ननु प्रमाणादिकमन्यदेव तत्कर्मास्तु ब्रह्म तु शेषितया सम्बध्यतां तत्राह -
जिज्ञास्यान्तरेति ।
श्रुतं कर्म त्यक्त्वान्यदश्रुतं कल्पयन् ‘पिण्डमुत्सृज्य करं लेढि’ इति न्यायमनुसरतीति भावः ।
गूढाभिसन्धिः शङ्कते( शङ्क्यते)*-
नन्विति ।
‘षष्ठी शेषे’(पा॰सू॰ २-३-५०) इति विधानात् , षष्ठ्या सम्बन्धमात्रं प्रतीतमपि विशेषाकाङ्क्षायां सकर्मकक्रियासंनिधानात् कर्मत्वे पर्यवस्यतीत्यर्थः ।
अभिसन्धिमजानन्निवोत्तरमाह -
एवमपीति ।
कर्मलाभेऽपि प्रत्यक्षं ‘कर्तृकर्मणोः कृति’(पा॰सू॰ २-३-५) इति सूत्रेण जिज्ञासापदस्याकारप्रत्ययान्तत्वेन कृदन्तस्य योगे विहितं प्रथमापेक्षितं च कर्मत्वं त्यक्त्वा परोक्षमशाब्दं कल्पयत इत्यर्थः ।
शेषवादी स्वाभिसन्धिमुद्धाटयति -
न व्यर्थ इति ।
शेषषष्ठ्यां ब्रह्मसम्बन्धिनी जिज्ञासा प्रतिज्ञाता भवति । तत्र यानि ब्रह्माश्रितानि लक्षणप्रमाणयुक्तिज्ञानसाधनफलानि तेषामपि विचारः प्रतिज्ञातो भवति । तज्जिज्ञासाया अपि ब्रह्मज्ञानार्थत्वेन ब्रह्मसम्बन्धित्वात् । कर्मणिषष्ठ्यां तु ब्रह्मकर्मक एव विचारः प्रतिज्ञातो भवतीत्यभिसन्धिना शेषषष्ठीत्युच्यते । अतो मत्प्रयासो न व्यर्थः । ब्रह्मतत्सम्बन्धिनां सर्वेषां विचारप्रतिज्ञानमर्थः फलं यस्य तत्त्वादित्यर्थः ।
त्वत्प्रयासस्येदं फलं न युक्तम् , सूत्रेण मुखतः प्रधानस्य ब्रह्मणो विचारे प्रतिज्ञाते सति तदुपकरणानां विचारस्यार्थिकप्रतिज्ञाया उदितत्वादित्याह सिद्धान्ती -
न प्रधानेति ।
सङ्गृहीतमर्थं सदृष्टान्तमाह( व्याकरोति)* -
ब्रह्म हीत्यादिना ।
’तद्विजिज्ञासस्व’ इति मूलश्रुत्यनुसाराच्च कर्मणि षष्ठीत्याह -
श्रुत्यनुगमाच्चेति ।
श्रुतिसूत्रयोरेकार्थत्वलाभाच्चेत्यर्थः ।
जिज्ञासापदस्यावयवार्थमाह -
ज्ञातुमिति ।
नन्वनवगते वस्तुनीच्छाया अदर्शनात्तस्या मूलं विषयज्ञानं वक्तव्यम् । ब्रह्मज्ञानं तु जिज्ञासायाः फलम् , तदेव मूलं कथमित्याशङ्क्याह -
अवगतीति ।
आवरणनिवृत्तिरूपाभिव्यक्तिमच्चैतन्यमवगतिः पर्यन्तोऽवधिर्यस्याखण्डसाक्षात्कारवृत्तिज्ञानस्य तदेव जिज्ञासायाः कर्म, तदेव फलम् । मूलं त्वापातज्ञानमित्यधुना वक्ष्यत इति फलमूलज्ञानयोर्भेदान्न जिज्ञासानुपपत्तिरित्यर्थः ।
ननु गमनस्य ग्रामः कर्म, तत्प्राप्तिः फलमिति भेदात्कर्म एव फलमित्ययुक्तं तत्राह -
फलेति ।
क्रियान्तरे तयोर्भेदेऽपि इच्छायाः फलविषयत्वात्कर्मैव फलमित्यर्थः ।
ननु ज्ञानावगत्योरैक्याद्भेदोक्तिरयुक्तेत्यत आह -
ज्ञानेनेति ।
ज्ञानं वृत्तिः अवगतिस्तत्फलमिति भेद इति भावः । अवगन्तुमभिव्यञ्जयितुम् ।
अवगतेः फलत्वं स्फुटयति -
ब्रह्मेति ।
हिशब्दोक्तं हेतुमाह -
निःशेषेति ।
बीजमविद्या आदिर्यस्यानर्थस्य तन्नाशकत्वादित्यर्थः ।
अवयवार्थमुक्त्वा सूत्रवाक्यार्थमाह -
तस्मादिति ।
अत्र सन्प्रत्ययस्य विचारलक्षकत्वं तव्यप्रत्ययेन सूचयति । अथातशब्दाभ्यामधिकारिणः साधितत्त्वात्तेन ब्रह्मज्ञानाय विचारः कर्तव्य इत्यर्थः ॥
प्रथमं ब्रह्मस्वरूपजिज्ञासा किमर्था ब्रह्मप्रमाणजिज्ञासा तल्लक्षणजिज्ञासा वा स्यात्तथा सति लक्षणप्रमाणादेरेव कर्मत्वं स्याद्ब्रह्मणस्तु सम्बन्धित्वमात्रं तथा च ब्रह्मसम्बन्धिनी प्रमाणादिकर्मिका जिज्ञासेति ब्रह्मांशे शेषषष्ठीं साधयितुं शङ्कते –
ननु प्रमाणादिकमिति ।
अन्यदेव ब्रह्मणोन्यदेवेत्यर्थः । तत्कर्मास्तु जिज्ञासाकर्मास्त्वित्यर्थः । शेषितया प्रधानतयेत्यर्थः ।
श्रुतं कर्मेति ।
ब्रह्मणो जिज्ञासेति शब्दादविलम्बेन प्रतीयमानं ब्रह्मणः कर्मत्वं त्यक्त्वा शब्दादप्रतीयमानं तात्पर्याद्विलम्बेन प्रतीयमानं प्रमाणादीनां कर्मत्वं ब्रह्मणः सम्बन्धित्वमात्रं च कल्पयन् शेषवादी करस्थं पिण्डमुत्सृज्य करं लेढीति न्यायमनुसरति, तथा च शेषषष्ठीपरिग्रहे ब्रह्मणः प्रतीतकर्मत्वालाभ एव दोष इति भावः ।
गूढाभिसन्धिरिति ।
ब्रह्माश्रिताशेषविचारप्रतिज्ञारूपफले गूढाभिसन्धिरित्यर्थः । सम्बन्धिसामान्ये प्रोक्ते तत्सामर्थ्यात्कारकसम्बन्धविशेषश्चार्थतोवगम्यत इत्येतावता षष्ठी शेष इत्युक्तं नार्थादपि कारकसम्बन्धाप्रतिभास इत्युक्तमिति शेषवादिनो मतम् , तथा च ब्रह्मसम्बन्धिजिज्ञासेति बोधेन ब्रह्मकर्मकजिज्ञासाप्यर्थादवगम्यते तस्माद्ब्रह्मणः कर्मत्वलाभ इति शेषवादी शङ्कत इति भावः । ’शेषषष्ठीपरिग्रहेपीति’ भाष्येण अशेषविचारप्रतिज्ञारूपफललाभायैव शेषषष्ठीं परिगृह्यार्थिककर्मत्वस्वीकारात्तस्य शेषवादिनः प्रयासः सार्थकः एव तथा च ’व्यर्थः प्रयासः स्यादि’त्याद्युत्तरभाष्यविरोधस्तत्परिहारायेदं भाष्यं गूढाभिसन्धिना शङ्कत इति व्याख्यातमिति मन्तव्यम् ।
षष्ठीति ।
षष्ठी शेष इति व्याकरणसूत्रेण सम्बन्धमात्रे षष्ठीविधानादित्यर्थः ।
कर्मत्वे पर्यवस्यतीति ।
विषयत्वे पर्यवस्यतीत्यर्थः । विषयविषयिभावसम्बन्धे पर्यवस्यतीति भावः । यद्यपि ’षष्ठी शेष’ इति सम्बन्धमात्रे षष्ठी विहिता तथापि व्यवहारो विशेषमालम्बते बहवश्च विशेषसम्बन्धाः तत्रान्यतमो विशेषसम्बन्धः प्रतिपत्तव्यः अन्यथा व्यवहारानुपपत्तेः, तस्मात्स च सम्बन्धः क इति विशेषजिज्ञासायां सकर्मकेच्छासन्निधानात्कर्मत्वमेव विशेषसम्बन्धो भवति ब्रह्मणो जिज्ञासाकर्मत्वं शेषषष्ठीपक्षे तु न विरुध्यत इति समुदायार्थः ।
अजानन्निवेति ।
तात्पर्यं ज्ञात्वापि वादिना तात्पर्यस्फुटीकरणानन्तरमेव तद्वक्तव्यमित्यधुना अनुरूपोत्तरमाहेत्यर्थः ।
यद्यपि ब्रह्मणः कर्मत्वालाभ इति दूषणमार्थिककर्मत्वोक्त्या परिहृतं तथापीच्छायाः प्रथमापेक्षितकर्मकत्वेन ब्रह्मणः प्रथमं प्रतीतकर्मत्वालाभदोषो दुर्वार इति भाष्याभिप्रायं स्फुटीकुर्वन् एवमपीत्यस्यार्थमाह –
कर्मलाभेपीति ।
ब्रह्मणः कर्मत्वलाभेऽपीत्यर्थः ।
प्रतीकमादाय प्रत्यक्षपदस्यार्थमाह –
प्रत्यक्षमित्यादिना विहितमित्यन्तेन ।
कृति कृदन्तस्य योगे सति कर्तृकर्मणोः कर्त्रर्थे कर्मार्थे च षष्ठी स्यादिति व्याकरणसूत्रस्यार्थः । आबन्तत्वेनेति च्छेदः । आकारप्रत्ययान्तत्वेनेत्यर्थः ।
कृदन्तस्येति ।
कृत्प्रत्ययान्तस्येत्यर्थः । जिज्ञासेत्यत्र सन्प्रत्ययः अ इति संज्ञिकः प्रत्ययः अकारप्रत्यय इति यावत् । उप्रत्ययश्चेति प्रत्ययाः सन्ति तथा च त्रयाणां प्रत्ययाणां मध्ये यः अप्रत्ययस्तदन्तत्वेन कृदन्तत्वं जिज्ञासापदस्येति भावः ।
विहितमिति ।
सत्रेण विहितमिति पूर्वेणान्वयः । तथा च शब्दादविलम्बेन प्रतीयमानं प्रत्यक्षमिति निष्कृष्टोऽर्थः ।
अशाब्दमिति ।
विलम्बेन तात्पर्यात्प्रतीयमानमित्यर्थः ।
ब्रह्मणः कर्मत्वे तात्पर्येण साधितेपि एवं कल्पयतस्तव प्रयासो व्यर्थ एवेति भावः ।
भाष्ये -
कर्मत्वं न विरुध्यत इति ।
कर्मत्वालाभदोषो नास्तीति भावः ।
सम्बन्धसामान्यस्येति ।
विशेषनिष्ठत्वं विशेषसम्बन्धबोधकत्वं सामान्यसम्बन्धस्य विशेषसम्बन्धे पर्यवसन्नत्वादित्यर्थः ।
सामान्यद्वारेणेति ।
सामान्यसम्बन्धद्वारेणेत्यर्थः ।
व्याख्याने –
लक्षणप्रमाणेति ।
लक्षणं च प्रमाणं च युक्तयश्च ज्ञानसाधनानि च फलं चेति विग्रहः ।
ब्रह्मकर्मक एवेति ।
एवकारेण प्रमाणादिकर्मकविचारो व्यावर्त्यते ।
विचारप्रतिज्ञानमिति ।
विचारस्य प्रतिज्ञानं प्रतिज्ञेत्यर्थः ।
यस्येति ।
मत्प्रयासस्येत्यर्थः ।
अप्रधानप्रमाणादिविचारान् शब्देनोपादाय प्रधानस्य ब्रह्मविचारस्याक्षेपकल्पनाद्वारं मुखतः प्रधानविचारमेवोपादायाऽप्रधानविचाराणामाक्षेपकल्पनमिति शेषषष्ठीपरिग्रहो न युक्त इत्याशयं स्फुटीकुर्वन्नुत्तरभाष्यमवतारयति –
त्वत्प्रयासस्येति ।
स दृष्टान्तमाहेति ।
सदृष्टान्तं विवृणोतीत्यर्थः ।
तद्विजिज्ञासस्वेतीति ।
’यतो वा इमानि भूतानी’त्यादिश्रुतिगततद्विजिज्ञासस्वेति अर्थः । मूलं विषयवाक्यत्वेनाभिमतमित्यर्थः । तदिति द्वितीयया ब्रह्मणः कर्मत्वप्रतिपादनद्वारा प्रधानस्य ब्रह्मणो विचारः श्रुत्या प्रतिज्ञातो भवति तथा एकार्थत्वलाभाय सूत्रेणापि कर्मत्वप्रतिपादनद्वारैव प्रधानब्रह्मणो विचारः प्रतिज्ञातव्य इत्यवश्यं वक्तव्यमिति भावः ।
भाष्ये -
तद्विजिज्ञासस्व तद्ब्रह्मेतीति ।
स्वप्रविष्ट’तद्विजिज्ञासस्वतद्ब्रह्मे’त्यनेन वाक्येनेत्यर्थः ।
प्रत्यक्षमेवेति ।
शाब्दमेवेत्यर्थः । यतः ब्रह्मणः सकाशादुत्पत्त्यादिकं भवति तद्ब्रह्म विजिज्ञासस्वेति श्रुतयः शब्दतः ब्रह्मणः कर्मत्वं दर्शयन्तीति भावः । इच्छायाः कर्मेति पूर्वेणान्वयः ।
व्याख्याने –
ब्रह्मज्ञानं त्विति ।
हेतुभूतस्य मूलस्य सिद्धस्वरूपत्वात् साध्यस्वरूपं ब्रह्मज्ञानं कथं मूलमिति भावः ।
आवरणेति ।
आवरणनिवृत्तिरूपं नवशरावं जलेनाभिव्यक्तगन्धवदन्तःकरणे तद्वृत्त्या अभिव्यक्तस्फुरणरूपं च ब्रह्मस्वरूपभूतं यच्चैतन्यं तदेवावगतिरित्यर्थः । आवरणनिवृत्तिरूपत्वमभिव्यक्तेर्वा विशेषणं अभावस्याधिकरणस्वरूपत्वान्निवृत्तिरूपत्वमधिष्ठानस्य अथवा आवरणवत्तन्निवृत्तेः कल्पितत्वेनाधिष्ठानमेव स्वरूपमिति भावः । अभिव्यक्तिमच्चैतन्यमिति मतुपः प्रयोगान्नित्याभिव्यक्तिविलक्षणा अपरोक्षज्ञानगम्या हि कल्पिताभिव्यक्तिरस्तीति सिद्धम् ।
गमनस्य ग्रामः कर्मेति ।
ग्रामं गच्छतीत्यत्र ग्रामस्य कर्मत्वं नाम क्रियाजन्यफलशालित्वं तथा हि गमनरूपा या क्रिया तज्जन्यं फलं ग्रामपुरुषसंयोगस्तदाश्रयत्वं ग्रामोऽस्तीति लक्षणसमन्वय इति दिक् ।
तत्प्राप्तिरिति ।
ग्रामसंयोग इत्यर्थः ।
अवगतेरिति ।
अभिव्यक्तिमच्चैतन्यरूपावगतेरित्यर्थः । वृत्तिज्ञानरूपा ब्रह्मावगतिः अज्ञाननिवर्तकतया पुरुषाभिलाषित्वात् पुरुषार्थ इति भाष्यार्थः ।
बीजमविद्येति ।
संसारबीजभूता या अविद्या अनाद्यविद्या सैवादिर्यस्यानर्थस्येति विग्रहः वृत्तिज्ञानेनाज्ञानसहितानर्थनिवृत्तिद्वारा चैतन्यमभिव्यक्तं भवति, तस्मादभिव्यक्तिमच्चैतन्यं ब्रह्मज्ञानस्य फलमित्युच्यत इति भावः ।
तृतीयवर्णकमिति ।
प्रथमसूत्रस्य तृतीयव्याख्यानमित्यर्थः ।