भाष्यरत्नप्रभाव्याख्या
पूर्णानन्दीया
 

अथ अष्टमवर्णकम्

वेदान्ताः सिद्धब्रह्मपरा उत कार्यपरा इति निष्फलत्वसापेक्षत्वयोः प्रसङ्गाप्रसङ्गाभ्यां संशये पूर्वसूत्रे द्वितीयवर्णकेनाक्षेपसङ्गत्या पूर्वपक्षमाह

कथं पुनरित्यादिना ।

‘सदेव सोम्य’(छा॰उ॰ ६-२-१) इत्यादीनां सर्वात्मत्वादिस्पष्टब्रह्मलिङ्गानां ब्रह्मणि समन्वयोक्तेः, श्रुत्यादिसङ्गतयः । पूर्वपक्षे वेदान्तेषु मुमुक्षुप्रवृत्त्यसिद्धिः, सिद्धान्ते तत्सिद्धिरिति विवेकः ।

कथमित्याक्षेपे हेतुः -

यावतेति ।

यतो जैमिनिसूत्रेण शास्त्रस्य वेदस्य क्रियापरत्वं दर्शितमतोऽक्रियार्थत्वाद्वेदान्तनामानर्थक्यं फलवदर्थशून्यत्वं प्राप्तमित्यन्वयः । सूत्रस्यायमर्थः - प्रथमसूत्रे तावद्वेदस्याध्ययनकरणकभावनाविधिभाव्यस्य फलवदर्थपरत्वमुक्तम् । ‘चोदनालक्षणोऽर्थो धर्मः’(जै॰सू॰ १-१-२) इति द्वितीयसूत्रे धर्मे कार्ये चोदना प्रमाणमिति वेदप्रामाण्यव्यापकं कार्यपरत्वमवसितम् । तत्र ‘वायुर्वै क्षेपिष्ठा’ इत्याद्यर्थवादानां धर्मे प्रामाण्यमस्ति न वेति संशये आम्नायप्रामाण्यस्य क्रियार्थत्वेन व्याप्तत्वात् , अर्थवादेषु धर्मस्याप्रतीतेः अक्रियार्थानां तेषामानर्थक्यं निष्फलार्थत्वम् ।

न चाध्ययनविध्युपात्तानां निष्फले सिद्धेऽर्थे प्रामाण्यं युक्तम् , तस्मादनित्यमेषां प्रामाण्यमुच्यते । व्यापकाभावाद्व्याप्यं प्रामाण्यं नास्त्येवेति यावत् । एवं पूर्वपक्षे(ऽपि)* ‘विधिना त्वेकवाक्यत्वात्स्तुत्यर्थेन विधीनां स्युः’(जै॰सू॰ १-२-७) इति सूत्रेण सिद्धान्तमाह -

क्रियापरत्वमिति ।

अनित्यं प्रामाण्यमिति(प्रामाण्यमिति नास्ति)* प्राप्ते दर्शितमित्यर्थः । वायुर्वै क्षिप्रतमगामिनी देवता तद्देवताकं कर्म क्षिप्रमेव फलं दास्यति, इत्येवं विधेयार्थानां स्तुतिरूपार्थेन द्वारेण ‘वायव्यं श्वेतमालभेत’ इत्यादिविधिवाक्येनैकवाक्यत्वादर्थवादाः सफलाः स्युः । स्तुतिलक्षणया सफलकार्यपरत्वात्प्रमाणमर्थवादा इति यावत् ।

नन्वध्ययनविधिगृहीतानां वेदान्तानामानर्थक्यं न युक्तमित्यत आह -

कर्त्रिति ।

न वयं वेदान्तानामानर्थक्यं साधयामः किन्तु लोके सिद्धस्य मानान्तरवेद्यत्वान्निष्फलत्वाच्च सिद्धब्रह्मपरत्वे तेषां मानान्तरसापेक्षत्वनिष्फलत्वयोः प्रसङ्गादप्रामाण्यापातात् , कार्यशेषकर्तृदेवताफलानां प्रकाशनद्वारा कार्यपरत्वं वक्तव्यमिति ब्रूमः । तत्र त्वन्तत्पदार्थवाक्यानां कर्तृदेवतास्तावकत्वम् , विविदिषादिवाक्यानां फलस्तावकत्वम् ।

ननु कर्मविशेषमनारभ्य प्रकरणान्तराधीतानां वेदान्तानां कथं तच्छेषत्वम् , मानाभावादित्यरुच्या पक्षान्तरमाह -

उपासनेति ।

मोक्षकामोऽसद्ब्रह्माभेदमारोप्य अहं ब्रह्मास्मीत्युपासीत इत्युपासनाविधिः, आदिशब्दाच्छ्रवणादयः । तत्कार्यपरत्वं वा वक्तव्यमित्यर्थः ।

ननु श्रुतं ब्रह्म विहायाश्रुतं कार्यपरत्वं किमर्थं वक्तव्यमिति तत्राह -

नहीति ।

परितः समन्तान्निश्चयेन स्थितं परिनिष्ठितं कृत्यनपेक्षम् । सिद्धमिति यावत् । तस्य प्रतिपादनमज्ञातस्य वेदेन ज्ञापनम् , तन्न सम्भवति, मानन्तरयोग्येऽर्थे वाक्यस्य संवादे सत्यनुवादकत्वात् , ‘अग्निर्हिमस्य भेषजम्’ इति वाक्यवत् । विसंवादे वाऽबोधकत्वात्(च बोधकत्वात्)* , ‘आदित्यो यूपः’ इति वाक्यवदित्यर्थः ।

सिद्धो न वेदार्थः, मानान्तरयोग्यत्वाद्घटवदित्युक्त्वा निष्फलत्वाच्च तथेत्याह -

तदिति ।

सिद्धज्ञापने हेयोपादेयागोचरे फलाभावाच्च तन्न सम्भवतीत्यर्थः । फलं हि सुखावाप्तिर्दुःखहानिश्च । तच्च प्रवृत्तिनिवृत्तिभ्यां साध्यम् । ते चोपादेयस्य प्रवृत्तिप्रयत्नकार्यस्य हेयस्य निवृत्तिप्रयत्नकार्यस्य ज्ञानाभ्यां जायेते, न सिद्धज्ञानादिति भावः ।

तर्हि सिद्धबोधिवेदवादानां साफल्यं कथमित्याशङ्क्य ‘आम्नायस्य’(जै॰सू॰ १-२-१) इत्यादिसङ्ग्रहवाक्यं विवृणोति -

अत एवेति ।

सिद्धवस्तुज्ञानात्फलाभावादेवेत्यर्थः । ‘देवैर्निरुद्धः सोऽग्निररोदीत्’ इति वाक्यस्याश्रुजत्वेन रजतस्य निन्दाद्वारा ‘बर्हिषि न देयं’ इति सफलनिषेधशेषत्ववत् वेदान्तानां विध्यादिशेषत्वं वाच्यमित्यर्थः ।

ननु तेषां मन्त्रवत्स्वातन्त्र्यमस्तु नार्थवादवद्विध्येकवाक्यत्वमित्याशङ्क्य दृष्टान्तासिद्धिमाह -

मन्त्राणां चेति ।

(प्रथमाध्याये)* प्रमाणलक्षणेऽर्थवादचिन्तानन्तरं मन्त्रचिन्ता कृता ‘इषे त्वा’(तै॰सं॰ १-१-१) इति मन्त्रे ‘छिनद्मि’ इत्यध्याहाराच्छाखाच्छेदनक्रियाप्रतीतेः, ‘अग्निर्मूर्धा’ इत्यादौ च क्रियासाधनदेवतादिप्रतीतेः मन्त्राः श्रुत्यादिभिः क्रतौ विनियुक्ताः, ते(च)* किमुच्चारणमात्रेणादृष्टं कुर्वन्तः क्रतावुपकुर्वन्ति उत दृष्टेनैवार्थस्मरणेनेति सन्देहे चिन्तादिनाप्यध्ययनकालावगतमन्त्रार्थस्य स्मृतिसम्भवाददृष्टार्था मन्त्रा इति प्राप्ते सिद्धान्तः - ‘अविशिष्टस्तु वाक्यार्थः’(जै॰सू॰ १-२-४०) इति लोकवेदयोर्वाक्यार्थस्याविशेषान्मन्त्रवाक्यानां दृष्टेनैव स्वार्थप्रकाशनेन क्रतूपकारकत्वसम्भवात् , दृष्टे सम्भवति अदृष्टकल्पनानुपपत्तेः, फलवदनुष्ठानापेक्षितेन क्रियातत्साधनस्मरणेन द्वारेण मन्त्राणां कर्माङ्गत्वम् । ‘मन्त्रैरेवार्थः स्मर्तव्यः’ इति नियमस्त्वदृष्टार्थ इति । तथा चार्थवादानां स्तुतिपदार्थद्वारा पदैकवाक्यत्वं विधिभिः, मन्त्राणां तु वाक्यार्थज्ञानद्वारा तैर्वाक्यैकवाक्यत्वमिति विभागः ।

नन्वस्तु कर्मप्रकरणस्थवाक्यानां विध्येकवाक्यत्वम् , वेदान्तानां तु सिद्धे प्रामाण्यं किं न स्यादिति तत्राह -

न क्वचिदिति ।

वेदान्ता विध्येकवाक्यत्वेनैवार्थवन्तः, सिद्धार्थावेदकत्वात् , मन्त्रार्थवादादिवदित्यर्थः ।

वेदान्ता इति ; पूर्वसूत्रे इति ; पूर्वपक्षमाहेति ; सदेव सोम्येति ; वेदान्तेष्विति ; शास्त्रप्रमाणकत्वमच्यत इति ; यावतेति ; कथमित्याक्षेप इति ; यत इति ; फलवदिति ; सूत्रस्येति ; प्रथमसूत्रे इत्यादिना ; प्रथमेति ; चोदनेति ; अवसितमिति ; तत्रेति ; वायुर्वै क्षेपिष्ठेति ; आम्नायेत्यादिना ; आम्नायप्रामाण्यस्येति ; क्रियेति ; अप्रतीतेरिति ; नचेति ; तस्मादिति ; नास्त्येवेति ; अनित्यं प्रामाण्यमिति ; दर्शितमिति ; वायुरिति ; वायव्यमिति ; स्तुतिलक्षणयेति ; नन्विति ; कार्यशेषेति ; तत्र त्वमिति ; विविदिषादिवाक्यानामिति ; मानाभावादिति ; असद्ब्रह्मेति ; उपासीतेति ; आदिशब्दादिति ; नन्विति ; अज्ञातस्य वेदेनेति ; मानान्तरेति ; संवादे सतीति ; अग्निरिति ; विसंवाद इति ; सिद्ध इति ; तथेति ; फलं हीति ; प्रवृत्तिनिवृत्तिभ्यामिति ; निवृत्तिप्रयत्नकार्यस्येति ; सङ्ग्रहवाक्यमिति ; देवैरिति ; दृष्टान्तेति ; प्रमाणलक्षण इति ; चिन्ता कृतेति ; इषेत्वेति ; ते चेति ; अध्ययनकालेति ; वाक्यार्थस्येति ; मन्त्रैरेवेति ; स्तुतिपदार्थेति ; मन्त्राणान्त्विति ; कर्मसमवायित्वमिति ; न क्वचिदिति ; वेदान्ता इति ; सिद्धार्थावेदकत्वादिति ;
श्रुतीनां निर्गुणे यस्मिन् प्रामाण्यं प्रतिपाद्यते ।
तं कृष्णमस्मि प्रणतो राधाचित्तापहारिणम् ॥

’तत्तु समन्वयादि’त्युत्तरसूत्रमवतारयितुं अधिकरणमारच्यते । तत्र ’सदेव सोम्ये’त्यादिविषयवाक्यानि सिद्धवत्कृत्य भट्टमतरीत्या पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –

वेदान्ता इति ।

’सदेव सोम्ये’त्यादिवेदान्ता इत्यर्थः । सिद्धब्रह्मपरत्वे तेषां निष्फलत्वसापेक्षत्वयोः प्रसङ्गः अयमर्थोनुपदं स्फुटीक्रियते । कार्यपरत्वे तयोरप्रसङ्गः, तथा हि – धर्मे प्रत्यक्षादीनां प्रामाण्याभावात् प्रत्यक्षादिमानान्तरानपेक्षत्वं फलवत्त्वं च शास्त्रसिद्धमिति निष्फलत्वमानान्तरसापेक्षत्वयोः प्रसक्तिरेव नास्तीति भावः ।

पूर्वसूत्रे इति ।

शास्त्रयोनित्वादिति । पूर्वसूत्रे इत्यर्थः ।

पूर्वपक्षमाहेति ।

ज्ञानमुपासनाहेतुः मोक्षस्तु सत्यकामः सत्यसङ्कल्प इत्यादिगुणविशिष्टं ब्रह्म नास्त्येवेति भट्टमतं तद्रीत्या पूर्वपक्षमाहेत्यर्थः ।

’सदेव सोम्येत्या’दि श्रुतिशास्त्रप्रथमाध्यायप्रथमपादैः ’तत्तु समन्वयादिति’ सूत्रस्य सङ्गतिं दर्शयति –

सदेव सोम्येति ।

श्रुतीनां यः समन्वयस्तात्पर्येण बोधकत्वं तस्योक्तेः प्रतिपादनादित्यर्थः । सर्वात्मत्वादित्यनेन श्रुतिसूत्रयोः सर्वात्मत्वादिरूपैकार्थबोधकत्वरूपा सङ्गतिर्दर्शिता । स्पष्टब्रह्मलिङ्गानामिति – विशेषणेन स्पष्टब्रह्मलिङ्गकश्रुत्यर्थप्रतिपादकत्वरूपा पादसङ्गतिरुक्ता, ब्रह्मणीत्यनेन सूत्रशास्त्रयोः एकार्थकत्वरूपा सङ्गतिः प्रदर्शिता । सूत्रपक्षत्वेन ब्रह्मबोधकं शास्त्रं तु शास्त्रार्थत्वेन ब्रह्मप्रतिपादकमिति विवेकः । समन्वयोक्तेरित्यनेन सूत्राध्याययोः समन्वयरूपैकार्थप्रतिपादकत्वं सङ्गतिरित्युक्तम् ।

वेदान्तेष्विति ।

वेदान्तेषु मुमुक्षोः न प्रवृत्तिः किन्तु पूर्वमीमांसायां प्रवृत्तिरिति भावः ।

भाष्ये

शास्त्रप्रमाणकत्वमच्यत इति ।

कथमुच्यत इत्यन्वयः ।

नन्वयमाक्षेपः किं निबन्धन इति जिज्ञासायां जैमिनिसूत्रप्रामाण्यादित्याह –

यावतेति ।

अतदर्थानामित्यन्तं सङ्ग्रहवाक्यमर्थवादानां प्रामाण्यं नास्तीति पूर्वपक्षप्रतिपादकम् क्रियापरत्वमित्यादिवाक्यं सिद्धान्तप्रतिपादकमिति विभागः ।

व्याख्याने

कथमित्याक्षेप इति ।

कथमिति थमुप्रत्ययान्तः किंशब्दः आक्षेपार्थ इति भावः ।

यावतेतिपदस्यार्थमाह –

यत इति ।

आनर्थक्यपदस्यार्थमाह –

फलवदिति ।

सूत्रस्येति ।

’आम्नायस्य क्रियार्थत्वादि’त्यादिसूत्रस्येत्यर्थः ।

आम्नायस्येत्यादिसूत्रस्यार्थकथनार्थं तत्सङ्गत्या तत्पूर्वसूत्रपरिष्कृतार्थं क्रमेण स्फुटयति –

प्रथमसूत्रे इत्यादिना ।

’अथातो धर्मजिज्ञासे’ति प्रथमसूत्र इत्यर्थः ।

अथ वेदाध्ययनानन्तरं अतः वेदस्य फलवदर्थपरत्वात् धर्मनिर्णयाय कर्मवाक्यविचारः कर्तव्य इत्येवं पदानामर्थमभिप्रेत्य फलितार्थमाह –

प्रथमेति ।

अध्ययनं गुरूच्चारणानुच्चारणं तत्कर्णिकायां भावना आवृत्तिरूपो व्यापारविशेषः तत्प्रतिपादको यः ’स्वाध्यायोऽध्येतव्य’ इति विधिः तद्भाव्यस्य तत्कर्मिभूतस्य वेदस्येत्यर्थः । तथा च स्वाध्यायात्मकवेदमुद्दिश्य विधिः प्रवर्तत इति वेदस्य विधिकर्मत्वमिति भावः फलवान् योर्थः धर्माधिकार्यरूपः तत्परत्वमित्यर्थः ।

चोदनेति ।

चोदना विधिवाक्यं लक्षणं प्रमाणं यस्मिन्स तथेत्यर्थः । अर्थः प्रयोजनवानित्यर्थः । तथा च चोदनाप्रमाणकत्वे सति फलहेतुकर्मत्वं धर्मत्वमिति भावः ।

अवसितमिति ।

निर्धारितमित्यर्थः । प्रामाण्ये सति वेदवाक्यत्वं यत्र तत्र फलवदर्थपरत्वमिति द्वितीयसूत्रेण व्याप्यव्यापकभावो निर्धारित इति भावः ।

पूर्वतन्त्रस्थप्रथमाध्यायगतद्वितीयपादनिष्ठ ’विधिना त्वेकवाक्यत्वादि’त्यादिसिद्धान्तसूत्रमवतारयितुं अधिकरणमारचयति –

तत्रेति ।

व्याप्तौ निर्धारितायामित्यर्थः ।

’वायुर्वै क्षेपिष्ठे’त्यादिविषयवाक्यं सिद्धवत्कृत्य पूर्वपक्षरचनार्थं संसयमाह –

वायुर्वै क्षेपिष्ठेति ।

’आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानां तस्मादनित्यमुच्यते’ इति पूर्वपक्षसूत्रस्यार्थमाह –

आम्नायेत्यादिना ।

आम्नायस्येति पदस्य फलितार्थमाह –

आम्नायप्रामाण्यस्येति ।

वेदप्रामाण्यस्येत्यर्थः ।

क्रियार्थत्वादिति पदस्य तात्पर्यमाह –

क्रियेति ।

अप्रतीतेरिति ।

साक्षादप्रतीतेरित्यर्थः । अर्थवादानां साक्षाद्धर्मबोधकत्वाभावादिति भावः ।

’तस्मादनित्यमुच्यत’ इति सूत्रांशमवतारयितुमध्ययनविध्युपात्तत्वादर्थवादानां सिद्धे प्रामाण्यं स्यादित्याशङ्क्य निष्फलत्वान्नेति परिहरति –

नचेति ।

अर्थकथनार्थं सूत्रांशं ग्रुह्णाति –

तस्मादिति ।

फलवदर्थपरत्वरूपव्यापकाभावादित्यर्थः ।

अनित्यपदस्य तात्पर्यार्थं सूचयति –

नास्त्येवेति ।

भाष्यस्थाम्नायस्येत्यादिसूत्रसङ्ग्रहवाक्यापेक्षितं पूरयति –

अनित्यं प्रामाण्यमिति ।

दर्शितमिति ।

क्रियापरत्वं दर्शितमित्यर्थः ।

स्तुत्याकारप्रदर्शनपूर्वकं सिद्धान्तसूत्रं व्याचष्टे –

वायुरिति ।

वायोः शीघ्रगमनवत्त्वात्तद्देवताकं कर्म शीघ्रमेव फलं प्रयच्छतीति भावः ।

वायव्यमिति ।

वायुदेवताकेन श्वेतगुणविशिष्टपशुद्रव्यकेन यागेनेष्टं भावयेदित्यर्थः ।

स्तुतिलक्षणयेति ।

अर्थवादानां लक्षणया स्तुतिबोधकत्वं स्तुतिद्वारा विध्येकवाक्यत्वेन फलवदर्थबोधकत्वादित्यर्थः ।

वेदान्ती शङ्कते –

नन्विति ।

कार्यशेषेति ।

कर्तृदेवतयोः शेषत्वं फलस्य तूद्देश्यत्वमिति विवेकः । वेदान्तानां न साक्षात्कार्यबोधकत्वं किन्तु कार्यशेषबोधकत्वद्वारा फलवदर्थरूपकार्यबोधकत्वं तस्मान्नानर्थक्यमिति भावः ।

तत्र त्वमिति ।

वेदान्तेषु जीवबोधकपदानां सर्वेषां कर्तृत्वं ब्रह्मबोधकपदानां तु देवताबोधकत्वम् , तथा च जीवः कर्ता ब्रह्म तु देवतेति कर्ममाहात्म्यं किं वक्तव्यमिति तत्त्वम्पदार्थवाक्यानां कर्तृदेवताविषयकस्तुतिजनकत्वमिति भावः ।

विविदिषादिवाक्यानामिति ।

’तमेतं वेदानुवचनेने’त्यादिविविदिषावाक्यानामित्यर्थः । यद्यपि भट्टमते स्वर्गादिरेव फलं कर्मणः न ब्रह्मज्ञानं तथापि स्तोत्रार्थं कर्मणः ब्रह्मज्ञानमपि फलमिति ब्रह्मज्ञानरूपफलविषयकस्तुतिजनकत्वेन विविदिषावाक्यानामुपपत्तिरिति भावः । यद्वा कर्मणः कर्ता जीवः देवता तु ब्रह्मज्ञानमिति कर्तृरूपजीवादिमाहात्म्यं किं वक्तव्यमित्येवं कर्त्रादिस्तावकत्वं वाक्यानामिति भावः । प्रथमव्याख्याने जीवकर्तृकत्वेन कर्मस्तुतिः द्वितीये कर्मकर्तृत्वेन जीवस्तुतिरिति भावः । एवमन्यत्र योजनीयम् । अन्यत्प्रकरणं प्रकरणान्तरं तथा च कर्मकाण्डाद्भिन्नब्रह्मकाण्डाधीतानामित्यर्थः ।

मानाभावादिति ।

विध्येकवाक्यत्वाभावेन मानाभावादिति भावः ।

असद्ब्रह्मेति ।

यद्यपि भट्टमते ब्रह्मासदेव तथापि जीवे तदभेदमारोप्येत्यर्थः । अथवा ब्रह्म तिष्ठतु वेदान्तेषु तथा च जीवब्रह्मणोरसदभेदमारोप्येत्यर्थः ।

उपासीतेति ।

’अहं ब्रह्मास्मी’त्यत्र उपासीतेति विधिः कल्पनीय इत्यर्थः । ’अहं ब्रह्मे’त्यभेदमारोप्योपासना विधीयते तथा चोपासनारूपकार्यान्तरस्तुतिद्वारा कल्पितविध्येकवाक्यत्वेन वेदान्तानां फलवदर्थबोधकत्वान्नानर्थक्यमिति भावः ।

आदिशब्दादिति ।

उपासनेन फलं जायते जायमानफलमेतादृशमिति ज्ञानार्थं श्रवणं मननं चावश्यकमिति श्रवणादिरूपकार्यपरत्वाद्वेदान्तानां नानर्थक्यमिति भावः ।

वेदान्ती शङ्कते –

नन्विति ।

अज्ञातस्य वेदेनेति ।

अज्ञातस्य ज्ञापको वेदस्तेनेत्यर्थः । अज्ञातस्य ज्ञापकवेदेन ज्ञातवस्तुप्रतिपादनं न सम्भवतीति भावः ।

अत्र सदृष्टान्तं हेतुमाह –

मानान्तरेति ।

भेषजमिति वाक्यवत् यूप इति वाक्यवत् वेदवाक्येन प्रतिपादनं न सम्भवतीति पूर्वेणान्वयः ।

संवादे सतीति ।

बोधकत्वे सतीत्यर्थः । वेदवाक्यस्य मानान्तरसिद्धवस्तुबोधकत्वाङ्गीकारे अनुवादकत्वादप्रामाण्यं स्यादतः सिद्धबोधकत्वं न सम्भवतीति भावः ।

अग्निरिति ।

अग्नेर्हिमनाशकत्वं प्रत्यक्षप्रमाणसिद्धं पुनः शब्दसमुदायरूपवाक्यमपि तदर्थबोधकं चेदनुवादकं भवति तद्वदित्यर्थः ।

विसंवाद इति ।

बोधकत्वाभावे सतीत्यर्थः । वेदवाक्यस्य अनुवादकत्वभिया सिद्धवस्तुबोधकत्वानङ्गीकारे कार्यबोधकत्वस्याप्यनङ्गीकारेणाबोधकत्वात् ब्रह्मप्रतिपादकत्वं सुतरां न सम्भवतीति भावः । अथवा विसंवादे प्रमाणान्तरेण विरोधे प्राप्ते सतीत्यर्थः । आदित्यो यूपो नेति भेदग्राहिप्रत्यक्षेण विरोधात् यूप इति वाक्यस्याबोधकत्वं यथा तथा नाहं ब्रह्मेति भेदग्राहिप्रत्यक्षेण विरोधात् अहं ब्रह्मेति वाक्यस्याबोधकत्वमिति भावः ।

भाष्यपरिष्कृतभासमानं स्फोरयति –

सिद्ध इति ।

तथेति ।

सिद्धो न वेदार्थ इत्याहेत्यर्थः ।

उपादेययोगो अन्नुष्ठानरूपाप्रवित्तिर्जायते तया सुखप्राप्तिरूपफलमुत्पद्यते न सिद्धज्ञानादनुष्ठानद्वारा फलं तस्मात्सिद्धबोधकत्वेन निष्फलत्वमेव तथा हेयेपीत्युभयमाह –

फलं हीति ।

प्रवृत्तिनिवृत्तिभ्यामिति ।

प्रवृत्तिशब्देनानुष्ठानादिकमुच्यते निवृत्तिशब्देन तूष्णीम्भावः ।

अधर्मान्निवृत्तोहमित्यनुभवेन निवृत्तिपरिपाल्यप्रागभावयोगित्वनिवृत्तिप्रयत्नकार्यत्वमित्याह –

निवृत्तिप्रयत्नकार्यस्येति ।

प्रयत्नो द्विविधः प्रवृत्तिरूपो निवृत्तिरूपश्चेति, तथा च निवृत्तिरूपो यः प्रयत्नः तत्कार्यस्येत्यर्थः । निवृत्तिप्रयत्नेन अनादिसिद्धः अधर्मप्रागभावस्तथैव तिष्ठतीत्येतावता सुरापानादिरूपाधर्मे निवृत्तिरूपप्रयत्नकार्यत्वव्यवयहारः, तथा च हेये निवृत्तिप्रयत्नकार्यत्वज्ञानात्तूष्णीम्भावरूपा निवृत्तिर्जायते तया नरकादेरभावाद्दुःखहानरूपफलमुत्पद्यते न सिद्धज्ञानादिति भावः । ननु घटज्ञानस्य सिद्धज्ञानत्वात्तेन फलाभावप्रसङ्ग इति चेन्न । घटादेरप्यर्थक्रियाविशिष्टत्वेन तन्मते साध्यत्वाङ्गीकारादिति मन्तव्यम् ।

सङ्ग्रहवाक्यमिति ।

सङ्ग्रहवाक्यगतानर्थक्यमतदर्थानामित्यंशं विवृणोतीत्यर्थः ।

’सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वं यदश्रु अशीयत तद्रजतं हिरण्यमभवत्तस्माद्रजतं हिरण्यमदक्षिण्यमश्रुजं हि यो बर्हिषि ददाति पुरास्य संवत्सराद्गृहे रुदन्ती’ति वाक्यमर्थतः पठति –

देवैरिति ।

अश्रुजरजतस्य बर्हिषि दाने संवत्सरात्पुरा गृहे रोदनं भवतीति रोदनाभावात्मकानिष्टनिवृत्ति रूपफलसहितः रजतस्य देवनिरुद्धाग्नेरश्रुजन्यत्वेन निन्दितत्वाद्रजतदक्षिणाकयागं न कुर्यादिति निषेधो यस्तच्छेषत्वं ’सोरोदीदि’त्यादिवाक्यस्य यथा तद्वदित्यर्थः ।

दृष्टान्तेति ।

मन्त्राणां स्वातन्त्र्यमेव नास्तीत्याहेत्यर्थः । अविशिष्टस्तु वाक्यार्थ इति ।

पूर्वतन्त्रस्थसिद्धान्तसूत्रमवतारयितुमधिकरणमारचयति –

प्रमाणलक्षण इति ।

प्रथमाध्याय इत्यर्थः ।

चिन्ता कृतेति ।

प्रामाण्यचिन्ता कृतेत्यर्थः ।

विषयवाक्यप्रतिपादनद्वारा चिन्ताबीजं दर्शयति –

इषेत्वेति ।

अस्यार्थः – हे शाखे इषे फलरूपान्नायं त्वा त्वां छिनद्मि छेदनं करोमीति । मन्त्राणां क्रियातत्साधनदेवताप्रकाशकत्वं तूपकारत्वं च प्रतीयते तस्माच्चिन्ता युक्तेति भावः ।

पूर्वपक्षरचनार्थं संशयं प्रतिपादयति –

ते चेति ।

अध्ययनकालेति ।

अध्ययनकाले अवगतो यो मन्त्रार्थः तद्विषयस्मृतेः ’सदृशादृष्टचिन्ताद्या स्मृतिबीजस्य बोधका’ इति श्लोकोक्तचिन्तादिनापि प्रयोगकाले सम्भवादुच्चारणमात्रेणादृष्टद्वारा मन्त्राणां क्रतूपकारकत्वमिति पूर्वपक्षार्थः ।

वाक्यार्थस्येति ।

शाब्दबोधस्येत्यर्थः ।

मन्त्राणां दृष्टस्वार्थप्रकाशनद्वारा क्रत्वङ्गत्वे सिद्धे नियमस्य प्रयोजनमाह –

मन्त्रैरेवेति ।

यद्यपि मन्त्रैरेव जनितेन मन्त्रार्थस्मरणेन क्रतूत्पादकमदृष्टमुत्पद्यते तथापि मन्त्राणामदृष्टद्वारा न हेतुत्वं किन्तु अदृष्टहेतुमन्त्रार्थस्मरणरूपदृष्टार्थद्वारा हेतुत्वमिति सिद्धान्तार्थः ।

स्तुतिपदार्थेति ।

स्तुतिरूपो यः पदार्थः तद्द्वारेत्यर्थः । पदैकवाक्यत्वमर्थवादरूपपदस्य विधिबोधकवाक्येनैकवाक्यत्वं पदैकवाक्यत्वमित्यर्थः । विधिभिः विधिबोधकवाक्यैरित्यर्थः । अन्वितत्वेनेति शेषः । ’वायुर्वै क्षेपिष्ठे’ति अर्थवादपदानां स्वार्थे तात्पर्याभावादवान्तरवाक्यार्थाभावेन लक्षणया स्तुतिसमर्पकत्वद्वारा “वायव्यं श्वेतमालभेतेति” विधिबोधकवाक्येनान्वयात्पदैकवाक्यत्वं तस्मान्न स्वातन्त्र्यमिति भावः ।

मन्त्राणान्त्विति ।

तैर्विधिवाकयैरित्यर्थः । अन्वितत्वेनेति शेषः । मन्त्राणां तु स्वार्थस्य सत्त्वादवान्तरवाक्यार्थज्ञानद्वारा विधिबोधकमहावाक्येनान्वयाद्वाक्यैकवाक्यत्वमतो न स्वातन्त्र्यमिति भावः ।

कर्मसमवायित्वमिति ।

कर्मविधिशेषत्वमिति भाष्यार्थः ।

न क्वचिदिति ।

’अतो न क्वचिदिति प्रतीकग्रहणे युक्ते सति न क्वचिदिति प्रतीकग्रहणं लेखदोषादिति विभावनीयम् । व्याप्तेः सत्त्वमतःशब्दार्थः ।

भाष्यपरिष्कृतमनुमानं ज्ञापयति –

वेदान्ता इति ।

सिद्धार्थावेदकत्वादिति ।

सिद्धार्थबोधकत्वादित्यर्थः ।