तर्ह्यक्रियार्थानामानर्थक्यमिति सूत्रं किंविषयमिति, तत्राह -
तस्मादिति ।
वेदान्तानां स्वार्थे फलवत्वाद्व्यर्थकथाविषयं तदित्यर्थः । यदपीत्यादि स्पष्टार्थम् ।
श्रवणज्ञानमात्रात्संसारानिवृत्तावपि साक्षात्काराज्जीवत एव मुक्तिर्दुरपह्नवेति सदृष्टान्तमाह -
अत्रोच्यत इत्यादिना ।
ब्रह्माहमिति साक्षात्कारविरोधादित्यर्थः ।
तत्त्वविदो जीवन्मुक्तौ मानमाह -
तदुक्तं श्रुत्येति ।
जीवतोऽशरीरत्वं विरुद्धमिति शङ्कते -
शरीर इति ।
आत्मनो देहसम्बन्धस्य भ्रान्तिप्रयुक्तत्वात्तत्त्वधिया तन्नाशरूपमशरीरत्वं जीवतो युक्तमित्याह -
नेत्यादिना ।
असङ्गात्मरूपं त्वशरीरत्वं भ्रान्त्याऽऽवृतं(भ्रान्त्यावृतमिति नास्ति)* तत्त्वधिया जीवतो व्यज्यत इत्याह -
नित्यमिति ।
देहात्मनोः सम्बन्धः सत्य इति शङ्कते -
तत्कृतेति ।
तन्नाशार्थं कार्यापेक्षेति भावः ।
आत्मनः शरीरसम्बन्धे जाते धर्माधर्मोत्पत्तिः, तस्यां सत्यां सम्बन्धजन्मेत्यन्योन्याश्रयादेकस्यासिद्ध्या द्वितीयस्याप्यसिद्धिः स्यादिति परिहरति -
नेत्यादिना ।
नन्वेतद्देहजन्यधर्माधर्मकर्मण एतद्देहसम्बन्धहेतुत्वे स्यादन्योन्याश्रयः । पूर्वदेहकर्मण एतद्देहसम्बन्धोत्पत्तिः, पूर्वदेहश्च तत्पूर्वदेहकृतकर्मण इति बीजाङ्कुरवदनादित्वान्नायं दोष इत्यत आह -
अन्धेति ।
अप्रामाणिकीत्यर्थः । न हि बीजादङ्कुरः ततो बीजान्तरं च यथा प्रत्यक्षेण दृश्यते तद्वदात्मनो देहसम्बन्धः पूर्वकर्मकृतः प्रत्यक्षः । नाप्यस्ति कश्चिदागमः । प्रत्युत ‘असङ्गो हि’ इत्यादिश्रुतिः सर्वकर्तृत्वं वारयतीति भावः ।
तत्र युक्तिमाह -
क्रियेति ।
कूटस्थस्य कृत्ययोगान्न कर्तृत्वमित्यर्थः ।
स्वतो निष्क्रियस्यापि कारकसन्निधानात्(कारकसन्निधिना)* कर्तृत्वमिति शङ्कां दृष्टान्तवैषम्येण निरस्यति -
नेति ।
राजादीनां स्वक्रीतभृत्यकार्ये कर्तृत्वं युक्तं नात्मन इत्यर्थः ।
देहकर्मणोरविद्याभूमौ बीजाङ्कुरवदावर्तमानयोरात्मना सम्बन्धो भ्रान्तिकृत एवेत्याह -
मिथ्येति ।
ननु ‘यजेत’ इति विध्यनुपपत्त्यात्मनः कर्तृत्वमेष्टव्यमिति, तत्राह -
एतेनेति ।
भ्रान्तिकृतेन देहादिसम्बन्धेन यागादिकर्तृत्वमाब्रह्मबोधाद्व्याख्यातमित्यर्थः ।
तस्मादित्यस्यार्थमाह –
वेदान्तानां स्वार्थे फलवत्त्वादिति ।
पुरुषार्थानुपयोगादित्यस्यार्थमाह –
व्यर्थेति ।
उपाख्यानपदस्यार्थमाह –
कथेति ।
व्यर्थकथाप्रतिपादकार्थवादविषयमानर्थक्यसूत्रमित्यर्थः ।
भाष्ये सिंहावलोकनन्यायेन वृत्तिकारमतोक्तमनुवदति –
यदप्युक्तमिति ।
राजासौ गच्छतीति वाक्यमादिशब्दग्राह्यम् । यथा लोकवार्तां निमित्तीकृत्य प्रवृत्तस्य रजासौ गच्छतीति सिद्धराजगमनप्रतिपादकवाक्यस्य प्रयोजनाभावः तद्वद्वेदान्तशास्त्रस्येति भावः ।
दृष्टत्वादिति ।
तथा च दृष्टान्तवैषम्यमिति भावः ।
न हि शरीराद्यात्मेति ।
भयादिमत्त्वं न हि भवतीत्यन्वयः ।
मिथ्याज्ञाननिमित्तमिति ।
देहाभिमाननिमित्तमित्यर्थः । न हि धनिन इति । दुःखं न हि भवतीत्यन्वयः । सुखं न हि भवतीत्यन्वयः ।
व्याख्याने –
साक्षात्कारादिति ।
देहे विद्यमानेपि साक्षात्कारेण देहाभिमानाभावात् जीवतोपि मुक्तिर्दुरपन्हवेति सदृष्टान्तमाहेत्यर्थः ।
जीवन्मुक्ताविति ।
देहाभिमानराहित्यमभिव्यक्तासङ्गात्मस्वरूपं जीवन्मुक्तिः तस्यामित्यर्थः ।
जीवतोऽशरीरत्वमिति ।
अशरीरत्वं श्रुत्या प्रतिपाद्यते तदेव जीवन्मुक्तिश्चेत् जीवतः पुरुषस्य शरीरसम्बन्धराहित्यरूपाशरीरत्वस्य विरुद्धत्वान्न जीवन्मुक्तिरिति शङ्कार्थः ।
न च शरीरसम्बन्धराहित्यमशरीरत्वं किन्तु तत्त्वज्ञानेन आत्मनो देहसम्बन्धभ्रान्तिनाशात् शरीराद्यभिमानराहित्यं भवति तदेवाशरीरत्वं तदेव च जीवन्मुक्तिस्तथा च न जीवतो जीवन्मुक्तिविरोध इति प्रतिपादकं भाष्यमवतारयति –
असङ्गात्मस्वरूपं त्विति ।
तुशब्दः पक्षान्तरद्योतकः । नित्यस्यासङ्गात्मस्वरूपस्य तत्त्वज्ञानेनाभिव्यक्तिः अभिव्यङ्ग्यासङ्गात्मस्वरूपं वा जीवन्मुक्तिरित्यर्थः ।
अवोचामेति ।
अनुष्ठेयकर्मफलविलक्षणं मोक्षाख्यमशरीरं नित्यमिति सिद्धमित्यत्रावोचामेति भाष्यार्थः ।
तन्नाशार्थमिति ।
अनादिसिद्धत्वेन सत्यो यः सम्बन्धस्तन्नाशार्थमुपासनारूपकार्यापेक्षेति वेदान्तानां कार्यपरत्वमिति भावः । ’आत्मनः शरीरे’त्यादि ’प्रत्यक्ष’ इत्यतः प्राक्तनो ग्रन्थः स्पष्टार्थः । प्रत्यक्षः प्रत्यक्षविषय इत्यर्थः । प्रत्यक्षेणात्मनः पूर्वकर्मकृतत्वविशिष्टदेहसम्बम्धो न हि दृश्यते इति भावः । ’नाप्यस्ति कश्चि’दित्यादि ’येन तस्य गौणमुख्यते’त्यन्तः प्राक्तनो ग्रन्थस्त्वतिरोहितार्थः । येन पुरुषेणेत्यर्थः । तस्य वस्तुभेदज्ञानवतः पुरुषस्येत्यर्थः ।