भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

नन्वस्य लक्षणस्यासम्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्यमाणरजतस्यैव (स्मर्यमाणसत्यरजतस्यैव)* परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम् , अन्यथाख्यातिप्रसङ्गादित्यत आह -

स्मृतिरूप इति ।

स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणादारोप्यस्य भेदात् , नान्यथाख्यातिरित्युक्तं भवति ।

सादृश्यमुपपादयति -

पूर्वदृष्टेति ।

दृष्टं दर्शनम् , संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभासः । तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् । न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् , दोषसम्प्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् । अत्र सम्प्रयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसम्प्रयोगालाभात् । एवं च दोषसम्प्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुत्पन्नमस्तीति परत्रावभास्यत्वलक्षणमुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादितम् । अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृश्यं च प्रमाणाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् । पूर्वदृष्टपदतज्जातीयपरम् , अभिनवरजतादेः पूर्वदृष्टत्वाभावात् । तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् । परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव । तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभासत (पूर्वदर्शनादवभास)* इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादेऽपि परत्र परावभास इति लक्षणे संवादाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह -

तं केचिदिति ।

केचिदन्यथाख्यातिवादिनोऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थस्य रूप्यादेरध्यास इति वदन्ति । आत्मख्यातिवादिनस्तु बाह्ये शुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -

केचिदिति ।

यत्र यस्याध्यासो लोकसिद्धस्तयोस्तद्धियोश्च (लोकतयोरर्थयोस्तद्धियोश्च)* भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् , परत्र परावभाससम्मतिरिति भावः ।

शून्यमतमाह -

अन्ये त्विति ।

तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह -

सर्वथापि त्विति ।

अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात्शून्यत्वे प्रत्यक्षत्वायोगात् , शुक्तौ सत्त्वे बाधायोगात्मिथ्यात्वमेवेति भावः ।

आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह -

तथा चेति ।

बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्वं शुक्तिकात्वज्ञानायोगात् , रजतस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरुपाधिकेऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवान्तरभेदस्य(ब्रह्मजीवावान्तरभेदस्य)* अविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह -

एक इति ।

द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ इतिशब्दः ।

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भवतीत्याक्षिपति -

कथं पुनरिति ।

यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न सम्भवतीत्यभिप्रेत्याह -

प्रत्यगात्मनीति ।

प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः ।

नन्वस्य लक्षणस्यासम्भवः, शुक्तौ रजतस्य सामग्र्यभावेन संसर्गासत्वात् । न च स्मर्यमाणरजतस्यैव (स्मर्यमाणसत्यरजतस्यैव)* परत्र शुक्ताववभास्यत्वेनाध्यस्तत्वोक्तिरिति वाच्यम् , अन्यथाख्यातिप्रसङ्गादित्यत आह -

स्मृतिरूप इति ।

स्मर्यते इति स्मृतिः सत्यरजतादिः तस्य रूपमिव रूपमस्येति स्मृतिरूपः । स्मर्यमाणसदृश इत्यर्थः । सादृश्योक्त्या स्मर्यमाणादारोप्यस्य भेदात् , नान्यथाख्यातिरित्युक्तं भवति ।

सादृश्यमुपपादयति -

पूर्वदृष्टेति ।

दृष्टं दर्शनम् , संस्कारद्वारा पूर्वदर्शनादवभास्यत इति पूर्वदृष्टावभासः । तेन संस्कारजन्यज्ञानविषयत्वं स्मर्यमाणारोप्ययोः सादृश्यमुक्तं भवति, स्मृत्यारोपयोः संस्कारजन्यत्वात् । न च संस्कारजन्यत्वादारोपस्य स्मृतित्वापत्तिरिति वाच्यम् , दोषसम्प्रयोगजन्यत्वस्यापि विवक्षितत्वेन संस्कारमात्रजन्यत्वाभावात् । अत्र सम्प्रयोगशब्देन अधिष्ठानसामान्यज्ञानमुच्यते, अहङ्काराध्यासे इन्द्रियसम्प्रयोगालाभात् । एवं च दोषसम्प्रयोगसंस्कारबलाच्छुक्त्यादौ रजतमुत्पन्नमस्तीति परत्रावभास्यत्वलक्षणमुपपन्नमिति स्मृतिरूपपूर्वदृष्टपदाभ्यामुपपादितम् । अन्ये तु ताभ्यां दोषादित्रयजन्यत्वं कार्याध्यासलक्षणमुक्तमित्याहुः । अपरे तु स्मृतिरूपः स्मर्यमाणसदृशः, सादृश्यं च प्रमाणाजन्यज्ञानविषयत्वं स्मृत्यारोपयोः प्रमाणाजन्यत्वात् । पूर्वदृष्टपदतज्जातीयपरम् , अभिनवरजतादेः पूर्वदृष्टत्वाभावात् । तथा च प्रमाणाजन्यज्ञानविषयत्वे सति पूर्वदृष्टजातीयत्वं प्रातीतिकाध्यासलक्षणं ताभ्यामुक्तम् । परत्रावभासशब्दाभ्यामध्यासमात्रलक्षणं व्याख्यातमेव । तत्र स्मर्यमाणगङ्गादौ अभिनवघटे चातिव्याप्तिनिरासाय प्रमाणेत्यादि पदद्वयमित्याहुः । तत्रार्थाध्यासे स्मर्यमाणसदृशः परत्र पूर्वदर्शनादवभास्यत इति योजना । ज्ञानाध्यासे तु स्मृतिसदृशः परत्र पूर्वदर्शनादवभासत (पूर्वदर्शनादवभास)* इति वाक्यं योजनीयमिति सङ्क्षेपः ।

ननु अध्यासे वादिविप्रतिपत्तेः कथमुक्तलक्षणसिद्धिरित्याशङ्क्याधिष्ठानारोप्यस्वरूपविवादेऽपि परत्र परावभास इति लक्षणे संवादाद्युक्तिभिः सत्याधिष्ठाने मिथ्यार्थावभाससिद्धेः सर्वतन्त्रसिद्धान्त इदं लक्षणमिति मत्वा अन्यथात्मख्यातिवादिनोर्मतमाह -

तं केचिदिति ।

केचिदन्यथाख्यातिवादिनोऽन्यत्र शुक्त्यादावन्यधर्मस्य स्वावयवधर्मस्य देशान्तरस्थस्य रूप्यादेरध्यास इति वदन्ति । आत्मख्यातिवादिनस्तु बाह्ये शुक्त्यादौ बुद्धिरूपात्मनो धर्मस्य रजतस्याध्यासः, आन्तरस्य रजतस्य बहिर्वदवभास इति वदन्तीत्यर्थः ।

अख्यातिमतमाह -

केचिदिति ।

यत्र यस्याध्यासो लोकसिद्धस्तयोस्तद्धियोश्च (लोकतयोरर्थयोस्तद्धियोश्च)* भेदाग्रहे सति तन्मूलो भ्रमः, इदं रूप्यमिति विशिष्टव्यवहार इति वदन्तीत्यर्थः । तैरपि विशिष्टव्यवहारान्यथानुपपत्त्या विशिष्टभ्रान्तेः स्वीकार्यत्वात् , परत्र परावभाससम्मतिरिति भावः ।

शून्यमतमाह -

अन्ये त्विति ।

तस्यैवाधिष्ठानस्य शुक्त्यादेर्विपरीतधर्मत्वकल्पनां विपरीतो विरुद्धो धर्मो यस्य तद्भावस्तस्य रजतादेरत्यन्तासतः कल्पनामाचक्षत इत्यर्थः ।

एतेषु मतेषु परत्र परावभासत्वलक्षणसंवादमाह -

सर्वथापि त्विति ।

अन्यथाख्यातित्वादिप्रकारविवादेऽप्यध्यासः परत्र परावभासत्वलक्षणं न जहातीत्यर्थः । शुक्तावपरोक्षस्य रजतस्य देशान्तरे बुद्धौ वा सत्त्वायोगात्शून्यत्वे प्रत्यक्षत्वायोगात् , शुक्तौ सत्त्वे बाधायोगात्मिथ्यात्वमेवेति भावः ।

आरोप्यमिथ्यात्वे न युक्त्यपेक्षा, तस्यानुभवसिद्धत्वादित्याह -

तथा चेति ।

बाधानन्तरकालीनोऽयमनुभवः, तत्पूर्वं शुक्तिकात्वज्ञानायोगात् , रजतस्य बाधप्रत्यक्षसिद्धं मिथ्यात्वं वच्छब्देनोच्यते ।

आत्मनि निरुपाधिकेऽहङ्काराध्यासे दृष्टान्तमुक्त्वा ब्रह्मजीवान्तरभेदस्य(ब्रह्मजीवावान्तरभेदस्य)* अविद्याद्युपाधिकस्याध्यासे दृष्टान्तमाह -

एक इति ।

द्वितीयचन्द्रसहितवदेक एवाङ्गुल्या द्विधा भातीत्यर्थः । लक्षणप्रकरणोपसंहारार्थ इतिशब्दः ।

भवत्वध्यासः शुक्त्यादौ, आत्मनि तु न सम्भवतीत्याक्षिपति -

कथं पुनरिति ।

यत्रापरोक्षाध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिः शुक्त्यादौ दृष्टा । तत्र व्यापकाभावादात्मनोऽधिष्ठानत्वं न सम्भवतीत्यभिप्रेत्याह -

प्रत्यगात्मनीति ।

प्रतीचि पूर्ण इन्द्रियाग्राह्ये विषयस्याहङ्कारादेस्तद्धर्माणां चाध्यासः कथमित्यर्थः ।

आह कोयमध्यासो नामेत्यादि सर्वलोकप्रत्यक्ष इत्यन्तम् ; एवं सूत्रेणेति ; किंलक्षणक इति ; अस्येति ; आहेत्यादीति ; तदारभ्येति ; अध्यास इतीति ; तथाहीति ; तद्वत्वं वेति ; तथाचेति ; अतिव्याप्तिनिरासायेति ; संयोगस्येति ; पूर्वं स्वेति ; तेनेति ; स्वात्यन्ताभावेति ; शुक्ताविति ; नन्विति ; तदिति ; शुक्ताविति ; न चेत्यादिना ; अन्यथेति ; आहेति ; स्मर्यत इति ; आरोप्यस्येति ; दर्शनादिति ; तेनेति ; स्मृतीति ; दोषेति ; अत्रेति ; अन्ये त्वित्यादिना ; ताभ्यामिति ; स्मृतिरूप इति ; तज्जातीयेति ; तथा चेति ; परत्रेति ; तत्रेति ; आहुरिति ; ज्ञानाध्यास इति ; इति सङ्क्षेप इति ; नन्विति ; अन्यथात्मेति ; स्वावयवधर्मस्येति ; बुद्धीति ; तयोश्चेति ; तद्धियोश्चेति ; भेदेति ; विशिष्टेति ; तैरिति ; तस्यैवेति ; सम्वादमिति ; शुक्ताविति ; शुक्तौ सत्त्व इति ; बाधानन्तरेति ; तत्पूर्वमिति ; आत्मनीति ; द्वितीयेति ; भवत्विति ; यत्रेति ; प्रतीचीति ; इन्द्रियाग्राह्येति ;

युष्मदस्मदित्यादिलोकव्यवहार इत्यन्तं भाष्यं सकलशास्त्रोपोद्घातप्रयोजनं सत् सूत्रार्थविचारकर्तव्यतान्यथानुपपत्त्या अहंममाभिमानात्मकस्य लोकव्यवहारशब्दितस्य बन्धस्याविद्यात्मकत्वप्रतिपादनद्वारा सूत्रेणार्थात्सूचितविषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यसिद्धमध्यासन्त्वनुवदति –

आह कोयमध्यासो नामेत्यादि सर्वलोकप्रत्यक्ष इत्यन्तम् ।

लक्षणादिभाष्ये विस्तरेण साक्षादध्याससाधकं तत् अर्थाद्विषयप्रयोजनप्रतिपादकं भवति ।

अस्यानर्थहेतोरित्यादिकं आरभ्यते इत्यन्तं भाष्यं तु वेदान्तविचारकर्तव्यत्वान्यथानुपपत्त्या बन्धस्याविद्यकप्रतिपादनद्वारा विचारितवेदान्तानां विषयप्रयोजने प्रतिपादयति लक्षणादिभाष्यं सिद्धमध्यासमनुवदति एतदुत्तरभाष्यं सान्तं सम्बन्धादिप्रतिपादकं सत् पूर्वभाष्यसिद्धाध्यासविषयप्रयोजनानुवादकं भवतीति विभागः, तस्मान्न पुनरुक्तिरित्यभिप्रेत्याध्यासस्वरूपसिद्धिं विना सम्भावनाप्रमाणयोरप्रसक्तत्वात् वृत्तानुवादपूर्वकं लक्षणविषयं प्रश्नमुत्थापयति –

एवं सूत्रेणेति ।

लक्षणेन वस्तुस्वरूपसिद्धिः प्रमाणेन तु वस्तुनिर्णयसिद्धिरिति भेदः । अनेनैवाभिप्रायेण लक्षणप्रमाणाभ्यां वस्तुसिद्धिरिति व्यवह्रियत इति मन्तव्यम् । अर्थादिति पदं सम्बन्धग्रन्थे व्याख्यातम् । तद्धेतुमिति । पूर्वभाष्ये सिद्धवत्कृत्योपन्यस्तमिति शेषः । उत्कटकोटिसंशयः सम्भावना ।

ननु सम्भावनाभाष्ये सम्भावनामाक्षिपतीति व्याख्यायते तद्वदत्रापि लक्षणमाक्षिपतीति कुतो न व्याख्यायते किंशब्दस्य प्रश्नाक्षेपयोः प्रयुक्तस्य स्थलद्वये सत्त्वादिति चेन्न । भाष्ये प्रत्यगात्मनीति विशेषज्ञानेनाध्यासस्यासम्भवस्फूर्तेः सम्भावनांशे त्वाक्षेपो युक्तः अत्र तु आह कोयमध्यासो नामेति अध्याससामान्यज्ञानलक्षणांशे प्रश्न एव युक्त इत्यभिप्रायादिति भावः अभिप्रायवान् किंशब्दं लक्षणप्रश्नपदत्वेन व्याख्याति –

किंलक्षणक इति ।

किं लक्षणं यस्याध्यासस्य तथेति बहुव्रीहिः पूर्ववादिस्थाने स्थितः सन् श्रीभाष्यकार एव पूर्ववादी भूत्वा लक्षणं साधयितुं पृच्छति इति भावः ।

नन्वाहेति परोक्तेर्वादजल्पवितण्डासु तिसृषु कथासु प्रत्येकं सम्भवात्कुत्रेयं परोक्तिरित्यत आह –

अस्येति ।

तत्त्वनिर्णयः प्रधानमुद्देश्यं यस्य शास्त्रस्य तत्तथा तस्य भावस्तत्त्वं तेनेत्यर्थः । वादिप्रतिवादिभ्यां गुरुशिष्याभ्यां पक्षप्रतिपक्षपरिग्रहेण क्रियमाणार्थनिर्णयावसाना वादकथा तस्याः भावस्तत्त्वं तज्ज्ञापनार्थमित्यर्थः ।

विषयादिसिद्धिहेत्वध्याससिद्धिहेतुभूतानि यानि लक्षणसम्भावनाप्रमाणानि तत्प्रतिपादकभाष्यविभागमाह –

आहेत्यादीति ।

तदारभ्येति ।

कथं पुनः प्रत्यगात्मनीत्यारभ्य तमेतमविद्याख्यमित्यतः प्राक्सम्भवनापरमित्यर्थः । लक्षणमिति । स्वरूपलक्षणं व्यावर्तकलक्षणं चाहेत्यर्थः ।

ननु लक्षणवाक्ये लक्ष्याभिधायिनः पदस्याभावात् साकाङ्क्षवचनमनर्थमित्याशङ्क्य वाक्यं पूरयति –

अध्यास इतीति ।

प्रश्नवाक्यस्थितस्याध्यासपदस्यानुषङ्गः कर्तव्य इत्यर्थः । निरधिष्ठानभ्रान्तिनिरासार्थं परत्रेत्युक्ते अर्थात्परस्यावभासता सिद्धेत्यभिप्रेत्यावभास इत्युक्तम् । तदुपपादनार्थं – लक्षणोपपादनार्थमित्यर्थः । परत्र पदतात्पर्येण लक्षणप्रविष्ठं यत्स्वसंसृज्यमानत्वविशेषणं तदुपपादनार्थं पदद्वयं भवति न लक्षणप्रविष्टमिति भावः ।

अर्थरूपाध्यासपरत्वेन प्रथमतो लक्षणं योजयति –

तथाहीति ।

आरोप्येत्यभावस्याधिकरणस्वरूपत्वमिति मतमवलम्ब्येदमुक्तमिति भावः ।

अनङ्गीकारमतमवलम्ब्यारोप्यन्ताभाववत्त्वमयोग्यत्वमिति निर्वक्ति -

तद्वत्वं वेति ।

परत्रावभास इति पदद्वयेन परिष्कृतं व्यावर्तकलक्षणमाह –

तथाचेति ।

अध्यस्तत्वमर्थरूपाध्यासत्वमित्यर्थः । आत्मत्वावच्छेदेनात्मन्यहङ्कारस्य संसर्गकाले तस्य कल्पितत्वेन तदत्यन्ताभावोस्ति तस्मादहमित्याकारके प्राथमिके अहङ्काररूपार्थाध्यासे लक्षणसमन्वयः । एवं स्वयमहमित्यत्र स्वयन्त्वावच्छेदेन प्रत्यगात्मनि कूटस्थे अहङ्कारादेः संसर्गकाले तदत्यन्ताभावस्य सत्त्वात्कूटस्थकल्पिताहङ्काराद्यर्थरूपाध्यासे लक्ष्ये लक्षणसमन्वयः । सादित्वं जन्यत्वमनादित्वमजन्यत्वम् । अहङ्काराद्यध्यासः सादिः अविद्याचित्सम्बन्धाध्यासोऽनादिरिति भावः । तदुक्तम् –
जीव ईशो विशुद्धा चित्तथा जीवेशयोर्भिदा ।
अविद्या तच्चितोर्योगः षडस्माकमनादयः ॥ इति ।

अतिव्याप्तिनिरासायेति ।

अर्थान्तरप्राप्तिसिद्धसाधनतानिरासायेत्यर्थः । तथा हि रजतादेरभास्यत्वरूपमिथ्यात्वे साधिते सति यथा रजतादिः स्वाभाववत्यभास्यः तथा संयोगोपि स्वाभाववत्यभास्य इत्यर्थान्तरेण प्राप्ता या सिद्धसाधनता तन्निराकरणार्थं परमतानुसारेणैकावच्छेदेनेत्युक्तम् , स्वमते तु सर्वप्रपञ्चस्य मिथ्यात्वाङ्गीकारादेकावच्छेदेनेति देयमिति भावः । एवं सर्वत्र योजनीयम् ।

यद्यप्यग्रावच्छेदेन वृक्षे श्रीकृष्णसंयोगः मूलावच्छेदेन तदभावश्चास्ति तथाप्येकावच्छेदेन संयोगतदभावयोरसत्त्वान्न कृष्णसंयोगे अतिव्याप्तिरित्याह –

संयोगस्येति ।

स्वशब्दचतुष्टयं संयोगार्थकम् ।

पूर्वं स्वेति ।

अत्र स्वशब्देन घटो ग्राह्यः ।

ननु घटसम्बन्धित्वरूपं स्वसंसृज्यमानत्वं भूतलेप्यस्त्येवेत्यतिव्याप्तिर्दुर्वारेत्याशङ्क्य स्वसंसृज्यमानेत्यत्र विद्यमानशानच्प्रत्ययेन बोधितवर्तमानत्वं संसर्गरूपप्रकृत्यर्थविवक्षया स्फुटीकरोति –

तेनेति ।

तथा चैकप्रदेशावच्छेदेनैककालावच्छेदेन च स्वस्वाभावयोर्यदधिकरणं तस्मिन्नवभास्यत्वमेवार्थरूपाध्यासत्वमित्येवंलक्षणस्य पर्यवसानात्पश्चादानीतघटसंसर्गकाले घटाभावस्याभावान्नातिव्याप्तिरिति भावः ।

अतिव्याप्तिर्नामालक्ष्ये लक्षणसत्त्वं यत्र पृथिवीत्वं तत्र गन्ध इति दैशिकव्याप्तिः अनुभवसिद्धा तथा च पृथिवीत्वावच्छेदेन पृथिव्यां गन्धकाले गन्धाभावस्याभावान्नातिव्याप्तिरित्यभिप्रेत्याह –

स्वात्यन्ताभावेति ।

नन्वात्मनि स्वयमहमिति स्वयन्त्वावच्छेदेनाहङ्कारादिसंसर्गकाले तदभावापादकप्रमाणाभावात्तस्मिन् शुक्तिशकले रजताभावस्यासत्त्वेन रजतरूपार्थाध्यासे लक्षणस्याव्याप्तिः स्यादित्याह –

शुक्ताविति ।

अव्याप्तिर्नाम लक्षैकदेशे लक्षणस्यासत्त्वं नेदं रजतमिति विशेषदर्शनात्मकबाधरूपप्रत्यक्षप्रमाणबलात् ’आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’ इति न्यायाच्च रजताभावस्य शुक्तौ सत्त्वेन नाव्याप्तिः । ननु भावाभावयोरेकत्र सत्त्वाङ्गीकारे अनुभवविरोध इति चेत् । उच्यते – मिथ्यात्ववादिनामेतादृशविरोधस्त्वलङ्कार एवेति भावः ।

उद्धृते सत्यव्याप्तिदोषे साद्यध्यासे असम्भवं शङ्कते –

नन्विति ।

लक्ष्ये क्वाप्यप्रवर्तमानमसम्भव इत्यसम्भवलक्षणम् , साद्यध्यासरूपे अहङ्कारादौ लक्ष्ये सर्वत्र लक्षणस्यासत्त्वादसम्भव इत्यर्थः ।

शुक्तिरजतमध्यस्तत्वेन सर्वसम्मतं तस्मादुभयवादिसिद्धम् ।

तदिति ।

तत्र लक्षणासत्त्वमुपपादयति –

शुक्ताविति ।

अतिव्याप्तिवारकत्वेन लक्षणे प्रविष्टं यत्स्वसंसृज्यमानत्वं तदुपपादयितुमशक्यमिति भावः ।

ननु पुरोवर्तिनि हट्टपट्टणस्थरजतसंसर्गस्याभावेन स्वसंसृज्यमानत्वमुपपादयितुमशक्यत्वान्न लक्षणे निवेशनीयम् । न च तन्निवेशाभावे पश्चादानीतघटेऽतिव्याप्तिः स्यादिति वाच्यम् । अभास्यत्वं नाम प्रमाणाजन्यज्ञानविषयत्वमित्यङ्गीकारात्पश्चादानीतघटे तु प्रमाणजन्यज्ञानविषयत्वस्यैव सत्त्वेन लक्षणाभावान्नातिव्याप्तिस्तथा च स्मर्यमाणरजतमादाय लक्षणोपपत्तिरिति तटस्थस्य शङ्कां पूर्वपक्षी परिहरति –

न चेत्यादिना ।

स्मर्यमाणरजतस्य सत्यरजतस्येत्यर्थः । उक्तेरित्यनन्तरं न लक्षणस्यासम्भव इति शेषः ।

अन्यथेति ।

तथा चातिव्याप्तिवारणायान्यथाख्यातिमतभेदाय च लक्षणे स्वसंसृज्यमानत्वविशेषणे तावदावश्यके सति शुक्तौ प्रातिभासिकरजतस्यात्मनि व्यावहारिकाहङ्कारादेश्चोत्पत्तिवादिनां वेदान्तिनां मते ह्युत्पत्त्यनन्तरमेव संसर्गो वाच्यः । उत्पत्तिस्तु सामग्य्रभावान्न सम्भवति तस्माल्लक्षणस्यासम्भवो दुर्वार इति पूर्वपक्ष्यभिप्रायः ।

सिद्धान्ती परिहरति –

आहेति ।

अतिव्याप्तिवारकस्वसंसृज्यमानत्वविशेषणेनान्यथाख्यातिमतभेदः प्रतिपादितो भवति ।

सम्प्रति सामग्रीसम्पादनार्थत्वेन प्रवृत्तिस्मृतिरूपपदेनाप्यन्यथाख्यातिमतभेदो वक्तव्य इत्यवयवव्युत्पत्त्या प्रतिपादयति –

स्मर्यत इति ।

आरोप्यस्येति ।

शुक्तौ तदवच्छिन्नचैतन्ये वा उत्पन्नस्यारोप्यरजतस्येत्यर्थः ।

दर्शनादिति ।

अनुभवादित्यर्थः ।

हट्टपट्टणस्थरजतानुभवजन्यसंस्काराद्भ्रमः स्मृतिश्च जायत इति फलितमाह –

तेनेति ।

अनुभवजन्यज्ञानविषयत्वेनेत्यर्थः ।

संस्कारजन्यज्ञानविषयत्वं कथमित्याशङ्क्य तेनेत्युक्तहेत्वंशं विवृणोति –

स्मृतीति ।

संस्कारमात्रजन्यज्ञानत्वं स्मृतित्वं तस्मान्नारोपेऽतिव्याप्तिरिति परिहरति –

दोषेति ।

सम्प्रयोगो नेन्द्रियसंयोग इत्याह –

अत्रेति ।

उपसंहरति एवं चेति । दोषश्च सम्प्रयोगश्च संस्कारश्चेति विग्रहः । सत्यरजतसामग्रीभिन्नसामग्रीबलादिति यावत् ।

आदिशब्देन शुक्त्यवच्छिन्नचैतन्यमुच्यते परत्रावभासपदाभ्यां साद्यनाद्यध्याससाधारणं लक्षणमुक्तं भवति स्मृतिरूपपूर्वदृष्टपदाभ्यां साद्यध्यासलक्षणमुक्तमिति यन्मतद्वयं तदुपपादयति –

अन्ये त्वित्यादिना ।

अस्मिन्मतेपि स्मृतिरूपः स्मर्यमाणसदृशः सादृश्यप्रतिपादकं पूर्वदृष्टपदमित्यभिप्रेत्य फलितं लक्षणमाह –

ताभ्यामिति ।

आदिशब्देन सम्प्रयोगसंस्कारौ गृह्येते व्यावहारिकप्रातिभासिकसाद्यध्याससाधारणलक्षणमुक्तमित्यर्थः । दोषादित्रयजन्याध्यासविषयत्वमर्थरूपाध्यासस्य लक्षणमिति भावः ।

स्वमते संस्कारजन्यज्ञानविषयत्वं यत्सादृश्यमुक्तं तदेवास्मिन्मतेपीति मन्तव्यम् । प्रकारान्तरेण सादृश्यमुपपादयितुं पूर्ववत्कर्मव्युत्पत्त्यादिकमाश्रित्य लब्धमर्थमाह –

स्मृतिरूप इति ।

तज्जातीयेति ।

पूर्वदृष्टनिष्ठजातिविशिष्टेत्यर्थः । अभिनवरजतादेः शुक्याा दावुत्पन्नरजतादेरित्यर्थः ।

अस्मिन्मते तु पूर्वदृष्टपदं न सादृश्यप्रतिपादकमित्यभिप्रेत्य फलितं लक्षणमाह –

तथा चेति ।

पूर्वमतापेक्षया अस्मिन्मते लक्षणभेदज्ञापनया प्रातीतिकेत्युक्तम् । शुक्तिरजतस्वाप्नपदार्थाद्यध्यासः प्रातीतिकाध्यास इत्यर्थः । अस्मिन् मते तु पूर्वदृष्टावभास इति भाष्ये पूर्वदृष्टश्चासाववभावश्चेति कर्मधारयः समास इति विज्ञेयम् ।

अध्याससामान्यलक्षणं स्वमतापेक्षया मतद्वयेपि किम्भेदेनोपपादनीयमिति जिज्ञासायां नेत्याह –

परत्रेति ।

मात्रपदं कार्त्स्न्यार्थकं सामान्यमिति यावत् । ताभ्यामुक्तं मतद्वयाभिमतं सामान्यलक्षणं स्वमतरीत्यैवोपपादनीयमिति भावः । प्रमाणाजन्यज्ञानविषयत्वमात्रं लक्षणमित्युक्ते स्मर्यमाणगङ्गादावतिव्याप्तिरतः पूर्वदृष्टजातीयत्वम् । अनेन पूर्वदृष्टात्तज्जातिविशिष्टो भिन्न इति व्यक्तिद्वयं प्रतीयते तथा च या पूर्वदृष्टा सैव सा गङ्गेति स्मृतिविषयः तस्माद्व्यक्तेरेकत्वान्न तत्र विशेष्यांश इति नातिव्याप्तिः । ननु व्यक्तिद्वयाङ्गीकारेपि पर्वदृष्टे तज्जातिविशिष्टत्वस्य सत्त्वादतिव्याप्तिः स्यादिति चेन्न । तज्जातिमत्त्वं नाम तत्सदृशत्वमित्यङ्गीकारात्तथा च पूर्वदृष्टसादृश्यस्य भेदविशिष्टत्वेन पूर्वदृष्टे तस्मिन् असत्त्वान्नातिव्याप्तिः । पूर्वदृष्टजातीयत्वमित्युक्ते अभिनवघटे अतिव्याप्तिः तत्र पूर्वदृष्टत्वाभावेन तज्जातीयत्वस्य सम्भवात्तद्वारणाय विशेषणदलम् ।

अभिनवघटस्य चाक्षुषत्वेन प्रमाणजन्यज्ञानविषयत्वान्न तत्र अतिव्याप्तिरित्यभिप्रेत्याह –

तत्रेति ।

स्मर्यमाणत्वम् – स्मृतिविषत्वम् ।

आहुरिति ।

मतद्वयेप्यध्याससामान्यलक्षणसम्भवरूपास्वरसः आहुरित्यनेन सूचितः । शुक्तौ रजतसामग्र्यभावेन तत्संसर्गासत्त्वादिति भावः । अवभासत इत्यनेन भाष्यस्थावभासपदं कर्मव्युत्पत्त्या रजताद्यर्थपरमिति ज्ञाप्यते तथा च शुक्ताववभास्यरजतादिः स्मर्यमाणसदृशः पूर्वानुभवजनितसंस्कारजन्यज्ञानविषय इति वाक्यस्य फलितार्थः । अर्थाध्यासलक्षणं पूर्वमेव परिष्कृतम् ।

एतावता ग्रन्थेन वाक्यमर्थाध्यासपरत्वेन व्याख्यातुकामः पूर्वस्माद्वैषम्यमाह –

ज्ञानाध्यास इति ।

स्मृतिपदस्य स्मरणमेवार्थः न स्मर्यमाणम् । अवभासत इत्यनेन भावव्युत्पत्त्या भाष्यस्थावभासपदं ज्ञानार्थकमिति ज्ञाप्यते । तथा च स्मृतिसदृशः पूर्वानुभवजनितसंस्कारजन्यः शुक्तावध्यस्तरजतादिविषयकावभास इति वाक्यस्य फलितार्थः । एतेन स्मृतिसदृशोऽवभावसोऽवभासत इत्यन्वयदोषो निरस्तः । अवभासत इति पदस्य भावव्युत्पत्तिज्ञापकत्वेन व्याख्यातत्वात् । पूर्वदर्शनादवभास इति पाठान्तरम् । अस्मिन् पाठे तु नान्वयदोष इति मन्तव्यम् । अत्र परत्रावभस इति पदद्वयपरिष्कारेणातस्मिंस्तद्बुद्धिरध्यास इति ज्ञानाध्यासस्य लक्षणं वक्तव्यम् । किं च स्मृत्यारोपयोः संस्कारजन्यज्ञानत्वं प्रमाणाजन्यज्ञानत्वं वा सादृश्यं प्रतिपादनीयम् ।

अपि चाध्यासे संस्कारपदेन विवक्षितदोषसम्प्रयोगजन्यत्वमप्युपपादनीयमित्यभिप्रेत्याह –

इति सङ्क्षेप इति ।

ननु लक्षणकथनानन्तरमव्याप्त्यादिदोषाभावात् क्रमप्राप्तसम्भावनोपन्यास एवोचितः न मतान्तरोपन्यासः तथा च कथमुत्तरभाष्यसङ्गतिरित्याशङ्क्य लक्षणपरिशोधनायैव मतान्तरोपन्यास इति शङ्कोत्तराभ्यां सङ्गतिं प्रदर्शयन् उत्तरभाष्यमवतारयति –

नन्विति ।

प्रकृते विप्रतिपत्तिर्नाम विवादः अधिष्ठानारोप्ययोर्यत्स्वरूपं तस्य विवादेपीति विग्रहः । अधिष्ठानं सत्यमिति सत्यवादिनो वदन्ति । असत्यमित्यसत्यवादिनः । एवमधिष्ठानस्वरूपविवादः । अपि चाधिष्ठानस्य सत्यत्वेपि जडत्वमजडत्वमित्येवं तत्त्वस्वरूपविवादः । अन्यथाख्यातिवादिनस्तार्किकाः अख्यातिवादिनः प्राभाकराश्च देशान्तरनिष्ठं रजतमिति वदन्ति । आत्मख्यातिवादिनो बुद्धिनिष्ठमिति । वेदान्तिनस्त्वनिर्वचनीयवादिनोऽधिष्ठाननिष्ठमिति । बौद्धैकदेशी शून्यवादी त्वसद्रूपमित्येवमारोप्यस्वरूपविवाद इति भावः । लक्षणसंवादात् लक्षणस्य सर्वसम्मतत्वादित्यर्थः । तन्त्रपदं मतपरं शास्त्रपरं वा । तथा च सिद्धान्तत्वेनेदं लक्षणं सर्वैरभ्युपगतमिति भावः ।

अन्यथात्मेति ।

ख्यातिपदमवभासपरम् । एकमेव लक्षणं मतद्वये योजनीयमित्याशयेनेदमुक्तमिति भावः ।

स्वावयवधर्मस्येति ।

स्वपदं रजतपरम् । आत्मख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । अन्यधर्मस्येत्यस्य व्याख्यानान्तरं देशान्तरस्थस्येति । अनिर्वचनीयमतासत्ख्यातिमतसाङ्कर्यवारणायेदं विशेषणमिति भावः । एवमुत्तरत्र तत्तद्विशेषणेन तत्तन्मतसाङ्कर्यवारणमूहनीयम् ।

अन्यथाख्यातिमते अन्यधर्मावभास इति भाष्ये अन्यस्य धर्म अन्येषां धर्म इति विग्रहोऽभिप्रेतः अस्मिन्मते तु अन्यस्य धर्म इति विग्रहमभिप्रेत्य व्याख्याति –

बुद्धीति ।

आन्तरस्य बुद्धिपरिणामरूपस्य रजतस्येदं रजतमिति शब्दप्रयोगाद्बहिः पदार्थवदवभास इति वदन्तीति भावः ।

तद्विवेकाग्रह इत्यादि भाष्यं व्याख्याति –

तयोश्चेति ।

देशान्तरस्थरजतश्रुतिरूपार्थयोरित्यरित्यर्थः ।

रजतांशे स्मृतिरिदमंशे त्वनुभव इति प्राभाकरमतन्तज्ज्ञापयति –

तद्धियोश्चेति ।

अर्थविषयकस्मृत्यनुभवयोश्चेत्यर्थः ।

भेदाग्रहकाल एव तद्धेतुको भ्रमस्तिष्ठति नेतरस्मिन् काल इति भ्रमस्य भेदाग्रहसमानकालीनत्वं द्योतयितुं भाष्यमनुषङ्गं कृत्वा योजयति –

भेदेति ।

सः भेदाग्रहे मूलं निमित्तकारणं यस्य स तथा निमित्तकारणनाशानन्तरं लोके कार्यस्य सत्त्वं दृष्टं प्रकृते तु न तथेति भावः ।

भ्रमशब्दस्यार्थमाह –

विशिष्टेति ।

तयोर्भेदस्याग्रहणेदं रजतमिति विशिष्टत्वेनोल्लिख्यमानशब्दप्रयोगात्मको भ्रम उत्पद्यत इति भावः ।

शुक्तिस्तु पुरोवर्तिनी रजतं तु देशान्तरमेव न शुक्तौ भासत इत्यख्यातिवादिनो वदन्ति । तन्मतेऽपि देशान्तरस्थान्यत्र भानाभावे कथं विशिष्टव्यवहार इति गले पादुकान्यायेन लक्षणमस्तीत्याह –

तैरिति ।

विशिष्टशब्दप्रयोगात्मकस्य विशिष्टव्यवहारस्यानुपपत्तिर्नामान्यत्र विद्यमानस्यान्यत्र भानरूपभ्रमं विना व्यवहारो न सम्भवतीत्याकारिका तया विशिष्टभ्रान्तेः तैरपि स्वीकार्यादित्यर्थः ।

रजतादिः विपरीतधर्मत्वशब्दार्थ इत्यभिप्रेत्य व्याचष्टे –

तस्यैवेति ।

विरुद्धः अत्यन्तासत्त्वरूपः धर्मः रजतादिः यस्य शुक्त्यादेः सः विरुद्धधर्मः तस्य विरुद्धधर्मस्य शुक्त्यादेर्भवो रजतादिः तस्य रजतादेरित्यर्थः । अत्रालोकतादात्म्यसम्बन्धेन शुक्तिशकलस्यासद्रजतधर्मवत्त्वं वेदितव्यम् ।

सम्वादमिति ।

सम्मतिमित्यर्थः । आदिशब्देन आत्मख्यातित्वादिकमुच्यते ।

उक्तमतेष्वनुपपत्तिं दर्शयन् स्वाभिमतमाह –

शुक्ताविति ।

देशान्तरे सत्त्वायोगादित्यनेन अन्यथाख्यत्यख्यातिमतद्वयनिरासः । आत्मख्यातिवादिनोप्यन्यत्रान्यधर्मावभासस्यागत्याङ्गीकारादिति भावः ।

केचित् शुक्तावेव रजतस्योत्पत्तिः तत्र तस्योत्पन्नस्य रजतस्य सत्यत्वमङ्गीकार्यमिति वदन्ति । तन्मतं निराकरोति –

शुक्तौ सत्त्व इति ।

अत्रेदं त्वनुसन्धेयम् । यत्र लौकिकप्रत्यक्षविषयत्वं तत्र साक्षात्करोमीत्यनुव्यवसायविषयत्वमिति व्याप्तिरनुभवसिद्धा एवं च शुक्तावपरोक्षत्वेनानुभूयमानस्य रजतस्य भानं परवादिना ज्ञानलक्षणारूपसन्निकर्षेणैव वक्तव्यं तथा च रजतं साक्षात्करोमीत्यनुव्यवसायोपपत्तिर्न वादिमते शक्यते वक्तुम् अलौकिकप्रत्यक्षविषयस्य साक्षात्करोमीत्यनुव्यवसायविषत्वासम्भवात् स्वमते तु शुक्त्यादावनिर्वचनीयं रजतमुत्पद्यते तस्योत्पन्नस्य लौकिकप्रत्यक्षविषयत्वेनानुव्यवसायत्वात्तदुपपत्तिरस्तीति ।

बाधानन्तरेति ।

नेदं रजतमिति बाधानन्तरकालीनः शुक्तिका हि रजतवदवभासत इत्यनुभव इत्यर्थः ।

तत्र हेतुमाह –

तत्पूर्वमिति ।

बाधात्पूर्वमित्यर्थः । नेदं रजतमिति बाधप्रत्यक्षेण सिद्धमित्यर्थः ।

’यावत्कार्यमवस्थायिभेदहेतोरुपाधीते’त्यभियुक्तवचनेन यो भेदहेतुः स उपाधिरिति नियमो ह्यनुभवसिद्धः यथा चन्द्रे ह्यनेकचन्द्रत्वे अङ्गुल्यादिस्तथा चाहङ्कारात्मनोरैक्याध्यासे अविद्यादेः भेदकत्वाभावान्नपाधित्वं किन्तु हेतुत्वमात्रं तस्यैवाविद्यादेः ब्रह्मजीवान्तरभेदकत्वात्तदध्यासे तूपाधित्वं तस्मान्निरुपाधिकः सोपाधिकश्चेति द्विविधोऽध्यास इत्यभिप्रेत्यावतारयति –

आत्मनीति ।

जीवादन्यो जीवान्तरं ब्रह्मजीवभिन्नमिति ब्रह्मणि जीवभेदस्य सोपाधिकस्याध्यासे चैत्रो मैत्राद्भिन्न इति परस्परजीवभेदस्य सोपाधिकस्याध्यासे च दृष्टान्तमाहेत्यर्थः ।

सद्वितीयवदिति भाष्यार्थं कथयन् दृष्टान्तोपाधिं स्फोरयति –

द्वितीयेति ।

लोके लक्षणप्रमाणाभ्यां वस्तुनिर्णयसिद्धिः अत्र मिथ्यात्वस्पष्टीकरणायोक्तेन लक्षणेनाध्यासस्वरूपे सिद्धे लक्षणप्रश्नावसरकाले किंशब्देन बुद्धिस्थस्य सम्भावनाक्षेपस्योत्थानात् वस्तुनिश्चयार्थं प्रमाणनिरूपणात् पूर्वं सम्भावनानिरूपणं युक्तमिति अभिप्रेत्य सम्भावनाक्षेपमुत्थापयति –

भवत्विति ।

ननु वस्तुनिर्णयार्थमवश्यं वक्तव्येन प्रमाणेनैव कथं सम्भवेदित्याकारकायाः सम्भावनायाः निराकरणात्सम्भावना न पृथग्वक्तव्या तथा च तदाक्षेपस्यानवसर इति चेन्न । प्रामाणिके वस्तुन्यसम्भावनाया अनुभवसिद्धत्वात्तथा च न प्रमाणेन तन्निराकरणम् । न चासम्भावितत्वे कथं प्रामाणिकत्वमिति वाच्यम् । असम्भाविते वस्तुनि प्रामाणिकत्वस्याप्यनुभवसिद्धत्वात्तस्मादसम्भावनानिराकरणाय सम्भावना पृथक् निरूपणीयेति तदाक्षेपो युक्त इति भावः ।

अपरोक्षाध्यासं प्रत्यधिष्ठानसामान्यज्ञानमधिष्ठानेन्द्रियसंयोगश्च हेतुस्तथा च शुक्त्यादौ कारणद्वयसत्त्वादध्यासो भवतु आत्मनि तु तदभावान्न सम्भवत्यध्यास इत्येवं शङ्कितुरभिप्रायमाविष्कुर्वन् भाष्यमवतारयति –

यत्रेति ।

इन्द्रियसंयोगाधिष्ठानसामान्यज्ञानयोरध्यासं प्रति हेतुत्वादेव यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयुक्तत्वं विषयत्वं चेति व्याप्तिरनुभवसिद्धा भवति, तथाचात्र सामग्र्यभावेनेन्द्रियसंयुक्तत्वविषयत्वरूपव्यापकाभावादधिष्ठानत्वरूपव्याप्याभावस्तस्मादध्यासो न सम्भवतीत्यभिप्रेत्याहेत्यर्थः ।

प्रत्यगात्मन्यविषय इति पदद्वयेन सामग्र्यभावं स्फुटीकुर्वन्नन्वमाविष्करोति –

प्रतीचीति ।

प्रतीचीत्यनेनेन्द्रियसंयुक्तत्वे चेति भावः ।

यद्यप्यात्मनस्त्वज्ञानविषयत्वं अहङ्कारपरिणामरूपवृत्तिविषयत्वं चास्ति तथापीन्द्रियजन्यज्ञानविषयत्वं नास्तीति पदद्वयफलितार्थमाह –

इन्द्रियाग्राह्येति ।

युष्मत्प्रत्ययोपेतस्येत्यस्य व्याख्यानार्थमिदंप्रत्ययानर्हस्येति ।