भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 
अज्ञाते प्रत्यग्रूपे(अज्ञातप्रत्यग्रूपे)* साक्षिणि मनोधर्माध्यासमाह -

तथान्तःकरणेति ।

धर्माध्यासमुक्त्वा तद्वदेव धर्म्यध्यासमाह -

एवमिति ।

अन्तःकरणं साक्षिण्यभेदेनाध्यस्य तद्धर्मान् कामादीनध्यस्यतीति मन्तव्यम् । स्वप्रचारा मनोवृत्तयः । प्रति - प्रातिलोम्येनासज्जडदुःखात्मकाहङ्कारादिविलक्षणतया सच्चित्सुखात्मकत्वेनाञ्चति प्रकाशत इति प्रत्यक् ।

एवमात्मन्यनात्मतद्धर्माध्यासमुदाहृत्यानात्मन्यात्मनोऽपि संसृष्टत्वेनाध्यासमाह -

तञ्चेति ।

अहमित्यध्यासे चिदात्मनो भानं वाच्यम् , अन्यथा जगदान्ध्यापत्तेः । न चानध्यस्तस्याध्यासे भानमस्ति । तस्माद्रजतादाविदम इवात्मनः संसर्गाध्यास एष्टव्यः ।

तद्विपर्ययेणेति ।

तस्याध्यस्तस्य जडस्य विपर्ययोऽधिष्ठानत्वम् , चैतन्यं च तदात्मना स्थितमिति यावत् । तत्राज्ञाने केवलात्मनः(केवलात्मना)* संसर्गः, मनस्यज्ञानोपहितस्य देहादौ मन उपहितस्येति विशेषः । एवमात्मनि बुद्ध्याद्यध्यासात्कर्तृत्वादिलाभः, बुद्ध्यादौ चात्माध्यासाच्चैतन्यलाभ इति भावः ।

वर्णिताध्यासमुपसंहरति -

एवमयमिति ।

अनाद्यविद्यात्मकतया कार्याध्यासस्यानादित्वम् । अध्यासात्संस्कारस्ततोऽध्यास इति । प्रवाहतो नैसर्गिकत्वम् । एवमुपादानं निमित्तं चोक्तं भवति । ज्ञानं विना ध्वंसाभावादानन्त्यम् । तदुक्तं भगवद्गीतासु ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ इति ।

हेतुमुक्त्वा स्वरूपमाह -

मिथ्येति ।

मिथ्या माया तया प्रतीयत इति प्रत्ययः कार्यप्रपञ्चः तत्प्रतीतिश्चेत्येवंस्वरूप इत्यर्थः ।

तस्य कार्यमाह -

कर्तृत्वेति ।

प्रमाणं निगमयति -

सर्वेति ।

साक्षिप्रत्यक्षमेवाध्यासधर्मिग्राहकं मानम् , अनुमानादिकं तु सम्भावानार्थमित्यभिप्रेत्य प्रत्यक्षोपसंहारः कृतः ।

एवमध्यासं वर्णयित्वा तत्साध्ये विषयप्रयोजने दर्शयति -

अस्येति ।

कर्तृत्वाद्यनर्थहेतोरध्यासस्य समूलस्यात्यन्तिकनाशो मोक्षः स केनेत्यत आह -

आत्मेति ।

ब्रह्मात्मैक्यसाक्षात्कारस्य प्रतिपत्तिः श्रवणादिभिरप्रतिबन्धेन लाभस्तस्या इत्यर्थः ।

विद्यायां कारणमाह -

सर्व इति ।

आरभ्यन्ते अधिकृत्य(अधीत्य)* विचार्यन्ते इत्यर्थः । विचारितवेदान्तानां ब्रह्मात्मैक्यं विषयः, मोक्षः फलमित्युक्तं भवति । अर्थात्तद्विचारात्मकशास्त्रस्यापि ते एव विषयप्रयोजने इति ज्ञेयम् ।

ननु वेदान्तेषु प्राणाद्युपास्तीनां दर्शनादात्मैक्यमेव(भानादात्मैक्यमेव)* तेषामर्थ इति कथमित्यत आह -

यथा चेति ।

शरीरमेव शरीरकम् , कुत्सितत्वात् , तन्निवासी शारीरको जीवस्तस्य ब्रह्मत्वविचारो मीमांसा तस्यामित्यर्थः । उपास्तीनां चित्तैकाग्र्यद्वारात्मैक्यज्ञानार्थत्वात्तद्वाक्यानामपि महातात्पर्यमैक्ये इति वक्ष्यते । एवमध्यासोक्त्या ब्रह्मात्मैक्ये विरोधाभावेन विषयप्रयोजनवत्वाच्छास्त्रमारम्भणीयमिति दर्शितम् ॥

॥ इति प्रथमवर्णकम् ॥

अज्ञात इति ।

अहमज्ञ इत्यज्ञानविषयत्वमज्ञातत्वम् ।

प्रत्ययाः कामाद्याः वृत्तयः अस्येति प्रत्ययी तथा चाहं चासौ प्रत्ययी चाहंप्रत्ययी स चाहङ्कारग्रन्थिरित्यभिप्रेत्याहंप्रत्ययिनमिति भाष्यार्थमाह –

अन्तःकरणमिति ।

प्रतीत्युपसर्गार्थकथनपूर्वकमञ्चतीत्यस्यार्थमाह –

प्रातिलोम्येनेति ।

आत्मनः स्वरूपेणाध्यासायोगात्संसृष्टत्वेनेत्युक्तम् । संसृष्टत्वं नाम तादात्म्यरूपसम्बन्धविशिष्टत्वं तथा चात्मसम्बन्धस्याध्यासमाहेत्यर्थः ।

ननु ’तं च प्रत्यगात्मानमि’ति भाष्येणात्मनोऽन्तःकरणादिषु अध्यासो दर्शितस्तत्कथमितरेतराध्यासे द्वयोरध्यस्यमानत्वेन मिथ्यात्वापातात् किञ्चिद्द्वयोरधिष्ठानत्वद्वयोर्विशेषावभासो न स्यादित्याशङ्क्याह –

अहमित्यध्यास इति ।

आन्ध्यपदं व्यवहाराविषयपरम् ।

न चेति ।

अध्यासविषयत्वेनाधिष्ठाने स्थितिरहितस्य नाध्यासे भानं तदङ्गीकारे अन्यथाख्यातिप्रसङ्गः स्यादिति भावः । रजतादाविदम्पदार्थस्य तादात्म्यरूपसंसर्गाध्यासो यथा तद्वदनात्मन्यात्मनः तादात्म्यरूपसंसर्गाध्यासोऽङ्गीकरणीय इति विभावनीयम् । जडस्येति निरूपितत्वं षष्ठ्यर्थः, जडनिरूपितमात्मनिष्ठाधिष्ठानत्वं चेतनत्वं च विपर्ययशब्दार्थः । विपर्ययोधिष्ठानं चैतन्यं चेति पाठान्तरम् । चैतन्यं जडविरुद्धस्वरूपमित्यर्थः ।

इत्थं भावे तृतीयेत्यभिप्रेत्य शेषपूर्त्यां वाक्यं योजयति -

तदात्मनेति ।

किं केवलस्यैवात्मनः सर्वत्र संसर्गाध्यास इत्याशङ्कायां विशेषमाह –

तत्राज्ञान इति ।

संसर्ग एष्टव्य इति पूर्वेणान्वयः । अनादिर्वृत्त्यविषयस्तादाम्यरूपाध्यासिकसम्बन्धः केवलात्मनः संसर्ग इत्यर्थः । अज्ञानोपहितस्याज्ञानोपाधिकस्येत्यर्थः । वृत्तिविषयः सादिराध्यासिकतादात्म्यसम्बन्धः अज्ञानोपहितस्यात्मनः संसर्ग इत्यर्थः । देहादौ मन उपाधिकस्यात्मानः सादिर्वृत्तिविषयः तादात्म्यरूपसंसर्ग एष्टव्य इत्यर्थः ।

भाष्याप्रतिपाद्यमात्मधर्माध्यासं स्फोरयन् फलितमाह –

एवमात्मनि वर्णिताध्यासमित्यादिग्रन्थः स्पष्टार्थः ।

अध्यासधर्मिग्राहकमिति ।

अध्यासस्वरूपग्राहकमित्यर्थः । एवं अध्यासं वर्णयित्वेत्यादिग्रन्थः स्पष्टार्थः ।

कुत्सितं शरीरं शरीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –

कुत्सितत्वादिति ।

शरीरकस्यायं शारीरकमिति विग्रहमभिप्रेत्य कन्प्रत्ययस्यार्थमाह –

तन्निवासीति ।

शरीरान्तर्वर्तिहृदयपुण्डरीकमध्यदहराकाशस्थितत्वात्तन्निवासीत्यर्थः ।

प्रथमवर्णकमिति ।

प्रथमसूत्रस्य प्रथमव्याख्यानमित्यर्थः ।