भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

तेषामन्वयव्यतिरेकाभ्यां ब्रह्मजिज्ञासाहेतुत्वमाह -

तेष्विति ।

अथ कथञ्चित् (यथाकथञ्चित्)* कुतूहलितया ब्रह्मविचारे प्रवृत्तस्यापि ( ब्रह्मविचारप्रवृत्तस्यापि)* फलपर्यन्तं तज्ज्ञानानुदयाद्व्यतिरेकसिद्धिः ।

अथशब्दव्याख्यानमुपसंहरति -

तस्मादिति ।

ननूक्तविवेकादिकं न सम्भवति, ‘अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्’ इत्यादिश्रुत्या कर्मफलस्य नित्यत्वेन ततो वैराग्यासिद्धेः । जीवस्य ब्रह्मस्वरूपमोक्षश्चायुक्तः, भेदात्तस्य लोष्टादिवत्पुरुषार्थत्वायोगाच्च । ततो न मुमुक्षासम्भव इत्याक्षेपपरिहारार्थोऽतःशब्दः तं व्याचष्टे -

अतःशब्द इति ।

अथशब्देनानन्तर्यवाचिना तदवधित्वेनार्थाद्विवेकादिचतुष्टयस्य ब्रह्मजिज्ञासाहेतुत्वं यदुक्तं तस्यार्थिकहेतुत्वस्याक्षेपनिरासायानुवादकोऽतःशब्द इत्यर्थः ।

उक्तं विवृणोति -

यस्मादिति ।

तस्मादित्युत्तरेण सम्बन्धः । ‘यदल्पं तन्मर्त्यं’ ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह’(छा॰उ॰ ८-१-६) इत्यादिश्रुतिः कर्मफलाक्षयत्वश्रुतेर्बाधिका । तस्मात् अतोऽन्यदार्तम्’ इति श्रुत्या अनात्ममात्रस्यानित्यत्वविवेकात् वैराग्यलाभ इति भावः ।

मुमुक्षां सम्भावयति -

तथेति ।

यथा वेदः कर्मफलानित्यत्वं दर्शयति, तथा ब्रह्मज्ञानात् प्रशान्तशोकानलम्(प्रशान्तशोकानिलम्)* अपारं स्वयञ्ज्योतिरानन्दं दर्शयतीत्यर्थः । जीवत्वादेरध्यासोक्त्या ब्रह्मत्वसम्भव उक्त एवेति भावः ।

एवमथातःशब्दाभ्यां पुष्कलकारणवतोऽधिकारिणः समर्थनात् शास्त्रमारब्धव्यमित्याह -

तस्मादिति ।

सुत्रवाक्यपूरणार्थमध्याहृतकर्तव्यपदान्वयार्थं ब्रह्मजिज्ञासापदेन विचारं लक्षयितुं तस्य स्वाभिमतसमासकथनेनावयवार्थं दर्शयति -

बह्मण इति ।

ननु धर्माय जिज्ञासा इतिवत् ब्रह्मणे जिज्ञासेति चतुर्थीसमासः किं न स्यादिति चेत् । उच्यते जिज्ञासापदस्य हि मुख्यार्थमिच्छा, तस्याः प्रथमं कर्मकारकमपेक्षितं पश्चात्फलम् , ततश्चादौ कर्मज्ञानार्थं षष्ठीसमासो युक्तः । कर्मण्युक्ते सत्यर्थात्फलमुक्तं भवति, इच्छायाः कर्मण एव फलत्वात् । यथा स्वर्गस्येच्छा इत्युक्ते स्वर्गस्य फलत्वं लभ्यते तद्वत् । अत एव ‘धर्मजिज्ञासा’ इत्यत्रापि ‘सा हि तस्य ज्ञातुमिच्छा’ इति इच्छां गृहीत्वा षष्ठीसमासो दर्शितः । विचारलक्षणायां तु विचारस्य क्लेशात्मकतया प्रथमं फलाकाङ्क्षत्वात् धर्माय जिज्ञासेति चतुर्थीसमास उक्तः, तथा वृत्तिकारैर्ब्रह्मणे जिज्ञासा इत्युक्तं चेदस्तु ज्ञातत्वेन(ज्ञानत्वेन)* ब्रह्मणः फलत्वादिति ।

अधुना ब्रह्मपदार्थमाह -

ब्रह्म चेति ।

ननु ‘ब्रह्मक्षत्रमिदं ब्रह्म आयाति ब्रह्म स्वयम्भूर्ब्रह्म प्रजापतिः’ इति श्रुतिषु लोके च ब्राह्मणत्वजातौ जीवे वेदे कमलासने च ब्रह्मशब्दः प्रयुज्यत इत्याशङ्क्याह -

अत एवेति ।

जगत्कारणत्वलक्षणप्रतिपादकसूत्रासाङ्गत्यप्रसङ्गादेवेत्यर्थः ।

वृत्त्यन्तरे शेषे षष्ठीत्युक्तं दूषयति -

ब्रह्मण इतीति ।

सम्बन्धसामान्यं शेषः । जिज्ञासेत्यत्र सन्वाच्याया(सन्प्रत्ययवाच्याया)* इच्छाया ज्ञानं कर्म, तस्य ज्ञानस्य ब्रह्म कर्म । तत्र सकर्मकक्रियायाः कर्मज्ञानं विना ज्ञातुमशक्यत्वात् , इच्छाया विषयज्ञानजन्यत्वाच्च प्रथमापेक्षितं कर्मैव षष्ठ्या वाच्यं न शेष इत्यर्थः ।

ननु विवेकादिसत्त्वे विचारः तद्द्वारा साक्षात्कारश्चेत्यन्वयसत्त्वेपि विवेकाद्यभावे ब्रह्मविचाराद्यभाव इति न व्यतिरेकः कथञ्चित्कुतूहलतया बहुश्रुतत्वबुद्ध्या वा दैववशाद्वा विवेकादिरहितस्य ब्रह्मविचारप्रवृत्तिदर्शनादित्याशङ्क्याह –

कथञ्चित्कुतूहलतयेति ।

विवेकाद्यभावे फलपर्यन्तज्ञानप्रतिबन्धकसाहित्यविचारसत्त्वेपि तद्रहितविचाराभावो विद्यत इति व्यतिरेकसिद्धिरिति भावः ।

सुकृतमिति ।

पुण्यकर्मफलमित्यर्थः । प्रलयपर्यन्तमवस्थानाच्चिरकालावस्थायित्वमेव अक्षय्यत्वमिति सिद्धान्त्यभिप्रायः पूर्वपक्ष्यभिप्रायस्तु नित्यत्वमिति भेदः ।

भेदादिति ।

जीवस्य ब्रह्मणः सकाशाद्भेदसत्त्वादित्यर्थः । नाहमीश्वर इति प्रत्यक्षादिसिद्धभेदेनाभेदस्य बाधितत्वाज्जीवस्य ब्रह्मत्वमयुक्तमिति भावः ।

तस्येति ।

यथा लोष्ठस्याकिञ्चित्करत्वेन सुखप्राप्तिदुःखनिवृत्त्यन्यतररूपत्वायोगस्तथा स्वरूपावस्थानरूपमोक्षस्य अकिञ्चित्करत्वेन सुखदुःखाभावान्यतररूपपुरुषार्थत्वायोगाच्चेत्यर्थः ।

अनुवादे बीजमाह –

अथशब्देनेति ।

अथशब्देन यदुक्तमित्यन्वयः ।

अर्थादिति ।

अन्वयव्यतिरेकबलादार्थिकार्थतयेत्यर्थः ।

आर्थिकहेतुत्वस्येति ।

साधनचतुष्टयनिष्ठस्यार्थसिद्धहेतुत्वस्येत्यर्थः ।

अनुवादस्य प्रयोजनमाह –

आक्षेपेति ।

ननु भवत्वतःशब्द आक्षेपनिरासायानुवादकस्तथापि कथं निरास इत्याशङ्क्य निरासप्रतिपादकत्वेनोत्तरभाष्यमवतारयति –

उक्तमिति ।

विवेकादिकमित्यर्थः ।

श्रुत्यर्थस्य कर्मफलानित्यत्वस्य दृढीकरणाय व्याप्तिद्वयसहकारित्वं श्रुतेर्दर्शयति –

यदल्पमिति ।

अल्पं मध्यमपरिमाणवदित्यर्थः । मर्त्यं ध्वंसप्रतियोगीत्यर्थः । कृतकं कार्यमित्यर्थः ।

न्यायवतीति ।

स्वोक्तार्थप्रतिपादकव्याप्तिमदित्यर्थः । ’तद्यथेह कर्मचितो लोकः क्षीयत’ इत्यादिश्रुतेः पापसहकृतत्वात्प्राबल्यमक्षय्यत्वश्रुतेस्तु कर्मफलनित्यत्वबोधकत्वे तदभावाद्दौर्बल्यं तस्मात्तद्यथेहेत्यादिश्रुतिरक्षय्यत्वश्रुतेर्बाधिकेति भावः ।

भाष्यस्थादिशब्दार्थं श्रुत्यन्तरं प्रमाणयति –

अतोऽन्यदिति ।

ब्रह्मणः व्यतिरिक्तं सर्वं मिथ्याभूतमित्यर्थः ।

मोक्षस्य पुरुषार्थत्वं स्फोरयति –

यथेति ।

ननु मोक्षस्य सुखदुःखाभावान्यतररूपत्वेप्यपुरुषार्थत्वमेव स्यात् वृत्तिवेद्यत्वाभावेनाज्ञातत्वाज्ज्ञातो हि पुरुषार्थ इत्युच्यत इत्याशङ्क्याह –

अपारं स्वयञ्ज्योतिरिति ।

वृत्तिवेद्यत्वाभावेपि ब्रह्मणः स्वप्रकाशत्वेनानन्दानुभवान्मोक्षः पुरुषार्थ एव स्वप्रकाशत्वेन तस्य ज्ञातत्वात्तस्मान्मुमुक्षा सम्भवतीति भावः ।

भेदाद्ब्रह्मत्वं जीवस्यायुक्तमिति यदुक्तं तद्दूषयति –

जीवत्वादेरिति ।

उक्त एवेति ।

उपोद्घातग्रन्थ इति शेषः । नाहमीश्वर इति प्रतीतेरहमंशे विशिष्टविषयकत्वेन तया विशिष्टस्यैव जीवस्य ब्रह्मत्वं निषिध्यते न शोधितस्य जीवस्य तथा च जीवत्वं कल्पितं तस्माद्ब्रह्मत्वमेव वास्तवं तस्येति भावः ।

महाप्रकरणोपसंहारार्थकमुत्तरभाष्यमित्यभिप्रेत्य तच्छब्दार्थकथनद्वारा तद्भाष्यमवतारयति –

एवमिति ।

अथातःशब्दाभ्यां साधनचतुष्टयस्य हेतुत्वसमर्थनद्वारा तद्वतोऽधिकारिणः समर्थित्वाच्छास्त्रमारम्भणीयमित्याहेत्यर्थः ।

सूत्रवाक्यपूरणार्थमिति ।

सूत्रवाक्यपूरणार्थं यदध्याहृतं कर्तव्यपदं तस्यान्वयार्थमित्यन्वयः ।

कर्मज्ञानार्थमिति ।

कर्मकारकज्ञानार्थमित्यर्थः । एवमुत्तरत्र विज्ञेयम् ।

कर्मण एवेति ।

कर्मत्वं नाम विषयत्वम् , इच्छायाः विषयस्यैव प्रयोजनत्वादित्यर्थः । यथा स्वर्गस्येच्छेत्युक्ते स्वर्गविषयिणी इच्छेति बोधात्स्वर्गस्येच्छाकर्मत्वं तत्फलत्वं च सम्भवति, तथा ब्रह्मणो जिज्ञासेत्युक्ते ब्रह्मविषयिणी जिज्ञासेति बोधाद्ब्रह्मणः ज्ञानद्वारेणेच्छाकर्मत्वं तत्फलत्वं च सम्भवतीति भावः ।

सा हि तस्येति ।

सा हि तस्य ज्ञातुमिच्छेति शाबरभाष्यवाक्यम् । तस्यार्थः । सा धर्मजिज्ञासा । तस्य धर्मस्य ज्ञातुमिच्छेति । इच्छाप्राधान्ये तावदिच्छायाः कर्मफलयोरैक्यात्कर्मणश्च प्रथमापेक्षितत्वेन प्राधान्यात्कर्मणि षष्ठीसमासः स्याद्विचारप्राधान्ये तु कर्मफलयोर्भेदात्प्रयोजनविवक्षया चतुर्थीसमासः स्यादित्येवं मुख्यार्थेच्छाभिप्रायेण विचारलक्षणाभिप्रायेण च समासद्वयमुपपद्यत इति समुदायग्रन्थार्थः ।

अधुनेति ।

ब्रह्मपदस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देश्यतीतिब्रह्मपदार्थमाहेत्यर्थः । ब्रह्मक्षत्रमित्यत्र ब्रह्मशब्देन ब्राह्मणजातिरुच्यते ।

भाष्यस्थादिशब्दार्थं दर्शयति –

इदं ब्रह्मेति ।

अत्र ब्रह्मशब्देन जीव उच्यते एवं क्रमेण उत्तरत्र योजनीयम् ।

जगत्कारणत्वेति ।

जात्यादौ जगत्कारणत्वासम्भवेन पूर्वोत्तरविरोधाद्ब्रह्मशब्दस्य न जात्याद्यर्थकत्वमिति परिहारार्थः ।

वृत्त्यन्तर इति ।

प्राचीनव्याख्यान इत्यर्थः ।

सम्बन्धसामान्यमिति ।

सम्बन्धत्वविशष्टः सम्बन्ध इत्यर्थः । सम्बन्धमात्रमिति यावत् ।

जिज्ञास्यापेक्षत्वादित्यादिहेतुभाष्यं विवृणोति –

जिज्ञासेत्यत्रेति ।

सन्वाच्यायाः सन्प्रत्ययस्य वाच्यार्थभूताया इत्यर्थः ।

कर्मेति ।

कर्मत्वं विषयत्वम् ।

सकर्मकक्रियाया इति ।

सकर्मकेच्छाया इत्यर्थः ।

विषयज्ञानेति ।

विषयस्य ज्ञानमिति विग्रहः । ब्रह्मजिज्ञासा नाम ब्रह्मविषकं यज्ज्ञानं तद्विषयकेच्छा तथा च सकर्मकक्रियारूपायाः परम्परया ब्रह्मविषयकजिज्ञासायाः प्रथमं जिज्ञास्यब्रह्मरूपकर्मापेक्षत्वात्कर्मणि षष्ठ्येव परिग्राह्या न शेषषष्ठीति भावः ।