निरुपमनित्यनिरंशकेऽप्यखण्डे मयि चिति सर्वविकल्पनादिशून्ये ।
घटयति जगदीशजीवभेदं त्वघटितघटनापटीयसी माया ॥ १ ॥
श्रुतिशतनिगमान्तशोधकानप्यहह धनादिनिदर्शनेन सद्यः ।
कलुषयति चतुष्पदाद्यभिन्नान् अघटितघटनापटीयसी माया ॥ २ ॥
सुखचिदखण्डविबोधमद्वितीयं वियदनिलादिविनिर्मिते नियोज्य ।
भ्रमयति भवसागरे नितान्तं त्वघटितघटनापटीयसी माया ॥ ३ ॥
अपगतगुणवर्णजातिभेदे सुखचिति विप्रविडाद्यहंकृतिं च ।
स्फुटयति सुतदारगेहमोहं त्वघटितघटनापटीयसी माया ॥ ४ ॥
विधिहरिहर भेदमप्यखण्डे बत विरचय्य बुधानपि प्रकामम् ।
भ्रमयति हरिहरविभेदभावान् अघटितघटनापटीयसी माया ॥ ५ ॥