श्रीमच्छङ्करभगवत्पूज्यपादविरचितम्

स्तोत्राणि

Translations

उद्यद्भानुसहस्रकोटिसदृशां केयूरहारोज्ज्वलां बिम्बोष्ठीं स्मितदन्तपत्ङ्किरुचिरां पीताम्बरालंकृताम् ।
विष्णुब्रह्मसुरेंद्रसेवितपदां तत्त्चस्वरुपां शिवां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ १ ॥
मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां शिञ्जन्नूपुरकिंकिणीमणिधरां पद्मप्रभाभासुराम् ।
सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमासेवितां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ २ ॥
श्रीविद्यां शिववामभागनिलयां ह्रींकारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतिं श्रीमत्सभानायिकाम् ।
श्रीमत्षण्मुखविघ्नराजजननीं श्रीमञ्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ३ ॥
श्रीमत्सुंदरनायिकां भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजाम् ।
वीणावेणुमृदङ्गवाद्यरसिकां नानाविधाडम्बिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ४ ॥
नानायोगिमुनीन्द्रहृन्निवसतिं नानार्थसिद्धिप्रदां नानापुष्पविराजितांघ्रियुगलां नारायणेनार्चिताम् ।
नादब्रह्ममयीं परात्परतरां नानार्थतत्त्वात्मिकां मीनाक्षीं प्रणतोऽस्मि संततमहं कारुण्यवारांनिधिम् ॥ ५ ॥