भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
नन्वात्मनो देहादिभिराध्यासिकसम्बन्धोऽपि मास्तु, स्वतश्चेतनतया प्रमातृत्वोपपत्तेः । न च सुषुप्तौ प्रमातृत्वापत्तिः करणोपरमादिति तत्राह -

न चैतस्मिन्निति ।

प्रमाश्रयत्वं हि प्रमातृत्वम् । प्रमा यदि नित्यचिन्मात्रं तर्ह्याश्रयत्वायोगः करणवैयर्थ्यं च । यदि वृत्तिमात्रम् , जगदान्ध्यप्रसङ्गः, वृत्तेर्जडत्वात् । अतो वृत्तीद्धो बोधः प्रमा, तदाश्रयत्वमसङ्गस्यात्मनो वृत्तिमन्मनस्तादात्म्याध्यासं विना न सम्भवतीति भावः । देहाध्यासे, तद्धर्माध्यासे चासतीत्यक्षरार्थः ।

तर्ह्यात्मनः प्रमातृत्वं मास्तु इति वदन्तं प्रत्याह -

न चेति ।

तस्मादात्मनः प्रमातृत्वादिव्यवहारार्थमध्यासोऽङ्गीकर्तव्य इत्यनुमानार्थापत्त्योः फलमुपसंहरति -

तस्मादिति ।

प्रमाणसत्त्वादित्यर्थः ।

यद्वा प्रमाणप्रश्नं समाधायाक्षेपं परिहरति -

तस्मादिति ।

अहमित्यध्यासस्य प्रमात्रन्तर्गतत्वेनादोषत्वात् , अविद्यावदाश्रयाण्यपि प्रमाणान्येवेति योजना । सति प्रमातरि पश्चाद्भवन् दोष इत्युच्यते, यथा काचादिः । अविद्या तु प्रमात्रन्तर्गतत्वान्न दोषः, येन प्रत्यक्षादीनामप्रामाण्यं भवेदिति भावः ।

ननु यदुक्तमन्वयव्यतिरेकाभ्यां व्यवहारोऽध्यासकार्य इति, तदयुक्तं विदुषामध्यासाभावेऽपि व्यवहारदृष्टेरित्यत आह -

पश्वादिभिश्चेति ।

चशब्दः शङ्कानिरासार्थः, किं विद्वत्त्वं ब्रह्मास्मीति साक्षात्कारः उत यौक्तिकमात्मानात्मभेदज्ञानम् । आद्ये बाधिताध्यासानुवृत्त्या व्यवहार इति समन्वयसूत्रे वक्ष्यते । द्वितीये परोक्षज्ञानस्यापरोक्षभ्रान्त्यनिवर्तकत्वात् , विवेकिनामपि व्यवहारकाले पश्वादिभिरविशेषात् अध्यासवत्त्वेन तुल्यत्वाद्व्यवहारोऽध्यासकार्य इति युक्तमित्यर्थः । अत्रायं प्रयोगः विवेकिनोऽध्यासवन्तः, व्यवहारवत्त्वात् , पश्वादिवदिति ।

तत्र सङ्ग्रहवाक्यं व्याकुर्वन् दृष्टान्ते हेतुं स्फुटयति -

यथाहीति ।

विज्ञानस्यानुकूलत्वं प्रतिकूलत्वं चेष्टानिष्टसाधनगोचरत्वम् , तदेवोदाहरति -

यथेति ।

अयं दण्डो मदनिष्टसाधनम् , दण्डत्वात् , अनुभूतदण्डवत् , इदं तृणमिष्टसाधनम् अनुभूतजातीयत्वात् , अनुभूततृणवदित्यनुमाय व्यवहरन्तीत्यर्थः ।

अधुना हेतोः पक्षधर्मतामाह -

एवमिति ।

व्युत्पन्नचित्ता अपीत्यन्वयः । विवेकिनोऽपीत्यर्थः ।

फलितमाह -

अत इति ।

अनुभवबलादित्यर्थः ।

समान इति ।

अध्यासकार्यत्वेन तुल्य इत्यर्थः ।

वृत्तिमात्रमिति ।

अन्तःकरणपरिणामविशेषमात्रमित्यर्थः ।

जगदान्ध्येति ।

जगतः व्यवहारविषयत्वप्रसङ्ग इत्यर्थः ।

प्रमा नाम वृत्तिसम्बन्धरहितचिद्रूपा वा चित्सम्बन्धरहितवृत्तिर्वा आहोस्विद्विशिष्टा वेति विकल्प्य प्रथमद्वितीयौ निरस्य तृतीयमङ्गीकरोति -

अतो वृत्तीद्ध इति ।

वृत्त्यभिव्यक्तो वृत्तीद्ध इत्यर्थः । वृत्तिमतो मनसः यत्तादात्म्यं सत्तैक्यरूपं तस्याध्यासं विनेत्यर्थः । वृत्तिरूपविशेषणांशे चाध्यासः धर्म्यध्यासं विना न सम्भवति, तथा च धर्म्यध्यासाभावेनोभयत्र धर्माध्यासाभावे वृत्तिविशिष्टबोधरूपप्रमाश्रयत्वं नेति फलितार्थः ।

’एतस्मिन् सर्वस्मिन्नसतीति’ भाष्यस्य मनस्तादात्म्याद्यध्यासाभावरूपतात्पर्यार्थो उक्तः सम्प्रति शब्दोक्तार्थमाह –

देहादीति ।

तद्धर्माध्यासे च देहधर्मस्येन्द्रियादेरध्यासे चेत्यर्थः ।

प्रत्याहेति ।

तिरस्करोतीत्यर्थः । प्रमातारमन्तरा ह्यचेतनेन्द्रियादिव्यवहारो नोपपद्यत इति सिद्धान्त्यभिप्रायः ।

अर्थापत्तिशब्दो व्याख्यातः तच्छब्दार्थं कथयन् भाष्यं योजयति –

अहमितीति ।

अध्यासं विना प्रमातृत्वायोगात्तदन्तर्गतत्वमध्यासस्येति भावः ।

पूर्वस्थितमेवकारमुत्तरपदेनान्वेति –

प्रमाणान्येवेतीति ।

ननु चैतन्याद्वितीयावभासं प्रति प्रमात्रन्तर्गतस्याविद्याध्यासस्य दोषत्वेन प्रसिद्धत्वात्कथमदोषत्वमित्यत आह –

सति प्रमातरीति ।

यथा चक्षुर्निष्ठकाचकामलदिः पश्चाद्भवन् दोषः तथा अविद्या तु प्रमात्रन्तर्गतत्वान्न दोष इत्यन्वयः । पूर्वस्माद्वैषम्यद्योतकस्तुशब्दः । प्रमाकारणीभूते प्रमातरि सति पश्चाद्भवन् तदकरणीभूतो यः स दोष इत्युच्यते यथा काचादिः पीतप्रमां प्रत्यकारणत्वात् अविद्यात्मकाध्यासस्तु प्रमात्रन्तर्गततया प्रमां प्रति कारणत्वान्न दोष इत्यर्थः । एतदुक्तं भवति । अकारणत्वेन योऽवतिष्ठते स दोषः स एव कारणत्वेनावतिष्ठते चेन्न दोषो भवति तथा चाविद्याध्यासस्तु चैतन्याद्वितीयावभासं प्रत्यकारणत्वाद्दोषः न द्वैतावभासं प्रति तत्र कारणत्वात्तद्यथा काचादिरकारणत्वाच्चक्षुरादिदोषोपि सन् तथाविधपापादृष्टमनुमापयन् तत्र कारणत्वान्न दोषस्तद्वदिति ।

साक्षात्कार इति ।

अपरोक्षानुभव इत्यर्थः ।

यौक्तिकमिति ।

युक्तिजन्यमित्यर्थः । अनुमानादिजन्यमिति यावत् ।

आत्मेति ।

आत्मा ह्यनात्मभिन्न इति परोक्षाज्ञानमित्यर्थः ।

बाधितेति ।

अपरोक्षज्ञानेन बाधितः अभासीकृतः अध्यासः बाधिताध्यासः तस्यानुवृत्त्येत्यर्थः ।

अपरोक्षज्ञानवतां व्यवहारकारणीभूताध्यासस्य बाधितत्वं कुत्र प्रतिपाद्यत इति जिज्ञासायामाह –

समन्वय इति ।

द्वितीयवर्णक इति शेषः । तथा चावरणे निवृत्तेपि पीतः शङ्खः इति यत् वासनात्मकविक्षेपशक्त्यंशानुवृत्तेर्जीवन्मुक्तानां वसिष्ठादीनां व्यवहारोप्यध्यासजन्य एव परन्तु तदीयाध्यासस्य बाधितत्वान्न तत्कारणव्यवहारस्य बन्धहेतुत्वमिति भावः ।

परोक्षेति ।

परोक्षज्ञानस्याहमित्यपरोक्षाध्यासानिवर्तकत्वाद्व्यवहारवतां तेषामध्यासाभावो वक्तुं न शक्यत इति भावः ।

पश्वादिभिश्चाविशेषादिति वाक्यस्यान्वयपूर्वकमर्थं परिष्करोति –

विवेकिनामपीति ।

परोक्षज्ञानिनामपरोक्षज्ञानिनामित्यर्थः ।

अध्यासवत्त्वेनेति ।

बाधितत्वाबाधितत्वविशेषेऽप्यध्यासवत्त्वेन तुल्यत्वादित्यर्थः ।

उक्तमिति ।

’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसरे उक्तमित्यर्थः ।

अनुभूततृणेति ।

अनुभूततृणनिष्ठतृणत्ववत्त्वादित्यर्थः ।

विवेकिनोपीति ।

अयं पुरुषो मदनिष्ठसाधनं बलवत्त्वे सति क्रूरदृष्टिमत्त्वात्तस्मिन्सत्याक्रोशवत्त्वाद्वा तस्मिन्सति खड्गोद्यतकरत्वाद्वा अनुभूतपुरुषवदित्यनुमाय विवेकिनोपि निवर्तन्ते । एवं क्रूरदृष्ट्यादिराहित्यविशिष्टसद्गुणत्वादिहेतुना चेष्टासाधत्वमनुमाय तद्विपरीतान् प्रति प्रवर्तन्त इति भावः ।