतर्कादिना बाधो नास्तीत्यर्थाबाधात्मकयोग्यतानिश्चयः सम्पद्यतेऽतः तन्निश्चयार्थमध्यासो वर्णनीय इति न तद्वर्णनं व्यर्थमिति भावः ।
अध्यस्तत्वस्य व्यापारत्वरूपद्वारत्वासम्भवात् द्वारत्वं विहायाङ्गीकारांश एवात्र दृष्टान्तमाह –
अपूर्वेति ।
अपूर्वं द्वारं यस्य सोऽपूर्वद्वारो यागस्तस्य भावस्तस्त्वमपूर्वरूपद्वारं तद्वदित्यर्थः । यथा ज्योतिष्टोमादिश्रुत्यर्थः यो यागस्य स्वर्गहेतुत्वरूपः तद्योग्यताज्ञानायापूर्वमङ्गीकृतं तथाध्यस्यत्वमङ्गीकरणीयमिति भावः । नचेत्यादिग्रन्थस्त्वतिरोहितार्थः ।
ननु विषयादिसिद्ध्यर्थमादावेवाध्यासस्यावश्यकत्वेन आर्थिकार्थतया युक्त्या च वर्णितत्वात्पुनस्तदनन्यत्वाधिकरणे तद्वर्णनं पुनरुक्तमेवाधिकरणस्य गतार्थत्वादित्यत आह –
दिगिति ।
अयमाशयः । अधिकशङ्कानिरासार्थकत्वेन प्रवृत्तस्य तदधिकरणस्य न गतार्थता यतः सङ्ग्रहस्य विवरणमतो न पुनरुक्ततेत्यलमतिप्रसङ्गेन ।
लोकसहितो व्यवहारः लोकव्यवहारः इति मध्यमपदलोपसमासादेकवचनेऽपि द्वैविध्यं युक्तमेवेत्यभिप्रेत्य भाष्यमवतारयति –
अध्यासमिति ।
लोक्यते यः सः लोक इति कर्मव्युत्पत्त्या अर्थाध्यासपरत्वेन लोकपदं व्याचष्टे –
लोक्यत इति ।
मनुष्यपदं पूर्वं व्याख्यातम् ।
मनुष्योहमिति ।
देहाहङ्काराद्यर्थरूपः ज्ञानोपसर्जनोर्थाध्यास इत्यर्थः ।
ननु लोकपदस्य कर्मव्युत्पत्त्यङ्गीकारेण तत्साहचर्याद् व्यवहारपदस्यापि कर्मव्युत्पत्तिः स्यादित्याशङ्क्योभयोः कर्मपरत्वे पौनरुक्त्यान्न सम्भवतीत्याह –
तद्विषय इति ।
स एवार्थरूपाध्यासो विषयो यस्य ज्ञानरूपाध्यासस्य स तथेत्यर्थः ।
ननु व्यवहारशब्दस्याभिज्ञाभिवदनमर्थक्रिया चेति बह्वर्थसम्भवात्किमत्र विवक्षितमित्याशङ्क्याभिज्ञार्थकत्वमित्याह –
अभिमान इति ।
अर्थोपसर्जनः ज्ञानरूपोध्यासो ज्ञानाध्यास इत्यर्थः । इदं रजतमित्यत्र ज्ञानप्राधान्यविवक्षया ज्ञानाध्यासः अर्थप्राधान्यविवक्षया अर्थाध्यासश्च वेदितव्यः । एवं सर्वत्र ।
स्वरूपेति ।
स्वरूपं च तल्लक्षणं चेति कर्मधारयः । लक्षणादिभाष्यसिद्धमात्मानात्मनोरितरेतरविषयमविद्याख्यं द्विविधाध्यासस्वरूपमाहेत्यर्थः । लक्षणं द्विविधं स्वरूपलक्षणं व्यावर्तकलक्षणं चेति तत्र भाष्ये कण्ठोक्तिः स्वरूपलक्षणम् अस्त्येवेति ज्ञापयितुं स्वरूपलक्षणमित्युक्तम् । स्वरूपलक्षणेप्युक्ते तन्निष्ठमसाधारणधर्मस्वरूपं व्यावर्तकलक्षणमर्थात्सिध्यतीति भावः ।
धर्मधर्मिणोरिति भाष्ये धर्मश्च धर्मी चेति न द्वन्द्वसमासः किन्तु धर्माणां धर्मिणाविति षष्ठीतत्पुरुषसमास इति व्याचष्टे –
जाड्येति ।
चैतन्यं चेतनमित्यर्थः ।
धर्माणां यौ धर्मिणौ तयोरित्यनेन धर्मपदमनेकधर्मबोधकं धर्मिपदं धर्मिद्वयबोधकमिति ज्ञाप्यते अत्यन्तविविक्तयोर्धर्मधर्मिणोरितरेतराविवेकेनान्योन्यस्मिन् अन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य सत्यानृते मिथुनीकृत्य मिथ्याज्ञाननिमित्तोऽहमिदं ममेदमित्ययं लोकव्यवहारो नैसर्गिक इति पदयोजनामभिप्रेत्यावान्तरयोजनामर्थपूर्वकमाविष्करोति –
तयोरिति ।
अलक्ष्यत्वज्ञापनार्थं प्रमाया इत्युक्तम् ।
अतःशब्दार्थमाह –
तदिदमिति ।
अत्यन्तभेदाभावात् – धर्मिरूपव्यक्तिभेदाभावादित्यर्थः, तथा च सोऽयं देवदत्त इति प्रत्यभिज्ञारूपप्रमायामत्यन्तभिन्नयोर्धर्मिणोरन्योन्यस्मिन् अन्योन्यात्मकत्वावभासत्वरूपाध्यासव्यावर्तकलक्षणस्य नातिव्याप्तिस्तदिदमर्थयोरत्यन्तभिन्नत्वाभावादिति भावः । अन्योन्यस्मिन्नन्योन्यात्मकत्वाभासोऽध्यासस्वरूपलक्षणमिति समुदायग्रन्थार्थः ।
सिद्धेरिति ।
धर्माध्यासविशिष्टसामग्रीसत्त्वे कार्यावश्यम्भावाद्धर्माध्यासरूपकार्यसिद्धिरिति शङ्कितुरभिप्रायः । अन्धत्वं दोषविशेषविशिष्टत्वं वस्तुग्रहणायोग्यत्वं वा । धर्म्यध्यासास्फुटत्वेपीति । अहं चक्षुरिति प्रत्येकं धर्म्यध्यासस्यानुभवसिद्धत्वाभावेपीत्यर्थः । धर्माध्यासस्यानुभवसिद्धत्वाद्धर्म्यध्यासोऽनुमीयत इति भावः । अन्धोहमिति धर्माध्यासः धर्म्यध्यासपूर्वकः धर्माध्यासत्वात् स्थूलोहमिति धर्माध्यासवदिति प्रयोगः ।
नन्विति ।
आत्मानात्मनोरन्योन्यस्मिन्नन्योन्यात्मकतामध्यस्येत्यनेन परस्पराध्यस्तत्वमुक्तं भवति तच्च न सम्भवतीत्युभयोरसत्यत्वेन शून्यवादप्रसङ्गादिति भावः ।
सत्यानृतपदयोर्वचनपरतां व्यावर्तयति –
सत्यमित्यादिना ।
सत्यं कालत्रयबाधाभावोपलक्षितं वस्त्वित्यर्थः ।
तस्य ज्ञानकर्मत्वं व्यावर्तयति –
अनिदमिति ।
प्रत्यक्षाद्यविषय इति भावः ।
तत्र हेतुमाह –
चैतन्यमिति ।
संसर्गेति ।
तादात्म्येत्यर्थः, तथाचानात्मन्यात्मतादात्म्यमात्रमध्यस्यते नात्मस्वरूपमिति भावः । अपिशब्देनानात्मस्वरूपं तत्तादात्म्यं चाध्यस्यत इत्युच्यते । तयोः सत्यानृतयोः मिथुनीकरणं तादात्म्यादिकमेकबुद्धिविषयत्वं वा । अध्यासः अर्थाध्यास इत्यर्थः । आत्मनः संसृष्टत्वेनैवाध्यासः न स्वरूपेण अनात्मनस्तूभयथा तस्मान्न शून्यवादप्रसङ्गः इति भावः । ननु सत्यानृतयोर्मिथुनीकरणं कथं वादिनामसम्मतत्वात् ? अत्रोच्यते श्रुतिप्रामाण्यादिदं सिद्धान्तानुसारेण विभावनीयमिति ।
पूर्वकालत्वेनेति ।
पूर्वः कालो यस्य तथा तस्य भावः तथा च पूर्वकालवृत्तित्वेनेत्यर्थः ।
प्रत्यगिति ।
प्रत्यगात्मन्यध्यासप्रवाह इत्यन्वयः । आत्मनि कर्तृत्वभोक्तृत्वदोषसम्बन्ध एवाध्यासः अत्र वर्तमानभोक्तृत्वाध्यासः कर्तृत्वाध्यासमपेक्षते ह्यकर्तुर्भोगाभावात् कर्तृत्वं च रागद्वेषसमन्धाध्यासमपेक्षते रागादिरहितस्य कर्तृत्वाभावात् रागद्वेषसम्बन्धश्च पूर्वभोक्तृत्वं अपेक्षते अनुपभुङ्क्ते रागाद्यनुपपत्तेः । एवं हेतुहेतुमद्भावेन प्रत्यगात्मन्यध्यासप्रवाहोऽनादिरिति भावः । सम्बन्धरूपस्य प्रवाहस्य सम्बन्धिव्यतिरेकेणाभावात् सम्बन्धिस्वरूपाणामध्यासव्यक्तीनां तु सादित्वाच्च नानादित्वमिति ।
नन्विति ।
अनादिकालत्वनिष्ठव्याप्यतानिरूपितव्यापकतावच्छेदकावच्छिन्नसम्बन्धप्रतियोगित्वम् अनादिकालत्वव्यापकसम्बन्धप्रतियोगित्वं कार्यानादित्वमिति सिद्धान्तयति उच्यत इति ।
कार्याध्यासस्य प्रवाहरूपेणानादित्वं व्यतिरेकमुखेनाविष्करोति –
अध्यासत्वेति ।
यत्रानादिकालत्वं तत्राध्यासत्वावच्छिन्नाध्यासव्यक्तिसम्बन्ध इति व्याप्यव्यापकभावोऽनुभवसिद्धः, व्यक्तिसम्बन्धो नाम व्यक्तिप्रतियोगिकसम्बन्धः, तथा च सम्बन्धप्रतियोगित्वं व्यक्तौ वर्तत इति लक्ष्ये लक्षणसमन्वयः । सुषुप्त्यादौ कर्त्तृत्वाद्यध्यासाभावेपि तत्संस्कारसत्वान्न व्याप्तेर्व्यभिचार इति भावः । विकल्पस्तृतीयपक्ष इत्यर्थः ।
एतच्छब्दार्थं हेतुं विवृणोति –
संस्कारस्येति ।
संस्काररूपनिमित्तकारणस्येत्यर्थः । संस्कारहेतुपूर्वाध्यासस्येदमुपलक्षणम् । तथा च संस्कारतद्धेत्वध्यासयोर्नैसर्गिकपदेनोक्तत्वाद्विकल्पो निरस्त इति भावः ।
लाघवेनेति ।
कारणतावच्छेदककोटौ यथार्थपदविशष्टप्रमापदं न निवेश्यते किन्तु भ्रमप्रमासाधारणानुभवपदं निवेश्यते ततोऽधिष्ठानसमान्यारोप्यविशेषयोरैक्यानुभवजनितसंस्कारत्वं कारणत्वं कारणतावच्छेदकमिति कारणतावच्छेदकलाघवेनेत्यर्थः । अथवा कारणशरीरलाघवेनेत्यर्थः ।
तत्राज्ञानमित्युक्ते ज्ञानाभावामात्रमित्युक्तं स्यान्मिथ्येत्युक्ते भ्रान्तिज्ञानमिति स्यात्तदुभयव्यावृत्त्या स्वाभिमतार्थसिद्धये कर्मधारयसमासं व्युत्पादयति –
मिथ्या च तदिति ।
मिथ्याज्ञानमनिर्वचनीया मिथ्येत्यर्थः ।
अजहल्लक्षणया निमित्तपदस्योपादानमप्यर्थ इत्याह –
तदुपादान इति ।
मिथ्याज्ञानोपादान इति वक्तव्ये सति मिथ्याज्ञाननिमित्त इत्युक्तिः किमर्थेत्यत आह –
अज्ञानस्येति ।
अहङ्काराध्यासकर्तुरस्मदाद्यहङ्काराध्यासकर्तुरित्यर्थः । इदमुपलक्षणमीश्वरस्य सर्वजगत्कर्तृत्वमुपाधिं विना न सम्भवतीति ईश्वरनिष्ठकर्तृत्वाद्युपाधित्वेनेत्यर्थः । संस्कारकालकर्मादीनि यानि निमित्तानि तत्परिणामित्वेनेति विग्रहः । अज्ञानस्य मायात्वेनोपादानत्वं दोषत्वेनेत्यादितृतीयात्रयेण निमित्तत्वमप्यस्तीति ज्ञापयितुं निमित्तपदमिति भावः ।
स्वप्रकाशे तमोरूपाऽविद्या कथम् असङ्गे ह्यविद्यायाः सङ्गश्च कथमित्यन्वयमभिप्रेत्याह –
स्वप्रकाशेति ।
शङ्कानिरासार्थं शङ्काद्वयनिरासार्थमित्यर्थः ।
प्रथमशङ्कां परिहरति –
प्रचण्डेति ।
स्वप्रकाशे दृष्टान्तसहितानुभवबलादस्त्येवाविद्या न स्वप्राकाशत्वहानिरपि, अनुभवस्य भ्रमत्वादिति भावः । पेचका उलूका इत्यर्थः ।
द्वितीयशङ्कां परिहरति –
कल्पितस्येति ।
कल्पितस्याधिष्ठानेन सह वास्तविकसम्बन्धरहितत्वादित्यर्थः । सम्बन्धस्याध्यासिकत्वादस्त्येवाविद्यासङ्गः तस्या वास्तविकत्वाभावेन नासङ्गत्वहानिरिति भावः ।
प्रथमशङ्कानिरासे युक्त्यन्तरमाह –
नित्येति ।
वृत्त्यारूढज्ञानमेवाज्ञानविरोधीति भावः ।
अथवा ज्ञानाज्ञानयोर्विरोधात्कथं ज्ञानरूपात्मन्यज्ञानमित्यत आह –
नित्येति च ।
च शब्दः शङ्कानिरासार्थः ।
तार्किकमतनिरासार्थं मिथ्यापदमित्याह –
यद्वेति ।
लक्ष्यांशशेषपूर्त्या लक्षणद्वयं योजयति –
मिथ्यात्वे सतीत्यादिना ।
अनिर्वचनीयत्वे सतीत्यर्थः । अथवा भावत्वे सतीत्यर्थः ।
अज्ञानपदेन विवक्षितमर्थमाह –
साक्षाज्ज्ञानेति ।
मिथ्या च तदज्ञानं च मिथ्याज्ञानं तत्प्रतिपादकं समासवक्यरूपं यत्पदं तेनेत्यर्थः । एतेन पदद्वयस्य सत्त्वात्पदेनेत्येकवचनानुपपत्तिरिति निरस्तं – पदस्य समासवाक्यरूपत्वेनाङ्गीकारात् ।
ज्ञानघटिता हि इच्छोत्पत्तिसामग्र्येव इच्छाप्राग्भावनाशहेतुः नत्विच्छेत्येकदेशिसिद्धान्तमनुवदन् पदकृत्यमाह –
ज्ञानेनेति ।
जानातीच्छति यतत इति न्यायेन ज्ञानानन्तरमिच्छा जायते ज्ञानेनैवेच्छा प्रागभावश्च नश्यतीति वदन्तं तार्किकैकदेशिनं प्रतीत्यर्थः । तथा चेच्छाप्रागभावे लक्षणस्यातिव्याप्तिस्तन्निरासार्थं मिथ्यापदमिति भावः । प्रथमव्याख्यानेन मिथ्यात्वमनिर्वचनीयत्वमज्ञानं नामाविद्या समासस्तु कर्मधारयः लक्ष्यांशस्य न शेषपूर्तिः तथा च मिथ्याज्ञानमित्यनेन भाष्येणाविद्यारूपाज्ञानस्यानिर्वचनीयत्वमक्षरारूढलक्षणमित्युक्तं भवतीति ज्ञापितम् ।
यद्वेति ।
द्वितीयव्याख्याने न मिथ्यात्वं भावत्वमज्ञानं नाम साक्षाज्ज्ञाननिवर्त्यं समासस्तु कर्मधारयः लक्ष्यांशशेषपूर्तिः तथा च भावत्वे सति साक्षाज्ज्ञाननिवर्त्यत्वमज्ञानलक्षणं तात्पर्येण मिथ्याज्ञानपदेन बोधितमिति दर्शितम् ।
इदानीं मिथ्यात्वं नाम ज्ञाननिवर्त्यत्वं अज्ञानं नामानाद्युपादानिति विवक्षया व्याख्यानान्तरमभिप्रेत्याज्ञानस्य लक्षणान्तरमाह –
अनादीति ।
यस्यादिरुत्पत्तिर्न विद्यते तदनादि, तथाचानादित्वे सत्युपादानत्वे सतीत्यर्थः । लक्षणं मिथ्याज्ञानपदेनोक्तमिति पूर्वेणान्वयः । अस्मिन्लक्षणे साक्षात्पदादिकं न निवेशनीयं बन्धेच्छाप्रागभावयोरतिव्याप्त्याभावादिति भावः ।
ब्रह्मनिरासार्थमिति ।
ब्रह्मण्यज्ञानलक्षणस्यातव्याप्तिनिरासार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।
सर्वानुभवरूपप्रमाणेन अध्याससिद्धिमुक्त्वा शब्दप्रयोगरूपाभिलापेन चाध्याससिद्धिरिति भाष्याशयमुद्घाटयति –
सम्प्रतीति ।
ननु वियदाद्यध्यासः प्राथमिकत्वाद्भाष्ये प्रतिपादयितव्यः कथमहमिदमित्याद्यध्यासप्रतिपादनमित्यत आह –
आध्यात्मिकेति ।
आध्यात्मिककार्याध्यासाभिप्रायेण भाष्ये अहमिदमित्यादिद्वितीयाध्यासप्रतिपादनं, तथा च द्वितीयस्य प्रथमाकाङ्क्षित्वात् प्राथमिकाध्यासं भाष्यस्यार्थिकार्थस्वरूपं स्वयम् पूरयतीति भावः ।
नायमध्यास इति ।
इदं रजतमित्यत्र रजतस्याध्यस्तत्ववदहङ्कारस्याध्यस्तत्वे अधिष्ठानारोप्यांशद्वयं वक्तव्यं तच्च न सम्भवति अहमित्यत्र निरंशस्यैकस्य द्वैरूप्याननुभवादिति शङ्काग्रन्थार्थः । अयःशब्दार्थो लोहपिण्डः, अयो दहतीत्यत्राग्निरयःसम्पृक्ततयावभासते अयःपिण्डस्त्वग्निसंवलिततया, तेनाग्निनिष्ठदग्धृत्वमयःपिण्डे अवभासते अयःपिण्डनिष्ठचतुष्कोणाकारत्वमग्नौ तस्मादयःपिण्डाग्निरूपांशद्वयमनुभूयते यथा, तथा अहमुपलभ इत्यत्रापि चिदात्माद्यहङ्कारसम्पृक्ततया अवभासते अहङ्कारोऽपि चिदात्मनि सम्वलिततया, तेन जाड्यचेतनत्वादिकमपि व्यत्यासेनावभासते तस्मादहमित्यनेनात्माहङ्काररूपांशद्वयमनुभूयत इति परिहारग्रन्थार्थः । ननु तत्रोपलभ इत्याकारकपदसाहचर्यादस्त्यंशद्वयोपलब्धिः केवलाहमित्यत्र कथमिति चेन्न । अहं पश्याम्यहमुपलभ इत्येवं पदान्तरसाहचर्येणैव धर्माध्यासविशिष्टत्वेन प्राथमिकधर्म्यध्यासस्यानुभूतत्वात् । ननु दृष्टान्तदर्ष्टान्तिकयोः कथं शाब्दबोध इति चेत् । उच्यते । अयो दहतीत्यत्र दहतीत्यनेन दग्धृत्वमुच्यते अयोधर्मत्वेन भासमानस्य दग्धृत्वस्यायोधर्मत्वाभावादग्नितादात्म्यापन्नायःपिण्डो अयःशब्देनोच्यते तथा च दग्धृत्वविशिष्टः अग्नितादात्म्यापन्नः अयःपिण्ड इति शाब्दबोधो जायते यथा, तथा अहमुपलभ इत्यत्रापि उपलभ इत्यनेन वृत्तिरूपोपलब्धिरुच्यते स्फुरणात्मिकायाः अहङ्काररूपजडधर्मत्वेन भासमानायाः वृत्तिरूपोपलब्धेर्जडधर्मत्वाभावादहमित्यनेन चित्तादात्म्यापन्नाहङ्कार उच्यते तथा चोपलब्धिविशिष्टश्चित्तादात्म्यापन्नः अहङ्कार इति शब्दबोधस्तस्मादहमित्यनेन दृग्दृश्यांशद्वयमनुभूयते तथा सति साक्षिणि कूटस्थले दृगंशस्वरूपे आत्मनि दृश्यांशस्य केवलस्याहङ्कारस्य धर्मिणः अध्यासः प्राथमिकः सम्भवति । एवमहङ्कारेपि धर्मिस्वरूपात्मनः संसृष्टत्वेनाध्यासः प्राथमिकः सम्भवति धर्म्यध्यासमन्तरा वृत्तिरूपोपलब्ध्यात्मकधर्माध्यासस्यासम्भवादिति भावः । भोग्यसङ्घातः शरीरादिसङ्घात इत्यर्थः ।
अत्र भाष्ये प्राथमिकाध्यासो न प्रतिपाद्यते किन्तु अनन्तराध्यास एवेति ज्ञापयितुं भागद्वयेनार्थपूर्वकम् अध्यासं विवृणोति –
अत्राहमिति ।
मनुष्यत्वमिति संस्थानरूपाकृतिविशेषः जातिविशेषो वा । तादात्म्याध्यास इति । तादात्म्यांशचित्सत्तैक्याध्यास इत्यर्थः । देहात्मनोरेकसत्ताध्यास इति यावत् । शरीरत्वं मनुष्यत्वविलक्षणं पश्वादिशरीरसाधारणं भोगायतनत्वं संसर्गाध्यासतादात्म्यांशभूतसंसर्गाध्यास इत्यर्थः । भेदसहिष्णुरभेद इति तादात्म्यस्यांशद्वयं तथा च मनुष्योहमित्यत्र मनुष्यत्वावच्छिन्ने देहे तावदभेदांशरूपचित्सत्तैक्याध्यासोऽनुभवसिद्धः मम शरीरमित्यत्र भेदांशरूपसंसर्गाध्यासोऽनुभवसिद्धः ततः तादात्म्यस्याभेदांशः सत्तैक्यमित्युच्यते भेदांशः संसर्ग इति व्यवह्रियते इति भावः ।
इममेवार्थं शङ्कोत्तराभ्यां स्फुटीकरोति –
नन्वित्यादिना ।
अर्धाङ्गीकारेण परिहरति –
सत्यमिति ।
तादात्म्यमेव संसर्ग इत्यंश अङ्गीकारः भेदो नास्ति इत्यर्थके को भेद इत्यंशे अनङ्गीकारः । तथाहि विशिष्टस्वरूपतादाम्यं तदेकदेशः संसर्गः, तथा च संसर्गस्य विशिष्टान्तर्गतत्वात्तादात्म्येनाभेदः सम्भवति तदेकदेशत्वाद्भेदश्च तथा हस्तपादादिविशिष्टस्वरूपं शरीरं तदेकदेशो हस्तस्तस्य शरीरापेक्षया अभेदः तदेकदेशत्वाद्भेदश्च सम्भवति तद्वदिति भावः ।
अध्याससिद्धान्तभाष्यतात्पर्यकथनद्वारा परमप्रकृतमुपसंहरति –
एवमिति ।