भाष्यरत्नप्रभाव्याख्या
नवमं वर्णकम्
पूर्णानन्दीया
 

तर्हि ज्ञाने विधिः किमिति त्यक्तः, तत्राह -

यदि हीति ।

यदि ज्ञाने विधिमङ्गीकृत्य वेदान्तैरवगतं ब्रह्म विधेयज्ञाने कर्मकारकत्वेन विनियुज्येत तदा विधिशेषत्वं स्यात् । न त्ववगतस्य विनियुक्तत्वमस्ति, प्राप्तावगत्या फललाभे विध्ययोगादित्यर्थः ।

तस्मात्

विध्यसम्भवात् । अतः शेषत्वासम्भवात् । सत्यादिवाक्यैर्लब्धज्ञानेनाज्ञाननिवृत्तिरूपफललाभे सतीत्यर्थः ।

सूत्रं योजयति -

स्वतन्त्रमिति ।

एवं च सतीति ।

चोऽवधारणे । उक्तरीत्या ब्रह्मणः स्वातन्त्र्ये सत्येव भगवतो व्यासस्य पृथक्शास्त्रकृतिर्युक्ता, धर्मविलक्षणप्रमेयलाभात् । वेदान्तानां कार्यपरत्वे तु प्रमेयाभेदान्न युक्तेत्यर्थः ।

ननु मानसधर्मविचारार्थं पृथगारम्भ इत्याशङ्क्याह -

आरभ्यमाणं चेति ।

अथ बाह्यसाधनधर्मविचारानन्तरम् । अतो बाह्यधर्मस्य शुद्धिद्वारा मानसोपासनाधर्महेतुत्वात्परिशिष्टो मानसधर्मो जिज्ञास्य इति सूत्रं स्यादिति ।

स्यादित्यत्र दृष्टान्तमाह -

अथेति ।

तृतीयाध्याये श्रुत्यादिभिः शेषशेषित्वनिर्णयानन्तरं शेषिणा शेषस्य प्रयोगसम्भवात्कः क्रतुशेषः को वा पुरुषशेषः इति विज्ञास्यत इत्यर्थः ।

एवमारभ्येत ।

नत्वारब्धम् , तस्मादवान्तरधर्मार्थमारम्भ इत्ययुक्तमिति भावः ।

स्वमते सूत्रानुगुण्यमस्तीत्याह -

ब्रह्मेति ।

जैमिनिना ब्रह्म न विचारितमिति तज्जिज्ञास्यत्वसूत्रणं युक्तमित्यर्थः ।

वेदान्तार्थश्चेदद्वैतं तर्हि द्वैतसापेक्षविध्यादीनां का गतिरित्याशङ्क्य ज्ञानात्प्रागेव तेषां प्रामाण्यं न पश्चादित्याह -

तस्मादिति ।

ज्ञानस्य प्रमेयप्रमातृबाधकत्वादित्यर्थः ।

ब्रह्म न कार्यशेषः, तद्बोधात्प्रागेव सर्वव्यवहार इत्यत्र ब्रह्मविदां गाथामुदाहरति -

अपिचेति ।

सदबाधितं ब्रह्म पूर्णम् आत्मा विषयानादत्त इति सर्वसाक्ष्यहमित्येवंबोधे जाते सति पुत्रदेहादेः सत्ताबाधनात् मायामात्रत्वनिश्चयात् पुत्रदारादिरहमिति(पुत्रदारादिभिरहमिति)* स्वीयदुःखसुखभाक्त्वगुणयोगाद् गौणात्माभिमानस्य नरोऽहं कर्ता मूढ इति मिथ्यात्माभिमानस्य च सर्वव्यवहारहेतोरसत्वे कार्यं विधिनिषेधादिव्यवहारः कथं भवेत् , हेत्वभावान्न कथञ्चिद्भवेदित्यर्थः ।

नन्वहं ब्रह्मेति बोधो बाधितः, अहमर्थस्य प्रमातुः ब्रह्मत्वायोगादित्याशङ्क्य प्रमातृत्वस्याज्ञानविलसितान्तःकरणतादात्म्यकृतत्वान्न बाध इत्याह -

अन्वेष्टव्येति ।

‘विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य(य आत्मापहतपाप्मा विजरो विमृत्युर्विशोकः सोऽन्वेष्टव्य)*’(छा॰उ॰ ८-४-१) इति श्रुतेः ज्ञातव्यपरमात्मविज्ञानात्प्रागेवाज्ञानाच्चिद्धातोरात्मनः प्रमातृत्वं प्रमातैव ज्ञातः सन् पाप्मरागद्वेषमरणविवर्जितः परमात्मा स्यादित्यर्थः ।

प्रमातृत्वस्य कल्पितत्वे तदाश्रितानां प्रमाणानां प्रामाण्यं कथमित्यत आह -

देहेति ।

यथा देहात्मप्रत्ययः(देहात्मत्वप्रत्ययः)* कल्पितो भ्रमोऽपि व्यवहाराङ्गतया मानत्वेनेष्यते वैदिकैः, तद्वल्लौकिकमध्यक्षादिकमात्मबोधावधि व्यवहारकाले बाधाभावात् व्यावहारिकं प्रामाण्यमिष्यताम् , वेदान्तानां तु कालत्रयाबाध्यबोधित्वात्तत्त्वावेदकं प्रामाण्यमिति तुशब्दार्थः ।

आऽऽत्मनिश्चयात् ।

आऽऽत्मनिश्चयादित्याङ्मर्यादायाम् । प्रमातृत्वस्य कल्पितत्वेऽपि विषयाबाधात्प्रामाण्यमिति भावः ॥

रामनाम्नि परे धाम्नि कृत्स्नाम्नायसमन्वयः ।
कार्यतात्पर्यबाधेन साधितः शुद्धबुद्धये ॥ ४ ॥

अन्यत्रेत्यस्यार्थमाह –

विधेयज्ञान इति ।

तच्छब्दार्थमाह –

विनियुक्तत्वमिति ।

ज्ञानेनैव मोक्षरूपफललाभात् येन फलार्थं ज्ञातस्य ब्रह्मणः विधेयज्ञाने विनियुक्तत्वं स्यात्तस्मान्न विधिशेषत्वमिति भावः ।

पुनरारब्धवृत्तिकारमतनिरासोपसंहारद्वारा द्वितीयवर्णकार्थमुपसंहरतीत्यभिप्रेत्य प्रतीकमादाय तच्छब्दातःशब्दयोरर्थमाह –

तस्मादिति ।

सूत्रमिति ।

इदानीं वर्णकद्वयेनोक्तमर्थं अनुवदन् समन्वयसूत्रं योजयतीत्यर्थः । भाष्ये स्वतन्त्रमित्यनेन द्वितीयवर्णकार्थ उक्तः शास्त्रप्रमाणकमित्यनेन प्रथमवर्णकार्थ उक्त इति विवेकः ।

आरभ्यमाणं चेति ।

यद्यर्थकः चशब्दः, पृथक् सूत्रं यद्यारब्धव्यं तर्ह्य’थातः परिशिष्टधर्मजिज्ञासे’त्येव आरब्धव्यं स्यादिति भावः ।

व्याख्याने –

मानसधर्मविचारार्थमिति ।

मानसोपासनारूपान्तरधर्मविचारार्थमित्यर्थः ।

उपासनारूपान्तरधर्मजिज्ञास्यत्वपक्षे पूर्ववाद्यभिप्रायेण रचितसूत्रस्यार्थमाह –

अथ बाह्येति ।

तृतीयाध्याय इति ।

पूर्वतन्त्रस्य तृतीयाध्याय इत्यर्थः ।

अथशब्दार्थमुक्त्वा अतःशब्दार्थमाह –

शेषिणेति ।

एवमारभ्येतेति मानसोपासनारूपधर्मजिज्ञासा प्रस्तुता चेदथातः परिशिष्टधर्मजिज्ञासेत्येवमारभ्येत न त्वारब्धम् , तथाचाथातो ब्रह्मजिज्ञासेत्येवारब्धत्वान्नान्तरोपासना प्रस्तुतेति गम्यते तस्मात्तदर्थमारम्भ इत्ययुक्तमिति भावः । ननु तर्हि पुर्वकाण्डेप्यविचारितत्वात् कथमान्तरोपासना ज्ञातव्येति चेत् । किं निष्ठोऽयमपराधः ब्रह्मजिज्ञासेत्यारब्धत्वात् ’आन्तरोपासनार्थमारम्भ’ इत्ययुक्तमित्युक्तम् , अत एवोपासनानि प्रसक्तानुप्रसक्त्या उत्तरत्र विचारितानीति मन्तव्यम् ।

सूत्राणामिति ।

सूत्रकरणमित्यर्थः । सूत्ररचना युक्तेति भावः ।

चक्षुरादीन्यद्वैतात्मावगतौ सत्यां प्रमेयादिरहितत्वात्प्रमाणानि भवितुं नार्हन्तीति भाष्यार्थमाह –

न पश्चादिति ।

हेतुलाभार्थं प्रथमतः प्रथमश्लोकस्य उत्तरार्धं व्याचष्टे –

सदबाधितमिति ।

प्रतीकमादयात्मशब्दार्थमाह –

आत्मेति ।

विषयानादत्त इत्यात्मशब्दार्थमुक्त्वा तात्पर्यमाह –

साक्षीति ।

आत्मा त्रिविधः गौणात्मा मिथ्यात्मा मुख्यात्मा चेति । आद्य आह –

पुत्रादिरिति ।

गौणश्चासावात्माभिमानश्चेति विग्रहः । पुत्रदारादिषु आत्माभिमानो गौणः यथा स्वसुखेन सुखी स्वदुःखेन दुःखी तथा पुत्रदारादिगतेनापीति सोयं गौणः न मिथ्याभिमानः भेदस्यानुभवसिद्धत्वात्तथा च पुत्रदारादिष्वहमित्यात्माभिमानेन पुत्रादिर्गौणात्मेति भावः ।

द्वितीय आह –

नरोहमिति ।

देहेन्द्रियादिष्वभेदानुभवेन भेदज्ञानाभावान्नात्माभिमानो गौणः किन्तु शुक्तौ रजतज्ञानवन्मिथ्या तथा च देहादावहमित्यभिमानेन देहादिर्मिथ्यात्मेति भावः ।

मुख्यात्मानं निरूपयितुं द्वितीयश्लोकमवतारयति –

नन्विति ।

अन्वेष्टव्येत्यस्य व्याख्यानं –

ज्ञातव्येति ।

अन्विष्टपदस्यार्थमाह –

ज्ञात इति ।

तृतीयश्लोकमवतारयति –

प्रमातृत्वस्येति ।

यद्वदित्यस्यार्थमाह –

यथेति ।

आत्माबोधावधि प्रामाण्यमित्यन्वयः ।

ननु ज्ञानानन्तरं यथा चक्षुरादीनां अप्रामाण्यं तथा वेदान्तानामप्रामाण्यं स्यात् इत्यत आह –

वेदान्तानान्त्विति ।

ज्ञानानन्तरं वेदान्तानां मिथ्यात्वेपि अबाध्यवस्तुबोधकत्वात् नाप्रामाण्यम् । न च तर्हि प्रामाण्यं स्यादिति वाच्यम् । अद्वैतज्ञानिनः शब्दतज्जन्यप्रमाया अभावेन प्रमाकरणत्वरूपप्रामाण्यस्याभावात् , तस्मात् ज्ञानानन्तरं वेदान्तानां नाप्रामाण्यं न प्रामाण्यं चेति रहस्यम् ।

अकः सवर्णे दीर्घ इति – सूत्रेणात्मनिश्चयादित्यत्र सन्धिमभिप्रेत्य प्रतीकमादाय पदविभागमाह –

आत्मनिश्चयादिति ।

आब्रह्मस्वरूपसाक्षात्कारादित्यर्थः ।

शङ्कायाः कः परिहार इति जिज्ञासायामाह –

प्रमातृत्वस्येति ।

अद्वितीयनिरतिशयानन्दचैतन्यैकज्ञानसर्वज्ञसर्वेश्वरसर्वशक्तिनिरवयवस्वप्रकाशप्रत्यग्भूतब्रह्मात्मन्यपरोक्षानुभवात्प्राग्भेदात्मप्रत्ययवत्सर्वो व्यवहारो यथा दर्शनमुपपद्यते अस्मिंश्चापरोक्षे अवभासमानादिप्रमात्रादिबाधात्सर्वो व्यवहारो निवर्तत इति श्लोकार्थः ।

स्वाभिमतमिष्टदेवतानामोच्चारणपूर्वकं फलितं समन्वयार्थमाह –

रामनाम्नीति ।