जाग्रत्वस्वप्नसुषुप्तिषु स्फुटतरा या संविदुज्जृम्भते या ब्रह्मादि पिपीलिकान्त तनुषु प्रोता जगत्साक्षिणी ।
सैवाहं न च दृश्यवस्थ्विति दृढप्रज्ञापि यस्यास्ति चे- च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ १ ॥
ब्रह्मैवाहमिदं जगच्च सकलं चिन्मात्रविस्तारितं सर्वं चैतदविद्यया त्रिगुणयाऽशेषं मया कल्पितम् ।
इथ्थं यस्य दृढा मतिः सुखतरे नित्ये परे निर्मले च्चाण्डालोऽस्तु स तु द्विजोऽस्तु गुरुरित्येषा मनीषा मम ॥ २ ॥
शश्वन्नश्वरमेव विश्वमखिलं निश्चित्य वाचा गुरोः नित्यं ब्रह्मनिरन्तरं विमृशता निर्व्याजशान्तात्मना ।
भूतं भावि च दुष्कृतं प्रदहता संविन्मये पावके प्रारब्धाय समर्पितं स्ववपुरित्येषा मनीना मम ॥ ३॥
या तिर्यङ्नरदेवताभिरहमित्यन्तः स्फुटा गृह्यते यद्भासा हृदयाक्षदेहविषया भान्ति स्वतोऽचेतनाः। तां भास्यैः पिहितार्कमण्डलनिभां स्फूर्तिं सदा भावयन्योगी निर्वृतमानसो हि गुरुरित्येषा मनीषा मम ॥ ४॥
यत्सौख्याम्बुधिलेशलेशत इमे शक्रादयो निर्वृता यच्चित्ते नितरां प्रशान्तकलने लब्ध्वा मुनिनिर्वृतः ।
यस्मिन्नित्यसुखाम्बुधौ गलितधीर्ब्रह्मैव न ब्रह्मवित् यः कचित् स सुरेन्द्रवन्दितपदो नूनं मनीषा मम ॥ ५ ॥