भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
उक्तव्याप्तिमाह -

सर्वो हीति ।

पुरोऽवस्थितत्वमिन्द्रियसंयुक्तत्वम् ।

नन्वात्मनोऽप्यधिष्ठानत्वार्थं विषयत्वादिकमस्त्वित्यत आह -

युष्मदिति ।

इदंप्रत्ययानर्हस्य प्रत्यगात्मनो ‘न चक्षुषा गृह्यते’ इत्यादि श्रुतिमनुसृत्य त्वमविषयत्वं ब्रवीषि । संप्रत्यध्यासलोभेन विषयत्वाङ्गीकारे श्रुतिसिद्धान्तयोर्बाधः स्यादित्यर्थः ।

आत्मन्यध्याससम्भावनां प्रतिजानीते -

उच्यत इति ।

अधिष्ठानारोप्ययोरेकस्मिन् ज्ञाने भासमानत्वमात्रमध्यासव्यापकम् , तच्च भानप्रयुक्तसंशयनिवृत्त्यादिफलभाक्त्वम् , तदेव भानभिन्नत्वघटितं विषयत्वम् , तन्न व्यापकम् , गौरवादिति मत्वाऽऽह -

न तावदिति ।

अयमात्मा नियमेनाविषयो न भवति ।

तत्र हेतुमाह -

अस्मदिति ।

अस्मप्रत्ययोऽहमित्यध्यासस्तत्र भासमानत्वादित्यर्थः । अस्मदर्थश्चिदात्मा(अस्मदर्थचिदात्मा)* प्रतिबिम्बितत्वेन यत्र प्रतीयते सोऽस्मत्प्रत्ययोऽहङ्कारस्तत्र भासमानत्वादिति वार्थः । न चाध्यासे सति भासमानत्वं तस्मिन्सति स इति परस्पराश्रय इति वाच्यम् , अनादित्वात् , पूर्वाभ्यासे भासमानात्मन उत्तराध्यासाधिष्ठानत्वसम्भवात् ॥

नन्वहमित्यहङ्कारविषयकभानरूपस्यात्मनो भासमानत्वं कथम् ? तद्विषयत्वं विना तत्फलभाक्त्वायोगादित्यत आह -

अपरोक्षत्वाच्चेति ।

चशब्दः शङ्कानिरासार्थः । स्वप्रकाशत्वादित्यर्थः ।

स्वप्रकाशत्वं साधयति -

प्रत्यगिति ।

आबालपण्डितमात्मनः संशयादिशून्यत्वेन प्रसिद्धेः स्वप्रकाशत्वमित्यर्थः । अतः स्वप्रकाशत्वेन भासमानत्वादात्मनोऽध्यासाधिष्ठानत्वं सम्भवतीति भावः ।

यदुक्तमपरोक्षाध्यासाधिष्ठानत्वस्येन्द्रियसंयुक्ततया ग्राह्यत्वं व्यापकमिति तत्राह -

न चायमिति ।

तत्र हेतुमाह -

अप्रत्यक्षेऽपीति ।

इन्द्रियाग्राह्येऽपीत्यर्थः । बाला अविवेकिनः तलमिन्द्रनीलकटाहकल्पं नभो मलिनं पीतमित्येवमपरोक्षमध्यस्यन्ति, तत्रेन्द्रियग्राह्यत्वं नास्तीति व्यभिचारान्न व्याप्तिः । एतेनात्मानात्मनोः सादृश्याभावान्नाध्यास इत्यपास्तम् , नीलनभसोस्तदभावेऽप्यध्यासदर्शनात् । सिद्धान्ते आलोकाकारचाक्षुषवृत्त्यभिव्यक्तसाक्षिवेद्यत्वं नभस(नभसि)* इति ज्ञेयम् ।

सम्भावनां निगमयति -

एवमिति ।

त्वमविषयत्वमिति ।

पराग्भावेनेदन्तासमुल्लेख्यत्वं ज्ञानविषयत्वं तद्विपरीतप्रत्यग्रूपत्वादात्मनस्त्वविषयत्वमिति भावः । इदमुपलक्षणम् , इन्द्रियादिसंयुक्तत्वं च ब्रवीषीत्यर्थः ॥

अध्यासलोभेनेति ।

अध्याससिद्ध्यभिप्राणेत्यर्थः ।

यथा घटवति भूतले नीलघटो नास्तीत्युक्त्या नैकान्तेन घटाभावो विवक्ष्यते तथा स्वरूपज्ञानविषयत्वाभावोक्त्याहंप्रत्ययविषयत्वेनाभ्युपगते ह्यात्मनि नैकान्तेन विषयत्वाभावो विवक्षित इत्यभिप्रेत्य सिद्धान्तभाष्यमवतारयति –

आत्मनीति ।

उत्कटकोटीसंशयः सम्भावना, अध्यासोस्ति न वेत्याकारकसंशयस्यास्तित्वकोट्यंशे ह्यौत्कट्यं नाम प्रायेण कारणस्य सत्त्वादध्यासो भवेदित्यभिप्रायस्तद्विशिष्टकोटिरुत्कटकोटिस्तद्वान्संशयः उत्कटकोटिकसंशय इत्युच्यते, अध्यासोस्तीत्यंशस्याभिप्रायविषयत्वाद्विषयतासम्बन्धेनाभिप्रायवैशिष्ट्यं विभावनीयम् ।

अध्यासं प्रत्यधिष्ठानसामान्यज्ञानमेव हेतुः नेन्द्रियसंयोग इत्यभिप्रेत्य अध्यासाधिष्ठानत्वव्यापकं विवृणोति –

अधिष्ठानेति ।

ज्ञान इति ।

अध्यासरूपाधिष्ठानसामान्यज्ञान इत्यर्थः । भासमानत्वं विषयत्वमिति पर्यायः । मात्रपदेनेन्द्रियसंयुक्तत्वमिन्द्रियत्वविशिष्टत्वेन गौरवान्न व्यापकमित्युच्यते । अध्यासव्यापकमध्यासाधिष्ठानत्वव्यापकमित्यर्थः ।

किं नाम भासमानत्वमिति जिज्ञासायां फलभाक्त्वरूपं विषयत्वरूपं चेति द्विविधं भासमानत्वमित्याह –

तच्चेति ।

भासमानत्वं चेत्यर्थः । भानं ज्ञानं तत्प्रयुक्तं यत्संशयादिनिवृत्तिरूपं फलं तद्भाक्त्वं तदाश्रयत्वमित्यर्थः । अधिष्ठानारोप्ययोरात्माहङ्कारयोर्यज्ज्ञानमहकित्याकारकाध्यासात्मकं तेनात्माङ्कारविषकसंशयस्य तद्विषयकविपर्ययस्य चाभावात्संशयादिनिवृत्तिफलभाक्त्वमात्माहङ्कारयोरस्तीति भासमानत्वोपपत्तिरिति भावः । तदेव भासमानत्वमेवेत्यर्थः ।

विषयत्वमिति ।

इति केचिद्वदन्तीति शेषः ।

तन्न व्यापकमिति ।

उक्त विषयत्वरूपभासमानत्वं भानभिन्नत्वविशिष्टत्वेन गौरवान्न व्यापकमित्यर्थः । केचित्तु भासमानत्वं नाम ज्ञानभिन्नत्वघटितं स्वरूपसम्बन्धविशेषरूपमुक्तफलभाक्त्वनियामकं विषयत्वमिति वदन्ति । तच्चोक्तविषत्वरूपं भासमानत्वं न व्यापकं ज्ञानभिन्नत्वविशिष्टत्वेन गौरवात्किन्तूक्तफलभाक्त्वरूपभासमानत्वमेव व्यापकं ज्ञानविशिष्टत्वेन लाघवात् अतो व्यापकस्य सत्त्वादात्मन्यध्यासोपपत्तिरिति भावः । ननु ज्ञानघटितफलभाक्त्वमिति न व्यपकं संशयादिनिवृत्तिविशिष्टत्वेन गौरवादिति चेत् । अत्रोच्यते । ज्ञानप्रयुक्तफलभाक्त्वमेव व्यापकं संशयादिनिवृत्तेर्व्यापकशरीरप्रवेशस्तु फलस्फुटार्थस्तस्माल्लाघवमिति विज्ञेयम् । भासमानत्वादित्यर्थ इति । आत्मनः स्वप्रकाशत्वेन वृत्तौ प्रतिबिम्बितत्वेन च भासमानत्वमहङ्कारस्य तु साक्षिवेद्यत्वेन भासमानत्वमिति भेदः । तथा हि - अहङ्काराभावविशिष्टसुषुप्त्यादिकाले अहमित्यध्यासपूर्वकाले च स्वप्रकाशत्वेन आत्मा स्फुटं प्रतीयते, अत एवात्मनिष्ठं प्रकाशत्वप्रयक्तफलभाक्त्वरूपभासमानत्वमहङ्कारादिनिष्ठासाक्षिवेद्यत्वप्रयुक्तात्फलभाक्त्वरूपभासमानत्वाद्भिन्नमित्यवश्यमङ्गीकरणीयमिति भावः । आत्मनः वृत्तिप्रतिबिम्बितचैतन्यविषयत्वाभावेऽपि वृत्तिविषयत्वमस्तीति परिहारग्रन्थार्थः ।

यत्रेति ।

यत्राहङ्कारे प्रतीयते आत्मा सोऽहङ्कारोऽस्मत्प्रत्यय इत्यन्वयः । तत्राहङ्कारे तदधिष्ठानत्वेन प्रतिबिम्बितत्वेन चात्मनः भासमानत्वादित्यर्थः ।

ननु प्रथमव्याख्याने अध्यासः स्फुटः द्वितीयव्याख्यानेपि यत्र प्रतीयते स इत्यनेनाध्यासो भासत एव प्रतीयत इति प्रयोगात्तथा च परस्पराश्रयदोषः स्यादित्याह –

न चेत्यादिना ।

पूर्वाध्यास इति ।

अहमित्याकारके अन्यस्यान्यात्मकत्वावभासरूपे पूर्वाध्यास इत्यर्थः । तथा चोत्तराध्यासं प्रत्यधिष्ठानसामान्यज्ञानात्मकः पूर्वाध्यासो हेतुर्भवति तस्माद्धेतोः सत्त्वाद्व्यापकस्य सत्त्वेनात्मन्यध्यासोपपत्तौ न काचिदनुपपत्तिरिति भावः ।

भानभिन्नत्वघटितविषयत्वरूपभासमानत्ववादी शङ्कते –

नन्विति ।

एकस्मिन् विषयविषयित्वस्य विरुद्धत्वादिति भावः ।

भानरूपस्यात्मनः भानविषयत्वरूपभासमानत्वाभावेप्युक्तफलभाक्त्वरूपभासमानत्वं स्यादित्यत आह –

तद्विषयत्वं विनेति ।

भानविषयत्वं विनेत्यर्थः ।

तत्फलेति ।

भानविषयत्वप्रयुक्तसंशयविपर्ययनिवृत्त्यात्मकफलेत्यर्थः ।

चशब्दो युक्त्यन्तरप्रतिपादक इति भ्रमं वारयति –

चशब्द इति ।

भानविषयत्वमेव फलभाक्त्वनियामकमिति नियमः किन्तु स्वप्रकाशत्वमपि तन्नियामाकं तथा च स्वप्राकाशत्वादात्मनस्तत्प्रयुक्तफलभाक्त्वरूपभासमानत्वं युज्यत इति भावः ।

उपसंहरति –

अत इति ।

व्यापकस्य स्वप्रकाशत्वप्रयुक्तफलभाक्त्वरूपभासमानत्वस्य सत्त्वाद्व्याप्याधिष्ठानत्वमात्मनि सम्भवतीति भावः । यद्यपि युष्मदस्मत्प्रत्ययगोचरयोरिति भाष्यव्याख्याने चिदात्मा तावदस्मत्प्रत्यययोग्य इत्यादिग्रन्थे फलभाक्त्वरूपगुणयोगादात्मनि गौणविषयत्वं भासमानत्वरूपं ग्रन्थकारेण प्रसाधितं तथापि अत्र फलभाक्त्वमेव भासमानत्वमित्युक्तं लाघवादिति मन्तव्यम् । अन्ये तु आत्मनि स्वप्रकाशत्वरूपं भासमानत्वमङ्गीकृत्य तदेव व्यापकमित्यध्यासोपपत्तिरति वदन्ति ।

फलभाक्त्वरूपभासमानत्वमेवाध्यासव्यापकं न भानभिन्नत्वविशिष्टविषयत्वरूपभासमानत्वमिति भाष्यभावः स्फुटीकृतः स प्रतीन्द्रियग्राह्यत्वं नाध्यासव्यापकमिति प्रतिपादकमुत्तरभाष्यमवतारयति –

यदुक्तमिति ।

तत्रेति ।

यत्राध्यासाधिष्ठानत्वं तत्रेन्द्रियसंयोगजन्यज्ञानविषयत्वमिति या व्याप्तिस्तस्या अभावे हेतुमाहेत्यर्थः ।

इन्द्रियाग्राह्येपीति ।

द्रव्यात्मकोप्यकाशः स्पर्शरहितत्वाद्रूपरहितत्वाच्च न बाह्यप्रवृत्तिरहितत्वात्तस्मादिन्द्रियाग्राह्य इति भावः ।

अविवेकिन इति ।

अयथार्थदर्शिन इत्यर्थः ।

इन्द्रियसंयुक्तत्वं विषयत्वं चेत्युक्तं व्यापकद्वयमेकीकृत्य लाघवादिन्द्रियग्राह्यत्वमेव व्यापकमित्याह –

इन्द्रियग्राह्यत्वमिति ।

इन्द्रियसंयोगजन्यज्ञानविषत्वमित्यर्थः ।

एतेनेत्यनेन बोधितं हेतुमाह –

नीलनभसोरिति ।

नन्वाकाशस्य कथं तलमलिनताद्यध्यासाधिष्ठानत्वमिन्द्रयग्राह्यत्वाभावेन भासमानत्वरूपव्यापकाभावादित्याशङ्क्य साक्षिवेद्यत्वादाकाशस्यास्त्येव भासमानत्वरूपं व्यापकत्वमित्याह –

सिद्धान्त इति ।

आलोकाकारा या चाक्षषवृत्तिस्तस्यामभिव्यक्तो यः साक्षी तद्वेद्यत्वमित्यर्थः ।