भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
नन्वस्माकं प्रवृत्तिरध्यासादिति न पश्वादयो ब्रुवन्ति, नापि परेषामेतत्प्रत्यक्षम् , अतः साध्यविकलो दृष्टान्त इति नेत्याह -

पश्वादीनां चेति ।

तेषामात्मानात्मनोर्ज्ञानमात्रमस्ति न विवेकः, उपदेशाभावात् । अतः सामग्रीसत्त्वादध्यासस्तेषां प्रसिद्ध इत्यर्थः ।

निगमयति -

तत्सामान्येति ।

तैः पश्वादिभिः सामान्यं व्यवहारवत्त्वं तस्य दर्शनाद्विवेकिनामप्ययं व्यवहारः समान इति निश्चीयत इति सम्बन्धः । समानत्वं व्यवहारस्याध्यासकार्यत्वेनेत्युक्तं पुरस्तात् ।

तत्रोक्तान्वयव्यतिरेकौ स्मारयति -

तत्काल इति ।

तस्याध्यासस्य काल एव कालो यस्य स तत्कालः । यदा अध्यासस्तदा व्यवहारः, तदभावे सुषुप्तौ तदभाव इत्युक्तान्वयादिमानिति यावत् । अतो व्यवहारलिङ्गाद्विवेकिनामपि देहादिष्वहंममाभिमानोऽस्तीत्यनवद्यम् ।

ननु लौकिकव्यवहारस्याऽऽध्यासिकत्वेऽपि ज्योतिष्टोमादिव्यवहारस्य नाध्यासजन्यत्वम् , तस्य देहातिरिक्तात्मज्ञानपूर्वकत्वादित्याशङ्क्य हेतुमङ्गीकरोति -

शास्त्रीये त्विति ।

तर्हि कथं वैदिककर्मणोऽध्यासजन्यत्वसिद्धिरित्याशङ्क्य किं तत्र देहान्यात्मधीमात्रमपेक्षितमुत, आत्मतत्त्वज्ञानम् , आद्ये तस्याध्यासाबाधकत्वात्तत्सिद्धिरित्याह -

तथापीति ।

न द्वितीय इत्याह -

न वेदान्तेति ।

क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीति ज्ञानं कर्मण्यपेक्षितं न तद्विपरीतात्मतत्त्वज्ञानम् , अनुपयोगात्प्रवृत्तिबाधाच्चेत्यर्थः ।

शास्त्रीयकर्मणोऽध्यासजन्यत्वं निगमयति -

प्राक्च तथेति(प्राक्चेति)*

अध्यासे आगमं प्रमाणयति -

तथा हीति ।

यथा प्रत्यक्षानुमानार्थापत्तयोऽध्यासे प्रमाणं तथागमोऽपीत्यर्थः । ‘ब्राह्मणो यजेत’, ‘न ह वै स्नात्वा भिक्षेत’, ‘अष्टवर्षं ब्राह्मणमुपनयीत’, ‘कृष्णकेशोऽग्नीनादधीत’ इत्यागमो ब्राह्मणादिपदैरधिकारिणं वर्णाद्यभिमानिनमनुवदन्नध्यासं गमयतीति भावः ।

एवमध्यासे प्रमाणसिद्धेऽपि कस्य कुत्राध्यास इति जिज्ञासायां तमुदाहर्तुं लक्षणं स्मारयति -

अध्यासो नामेति ।

उदाहरति -

तद्यथेति ।

तल्लक्षणं यथा स्पष्टं भवति तथोदाह्रियत इत्यर्थः । स्वदेहाद्भेदेन प्रत्यक्षाः पुत्रादयो बाह्याः तद्धर्मान्साकल्यादीन्देहविशिष्टात्मन्यध्यस्यति, तद्धर्मज्ञानात्स्वस्मिंस्तत्तुल्यधर्मानध्यस्यतीत्यर्थः । भेदापरोक्षज्ञाने तद्धर्माध्यासायोगात् , अन्यथाख्यात्यनङ्गीकाराच्चेति द्रष्टव्यम् ।

देहेन्द्रियधर्मान्मनोविशिष्टात्मन्यध्यस्यतीत्याह -

तथेति ।

कृशत्वादिधर्मवतो देहादेरात्मनि तादात्म्येन कल्पितत्वात्तद्धर्माः साक्षादात्मन्यध्यस्ता इति मन्तव्यम् ।

एतत्प्रत्यक्षमिति ।

अध्यासवत्त्वमेतच्छब्दार्थः, पश्वादिनिष्ठाध्यासः परप्रत्यक्षविषयो न भवतीति भावः । साध्यविकलः साध्यरहित इत्यर्थः ।

तेषामात्मेति ।

अहमिति सामान्यात्मकं ज्ञानमस्तीदं चेतनमिदमचेतनमिदं मदीयमित्यादिज्ञानं चास्ति पश्वादीनामिति भावः ।

मात्रपदव्यावर्त्यमाह –

न विवेक इति ।

शास्त्राचार्योपदेशाभावादहं देहेन्द्रियादिविलक्षण इति विवेकरूपवैलक्षण्यज्ञानं तु नास्तीति भावः ।

ननु शङ्कायाः कः परिहार इत्यत आह –

अत इति ।

पूर्वोक्तदोषसम्प्रयोगसंस्कारस्वरूपसामग्रीरूपलिङ्गात् पश्वादीनामध्यासोऽस्तीत्यनुमीयत इति न सध्यवैकल्यमिति भावः ।

निगमयतीति ।

पश्वादिभिश्चाविशेषादिति सङ्ग्रहवाक्ये तात्पर्येणोक्तं विवेकिनां व्यवहारस्याध्यासकार्यत्वमुपसंहरतीत्यर्थः ।

तैरिति –

सहार्थे तृतीया । व्यवहारवत्त्वं व्यवहारवत्त्वसमानधर्म इत्यर्थः । तस्य व्यवहारवत्त्वस्येत्यर्थः । दर्शनात् प्रत्यक्षप्रमाणसिद्धत्वादित्यर्थः ।

विवेकिनामिति ।

परोक्षज्ञानिनामपरोक्षज्ञानिनां चेत्यर्थः । यादृशः पश्वादीनां व्यवहारः प्रत्यक्षप्रमाणेन दृश्यते विवेकिनामपि तादृशो व्यवहारः प्रत्यक्षेण दृश्यते तथा च पश्वादिभिस्सह व्यवहारवत्त्वरूपसमानधर्मवत्त्वेन तत्तुल्यानां विवेकिनां पुंसां व्यवहारोप्यध्यासकार्यत्वरूपसमानधर्मेण पश्वादिव्यवहारतुल्य इति निश्चीयत इति समुदायग्रन्थार्थः । अत्रायं प्रयोगः विवेकिनां व्यवहारः तदीयाध्यासकार्यः तदध्यासान्वयव्यतिरेकानुसारित्वात्पश्वादिव्यवहारवदिति ।

उक्तं पुरस्तादिति ।

’अतः समानः पश्वादिभिः पुरुषाणामि’त्यादिभाष्यव्याख्यानावसरे पूर्वमुक्तमित्यर्थः ।

तत्रेति ।

उक्तसाम्य इत्यर्थः ।

उक्तेति ।

’उच्यते देहेन्द्रियादिष्वि’त्यादिभाष्यव्याख्यानावसर इति शेषः ।

परमप्रकृतमनुमानेनोक्तमध्यासवत्त्वमुपसंहरति –

अत इति ।

तथा च कृत्स्नलौकिकव्यवहारस्याध्यासकार्यत्वं साधितमिति स्थितम् ।

तस्य देहेति ।

कर्मकर्तुः देहातिरिक्तात्मज्ञानाभावे कर्मणि प्रवृत्तिरेव न स्यादतः फलभोक्ता देहातिरिक्तात्मास्तीति ज्ञानं कर्महेतुरिति शङ्कितुरभिप्रायः ।

भाष्ये

यद्यपि बुद्धिपूर्वकारीति ।

बुद्धिपूर्वकारी आत्मनः परलोकस्य सम्बन्धमविदित्वा नाधिक्रयत इत्यन्वयः । अपेतब्रह्मक्षत्रादिभेदं प्रपञ्चशून्यमेकरसमित्यर्थः ।

प्राक् च तथात्मभूतविज्ञानादिति ।

तत्त्वमसीति वाक्यार्थज्ञानात्प्रागित्यर्थः । प्रवर्तमानमिति । अविद्याकृतमहमुल्लेखमन्तरं संसारमाश्रित्य प्रवर्तमानमित्यर्थः ।

अतस्मिंस्तद्बुद्धिरिति ।

अतस्मिन् अयुष्मदर्थे अनिदञ्चिति तद्बुद्धिः युष्मदर्थावभास इत्यर्थः ।

व्याख्याने वैदिककर्मणः देहोहमित्यध्यासजन्यत्वाभावेऽपि क्षुत्पिपासादिग्रस्तो जातिविशेषवानहं संसारीत्यध्यासजन्यत्वमस्तीति सिद्धान्तयितुं पूर्वोक्तं हेतुं विकल्प्य खण्डयति –

किं तत्रेत्यादिना ।

तत्र वैदिककर्मणीत्यर्थः ।

अध्यासाबाधकत्वादिति ।

क्षुत्पिपासादिग्रस्त इत्याद्यध्यासाबाधकत्वादित्यर्थः ।

तथापीत्यक्षरत्रयेणैव प्रथमपक्षोक्तपरिहारो ज्ञाप्यत इति भाष्यभावं स्फुटीकर्तुं द्वितीयपक्षनिरासपरत्वेनोत्तरभाष्यमवतारयति –

न द्वितीय इति ।

वर्णाश्रमवयोवस्थाध्यासानां चतुर्णां क्रमेणोदाहरणं प्रतिपादयति -

ब्राह्मणो यजेतेति ।

यद्यपि ’अष्टवर्षं ब्राह्मणमुपनयीते’त्यनेन वयोध्यासो वर्णाध्यासश्च प्रतिपाद्यते तथापि ब्राह्मणो यजेतेति वर्णाध्यासस्य पृथगुदाहरणं स्पष्टार्थम् ।

अध्यासमिति ।

चेतनाचेतनयोरैक्यावभासरूपमध्यासमित्यर्थः । एवमध्यासे प्रमाणसिद्धेऽपि लक्षणं स्मारयत्यनुवदतीति योजना ।

ननु पुनः किमर्थमुक्तलक्षणानुवाद इत्यत आह –

कस्येति ।

जिज्ञासायामिति ।

विशेषजिज्ञासायामित्यर्थः ।

तमुदाहर्तुमिति ।

अध्यासस्वरूपमुदाहृत्य विवेकतो दर्शयितुमित्यर्थः । ’स्मृतिरूपः परत्रे’त्यादिना ’अन्यस्यान्यधर्मावभासतां न व्यभिचरती’त्यन्तेन भाष्येणाधिष्ठानारोप्यविवादेपि परत्र परस्यावभासरूपाध्यासलक्षणं सर्वसंमतमिति परिष्कृतम् , तेन लक्षणेन लक्षितस्याध्यासस्य कुत्र कस्याध्यास इति विशेषोदाहरणजिज्ञासायामस्मदर्थे आत्मनि युष्मदर्थस्यानात्मनः तद्विपर्ययेण चाध्यास इति विविच्य दर्शनाय परत्र परावभासलक्षणमनुवदतीति भावः । ’युष्मदस्मदित्यादिलोकव्यवहार’ इत्यन्तभाष्येणाक्षेपसमाधानाभ्यामात्मानात्मनोरध्यासस्य विवेकतः प्रदर्शनमप्युक्तमेवातः पुनरुक्तमिति यदि प्रतीयेत तदा विस्तरेणात्र प्रतिपाद्याध्यास एव सिद्धवत्कृत्वा तत्र सङ्ग्रहेण विषयादिसिद्ध्यर्थमनूद्यत इति यदुक्तं तन्न विस्मर्तव्यम् ।

प्रतीकमादाय तच्छब्दस्यार्थमाह –

तल्लक्षणमिति ।

’तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्ये’त्यादिभाष्येण प्रत्यक्षत्वेन दर्शिताध्यासस्वरूपमित्यर्थः ।

यथा स्पष्टं भवतीति ।

देहेन्द्रियमनोभेदेन भिन्नानामनात्मनां तद्धर्माणां चात्मतद्धर्माणां चाध्यासस्य विभज्य दर्शनेन यथानुभवानुरूढं भवतीत्यर्थः ।

साकल्यादीनिति ।

साकल्यं नाम पूजादिसकलधर्मविशिष्टत्वम् , वैकल्यं तु तद्राहित्यं भाष्यस्थादिशब्दार्थः । देहविशिष्टत्वं देहतादात्म्यापन्नत्वम् ।

ननु तद्धर्माणामेवाध्यासोऽस्तु किं तत्तुल्यधर्माणामध्यास इत्यत आह –

भेदेति ।

पुत्रो मद्भिन्न इति भेदापरोक्षज्ञान इत्यर्थः ।

तत्रैव हेत्वन्तरमाह –

अन्यथेति ।

भाष्येणाप्रतिपादितं धर्मिणोर्देहेन्द्रिययोरध्यासं ज्ञापयन् तद्धर्माध्यासस्य वैलक्षण्यमाह –

कृशत्वेति ।