भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
ननु ब्रह्मज्ञाननाश्यत्वेन सूत्रितामविद्यां हित्वा अध्यासः किमिति वर्ण्यत इत्यत आह -

तमेतमिति ।

आक्षिप्तं समाहितमुक्तलक्षणलक्षितमध्यासमविद्याकार्यत्वादविद्येति मन्यन्त इत्यर्थः ।

विद्यानिवर्त्यत्वाच्चास्याविद्यात्वमित्याह -

तद्विवेकेनेति ।

अध्यस्तनिषेधेनाधिष्ठानस्वरूपनिर्धारणं विद्यामध्यासनिवर्तिकामाहुरित्यर्थः ।

तथापि कारणाविद्यां त्यक्त्वा कार्याविद्या किमिति वर्ण्यते तत्राह -

तत्रेति ।

तस्मिन्नध्यासे उक्तन्यायेनाविद्यात्मके सतीत्यर्थः । मूलाविद्यायाः सषुप्तावनर्थत्वादर्शनात्कार्यात्मना तस्या अनर्थत्वज्ञापनार्थं तद्वर्णनमिति भावः । अध्यस्तकृतगुणदोषाभ्यामधिष्ठानं न लिप्यत इत्यक्षरार्थः ।

एवमध्यासस्य लक्षणसम्भावने उक्त्वा प्रमाणमाह -

तमेतमिति ।

तं वर्णितमेतं साक्षिप्रत्यक्षसिद्धं पुरस्कृत्य हेतुं कृत्वा लौकिकः कर्मशास्त्रीयो मोक्षशास्त्रीयश्चेति त्रिविधो व्यवहारः प्रवर्तत इत्यर्थः |

तत्र विधिनिषेधपराणि कर्मशास्त्राण्यृग्वेदादीनि, विधिनिषेधशून्यप्रत्यग्ब्रह्मपराणि मोक्षशास्त्राणि वेदान्तवाक्यानीति विभागः । एवं व्यवहारहेतुत्वेनाध्यासे प्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छति -

कथं पुनरिति ।

अविद्यावानहमित्यध्यासवानात्मा प्रमाता स विषय आश्रयो येषां तानि अविद्यावद्विषयाणीति विग्रहः । तत्तत्प्रमेयव्यवहारहेतुभूतायाः प्रमाया अध्यासात्मकप्रमात्राश्रितत्वात्प्रमाणानामविद्यावद्विषयत्वं यद्यपि प्रत्यक्षं तथापि पुनरपि कथं केन प्रमाणेनाविद्यावद्विषयत्वमिति योजना । यद्वाऽविद्यावद्विषयाणि कथं प्रमाणानि स्युः, आश्रयदोषादप्रामाण्यापत्तेरित्याक्षेपः ।

तत्र प्रमाणप्रश्ने व्यवहारार्थापत्तिम् , तल्लिङ्गकानुमानं(तल्लिङ्गानुमानं)* चाह -

उच्यते इत्यादिना तस्मादित्यन्तेन ।

देवदत्तकर्तृको व्यवहारः, तदीयदेहादिष्वहंममाध्यासमूलः, तदन्वयव्यतिरेकानुसारित्वात् , यदित्थं तत्तथा, यथा मृन्मूलो घट इति प्रयोगः ।

तत्र व्यतिरेकं दर्शयति -

देहेति ।

देवदत्तस्य सुषुप्तावध्यासाभावे व्यवहाराभावो दृष्टः, जाग्रत्स्वप्नयोरध्यासे सति व्यवहार इत्यन्वयः स्फुटत्वान्नोक्तः । अनेन लिङ्गेन कारणतयाऽध्यासः सिध्यति, व्यवहाररूपकार्यानुपपत्त्या वेति भावः ।

ननु मनुष्यत्वादिजातिमति देहेऽहमित्यभिमानमात्राद्व्यवहारः सिध्यतु किमिन्द्रियादिषु ममाभिमानेनेत्याशङ्क्याह -

नहीति ।

इन्द्रियपदं लिङ्गादेरप्युपलक्षणम् , प्रत्यक्षादीत्यादिपदप्रयोगात् । तथा च प्रत्यक्षलिङ्गादिप्रयुक्तो यो व्यवहारो द्रष्टा अनुमाता श्रोताहमित्यादिरूपः स इन्द्रियादीनि ममतास्पदान्यगृहीत्वा न सम्भवतीत्यर्थः । यद्वा तानि ममत्वेनानुपादाय यो व्यवहारः स नेति योजना । पूर्वत्रानुपादानासम्भवक्रिययोरेको व्यवहारः कर्ता इति क्त्वाप्रत्ययः साधुः । उत्तरत्रानुपादानव्यवहारयोरेकात्मकर्तृकत्वात् , तत्साधुत्वमिति भेदः । इन्द्रियादिषु ममेत्यध्यासाभावेऽन्धादेरिव द्रष्टृत्वादिव्यवहारो न स्यादिति भावः ।

इन्द्रियाध्यासेनैव व्यवहारादलं देहाध्यासेनेत्यत आह -

न चेति ।

इन्द्रियाणामधिष्ठानमाश्रयः । शरीरमित्यर्थः ।

नन्वस्त्वात्मना संयुक्तं शरीरं तेषामाश्रयः किमध्यासेनेत्यत आह -

न चानध्यस्तात्मभावेनेति ।

अनध्यस्त आत्मभावः आत्मतादात्म्यं यस्मिन् तेनेत्यर्थः । ‘असङ्गो हि’ इति श्रुतेः, आध्यासिक एव देहात्मनोः सम्बन्धो न संयोगादिरिति भावः ।

सूत्रितामिति ।

प्रथमसूत्रेणार्थिकार्थतया प्रतिपादितामित्यर्थः । अविद्यामुपदर्श्य तस्याः ज्ञाननिरस्यत्वप्रदर्शनेनाविद्यानिवृत्तिसिद्धेः किमध्यासोपवर्णनेन गौरवादिति शङ्कितुरभिप्रायः ।

तच्छब्दार्थमाह –

आक्षिप्तमिति ।

एतच्छब्दार्थमाह समाहितमिति ।

एवंलक्षणमिति भाष्ये बहुव्रीहिसमासमभिप्रेत्य परिष्कृतार्थमाह –

उक्तलक्षणलक्षितमिति ।

मन्यन्त इति ।

प्रमाणकुशला इति शेषः । तद्विवेकेनेत्यस्य व्याख्यानमध्यस्तनिषेधेनेति । अध्यस्तस्याहङ्कारादेः निषेधेन विलयनेन अधिष्ठानस्वरूपस्य निर्धारणमवधारणात्मकविज्ञानं ब्रह्मविदो विद्यामाहुरित्यर्थः । नेदं रजतं किन्तु शुक्तिरेवेत्यध्यस्तातद्रूपरजतविलयनेन अधिष्ठानशुक्तिस्वरूपस्य प्रत्यगभिन्नब्रह्मणो निर्विचिकित्समवधारणात्मकं विज्ञानं विद्येति ब्रह्मविदो वदन्तीति भावः ।

उक्तन्यायेनेति ।

अविद्याकार्ये त्वविद्यानिवर्त्यत्वरूपोक्तहेतुद्वयेनेत्यर्थः ।

ननु कथमुक्तशङ्कायाः परिहारः तस्य परिहारस्य भाष्ये अप्रतीयमानत्वादित्यत आह –

मूलेति ।

तद्वर्णनमध्यासवर्णनमित्यर्थः ।

बन्धस्यानर्थरूपस्यावास्तवत्वद्योतयितुमक्षरार्थमाह –

अध्यस्तकृतेति ।

अध्यस्तः अहङ्कारादिः तत्कृतो योगप्रभावादिजनितसर्वज्ञत्वादिरूपो गुणः तत्कृतः अविवेकजनितब्रह्महत्यादिरूपो दोष इति विवेकः । अक्षरार्थः शक्त्या शब्दताडितार्थ इत्यर्थः ।

वृत्तानुवादपुरःसरमुत्तरभाष्यतात्पर्यमाह –

एवमिति ।

उक्तरीत्येर्थः । युष्मदस्मदित्यादिना नैसर्गिकोऽयं लोकव्यवहार इत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरन्योऽन्यविषयमविद्याशब्दितमध्यासं सिषाधयिषुस्तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तद्भावनिश्चयमुपपादयितुमिच्छन् प्रमाणमाहेति भावः । श्लोकः –
व्याख्यायते यदा भाष्यं सङ्केतो लिख्यते तदा ।
आदौ तु भाष्य इत्येवमन्ते व्याख्यान इत्यपि ॥

भाष्ये –

प्रमाणप्रमेयव्यवहारा इति ।

प्रमाणानां चक्षुरादीनां व्यवहारः उन्मीलननिमीलनादिरूपः क्रियाविशेषः प्रमेयघटादीनां व्यवहारः आनयनादिरूपः क्रियाविशेषः ।

सर्वाणि च शास्त्राणीति ।

कर्मशस्त्राणि मोक्षशास्त्राणि चेत्यर्थः । विधिप्रतिषेधमोक्षपराणीत्यत्र विधिप्रतिषेधपराणि मोक्षपराणीत्यनुभयत्र परशब्दस्यान्वयः । अध्यासं पुरस्कृत्य प्रमाणादिव्यवहाराः प्रवृत्ता इत्यनेनाध्यासाश्रयः प्रमातापि गम्यते, तथा चाविद्यावद्विषयाणि प्रत्यक्षादिप्रमाणानीत्युक्तं भवति तथा सति कथं पुनरविद्यावद्विषयाणीत्याद्यनुवादपूर्वकाक्षेपो युक्तः पुरोवादसम्भवादिति भावः । पुनःशब्दः प्रमाणान्तरद्योतकः ।

व्याख्याने

लौकिक इति ।

प्रमाता प्रमाणं प्रमेयमित्यादि व्यवहारो लोकिक इत्यर्थः । कर्ता करणं कर्मेत्यादिव्यवहारः कर्मशास्त्रीय इत्यर्थः । ध्याता ध्यानं ध्येयमित्यादिव्यवहारः मोक्षशास्त्रीय इत्यर्थः । ननु मोक्षशास्त्रेपि प्रमाणादिव्यवहारस्य सत्त्वादयं नियमः कथमिति चेत् । उच्यते । प्रधानोपसर्जनभावेनायं नियम उपपद्यत इति । तथा च त्रिविधव्यवहारस्य देहेन्द्रियादिष्वहंममाध्यासमूलकत्वं प्रत्यक्षसिद्धं व्यवहारहेतुत्वेनाध्यासोऽपि प्रत्यक्षसिद्धः प्रमाणानामविद्यावद्विषयत्वमपि प्रत्यक्षसिद्धमिति प्रमाणमुपन्यस्तं भवतीति भावः ।

ननु कर्मशास्त्रीयत्वं नाम कर्मशास्त्राणां सम्बन्धित्वमिति वाच्यम् , तत्र कानि मोक्षशास्त्राणीत्याशङ्क्य विधिनिषेधपराणि कर्मशास्त्राणि मोक्षपराणि मोक्षशास्त्राणीति विभागमाह –

तत्रेति ।

ननु मोक्षशस्त्रस्यापि विधिनिषेधपरत्वमेव वक्तव्यं तन्निष्ठत्वात्सकलशास्त्रस्य किं ततोऽन्यन्मोक्षपरत्वमित्याशङ्क्य मोक्षशास्त्राणां मोक्षपरत्वं नाम विधिनिषेधशून्यप्रत्यग्ब्रह्मपरत्वमित्याह –

विधिनिषेधशून्येति ।

एवमिति ।

उक्तप्राकरेणेत्यर्थः ।

उक्तप्रकारमेवाह –

व्यवहारहेतुत्वेनेति ।

वैशिष्ट्यं तृतीयार्थः व्यवहारहेतुत्वविशिष्टाध्यासे साक्षिसिद्धेऽपीत्यर्थः । परमते मानसप्रत्यक्षसिद्धोऽध्यास इति द्योतनार्थं सामान्यतः प्रत्यक्षपदनिवेशः । एवमुत्तरत्र विभावनीयम् । प्रमाणादीनामचेतनत्वेन तेषां व्यवहारः प्रमातारमन्तरा न सम्भवति प्रमातृत्वं प्रमाश्रयत्वं तच्चासङ्गस्यात्मनः विनाध्यासं न शक्यमुपपादयितुं तस्माद्व्यवहारहेतुत्वेनाध्यासे साक्षिप्रत्यक्षसिद्धेऽपि प्रमाणान्तरं पृच्छतीति भावः ।

अध्यासो व्यवहारहेतुः सन् प्रत्यक्षप्रमाणसिद्ध इति साधयितुं प्रवृत्तेन ’तमेतमविद्याख्यमित्यादि मोक्षपराणी’त्येतदन्तेन भाष्यणैवाध्यासस्य व्यवहारहेतुत्वार्थं प्रमाणनिष्ठाविद्यावद्विषयत्वमपि प्रत्यक्षप्रमाणसिद्धमिति साधितं भवति तदनुवदन् भाष्यान्वयमाविष्करोति –

तत्तत्प्रमेयव्यवहारेति ।

अध्यासात्मकेति ।

अध्यासविशिष्टेत्यर्थः । अथवा अध्यासात्मकोऽर्थाध्यासस्वरूपः यः प्रमाता तदाश्रितत्वादिति यथाश्रुत एवार्थः । प्रमातृत्वविशिष्टस्य प्रमातुः साभासाहङ्कारस्यार्थाध्यासत्वज्ञापनार्थमिदं विशेषणमिति भावः ।

अविद्यावद्विषयत्वमिति ।

अध्यासवत्पुरुषाश्रयत्वमित्यर्थः । प्रत्यक्षं साक्षिप्रत्यक्षमित्यर्थः । ननु प्रमाणानामध्यासवत्प्रमात्राश्रयत्वं वक्तव्यं कुतः प्रमायास्तदाश्रयप्रतिपादनमिति चेन्न । प्रमेयव्यवहारहेतुभूतप्रमाणस्य यथा अध्यासवत्पुरुषाश्रयत्वं तथा प्रमेयव्यवहारहेतुभूतप्रमाया अपि तदाश्रयत्वज्ञापनार्थत्वात् । न चेदमप्रसक्तमिति वाच्यम् । प्रमाणानां प्रमाद्वारा प्रमेयव्यवहारं प्रति हेतुत्वात्तेषां प्रमाणानां प्रमात्राश्रितत्वेन तत्कार्यप्रमाया अपि तदाश्रितत्वप्रतिपादनं प्रसक्तमेवेति भावः । अथवा प्रमापदं प्रमाणपरम् , तथा च व्यवहारहेतुभूतस्य प्रमाणस्याध्यासवत्प्रमात्राश्रितत्वादिति भावः । प्रमाणानामिति निष्ठत्वं षष्ठ्यर्थः ।

विषयत्वमिति ।

अध्यासश्चेति शेषः । यद्यप्यन्यस्यान्यात्मकत्वावभासोऽध्यासः प्रत्यक्षसिद्धः अविद्यावद्विषयत्वं च प्रत्यक्षसिद्धं तथापि तयोः सद्भावे प्रमाणान्तरं पृच्छतीति भावः ।

अविद्यावद्विषयाणीति ।

यदा पुरुषोध्यासात्मकदोषयुक्तस्तदा चक्षुरादिकमप्यध्यासात्मकदोषयुक्तम् , तथा च यद्दुष्टकरणजन्यं ज्ञानं तद्भ्रम इति नियमः यथा पीतः शङ्ख इति ज्ञानम् , एवं च तानि चक्षुरादीनि सर्वदा भ्रमजनकान्येव स्युः न प्रमाजनकानीति अविद्यावद्विषयाणि तानि कथं प्रमाणानीति प्रामाण्याक्षेप इति भावः । अर्थापत्तिपदं प्रमाणपरं न प्रमापरं देवदत्तोऽध्यासवानित्याकारकार्थापत्तिरूपप्रमाकरणमर्थापत्तिः, तथा च अध्यासं विना व्यवहारो न सम्भवतीति व्यवहाररूपकार्यार्थापत्तिरध्यासे प्रमाणमिति भावः । तत्पदं व्यवहारपरं चैत्रोऽध्यासवान् व्यवहारवत्त्वात् मैत्रवद् व्यतिरेकेण घटवद्वेत्यनुमानं चाध्यासे प्रमाणमिति भावः ।

नन्विदं भाष्यमध्यासप्रमाणप्रतिपादनपरतयैव व्याख्यायते किमविद्यावद्विषयत्वे प्रमाणप्रतिपादनपरतयापि न व्याख्यायते प्रश्नविषयत्वेनोभयोः प्रसक्तेस्तुल्यत्वादिति चेन्न । अध्यासप्रमाणप्रतिपादनेनाविद्यावद्विषयत्वे प्रमाणप्रतिपादनस्य सुलभत्वात् , तथाहि प्रत्यक्षादिप्रमाणमध्यासवत्प्रमात्राधिष्ठितं सत्प्रवृत्तिकारण अचेतनत्वाद्रथादिवदिति प्रयोगः अचेतनस्य व्यवहारः चेतनाधिष्ठितत्वमन्तरा न सम्भवतीत्यन्यथानुपपत्तिरित्येतद्वयमविद्यावद्विषयत्वे प्रमाणमिति विभावनीयम् । न केवलमध्यासे व्यवहारलिङ्गकानुमानमेव प्रमाणं किन्तु व्यवहारपक्षकमपीत्याह –

देवदत्तेति ।

देहशब्देन मनुष्यत्वादिजातिविशिष्टः अवयवी अभिमतः, आदिशब्देन इन्द्रियग्राह्याद्यवयवग्रहणम् । देहे अहमित्यध्यासः इन्द्रियादौ ममेत्यध्यासः तन्मूलक इत्यर्थः । तस्याध्यासस्यान्वयश्च व्यतिरेकश्चान्वयव्यतिरेकौ तावनुसरतीत्यन्वयव्यतिरेकानुसारी तस्य भावस्तस्मादित्यर्थः । अन्वयः सत्त्वं व्यतिरेकोऽभाव इति विवेकः । व्यवहारः स्वव्यतिरेकद्वारा अध्यासव्यतिरेकानुसारी भवतीति भावः ।

यत् यदन्वयव्यतिरेकानुसारि तत्तन्मूलकमिति सामान्यव्याप्तिमाह –

यदित्थमिति ।

इत्थं पदान्वयव्यतिरेकानुसारी भवतीत्यर्थः । तथा तन्मूलकमित्यर्थः ।

सामान्यव्याप्तिं स्फुटीकर्तुं तदुचितं स्थलं प्रदर्शयति –

यथेति ।

मूलपदं कारणपरं यथा मृदन्वयव्यतिरेकानुसारित्वान्मृन्मूलो घटः तथा अध्यासान्वयव्यतिरेकानुसारित्वादध्यासमूलको व्यवहार इति भावः ।

कारणतयेति ।

कारणत्वेन साध्यप्रविष्टत्वादध्याससिद्धिरिति भावः । वाशब्दश्चार्थे ।

’उच्यते देहेन्द्रियादिष्वहमि’त्यादि भाष्यं श्रीभाष्यकारस्य वस्तुसङ्ग्राहकवाक्यं तस्यैव प्रपञ्चनं ’नहीन्द्रियाण्यनुपाधाये’त्यादि भाष्यमिति विभागमभिप्रेत्य उत्तरभाष्यं शङ्कोत्तराभ्यामवतारयति –

नन्विति ।

लिङ्गादेरिति ।

अनुमानप्रमणादेरित्यर्थः । प्रत्यक्षादीत्यादिपदेनानुमित्यादेः सङ्गृहीतत्वादित्यर्थः । व्यवहारः पुरुषकर्तृकव्यवहार इत्यर्थः ।

प्रमास्वरूपाणां प्रत्यक्षानुमितिशाब्दज्ञानानां व्यवहारमभिनयति –

द्रष्टेत्यादिना ।

अनुमाता अनुमितिकर्ता शाब्दप्रमारूपश्रवणकर्ता श्रोता । अनुमन्तेति पाठः प्रामादिकः अस्मिंश्च पाठे अनुमन्ता अनुमतिकर्ता अनुमतिः सम्मतिरित्यर्थः ।

यद्वेति ।

पुरुषः तानि ममत्वेनानुपादाय पुरुषस्य यो व्यवहारः स न सम्भवतीत्यन्वयः ।

प्रथमव्याख्याने पुरुषस्य व्यवारकर्तृत्वमात्रं, व्यवहारस्य तु अगृहीत्वेत्यनेन अनुपादानक्रियाकर्तृत्वं – न सम्भवतीत्यनेन चासम्भवक्रियाकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते तस्मादनुपादायेत्येककर्तत्ववाचिक्त्वाप्रत्ययः साधुरिति परिष्करोति –

पूर्वत्रेति ।

द्वितीयव्याख्याने व्यवहारस्यासम्भवक्रियाकर्तृत्वमात्रं पुरुषस्य तु पुरुषोनुपादायेत्यनेनानुपादानक्रियाकर्तृत्वं पुरुषस्य व्यवहार इत्यनेन व्यवहारकर्तृत्वं चेत्युभयकर्तृत्वं प्रतिपाद्यते ततः प्रत्ययः साधुरिति स्फूटीकरोति –

उत्तरत्रेति ।

देहरूपधर्म्यध्यासामन्तरा हीन्द्रियादिरूपधर्माध्यासो न सम्भवतीति धर्म्यध्यासोङ्गीकरणीय इति परिहारमभिप्रेत्य धर्मिणं स्फोरयति –

इन्द्रियाणामिति ।

नन्विति ।

अचेतनेन्द्रियादेर्व्यवहारः चेतनसम्बन्धमन्तरा न सम्भवति रथादेर्व्यवहार इवातः चेतनसम्बन्धो वाच्यः इन्द्रियादेस्तु स्वाश्रयशरीरद्वारा परम्परासम्बन्धेन चेतनात्मसम्बन्धसत्त्वाद्व्यवहारोपपत्तेः किं धर्म्यध्यासेनेति शङ्कितुरभिप्रायः ।

आत्मशरीरयोः संयोगः सम्भवति चेत्तदा आत्मसंयुक्तशरीरसम्बन्धित्वेनेन्द्रियादेरात्मसम्बन्धो वक्तुं युज्यते स एव न सम्भवतीत्याशयं स्फुटीकरोति –

असङ्गो हीति ।

निरवयवस्यावयवसंश्लेषरूपसंयोगो नास्ति । सिद्धान्ते समवायस्तु नाभ्युपगत एव स्वरूपादिसम्बन्धस्तु संयोगादिमूलसम्बन्धपूर्वकः तथा चाध्यासेनैव व्यवहारनिर्वाह इति भावः ।