आनन्दज्ञानविरचिता

आनन्दगिरिटीका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

यदविद्यावशाद्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥

नमस्त्रय्यन्तसन्दोहसरसीरुहभानवे ।
गुरवे परपक्षौघध्वान्तध्वंसपटीयसे ॥२॥

भगवत्पादाब्जद्वन्द्वं द्वन्द्वनिबर्हणम् ।
सुरेश्चरादिसद्भृङ्गैरवलम्बितमाभजे ॥३॥

बृहदारण्यके भाष्ये शिष्योपकृतिसिद्धये ।
सुरेश्वरोक्तिमाश्रित्य क्रियते न्यायनिर्णयः ॥४॥

काण्वोपनिषद्विवरणव्याजेनाशेषामेवोपनिषदं शोधयितुकामो भगवान्भाष्यकारो विघ्नोपशमादिसमर्थं शिष्टाचारप्रमाणकं परापरगुरुनमस्काररूपं मङ्गलमाचरति —

ओं नमो ब्रह्मादिभ्य इति ।

वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तदर्थत्वात्तदात्मकत्वाच्च ’एष उ ह्येव सर्वे देवाः’ इति श्रुतेः । आदिपदेन परमेष्ठिप्रभृतयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मान्तर्भावस्तथाऽपि तेष्वनादरनिरासार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमःशब्दस्त्रिविधप्रह्वीभावविषयः ।

ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —

ब्रह्मविद्येति ।

एतेषां तत्संप्रदायकर्तृत्वे वंशब्राह्मणं प्रमाणयति —

वंशऋषिभ्य इति ।

यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।

संप्रत्यपरगुरून्नमस्करोति —

नमो गुरुभ्य इति ।

यद्यपि ब्रह्मविद्यासंप्रदायकर्त्रन्तर्भावादेते प्रागेव नमस्कृतास्तथाऽपि शिष्याणां गुरुविषयादरातिरेककार्यार्थं पृथग्गुरुनमस्करणं ’यस्य देवे परा भक्तिः’ इत्यादिश्रुतेरिति ।

यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —

उषा वा इति ।

एतेन चिकीर्षिताया वृत्तेर्भर्तृप्रपञ्चभाष्येणागतार्थत्वमुक्तम् । तद्धि ’द्वया हे’त्यादिमाध्यन्दिनश्रुतिमधिकृत्य प्रवृत्तम् । इयं पुनः ’उषा वा अश्वस्य इत्यादिकाण्वश्रुतिमाश्रित्येति ।

अथोद्देश्यं निर्दिशति —

तस्या इति ।

भर्तृप्रपञ्चभाष्याद्विशेषान्तरमाह —

अल्पग्रन्थेति ।

अस्या ग्रन्थतोऽल्पत्वेऽपि नार्थतस्तथात्वमिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रानुकारिभिर्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्यलक्षणस्यात्र भावादिति ।

ननु कर्मकाण्डाधिकारिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधारणत्वाद्वैराग्यादेश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्रमारम्भमर्हतीत्यत आह —

संसारेति ।

कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसाराद्व्यावृत्तिमिच्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्धबुद्धेर्विवेकिनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथोक्तविशिष्टाधिकारिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।

तथाऽपि विषयप्रयोजनसंबन्धानामभावे कथं वृत्तिरारभ्यते तत्राऽह —

संसारहेत्विति ।

प्रमातृताप्रमुखः कर्तृत्वादिरनर्थः संसारस्तस्य हेतुरात्माविद्या तन्निवृत्तेः साधनं ब्रह्मात्मैकत्वविद्या तस्याः प्रतिपत्तिरप्रतिबद्धायाः प्राप्तिस्तदर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनिदानानर्थनिवृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मात्मैक्यविद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञानफलयोरुपायोपेयत्वम् । शास्त्रतद्विषययोर्विषयविषयित्वं तदारभ्यं शास्त्रमिति ।

प्रयोजनादिषु प्रवृत्त्यङ्गतयोक्तेष्वपि सर्वव्यापाराणां प्रयोजनार्थत्वात्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रारम्भौपयिकं प्रयोजनमेव नामव्युत्पादनद्वारा व्युत्पादयति —

सेयमिति ।

अध्यात्मशास्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मात्मैक्यविद्या तन्निष्ठानां सर्वकर्मसंन्यासिनां सनिदानस्य संसारस्यात्यन्तनाशकत्वाद्भवत्युपनिषच्छब्दवाच्या । ’उपनिषदं भो ब्रूहि’ इत्याद्या च श्रुतिः । तस्मादुपनिषच्छब्दवाच्यत्वप्रसिद्धेर्विद्यायास्ततो यथोक्तफलसिद्धिरित्यर्थः ।

कथं तस्यास्तच्छब्दवाच्यत्वेऽप्येतावानर्थो लभ्यते तत्राऽह —

उपनिपूर्वस्येति ।

अस्यार्थः – “षदलृविशरणगत्यवसादनेषु’ इति स्मर्यते । सदेर्धातोरुपनिपूर्वस्य क्विबन्तस्य सहेतुसंसारनिवर्तकब्रह्मविद्यार्थत्वादुपनिषच्छब्दवाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह  । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्चयार्थस्तस्मादैकात्म्यं निश्चितं तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते उक्तं हि – ’अवसादनार्थस्य चावसादात्’ इति ।

ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धास्तच्छब्दं प्रयुञ्जते न खल्वेकस्य शब्दस्यानेकार्थत्वं न्याय्यमित्याशङ्क्याऽऽह —

तादर्थ्यादिति ।

ग्रन्थस्य ब्रह्मविद्याजनकत्वादुपचारात्तत्रोपनिषत्पदमित्यर्थः ।

यथोक्तविद्याजनकत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भवतीत्याशङ्क्यश्रवणादिपराणामेवारण्यानुवचनादिनियमाधीताक्षरेभ्यस्तज्जन्मेति बृहदारण्यकनामनिर्वचनपूर्वकमाह —

सेयमिति ।

अथारण्यानुवचनादिनियमाधीतवेदान्तानामपि केषाञ्चिद्विद्यानुपलम्भात्कुतो यथोक्ताक्षरेभ्यस्तदुत्पत्तिरित्यत आह —

बृहत्त्वादिति ।

उपनिषदन्तरेभ्यो ग्रन्थपरिमाणातिरेकादस्य बृहत्त्वं प्रसिद्धमर्थतोऽपि तस्य तदस्ति ब्रह्मणोऽखण्डैकरसस्यात्र प्रतिपाद्यत्वात्तज्ज्ञानहेतूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृहत्त्वादारण्यकत्वाच्च बृहदारण्यकम् । नचैतदशुद्धबुद्धेरधीतमपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्” इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशिष्टाधिकार्यादिवैशिष्ट्येऽपि कर्मकाण्डेन नियतपूर्वापरभावानुपपत्तिलभ्यः संबन्धो वक्तव्यः । स च परीक्षकविप्रतिपत्तेरशक्यो विशेषतो ज्ञातुमित्याशङ्क्याऽऽह तस्येति ।

प्रतिज्ञातं संबन्धं प्रकटयितुमसिद्धप्रमाणभावानां वेदान्तानां संबन्धाभिधानावसराभावात्तत्प्रामाण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संबन्धविशेषवचनमुचितमिति मन्वानस्तत्प्रामाण्यं साधयति —

सर्वोऽपीति ।

प्रत्यक्षानुमानाभ्यामित्यागमातिरिक्तप्रमाणोपलक्षणार्थम् । एषोऽर्थोऽध्ययनविध्युपात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञापनपरस्तथा चाज्ञातज्ञापकत्वाविशेषात्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्देतरमानायोग्यो रूपादिहीनत्वात् । ’एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टानिष्टप्राप्तिपरिहारोपायस्तस्यैव तत्तदात्मनाऽवस्थानात् । ’सच्च त्यच्चाभवत्’ इत्यादिश्रुतेः । स च प्रकाशनः सर्वप्रकाशकत्वात् । ’तमेव भान्तमनुभाति सर्वम्’ इति श्रुतेः । स च परोऽविद्यातत्कार्यातीतत्वात् । ’विरजः पर आकाशात्’ इत्यादिश्रुतेः । एवंरूपो वेदपदवेदनीयश्चिदेकरसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ’आत्मैवेदं सर्वम्’ इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधिवाक्यवत्प्रमाणमिति । अथवा प्रत्यक्षादिनाऽनवगतो योऽसाविष्टप्राप्त्याद्युपायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यैवाज्ञातत्वात्तत्र कर्मकाण्डं कर्मानुष्ठानप्रयुक्तबुद्धिशुद्धिद्वारा ब्रह्माधिगतावारादुपकारकम् । ’विविदिषन्ति यज्ञेन’ इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । परमपुरुषस्यौपनिषदत्वश्रवणात् । ’सर्वे वेदा यत्पदमामनन्ति’ इति च श्रुतेः । तद्युक्तं कर्मकाण्डवज्ज्ञानकाण्डस्यापि प्रामाण्यमिति ।

अधिकारिसौलभ्यप्रतिपादनद्वारा ज्ञानकाण्डप्रामाण्यमेव स्फुटयति —

सर्वपुरुषाणामिति ।

अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरुषाणामनवच्छिन्नसुखादिमात्रेऽभिलाषोपलम्भात्तन्मात्रस्य च मोक्षत्वात्तकामिनो ज्ञानकाण्डाधिकारिणः सुलभत्वात्तस्मिन्प्रमां स्वार्थविषयामादधत्कथं तदप्रमाणमिति ।

ननु वेदस्य कार्यपरतया प्रामाण्यात्कर्मकाण्डवत्काण्डान्तरस्यापि कार्यपरतया प्रामाण्यमेष्टव्यमिति नेत्याह —

दृष्टविषय इति ।

क्रियाकारकफलेतिकर्तव्यतानामन्यतमस्मिन्कार्ये समीहितप्राप्त्याद्युपायभूते व्युत्पत्तिकाले प्रत्यक्षादिसिद्धे तथाविधकार्यधियोऽन्यथालब्धत्वात्तत्र नाऽऽगमोऽनुसन्धेयः । न हि लोकवेदयोस्तद्भिद्यते अलौकिके तस्मिन्नव्युत्पत्तिप्रसंगात् । नचाव्युत्पन्नानि पदानि बोधकान्यतिप्रसंगात् । न च ब्रह्मण्यपि तुल्या व्युत्पत्त्यनुपपत्तिः । तस्मिन्ब्रह्मत्वेनाऽऽत्मत्वेन च प्रसिद्धेः । तत्तत्सामान्योपाधौ विज्ञानादिपदानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लुण्ठितसामान्यविशेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।

किं च तिष्ठतु वेदान्तप्रामाण्यं कर्मकाण्डेऽपि व्यतिरिक्तात्मास्तित्वादौ सिद्धेऽर्थे प्रामाण्यमावश्यकम् । तदभावे तत्प्रामाण्यायोगात् । न हि भविष्यद्देहसंबन्ध्यात्मसद्भावानधिगमे पारलौकिकप्रवृत्तिविश्रम्भः । तस्मात्कर्मकाण्डप्रामाण्यमिच्छता सिद्धेऽर्थे भविष्यद्देहसंबन्धिन्यात्मनि स्वर्गादौ च तत्प्रामाण्यस्याभ्युपेयत्वात्कार्ये वेदप्रामाण्यानियमाद्वेदान्तानामपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —

न चेति ।

ननु देहान्तरसंबन्ध्यात्मज्ञानं विनाऽपि विधिवशाददृष्टार्थक्रियासु प्रवृत्तिः स्यादिति नेत्याह —

स्वभावेति ।

यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रान्मानान्तराच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षापूर्वकारी यागाद्यनुतिष्ठेत् । लोकायतस्य व्यतिरिक्तात्मास्तित्वमजानतो जन्मान्तरेष्टानिष्टप्राप्तिहानीच्छया वैदिकक्रियास्वप्रवृत्तेर्दर्शनात् । अतो नातिरिक्तात्मज्ञानं विना साम्परायिके प्रवृत्तिरित्यर्थः ।

ननु विधयः साधनविशेषं बोधयन्तो नातिरिक्तात्मास्तित्त्ववादौ मानं वाक्यभेदप्रसंगादित्यत आह —

तस्मादिति ।

अतिरिक्तात्मधियं विना पारलौकिकप्रवृत्त्यनुत्पत्त्या कर्मकाण्डप्रामाण्यायोगादिति यावत् । विधीनां श्रुत्यर्थाभ्यामुभयार्थत्वमविरुद्धमित्यर्थः ।

न केवलं विधिभिरेवार्थादाक्षिप्तमतिरिक्तात्मास्तित्वं किन्तु श्रुत्याऽपि स्वमुखेनोक्तमित्याह —

येयमिति ।

निर्णयदर्शनाद्व्यतिरिक्तात्मास्तित्वमिति संबन्धः ।

तत्रैव प्रकृतोपयोगित्वेनोपक्रमोपसंहारान्तरे दर्शयति —

यथा चेति ।

पूर्ववदेव संबन्धद्योतनार्थं चकारः उपक्रमोपसंहारैकरूप्यात्कठवल्लीनामतिरिक्तात्मास्तित्वे तात्पर्यमुक्त्वा बृहदारण्यकवाक्यस्यापि तत्र तात्पर्यमाह —

स्वयमिति ।

न हि प्रसिद्धजडत्वस्य देहादेः स्वयञ्ज्योतिष्ट्वमिति ज्योतिर्ब्राह्मणगतोपक्रमस्तद्विषयो देहादिव्यतिरिक्तात्मानमधिकरोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फलदानायानुगच्छतः । स च गत्वा ज्ञानकर्मानुगुणं फलमनुभवतीति शारीरकब्राह्मणगतोपसंहारोऽपि जन्मान्तरसंबन्धविषयः । न चात्रैव भस्मीभवतो देहादेर्जन्मान्तरसंबन्धो युक्तः । तेनाऽऽत्मा देहादिव्यतिरिक्तो जन्मान्तरसंबन्धी सिद्धो ब्राह्मणाभ्यामित्यर्थः ।

अजातशत्रुब्राह्मणे च व्येव त्वा ज्ञपयिष्यामीत्युपक्रमो व्यतिरिक्तात्मास्तित्वविषयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ’य एष विज्ञानमयः पुरुषः’ इति विज्ञानमयविशेषणादतिरिक्तात्मास्तित्वं दर्शितं न हि देहादेर्विज्ञानमयत्वमस्ति तस्मात्तदप्युपक्रमोपसम्हाराभ्यां व्यतिरिक्तात्मास्तित्वं गमयतीत्याह —

ज्ञपयिष्यामीत्युपक्रम्येति ।

नचोदाहृतानां वाक्यानामप्रामाण्यम् । तत्प्रामाण्यस्यौत्पत्तिकसूत्रहेत्वविशेषादभ्युपेयत्वादिति भावः ।

यथोक्तात्मन्यहम्प्रत्ययो मानं तत्र देहाकारास्फुरणादतिरिक्तात्मास्तित्वस्य तेनैव स्फूर्त्युपपत्तेरतो न तत्र श्रुतिप्रामाण्यमिति शङ्कते —

तत्प्रत्यक्षेति ।

प्रत्यक्षस्य विषयोऽवकाशो यस्मिन्नित्यतिरिक्तात्मास्तित्वमुच्यते ।

यद्यपि व्यतिरिक्तात्मास्तित्वं त्वदभिप्रायेणाहन्धीगोचर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्यागमविवेकशून्यानामहम्प्रत्ययभाजां व्यतिरेकप्रत्ययप्राप्तौ विपश्चितां विप्रतिपत्त्यभावप्रसंगादिति परिहरति —

न वादीति ।

वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —

न हीति ।

तेषु प्रातिकूल्यसंभावनार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेदनस्यैवासंभवादध्यक्षविरोधादिति योजना ।

प्रत्यक्षे विषये विप्रतिपत्त्यभावे दृष्टान्तमाह —

न हीति ।

तत्र व्यभिचारं शङ्कते —

स्थाण्वादाविति ।

प्रत्यक्षे धर्मिणि स्थाणुर्वापुरुषो वेति विप्रतिपत्तेरुपलम्भान्न प्रत्यक्षे विप्रतिपत्त्यभावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजादिविप्रतिपत्तिः संगृह्यते ।

किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽङ्गीकारात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —

नेत्यादिना ।

प्रत्यक्षतो विविक्तेऽर्थे विप्रतिपत्त्यभावं प्रपञ्चयति —

न हीति ।

आत्मनः स्थूलदेहव्यतिरिक्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्मदेहव्यतिरिक्तत्वमपि नाहम्प्रत्ययग्राह्यमित्याह —

वैनाशिकास्त्विति ।

ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूलदेहातिरिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धेरतिरिक्तस्याऽत्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्मदेहातिरिक्तात्मसिद्धिरित्यर्थः ।

किं च प्रत्यक्षस्य विषयो रूपादिस्तद्राहित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ’अशब्दमस्पर्शमरूपम्’ इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहाद्यतिरिक्तात्मास्तित्वस्य प्रत्यक्षात्प्रसिद्धिरित्याह —

तस्मादिति ।

प्रत्यक्षतो विविक्ते विप्रतिपत्त्ययोगात् । प्रकृते च तद्दर्शनादिति यावत् ।

अथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवदित्यनुमानादतिरिक्तात्मसिद्धिरिति नेत्याह —

तथेति ।

नाऽऽत्मास्तित्वप्रसिद्धिरिति संबन्धार्थस्तथाशब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये परस्पराश्रयत्वमाधारस्येदानीमेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्रयमात्रवचने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्धत्वादात्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।

’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राणनादिव्यापाराख्यस्य लिङ्गस्याऽऽत्मास्तित्वे प्रदर्शितत्वात्तस्य च व्याप्तिसापेक्षस्य प्रत्यक्षादिसिद्धात्मविषयत्वान्न तस्य शब्दैकगम्यतेति शङ्कते —

श्रुत्येति ।

आत्मनः स्वातन्त्र्येण लिङ्गगम्यत्वाभिप्रायेण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —

नेति ।

योऽचेतनव्यापारः स चेतनाधिष्ठानपूर्वको यथा रथादिव्यापारः । प्राणनादिव्यापारस्याप्यचेतनव्यापारत्वाच्चेतनाधिष्ठानपूर्वकत्वमिति संभावनामात्रेण लिङ्गोपन्यासः ।

न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मान्तरसंबन्धस्य प्रमाणान्तरेणाग्रहणात्तद्व्याप्तलिङ्गायोगादित्याह —

जन्मान्तरेति ।

ननु व्यतिरिक्तात्मास्तित्वमागमैकगम्यं चेत्कथं तत्प्रत्यक्षमनुमेयं चेति वादिनो वदन्तीति तत्राऽऽह —

आगमेन त्विति ।

’येयं प्रेते विचिकित्से’त्याद्यागमेन ’को ह्येवान्यत्’ इत्यादिवेदोक्तैश्च प्राणनादिभिर्लौकिकैर्लिङ्गविशेषैरात्मास्तित्वे सिद्धे यथोक्तात्मसिद्धिमनुसरन्तो वादिनो वैदिकमेवाहम्प्रत्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रेक्षानिर्मितानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तुतस्त्वात्मा यथोक्तश्रुत्यैकसमधिगम्य इत्यर्थः ।

तस्यास्येत्यादिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदान्तप्रामाण्यं सर्वोऽपीत्यादिना प्रसाध्याधुना कर्मभिः शुद्धबुद्धेर्वैराग्यादिद्वारा ज्ञानोत्पत्तिरिति तयोः संबन्धं कथयति —

सर्वथाऽपीति ।

आगमात्मानान्तराद्वा व्यतिरिक्तात्मास्तित्वप्रतिपत्तावपीत्यर्थः ।

पुरुषार्थोपायविशेषार्थिनस्तज्ज्ञापनार्थं कर्मकाण्डमारब्धं चेत्तर्हि तत्रोक्तकर्मभिरेव विवक्षितपुमर्थसिद्धेर्वेदान्तारम्भवैयर्थ्यान्न संबन्धोक्तिः सावकाशेत्याशङ्क्याऽऽह —

नत्विति ।

आत्माज्ञानं खल्वनर्थकारणमन्वयव्यतिरेकशास्त्रगम्यं मिथ्याज्ञानकार्यलिङ्गकं च । तच्चाकर्तृभोक्तृब्रह्मात्मज्ञानादपनेयम् । न हि तत्कर्मकाण्डोक्तैरेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मात्तद्धानार्थं ज्ञानसिद्धये वेदान्तारम्भभावादुक्तसंबन्धसिद्धिरित्यर्थः ।

यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मिन्कर्मवशान्मोक्षः स्यादित्याशङ्क्याऽऽह —

यावद्धीति ।

सम्यग्ज्ञानमेव साक्षान्मोक्षहेतुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मात्कर्मकाण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । रागद्वेषादीत्यादिशब्देनाविद्यास्मिताभिनिवेशादयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रानपेक्षत्वम् । अपिकारः संभावनार्थः । दृष्टत्वमन्वयव्यतिरेकसिद्धत्वम् । अदृष्टत्वं शास्त्रमात्रगम्यत्वम् ।

अधर्मोपचयप्राचुर्ये हेतुमाह —

स्वाभाविकेति ।

अथ वैराग्यार्थं कर्मफलं प्रपञ्चयन्नधर्मफलमाह —

तत इति ।

उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः” इति ।

तत्किं पुण्योपचयाभावादनवकाशं स्वर्गादिफलमिति नेत्याह —

कदाचिदिति ।

शास्त्रीयसंस्कारस्य बलीयस्त्वे फलितमाह —

तत इति ।

आदिशब्दो वाग्देहविषयः ।

फलविभागं वक्तुं कर्म भिनत्ति —

तद्द्विविधमिति ।

तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —

तत्रेति ।

केवलमिष्टादिकर्मेति शेषः । ’कर्मणा पितृलोकः” इति हि वक्ष्यति  । तस्मिन्फले नानात्वमभिप्रेत्याऽऽदिशब्दः ।

’विद्यया देवलोकः’ इति श्रुतिमाश्रित्याऽऽह —

ज्ञानेति ।

देवलोको यस्याऽऽदिर्ब्रह्मलोको यस्यान्तस्तस्यार्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।

उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —

तथा चेति ।

सर्वत्र परमात्मभावनापुरःसरं नित्यं कर्मानुतिष्ठन्नात्मयाजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।

’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —

स्मृतिश्चेति ।

धर्माधर्मयोरेकैकस्य फलमुक्त्वा मिश्रयोः फलमाह —

साम्ये चेति ।

उक्तं हि – ’उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’ इति ।

त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षिप्योपसंहरति —

एवमिति ।

सा चाविद्याकृतत्वादनर्थरूपेत्याह —

स्वाभाविकेति ।

विचित्रकर्मजन्यतया तस्या वैचित्र्यमाह —

धर्माधर्मेति ।

तर्हि धर्माधर्माभ्यामेव तन्निर्माणसंभवात्कृतमविद्ययेत्यत आह —

नामेति ।

तेषां सूक्ष्मावस्थाऽविद्या तदालम्बनेति यावत् धर्मादेरविद्यायाश्च निमित्तत्वोपादानत्वाभ्यामुपयोग इति भावः ।

ननु संसारगतेराविद्यत्वमयुक्तं प्रत्यक्षादिप्रतिपन्नत्वात्तन्नामरूपाभ्यामेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जगतोऽभिव्यक्तिश्रवणान्न च प्रामाणिकस्याविद्याकृतत्वमत आह —

तदेवेदमिति ।

जगतः स्वरूपमात्मा तत्राध्यस्तत्वात्तस्मादात्मतत्त्वेऽनभिव्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जगदनभिव्यक्तमेवेति न तस्याविद्याकृतत्वक्षतिरिति भावः ।

अविद्याकृतां संसारगतिमनुभाषते —

स एष इति ।

नन्वविद्याकृतत्वे कथमनादित्वमित्याशङ्क्य तस्य प्रवाहरूपेणेत्याह —

बीजाङ्कुरादिवदिति ।

चैतन्यवदात्मनि तस्याविद्याकृतत्वानुपपत्तिमाशङ्क्य नानारूपत्वेन ततो विलक्षणत्वादेकरूपे युक्तं तस्य कल्पितत्वमित्याह —

क्रियेति ।

तर्हि कादाचित्कतया साधनापेक्षामन्तरेण नाशो भविष्यतीत्याशङ्क्याऽऽह —

अनादिरिति ।

अनादेरपि संसारस्य प्रागभाववन्निवृत्तिः स्यादिति चेत्तथाऽपि ब्रह्मविद्यामन्तरेण नाशो नास्तीत्याह —

अनन्त इति ।

प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।

यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मात्सनिदानसंसारनिवर्तकात्मज्ञानार्थत्वेन साधनचतुष्टयसंपन्नमधिकारिणमधिकृत्य वेदान्तारम्भः संभवतीत्युपसंहरति —

इत्येतस्मादिति ।

यथोक्तज्ञानार्थत्वेनोपनिषदारम्भे ’ब्रह्म वा इदमग्र आसीत्’ इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ’उषा वा अश्वस्य’ इत्यारम्भस्तु न युक्तः साक्षादत्र तदनुक्तेरित्याशङ्क्यास्मादारभ्योपनिषदारम्भेऽभीष्टं फलमभिधित्समानः प्रथममश्वमेधोपासनफलमाह —

अस्य त्विति ।

राजयज्ञत्वादश्वमेधस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फलार्थिनामस्मादेवोपासनात्तदाप्तिरिति मत्वा श्रुतौ तदुपासनोक्तीत्यर्थः ।

किमत्र नियामकमित्याशङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विकल्पश्रुतिमुदाहरति —

विद्ययेति ।

तत्फलप्राप्तिरिति पूर्वेण संबन्धः ।

तत्रैव श्रुत्यन्तरमाह —

तद्धेति ।

तदेतत्प्राणदर्शनं लोकप्राप्तिसाधनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्मलोकाप्तिवादिन्यः श्रुतयो गृह्यन्ते ।

अश्वमेधे यदुपासनं तस्याप्यश्वादिवत्तच्छेषत्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्वत्त्वमङ्गेषु स्वतन्त्रफलाभावादिति शङ्कते —

कर्मविषयत्वमिति ।

ज्ञानस्य क्रत्वर्थत्वं दूषयति —

नेति ।

पूर्वत्रार्थतो दर्शितां विकल्पश्रुतिमत्र हेतुतया स्वरूपतोऽनुक्रामति —

योऽश्वमेधेनेति ।

“सर्वं पाप्मानं तरति तरति ब्रह्महत्या”मिति संबन्धः । ज्ञानकर्मणोस्तुल्यफलत्वस्य न्याय्यत्वादिति शेषः ।

उपास्तिफलश्रुतेरर्थवादत्वमाशङ्क्याश्वमेधवदुपास्तेरपि कर्मत्वाद्विहितत्वात्कर्मप्रकरणाद्व्युत्थितत्वाच्च मैवमित्याह —

विद्येति ।

फलश्रुतेरर्थवादत्वाभावे हेत्वन्तरमाह —

कर्मान्तरे चेति ।

अश्वमेधातिरिक्ते कर्मणि ’अयं वाव लोकोऽग्निरि’त्यादौ चित्याग्न्यादावेतल्लोकादिसंपादनस्य स्वतन्त्रफलोपासनस्य दर्शनान्न फलश्रुतेरर्थवादतेत्यर्थः ।

अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधिकारोऽश्वमेधक्रत्वनधिकारिणामपीत्येतावदेवेष्टं चेदुपासने कर्मप्रकरणस्थेऽपि तल्लाभाद्विद्याप्रकरणे नास्याध्ययमर्थवदित्याशङ्क्याऽऽह —

सर्वेषां चेति ।

परत्वे हेतुः —

समष्टीति ।

अनुवृत्तव्यावृत्तरूपहिरण्यगर्भप्राप्तिहेत्त्वात्तस्य श्रेष्ठतेत्यर्थः ।

तस्य पुण्यश्रेष्ठत्वेऽपि प्रकृते किमायातं तदाह —

तस्य चेति ।

यदा क्रतुप्रधानस्याश्वमेधस्योपास्तिसहितस्यापि संसारफलत्वं तदाऽल्पीयसामग्निहोत्रादीनां संसारफलत्वं किंवाच्यमित्यस्मिन्कर्मराशौ बन्धहेतौ विरक्ताः साधनचतुष्टयविशिष्टा ज्ञानमपेक्षमाणास्तदुपाये श्रवणादावेव सर्वकर्मसंन्यासपूर्वके कथं प्रवर्तेरन्नित्याशयवती श्रुतिरुपासनां विद्यारम्भेऽभिदधाति । तेनोषा वा अश्वस्येत्याद्युपनिषदारम्भो युक्तोऽस्य विशिष्टाधिकारिसमर्पकत्वादित्यर्थः ।

उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —

तथा चेति ।

’अशनाया हि मृत्युः’ ’स वै नैव रेमे’ ’सोऽबिभे’दिति भयारत्यादिश्रवणादुपास्तियुक्तक्रतुफलस्य सूत्रस्य बन्धमध्यपातित्वाद्विशिष्टोऽपि क्रतुर्न मुक्तये पर्याप्नोतीत्यर्थः ।

उक्ते सर्वकर्मणां बन्धफलत्वे नित्यनैमित्तिकानां न तत्फलत्वं तेषां विध्युद्देशे फलाश्रुतेर्नष्टाश्वदग्धरथन्यायेन मुक्तिफलत्वलाभादिति शङ्कते —

न नित्यानामिति ।

’एतावान्वै काम’ इति सर्वकर्मणामविशेषेण फलसंबन्धश्रवणात्पश्वादेश्च काम्यफलत्वस्य तद्विध्युद्देशवशात्सिद्धत्वात् ’कर्मणापितृलोक’ इति वाक्यस्य नित्यादिकर्मफलविषयत्वान्न मोक्षफलत्वाशङ्केति परिहरति —

नेति ।

उक्तमेव स्फुटयति —

सर्वं हीति ।

पत्नीसंबन्धे मानमाह —

जायेति ।

तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —

एतावान्वै काम इति ।

कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —

पुत्रेति ।

अथैवं फलविभागे कथं समष्टिव्यष्टिप्राप्तिफलत्वमश्वमेधस्योक्तमत आह —

त्र्यन्नात्मकतां चेति ।

अस्याध्यायस्यावसाने कर्मफलस्य हिरण्यगर्भरूपतां त्रयमित्याद्या श्रुतिरुपसंहरिष्यतीत्यर्थः ।

उपसंहारश्रुतेस्तात्पर्यमाह —

सर्वकर्मणामिति ।

कर्मफलं संसारश्चेत्प्राक्तदनुष्ठानात्तदभावान्मुक्तानां पुनर्बन्धः स्यादित्याशङ्क्याऽऽह —

इदमेवेति ।

तर्हि तस्यामवस्थायामिति यावत् ।

तस्य पुनर्व्याकरणे कारणमाह —

तदेवेति ।

व्याकृताव्याकृतात्मनः संसारस्य प्रामाणिकत्वेन सत्यत्वमाशङ्क्याविद्याकृतत्वेन तन्मिथ्यात्वमुक्तं स्मारयति —

सोऽयमिति ।

स एव हि भ्रान्तिविषयो न प्रामाणिकस्तत्कुतोऽस्य सत्यतेत्यर्थः ।

कथमस्याऽऽत्मन्यद्वये कूटस्थे प्राप्तिरित्याशङ्क्याऽऽह —

क्रियेति ।

समारोपे मूलकारणमाह —

अविद्ययेति ।

आत्मन्यविद्यारोपितं द्वैतमित्यत्र ’द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’त्यादिवाक्यं प्रमाणयति —

मूर्तेति ।

नन्वात्मन्यारोपो नोपपद्यते तस्य नित्यशुद्धबुद्धमुक्तस्वभावस्य द्वैतविलक्षणत्वादसति सादृश्येऽध्यासासिद्धेरत आह —

अत इति ।

संसाराद्वैलक्षण्यमेव प्रकटयति —

अनामेति ।

आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।

आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —

अवभासत इति ।

आत्मन्यध्यासः सादृश्याद्यभावेऽपि नभसि मलिनत्वादिवद्यतोऽनुभूयतेऽतः सविलासाविद्यानिवर्तकब्रह्मविद्यार्थत्वेनोपनिषदारम्भः संभवतीत्युपसंहरति —

अत इति ।

एतावदित्यनर्थात्मत्वोक्तिः ।

तत्त्वज्ञानादज्ञाननिवृत्तौ दृष्टान्तमाह —

रज्ज्वामिवेति ।

एवमुपनिषदारम्भे स्थिते प्राथमिकब्राह्मणयोरवान्तरतात्पर्यमाह —

तत्र तावदिति ।

आद्यस्य पुनरवान्तरतात्पर्यं दर्शयति —

तत्रेति ।

नन्वश्वमेधस्याङ्गबाहुल्ये कस्मादश्वाख्याङ्गविषयमेवोपासनमुच्यते तत्राऽऽह —

प्राधान्यादिति ।

तदेव कथमिति तदाह —

प्राधान्यं चेति ।

प्रजापतिदेवताकत्वाच्चाश्वस्य प्राधान्यमित्याह —

प्राजापत्यत्वाच्चेति ।

प्रतीकमादाय व्याचष्टे —

उषा इत्यादिना ।

स्मारणार्थत्वमेव निपातस्य स्फुटयति —

प्रसिद्धमिति ।

शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।

उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —

प्राधान्यादिति ।

तथापि कथं तत्र तच्छब्दप्रयोगस्तत्राऽऽह —

शिरश्चेति ।

आश्वमेधिकाश्वशिरस्युषसो दृष्टिः कर्तव्येत्याह —

अश्वस्येति ।

कालादिदृष्टिरश्वाङ्गेषु किमिति क्षिप्यतेऽश्वाङ्गदृष्टिरेव तेषु किं न स्यादित्याशङ्क्याऽऽह —

कर्माङ्गस्येति ।

अङ्गेष्वनङ्गमतिक्षेपे हेत्वन्तरमाह —

प्राजापत्यत्वं चेति ।

अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —

प्रजापतीति ।

ननु कालादिदृष्ट्योऽश्वावयवेष्वारोप्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —

कालेति ।

कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा कालादिदृष्टिरश्वावयवेषु तस्य प्रजापतित्वकरणम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्यवत्तरत्वार्थं कालादिदृष्टीरश्वावयवेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशिरःप्रभृतिषु कालादिदृष्टिकरणेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।

चक्षुषि सूर्यदृष्टौ हेतुमाह —

शिरस इति ।

उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृष्टिर्युक्तेत्यर्थः ।

तत्रैव हेत्वन्तरमाह —

सूर्येति ।

“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽधिष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृष्टिरित्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।

अश्वस्य विदारिते मुखे भवत्वग्निदृष्टिस्तथाऽपि पर्यायोपादानं व्यर्थमित्याशङ्क्य क्रव्यादादिव्यावृत्त्यर्थं विशेषणमित्याह —

वैश्वानर इत्यग्नेरिति ।

“अग्निर्वाग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —

मुखस्येति ।

अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।

शरीरे संवत्सरदृष्टिरित्यत्राऽऽत्मत्वं हेतुमाह —

कालेति ।

आत्मा हस्तादीनामङ्गानामिति शेषः ।

कालावयवानां संवत्सरस्याऽऽत्मत्ववदङ्गानां शरीरस्याऽऽत्मत्वे प्रमाणमाह —

मध्यं हीति ।

पुनरुक्तेरर्थवत्त्वमाह —

अश्वस्येति ।

पृष्टे द्युलोकदृष्टौ हेतुमाह —

ऊर्ध्वत्वेति ।

उदरेऽन्तरिक्षदृष्टौ निमित्तमाह —

सुषिरत्वेति ।

पादा अस्यन्ते यस्मिन्निति व्युत्पत्तिमाश्रित्य विवक्षितमाह —

पादेति ।

अश्वस्य हि खुरे पादासनत्वसामान्यात्पृथिवीदृष्टिरित्यर्थः ।

पार्श्वयोर्दिक्चतुष्टयदृष्टौ हेतुमाह —

पार्श्वेनेति ।

द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —

पार्श्वयोरिति ।

यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षिणोत्तरयोस्तन्मुखत्वे च प्राक्प्रतीच्योर्दिशोस्ताभ्यां संबन्धसंभवात्तत्र तद्दृष्टिरविरुद्धेति परिहरति —

नेत्यादिना ।

तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वास्थिष्ववान्तरदिशामारोपे पार्श्वदिक्संबन्धो हेतुः ।

ऋतवः संवत्सरस्याङ्गानि हस्तादीनि च देहस्यावयवास्तस्मादृतुदृष्टिरङ्गेषु कर्तव्येत्याह —

ऋतव इति ।

अस्ति मासादीनां संवत्सरसन्धित्वमस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासादिदृष्टिरित्याह —

सन्धीति ।

युगसहस्राभ्यां प्राजापत्यमेकमहोरात्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टिघटिकाभिर्मानुषमिति भेदः ।

प्रतिष्ठाशब्दस्य पादविषयत्वं व्युत्पादयति —

प्रतितिष्ठतीति ।

पादेष्वहोरात्रदृष्टिसिद्ध्यर्थं युक्तिमुपपादयति —

अहोरात्रैरिति ।

अस्थिषु नक्षत्रदृष्टौ हेतुमाह —

शुक्लत्वेति ।

नभःशब्देनान्तरिक्षं किमिति न गृह्यते मुख्ये सत्युपचारायोगादित्याशङ्क्य पुनरुक्तिं परिहर्तुमित्याह —

अन्तरिक्षस्येति ।

उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेककर्तृत्वसामान्यान्मांसेषु मेधदृष्टिरित्याह —

उदकेति ।

अश्वजठरविपरिवर्तिन्यर्धजीर्णे सिकतादृष्टौ हेतुमाह —

विश्लिष्टेति ।

किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्यार्थातिक्रमः स्यात्तत्राह —

बहुवचनाच्चेति ।

चकारोऽवधारणार्थः । यद्यपि बहूक्त्या शिराभ्योऽर्थान्तरमपि गुदशब्दमर्हति तथाऽपि स्यन्दनसादृश्यात्तास्वेव सिन्धुदृष्टिरिति तासामिह ग्रहणमिति भावः ।

कुतो मांसखण्डयोर्द्वित्वमेकत्र बहुवचनाद्बहुत्वप्रतीतेरित्याशङ्क्य दारा इतिवद्बहूक्तेर्गतिमाह —

क्लोमान इति ।

तयोः पर्वतदृष्टौ हेतुद्वयमाह —

काठिन्यादित्यादिना ।

क्षुद्रत्वसाधर्म्यादोषधिदृष्टिर्लोमसु महत्त्वसामान्याद्वनस्पतिदृष्टिश्चाश्वकेशेषु कर्तव्येत्याह —

यथासंभवमिति  ।

पूर्वत्वसामान्यान्मध्याह्नात्प्रागवस्थादित्यदृष्टिरश्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —

उद्यन्नित्यादिना ।

अपरत्वसादृश्यादश्वस्य नाभेरपरार्धे मध्याह्नादनन्तरभाव्यादित्यदृष्टिःकार्येत्याह —

निम्लोचन्नित्यादिना ।

विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।

विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्योतनदृष्टिर्जृम्भणे कर्तव्येत्याह —

मुखेति ।

स्तनयतीति स्तनितमुच्यते तद्दृष्टिर्गात्रकम्पे कर्तव्येत्यत्र हेतुमाह —

गर्जनेति ।

मूत्रकरण वर्षणदृष्टौ कारणमाह —

सेचनेति ।

अश्वस्य हेषितशब्दे नास्त्यारोपणमित्यतो न सादृश्यं वक्तव्यमित्याह —

नात्रेति ॥१॥

अश्वावयवेषु कालादिदृष्टीर्विधायाश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —

अहरित्यादिना ।

ग्रहौ हवनीयद्रव्याधारौ पात्रविशेषावग्रतः पृष्ठतश्चेति संज्ञपनात्प्रागूर्ध्वं चेति यावत् ।

प्रसिद्धातावदहनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्यतस्तस्मिन्नहर्दृष्टिरिति दर्शनं विभजते —

अहरिति ।

अश्वसंज्ञपनात्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेदहर्दृष्ट्योपास्यते कथं सोऽश्वमन्वजायतेति पश्चादश्वस्य तज्जन्मवाचोयुक्तिरिति शङ्कते —

अहरश्वमिति ।

नायं पश्चादर्थोऽनुशब्दः किन्तु लक्षणार्थः ।

तथा चाश्वस्य प्रजापतिरूपत्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृत्तेरुपदेशादश्वमन्वजायतेत्यविरुद्धमिति परिहरति —

अश्वस्येति ।

तदेव स्फुटयति —

प्रजापतिरिति ।

काललोकदेवतात्मा प्रजापतिरश्वात्मना दृश्यमानोऽत्राहर्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्वमन्वजायतेति श्रुतिरविरुद्धेत्यर्थः ।

अनुशब्दो न पश्चाद्वाचीत्यत्र दृष्टान्तमाह —

वृक्षमिति ।

यदा वृक्षं लक्षयित्वा तस्याग्रे विद्युद्विद्योतते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽत्राप्यनुशब्दो न पश्चादर्थ इत्यर्थः ।

यत्र च स्थाने ग्रहः स्थाप्यते तत्पूर्वसमुद्रदृष्ट्या ध्येयमित्याह —

तस्येति ।

पूर्वत्रमत्र सादृश्यम् ।

कथं सप्तमी प्रथमार्थे योज्यते छन्दस्यर्थानुसारेण व्यत्ययसंभवादित्याह —

विभक्तीति ।

यथा सौवर्णे ग्रहेऽर्दृष्टिरुपदिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —

तथेति ।

अस्ति हि चन्द्रातपवत्त्वाद्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रिदर्शनमित्याह —

वर्णेति ।

रजतं सुवर्णाज्जघन्यमह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रिदृष्टिरित्याह —

जघन्येति ।

प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्संज्ञपनात्पश्चादस्य प्रवृत्तिं दर्शयति —

एनमिति ।

तदासादनस्थाने पश्चिमसमुद्रदृष्टिर्विधेयेत्यह —

तस्येति ।

कथमेतौ ग्रहौ महिमाख्यावुक्तौ महत्त्वोपेर्तत्वादित्याह —

महिमेति ।

अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —

अश्वस्येति ।

किमत्र नियामकमित्याशङ्क्य पुनरुक्तिरिति मत्वाऽऽह —

तावित्यादिना ।

वैशब्दार्थकथनम् —

एवेति ।

वाक्यशेषोऽप्यत्रानुगुणीभवतीत्याह —

तथा चेति ।

हयशब्दनिष्पत्तिपुरःसरं तदर्थमाह —

हय इति ।

वाज्यादिशब्दानां जातिविशेषवाचित्वादत्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —

जातीति ।

देवायनां देवत्वप्रापकत्वं कथमस्त्येत्याशङ्क्याह —

प्रजापतित्वादिति ।

अश्वं स्तोतुमारभ्य कल्पान्तरोक्त्या तन्निन्दावचनमनुचितमिति शङ्कते —

नन्विति ।

उपक्रमविरोधो नास्तीति परिहरति —

नेत्यादिना ।

समुत्पद्य भूतानि द्रवन्त्यस्मिन्निति व्युत्पत्त्या परमगम्भीरस्येश्वरस्य समुद्रशब्दतामाह —

परमात्मेति ।

तत्र योनित्वमुत्पादकत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः  ।

अथ परमात्मयोनित्वादिवचनमुपास्याश्वस्य क्वोपयुज्यते तत्राऽऽह —

एवमिति ।

श्रुत्यन्तरानुरोधेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —

अप्सुयोनिरिति ॥२॥

अश्वादिदर्शनोक्त्यनन्तरमग्निदर्शनं वक्तुं ब्राह्मणान्तरमवतारयति —

अथेति ।

नैवेहेत्यादौ तद्दृष्टिर्नास्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह —

अग्नेरिति ।

वायोरग्निरित्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मोक्तिरित्याह —

अश्वमेधेति ।

दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह —

तद्विषयेति ।

अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्यर्थमुपास्याग्निस्तुतिफला तदुत्पत्तिरिष्टा शुद्धजन्मत्वादुत्कृष्टत्वेनायमुपास्यो राजादिवदित्यर्थः ।

तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याचष्टे —

नैवेत्यादिना ।

नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः ।

अत्र शून्यवादी लब्धावकाशोऽविमृश्य परेष्टश्रुत्यवष्टम्भेन स्वपक्षमाह —

किमित्यादिना ।

कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह —

उत्पत्तेश्चेति ।

विमतं प्रागसदुत्पद्यमानत्वाद्यन्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः ।

हेत्वसिद्धिं शङ्क्तित्वोत्तरमाह —

उत्पद्यते हीति ।

घटग्रहणं कार्यमात्रस्योपलक्षणार्थम् ।

उक्तमनुमानं निगमयति —

अत इति ।

तत्र तार्किको ब्रूते —

नन्विति ।

यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानुमतिरित्यर्थः ।

कार्यस्यापि कथं प्रागसत्त्वोपपत्तिरित्याशङ्क्याऽऽह —

यन्नेति ।

एतेनानुमानस्य सिद्धसाध्यतोक्ता ।

कार्यवत्कारणप्स्यापि प्रागसत्त्वं किं न स्यादित्याशङ्क्योक्तहेत्वभावुन्मैवमित्याह —

नन्विति ।

शून्यवाद्याह —

न प्रागुत्पत्तेरिति ।

विमतं प्रागसद्योग्यत्वे सति तदाऽनुपलब्धत्वात्संमतवत् । न चासिद्धो हेतुः श्रुतेरनतिशङ्क्यत्वात् । तद्विरोधे सत्युपलब्धेराभासत्वादित्यर्थः ।

तदेव प्रपञ्चयति —

अनुपलब्धिश्चेदिति ।

कार्यवत्कारणस्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति —

नेत्यादिना ।

नैवेत्यादिश्रुतिरव्यक्तनामरूपादिविषया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्यशेषविरोधादित्यर्थः ।

श्रुतिं विवृणोति —

यदि हीति ।

द्वयोरसत्त्वे का वाचोयुक्तेरिनुपपत्तिस्तत्राऽऽह —

न हीति ।

मा तर्हि वाक्यमेव भूदित्याशङ्क्याऽऽह —

ब्रवीति चेति ।

मृत्युनेत्यादिवाक्यार्थमुपसंहरति —

तस्मादिति ।

श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् ।

परकीयेऽनुमाने श्रुतिविरोधमभिधायानुमनविरोधमाह —

अनुमेयत्वाच्चेति ।

कार्यकारणयोः सत्त्वस्यानुमेयतया तदसत्त्वमनुमातुमशक्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बलीयस्त्वादित्यर्थः ।

कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कारणसत्त्वमनुमिनोति —

अनुमीयते चेत्यादिना  ।

कार्यस्य सत्त्वेऽनुमानमाह —

कार्यस्य हीति ।

विमतं पूर्वं सत् कार्यत्वात्कुम्भवदित्यर्थः ।

नानुपमृद्य प्रादुर्भावादिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति —

घटादीति ।

न तावदसिद्धो घटः स्वकारणमुपमृद्नात्यसतोऽकारकत्वात्सिद्धस्य तूपमर्दकत्वेनासत्पूर्वकत्वमिति कुतः साध्यविकलतेत्याह —

नेति ।

किञ्चान्वयिद्रव्यमेव सर्वत्र कारणं न पिण्डाकारविशेषोऽनन्वयादनवस्थानाच्चेति कुतः साध्यवैकल्यमित्याह —

मृदादेरिति ।

तदेव स्फुटयति —

मृत्सुवर्णादीति ।

तत्रेति दृष्टान्तोक्तिः ।

किञ्चान्वयव्यतिक्रेकाभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटाद्युद्भावोपलम्भादित्याह —

तदभाव इति ।

तदेव स्फुटयति —

असत्यपीति ।

त्वन्मतेऽपि व्यतिरेकराहित्यं तुल्यमित्याशङ्क्याऽऽह —

असतीति ।

मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटाद्यनुत्पत्तिरित्याशङ्क्याऽऽह —

सर्वमिति ।

ब्रह्मणि त्वविद्यावशादुत्पत्तिरिति भावः ।

अन्वयिद्रव्यं पूर्वोत्पन्नस्वकार्यतिरोधानेन कार्यान्तरं जनयति चेत्कार्यतादात्म्येन स्वयमपि नश्येत्तत्रोत्तरकार्योत्पत्तिहेत्वभावादित्याशङ्क्याऽऽह —

न चेति ।

कार्यान्तरेऽप्यनुवृत्तिदर्शनात्कार्यान्तरात्मना भावाच्चेत्यर्थः ।

अन्वयिद्रव्यस्यैव कारणत्वे फलितमाह —

तस्मादिति ।

अन्वयिनो मृदादेर्मानाभावेनाभावान्न कारणतेति शङ्कते —

पिण्डादीति ।

तदेव चोद्यं विवृणोति —

पिण्डादीत्यादिना ।

मृद्घटः सुवर्णं कुण्डलमित्यादितादात्म्यप्रत्ययस्य पिण्डाद्यतिरिक्तमृदाद्याभावेऽनुपपत्तेरनुगतं मृदाद्युपेयमिति परिहरति —

नेति ।

किञ्च या पिण्डात्मना पूर्वेद्युर्मृदासीत्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धेस्तत्कारणत्वं दुरपह्नवमित्याह —

मृदादीति ।

यत्सत्तत्क्षणिकं यथा दीपः सन्तश्चेमे भावा इत्यनुमानात्सर्वार्थानां क्षणिकत्वसिद्धेरन्वयदृष्टिः सादृश्याद्भ्रान्तिरिति शङ्कते —

सादृश्यादिति ।

प्रत्यभिज्ञासिद्धस्थाय्यर्थविरुद्धं क्षणिकार्थबोधिलिङ्गमनुष्णतानुमानवन्न मानमिति दूषयति —

नेत्यादिना ।

सादृश्यादीत्यादिशब्देन प्रत्यभिज्ञाभ्रान्तित्वादि गृह्यते ।

प्रत्यक्षात्कारणैक्यं गम्यते । अनुमानात्तद्भेदः । अतो द्वयोर्विरुद्धत्वस्याव्यभिचारित्वान्नाध्यक्षेणानुमानबाधो वैपरीत्यसंभवादित्याशङ्क्याऽऽह —

नचेति ।

प्रत्यभिज्ञामुपजीव्यक्षणिकत्वानुमानाप्रवृत्तावप्युजीव्यतीयत्वात्तत्प्राबल्यादुपजीवकजातीयकमुक्तानुमानं दुर्बलं तद्बाध्यमित्यर्थः ।

प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्यन्तरसंवादादेव बुद्धीनां मानत्वस्य बौद्धैरिष्टत्वात् । न च बुद्ध्यन्तरं स्थाययित्वसाधकमस्तीति प्रत्यभिज्ञायमानस्यापि क्षणिकत्वमित्याशङ्क्याऽऽह —

सर्वत्रेति ।

प्रसंगमेव प्रकटयति —

यदि चेति ।

क्षणिकत्वादिबुद्धेरपि स्वार्थे स्वतो मानत्वाभावात्तादृग्बुद्ध्यन्तरापेक्षायां तस्यापि तथात्वेनानवस्थानाद्बुद्धेः स्वतःप्रामाण्यमुपेयम् । तथा च प्रत्यभिज्ञानं सर्वं तथैवाबाधादित्यर्थः ।

किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरूपानपह्नवात्तदिदम्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षणद्वयसंबन्धिनो द्रष्टुरभावादित्याह —

तदिदमिति ।

असति संबन्धे बुद्ध्योः सादृश्यात्तद्बुद्धिरिति शङ्क्यते —

सादृश्यादिति ।

तयोः स्वसंवेद्यत्वाद्ग्राहकान्तरस्य चाभावान्न सादृश्यसिद्धिरिति दूषयति —

न तदिदम्बुद्ध्योरिति ।

तथाऽपि किमिति सादृस्यासिद्धिरित्याशङ्क्याऽऽह —

असति चेति ।

सादृश्यासिद्धिमभ्युपेत्य शङ्कते —

असत्येवेति ।

यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः ।

तत्र बाह्यार्थवादिनं प्रत्याह —

न तदिदम्बुद्ध्योरिति ।

विज्ञानवाद्याह —

असदिति ।

तथा सत्यनालम्बनं क्षणिकविज्ञानमित्यस्यापि ज्ञानस्यातद्विषयतया विज्ञानवादासिद्धिरित्याह —

नेति ।

शून्यवाद्याह —

तदपीति ।

सर्वा धीरसद्विषयेत्येषा धीरसद्विषया स्यात्ततश्च सर्वबुद्धेरसद्विषयत्वासिद्धिरिति दूषयति —

नेत्यादिना ।

परपक्षासंभवात्तत्प्रत्यभिज्ञायाः स्थायिहेतुसिद्धौ दृष्टान्तस्य साध्यवैकल्यं परिहृत्यावान्तरप्रकृतमुपसंहरति —

तस्मादिति ।

संप्रति कारणसत्त्वानुमानं निगमयति —

अत इति ।

कार्यकारणयोर्द्वयोरपि प्रागुत्पत्तेः सत्त्वमनुमेयमिति प्रतिज्ञाय कारणास्तित्वं प्रपञ्चितमिदानीं कार्यास्तित्वानुमानं दर्शयति —

कार्यस्य चेति ।

प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः ।

प्रतिज्ञाभागं विभजते —

कार्यस्येति ।

हेतुभागमाक्षिपति —

कथमिति ।

अभिव्यक्तिर्लिङ्गमस्येति व्युत्पत्त्या कथमभिव्यक्तिलिङ्गत्वादिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽभिव्यक्तिर्लिङ्गमस्येति सिद्ध्यति तद्बलाच्च सत्त्वसिद्धिरित्यन्योन्याश्रयादित्यर्थः ।

संप्रतिपन्नयाऽभिव्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्नान्योन्याश्रयत्वमिति परिहरति —

अभिव्यक्तिरिति ।

कथं तर्हीहानुमानं प्रयोक्तव्यमित्याशङ्क्य प्रथमं व्याप्तिमाह —

यद्धीति ।

यदभिव्यज्यमानं तत्प्रागभिव्यक्तेरस्ति यथा तमोन्तःस्थं घटादीत्यर्थः ।

संप्रत्यनुमिनोति —

तथेति ।

विमतं प्रागभिव्यक्तेः सत् अभिव्यक्तिविषयत्वात् यद्ध्यभिव्यज्यते तत्प्राक्सत्संप्रतिपन्नवदित्यर्थः ।

ननु तमोन्तःस्थो घटोऽभिव्यञ्जकसामीप्यादभिव्यज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयोजकमित्याशङ्क्याऽऽह —

न हीति ।

उक्तेऽनुमाने कार्यस्य सदोपलब्धिप्रसंगं विपक्षे बाधकमाशङ्कते —

नेत्यादिना ।

उक्तानुमाननिषेधो नञर्थः । अविद्यमानत्वाभावादिति च्छेदः ।

अनुमाने बाधकोपन्यासं विवृणोति —

न हीति ।

वर्तमानवदतीतमागामि च घटादि सदेव चेदुपलब्धिसामग्र्यां सत्यां तद्वत्प्राग्जनेर्नाशाच्चोर्ध्वमुपलभ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरोधिकार्यान्तरोपलक्षणार्थम् । असन्निहिते सतीति च्छेदः ।

न तावद्विद्यमानत्वमात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटादेरभिव्यक्त्यनभिव्यक्त्योरुपलब्धत्वादिति समाधत्ते —

नेति ।

अभिव्यक्तिसामग्रीसत्त्वं त्वभिव्यक्तिसाधकं न तु सतस्तत्सामग्रीनियमोऽस्तीत्यभिप्रेत्याऽऽह —

द्विविधत्वादिति ।

उत्पन्नस्य कुड्याद्यावरणमनुत्पन्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रतिज्ञापूर्वकं साधयति —

घटादीति ।

यदोपलभ्यमानकारणावयवानां कार्यान्तराकारेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्यन्वयव्यतिरेकसिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्यावरकत्वमिति द्रष्टव्यम् ।

विशिष्टस्य कारणस्याऽऽवरकत्वसिद्धौ सिद्धमर्थमाह —

तस्मादिति ।

प्राक्कार्यास्तित्वे सिद्धे सदा तदुपलब्धिप्रसंगबाधकं निराकृत्य नष्टो घटो नास्तीत्यादिप्रयोगप्रत्ययभेदानुपपत्तिं बाधकान्तरमाशङ्क्याऽऽह —

नष्टेति ।

कपालादिना तिरोभावे नष्टव्यवहारः पिण्डाद्यावरणभङ्गेनाभिव्यक्तावुत्पन्नव्यवहारो दीपादिना तमोनिरासेनाभिव्यक्तौ भावव्यवहारः पिण्डादिना तिरोभावेऽभावव्यवहारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयोगप्रत्ययभेदसिद्धिरित्यर्थः ॥

पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते —

पिण्डेति ।

व्यतिरेक्यनुमानं विवृणोति —

तम इत्यादिना ।

अनुमानफलं निगमयति —

तस्मादिति ।

किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवैककारणत्वमिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति —

नेत्यादिना ।

क्षीरेण संकीर्णस्योदकादेराव्रियमाणस्येति यावत् ।

द्वितीयमुत्थापयति —

घटादीति ।

यस्येदं कार्यं तस्मिन्मृदात्मनि तेषामवस्थानात्तद्वत्तेषामनावरणत्वमित्यर्थः घटावस्थमृन्मात्रवृत्तिकपालादेर्घटानावरणत्वमिष्टमेवेति सिद्धसाध्यता ।

अव्यक्तघटावस्थमृद्वृत्तिकपालादेरनावरणत्वसाधने हेत्वसिद्धिर्घटस्य कपालादेश्चाऽऽश्रयमृदवयवभेदादिति दूषयति —

न, विभक्तानामिति ।

विद्यमानस्यैवाऽऽवृतत्वादनुपलब्धिश्चेदावरणतिरस्कारे यत्नः स्यान्न घटादेरुत्पत्तावतोऽनुभवविरोधः सत्कार्यवादिनः स्यादिति शङ्कते —

आवरणेति ।

तदेव प्रपञ्चयति —

पिण्डेति ।

यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्यभावान्नानुभवविरोधोऽस्तीति दूषयति —

नानियन्मादिति ।

अनियमं साधयति —

न हीति ।

तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽस्तीत्यत्र चोदयति —

सोऽपीति ।

अनुभवविरोधमाशङ्क्योक्तमेव व्यनक्ति —

दीपादीति ।

दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह —

तस्मिन्निति ।

तत्र हेतुमाह —

न हीति ।

अनुभवमनुसृत्य परिहरति —

नेत्यादिना ।

किमिदानीमावरणभङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह —

क्वचिदिति ।

अनियमं निगमयन्ननुभवविरोधाभावमुपसंहरति —

तस्मादिति ।

किञ्चाभिव्यञ्जकव्यापारे सति नियमेन घटो व्यज्यते तदभावे नेत्यन्वयव्यतिरेकावधारितो घटार्थः ।

कुलालादिव्यापारस्तस्यार्थवत्त्वार्थमभिव्यक्त्यर्थ एव प्रयत्नो वक्तव्यः आवरणभङ्गस्त्वार्थिक इत्याह —

नियमेति ।

उक्तं स्मारयन्नेतदेव विवृणोति —

कारण इत्यादिना ।

आवृत्तिभङ्गार्थे यत्ने यतो घटानुपलब्धिरतस्तदुपलब्ध्यर्थत्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह —

तस्मादिति ।

प्रकृतमभिव्यक्तिलिङ्गकमनुमानं निर्दोषत्वादादेयं मन्वानस्तत्फलमुपसंहरति —

तस्मात्प्रागिति ।

कार्यस्य सत्त्वे युक्त्यन्तरमाह —

अतीतेति ।

विमतं सदर्थं प्रमाणत्वात्संप्रतिपन्नवदित्यर्थः ।

तदेवानुमानं विशदयति —

अतीत इति ।

अत्रैवोपपत्त्यन्तरमाह —

अनागतेति ।

आगामिनि घटे तदर्थित्वेन लोके प्रवृत्तिर्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्यासद्विलक्षणतेत्यर्थः ।

किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्यक्षज्ञानमिष्टं तच्च विद्यमानोपलम्भनमतो घटस्य सदा सत्त्वमित्याह —

योगिनां चेति ।

ईश्वरसमुच्चयार्थश्चकारः । भविष्यद्ग्रहणमतीतोपलक्षणार्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् ।

प्रसंगस्येष्टत्वमाशङ्क्याऽऽह —

न चेति ।

अधिकबलं हि बाधकं न चानतिशयादैशादिज्ञानादधिकबलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मिथ्येत्यर्थः ।

तस्य सम्यक्त्वेऽपि पूर्वोत्तरकालयोरसद्घटविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —

घटेति ।

पूर्वोत्तरकालयोरिति शेषः ।

घटस्य प्रागसत्त्वाभावे हेत्वन्तरमाह —

विप्रतिषेधादिति ।

स हि कारकव्यापारदशायामसन्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थक्रियासामर्थ्यम् ? आद्ये व्याहतिं साधयति —

यदीति ।

घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्रागसत्त्वमुच्यते । कारकव्यापारावच्छिन्नेन हि कालेन घटस्य भविष्यत्त्वेनातीतत्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथाविधसत्त्वनिषेधे व्याहतिरतिव्यक्तेत्यर्थः ।

तामेवाभिनयति —

भविष्यन्निति ।

यो हि कारकव्यापारदशायां भविष्यत्त्वादिरूपेणास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽकारेणासत्त्वमर्थो भवति । तथा च घटो यदा येनाऽऽकारेणास्ति स तदा तेनाऽऽकारेण नास्तीति व्याहतिरित्यर्थः ।

द्वितीयमुत्थापयति —

अथेति ।

प्रागुत्पत्तेर्घटार्थं कुलालादिषु प्रवृत्तेषु सोऽसन्नित्यसच्छब्दार्थं स्वयमेव विवेचयति —

तत्रेत्यादिना ।

तत्र सिद्धान्ती ब्रूते —

न विरुध्यत इति ।

कथं पुनः सत्कार्यवादिनस्तदसत्त्वमविरुद्धमित्याह —

कस्मादिति ।

प्रागुत्पत्तेस्तुच्छव्यावृत्तिरूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदातनमनर्थक्रियासामर्थ्यं निषेधन्ननुमन्यते नाऽऽवयोर्विप्रतिपत्तिरित्यभिप्रेत्याऽऽह —

स्वेन हीति ।

ननु त्वन्मते सर्वस्य मृन्मात्रत्वाविशेषात्पिण्डादेर्वर्तमानता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्कर्यमाशङ्क्याऽऽह —

न हीति ।

व्यवहारदशायां यथाप्रतिभासमनिर्वाच्यसंस्थानभेदाश्रयणादित्यर्थः ।

प्रागवस्थायां घटस्यार्थक्रियासामर्थ्यलक्षणसत्त्वनिषेधे विरोधाभावमुपपादितमुपसंहरति —

तस्मादिति ।

उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भविष्यत्त्वादिरूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भविष्यत्त्वादिरूपं तत्त्वं निषिध्यते । अर्थक्रियासामर्थ्यस्यैव निषेधात्तन्न तद् विरोधावकाशोऽस्तीत्यर्थः ।

न हि पिण्डस्येत्यादिना साङ्कर्यसमाधिरुक्तस्तमिदानीं सर्वतन्त्रसिद्धान्ततया स्फुटयति —

न चेति ।

भविष्यत्त्वमतीतत्वं चेति शेषः ।

कार्यस्य प्रागुत्पत्तेर्नाशाच्चोर्ध्वमसत्त्वाभावे हेत्वन्तरमाह —

अपि चेति ।

तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति —

चतुर्विधानामिति ।

षष्ठी निर्धारणे ।

घटान्योन्याभावस्य घटादन्यत्वे तत्राप्यन्योन्याभावान्तराङ्गीकारादनवस्थेत्याशङ्क्याऽऽह —

दृष्ट इति ।

न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटादेस्ततोऽन्यत्वाद्घटान्योन्याभावस्यापि घटादन्यत्वसिद्धिरित्यर्थः ।

ननु घटाभावः पटादिरित्ययुक्तं विशेषणत्वेन घटस्यापि पटादावन्तर्भावप्रसंगादिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटादित्वाभावेऽपि न स्वातन्त्र्यमभावत्वविरोधात् । नापि तदन्योन्याभावः पटादेर्धर्मः संसर्गाभावान्तर्भावापातात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रतीत्यभावादित्यभिप्रेत्याऽऽह —

न घटस्वरूपमेवेति ।

यदि प्रतीतिमाश्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटादेर्भावस्याभावत्वविधानाद्व्याघात इत्याशङ्क्याऽऽह —

न चेति ।

स्वरूपपररूपाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घटतादात्म्याभावात्तदभावत्वं चेत्यव्याहतिरित्यर्थः ।

सिद्धे प्रतीत्यनुसारिणि दृष्टान्ते विवक्षितमनुमानमाह —

एवमिति ।

किं च तेषामभावानां घटाद्भिन्नत्वात्पटवदेव सत्त्वमेष्टव्यमित्यनुमानान्तरमाह —

तथेति ।

अनुमानफलं कथयति —

एवं चेति ।

तेषां घटादन्यत्वे तस्यानाद्यनन्तत्वमद्वयत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषामभावाभावान्न भावाभावयोर्मिथः संगतिरित्यर्थः ।

ननु प्रसिद्धोऽभावो भाववदशक्योऽपह्नोतुमिति चेत्स तर्हि घटस्य स्वरूपमर्थान्तरं वेति विकल्प्याऽऽद्यमनूद्य दूषयते —

अथेत्यादिना ।

प्रागभावादेर्घटत्वेऽपि संबन्धं कल्पयित्वा घटस्येत्युक्तिरिति शङ्कते —

अथेति ।

संबन्धस्य कल्पितत्वे संबन्धिनोऽप्यभावस्य तथात्वं स्यादिति दूषयति —

तथाऽपीति ।

यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहुशिरसोस्तथाऽत्रापि कल्पिते संबन्धे भेदस्य तथात्वाद्वास्तवत्त्वं संबन्धिनोरन्यतरस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः ।

कल्पान्तरमनुवदति —

अथेति ।

अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समाहितमेतदित्याह —

उक्तोत्तरमिति ।

असत्कार्यवादे दोषान्तरमाह —

किञ्चेति ।

स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागुत्पत्तेरसतः संबन्धस्तस्य सतोर्वृत्तेरित्यर्थः ।

युतसिद्धयो रज्जुघटयोर्मिथःसंयोगे पृथक्सिद्धिरपेक्ष्यतेऽयुतसिद्धानां परस्परपरिहारेण प्रतीत्यनर्हाणां कार्यकारणादीनां मिथोयोगे पृथक्सिद्ध्यभावो न दोषमावहतीति शङ्कते —

अयुतेति ।

परिहरति —

नेति ।

उक्तमेव स्फोरयति —

भावेति ।

व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छव्यावृत्तिमुपसम्हरति —

तस्मादिति ।

नैवेहेत्यत्र सर्वस्य प्रागुत्पत्तेरसत्त्वशङ्का मृत्युनेत्यादिवाक्यव्याख्यानेन निरस्ता ।

संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभवतीत्याक्षिपति —

किंलक्षणेनेति ।

अनभिव्यक्तनामरूपमध्यक्षाद्ययोग्यमपञ्चीकृतपञ्चमहाभूतावस्थातिरिक्तं मायारूपं साभासं मृत्युरित्युच्यते ।

न हि सर्वं कार्यमवान्तरकारणादुत्पत्तुमर्हतीत्यभिप्रेत्याह —

अत आहेति ।

कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूलकारणस्याशनायादिमत्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते —

कथमिति ।

मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्वसंहर्तृत्वान्मृत्युत्वे सति वाक्यशेषोपपत्तिरिति परिहरति —

उच्यत इति ।

प्रसिद्धमेव प्रकटयति —

यो हीति ।

तथापि प्रसिद्धं मृत्युं हित्वा कथं हिरण्यगर्भोपादानमत आह —

बुद्ध्यात्मना इति ।

उक्तं हेतुं कृत्वा फलितमाह —

इति स इति ।

ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्योपक्रमोपपत्तिरत आह —

तेनेति ।

ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुंसकप्रयोगस्तत्राऽऽह —

तदिति मनस इति ।

वाक्यार्थमधुना कथयति —

स प्रकृत इति ।

भूतसृष्ट्यतिरेकेण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति —

केनेति ।

अपञ्चीकृतानां भूतानां हिरण्यगर्भदेहभूतानां प्रागेवालब्धात्मकत्वात्तेभ्यो मनोव्यक्तिरविरुद्धेति मन्वानो ब्रूते —

उच्यत इति ।

स्वात्मवत्त्वस्य स्वाभाविकत्वान्न तदाशंसनीयमित्याशङ्क्य वाक्यार्थमाह —

अहमिति ।

मनसो व्यक्तस्योपयोगमाह —

स प्रजापतिरिति ।

ननु तैत्तिरीयकाणामाकाशादिसृष्टिरुच्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह —

अत्रेति ।

सप्तम्या हिरण्यगर्भकर्तृकसर्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् ।

नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबाद्येत्युदितानुदितहोमवद्विकल्पो भविष्यति । नेत्याह —

विकल्पेति ।

पुरुषतन्त्रत्वात्क्रियाया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टिर्विवक्षिता चेदाकाशाद्येव सा युक्ता विद्याप्रधानत्वात्तु नाऽऽदरः सृष्टाविति भावः ।

अपामादौ सृष्टिवचनमनुपयुक्तं न स्रष्टुस्ताभिरेव पूजा सिद्ध्यतीत्याशङ्क्याऽऽश्वमेधिकाग्नेरर्कनामसिद्ध्यर्थं तदुपयोगमुपन्यस्यति —

अर्चत इति ।

कोऽसौ हेतुरित्यपेक्षायामर्चतिपदावयवस्यार्कशब्देन संगतिरिति मन्वानः सन्नाह —

अर्कत्वमिति ।

एवं मृत्योरर्कत्वेऽपि कथमग्नेरर्कत्वमित्याशङ्क्य मृत्युसंबन्धादित्याह —

अग्नेरिति ।

किमर्थमग्नेरर्कनामनिर्वचनमित्याशङ्क्यापूर्वसंज्ञायोगस्य फलान्तराभावादुपासनार्थमित्याह —

अग्नेरिति ।

निर्वचनमेव स्फोरयति —

अर्चनादिति ।

फलवत्त्वाच्च यथोक्तनामवतोऽग्नेरुपास्तिरत्र विवक्षितेत्याह —

य एवमिति ॥१॥

अपामर्कत्वश्रवणान्नाग्नेरर्कत्वमिति शङ्कते —

कः पुनरिति ।

प्रकरणमाश्रित्य तासामर्कत्वमौपचारिकमित्युत्तरमाह —

उच्यत इति ।

तास्वन्तर्हिरण्मयमण्डं संबभूवेति श्रुतिमनुसरन्नुपचारे हेत्वन्तरमाह —

अप्सु चेति ।

मुख्यमर्कत्वमपां वारयति —

न पुनरिति ।

ननु ’श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमर्थविप्रकर्षात्’ इतिन्यायात्प्रकरणादापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केवलवाक्याद्बलवदित्याशयवानाह —

वक्ष्यति चेति ।

भूतान्तरसहितास्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति —

तदित्यादिना ।

अप्सु भूतान्तरसहितासूत्पन्नासु सतीष्विति सप्तम्यर्थः ।

शर इव शर इत्युक्तमेव व्याचष्टे —

दध्न इवेति ।

संघाते सहकारिकारणमाह —

तेजसेति ।

यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कारणस्योच्छूनत्ववाचिना पुंल्लिङ्गेनान्वयस्तत्राऽऽह —

लिङ्गव्यत्ययेनेति ।

उक्तानुपपत्तिद्योतनार्थो वाशब्दः ।

व्यत्ययेनान्वयमेवाभिनयति —

योऽपामिति ।

वाक्यतात्पर्यमाह —

ताभ्य इति ।

स्थूलप्रपञ्चात्मकविराजः सूक्ष्मप्रपञ्चात्मकसूत्रादुत्पत्तिं वक्तुं पातनिकामाह —

तस्यामिति ।

उक्तेऽर्थे लोकप्रसिद्धिमनुकूलयति —

सर्वो हीति ।

इदानीं विराडुत्पत्तिमुपदिशति —

किं तस्येत्यादिना ।

अग्निशब्दार्थं स्फुटयति —

सोऽण्डस्येति ।

तस्य प्रथमशरीरित्वे मानमाह —

स वा इति ॥२॥

विराजो ध्यानार्थमवच्छेदभेदमाह —

स चेति ।

कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —

स्वयमेवेति ।

कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —

कथमिति ।

मृदो घटशरावाद्यनेकरूपत्ववद्विराजो बहुरूपत्वं साधयति —

आहेत्यादिना ।

कथमग्निं तृतीयमित्यश्रुतं कल्प्यते तत्राऽऽह —

सामर्थ्यस्येति ।

वाय्वादित्ययोरिवाग्नेरपि संख्यापूरणत्वशक्तेरविशिष्टत्वादग्निं तृतीयमकुरुतेत्युपसंख्यायते स त्रेधाऽऽत्मानमिति चोपक्रमादित्यर्थः ।

ननु किमयं त्रेधाभावो विराट्स्वरूपोपमर्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —

स एष इति ।

यथा तन्त्ववस्थानुपमर्दनेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वतन्त्रेणानुगतेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो मायाविवदुपपत्तेरित्यर्थः ।

तस्य प्राचीत्यादेस्तात्पर्यमाह —

तस्येति ।

उक्तानि विशेषणानि प्रकरणाविच्छेदार्थमनूद्यन्ते ।

अग्निविषयं दर्शनमिदानीमुच्यते चेन्नैवेहेत्यादि पूर्वोक्तमनर्थकमित्याशङ्क्याऽऽह —

सर्वा हीति ।

स्तुतिमेवाभिनयति —

इत्थमिति ।

कर्माङ्गस्याग्नेः संस्कर्तव्यत्वाच्चित्याग्निशिरसि प्राचीदृष्टिः कर्तव्येत्याह —

तस्येति ।

आरोपे सादृश्यमाह —

विशिष्टत्वेति ।

शिरसोऽनन्तरभावित्वात्तद्बाह्वोरैशान्यादिदृष्टिमाह —

असौ चेति ।

कथमीर्मशब्दो बाहुवाचीत्याशङ्क्य तदुत्पत्तिमाह —

ईरयतेरिति ।

गत्यर्थयोगादीर्मशब्दो बाहुमधिकरोतीत्यर्थः ।

तत्पुच्छादिषु प्रतीच्यादिदृष्टीरध्यस्यति —

अथेत्यादिना ।

चित्यस्याग्नेः शिरसि बाह्वोः प्राच्यादिदृष्टिकरणानन्तरमित्यर्थः । सक्थिपदं पृष्ठनिष्ठोन्नतास्थिद्वयविषयम् । उभयशब्देन प्राचीप्रतीचीद्वयं गृह्यते ।

उरसि पृथिवीदृष्टिमाह —

इयमिति ।

उपास्यमग्निमुक्तमनुवदति —

स एष इति ।

तस्योपासनार्थमेवाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —

अग्निरिति ।

भूतान्तरसहितानामपां सर्वलोककारणत्वादशेषलोकात्मकोऽग्निस्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —

एवमिति ।

यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।

फलश्रुतिं व्याचष्टे —

यत्रेति ।

अथोपास्तिफलमपपुनर्मृत्युं जयतीत्यादिना वक्ष्यते ।

किमिदमस्थाने फलसंकीर्तनमत आह —

गुणेति ॥३॥

उत्तरग्रन्थमवतार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सोऽकामयतेत्यादिना ।

अवान्तरव्यापारमन्तरेण कर्तृत्वानुपपत्तिरिति मत्वा पृच्छति —

स किं व्यापार इति ।

कामनादिरूपमवान्तरव्यापारमुत्तरवाक्यावष्टम्भेन दर्शयति —

उच्यत इति ।

कामनाकार्यं मनःसंयोगमुपन्यस्यति —

स एवमिति ।

कोऽयं मनसा सह वाचो द्वन्द्वभावस्तत्राऽऽह —

मनसेति ।

वाक्यार्थमेव स्फुटयति —

त्रयीविहितमिति ।

वेदोक्तसृष्टिक्रमालोचनं प्रजापतेर्नेदं प्रथमं संसारस्यानादित्वादिति वक्तुमनुशब्दः ।

“सोऽकामयत” इत्यादौ सर्वनाम्नोऽव्यवहितविराड्विषयत्वमाशङ्क्य परिहरति —

कोऽसावित्यादिना ।

कथं तया मृत्युर्लक्ष्यते तत्राऽऽह —

अशनायेति ।

किमिति तर्हि पुनरुक्तिरित्याशङ्क्याऽऽह —

तमेवेति ।

अन्यत्रानन्तरप्रकृते विराडात्मनीति यावत् ।

अवान्तरव्यापारान्तरमाह —

तदित्यादिना ।

प्रसिद्धं रेतो व्यावर्तयति —

ज्ञानेति ।

ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रानधिकारादित्याशङ्क्याऽऽसीदित्यस्यार्थमाह —

जन्मान्तरेति ।

वाक्यस्यापेक्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति —

तद्भावेत्यादिना ।

ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजापतेस्तन्निर्माणेन तदात्मत्वमित्याशङ्क्योत्तरं वाक्यमुपादत्ते —

न ह पुरेति ।

तद्व्याचष्टे —

पूर्वमिति ।

प्रजापतेरादित्यात्मकत्वात्तदधीनत्वाच्च संवत्सरव्यवहारस्याऽऽदित्यात्पूर्वं तद्व्यवहारो नाऽऽसीदेवेत्यर्थः ।

कियन्तं कालमण्डरूपेण गर्भो बभूवेत्यपेक्षायामाह —

तमित्यादिना ।

अवान्तरव्यापारमनेकविधमभिधाय विराडुत्पत्तिमाकाङ्क्षाद्वारोपसंहरति —

यावानित्यादिना ।

केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टिस्तत्राऽऽह —

अण्डमिति ।

विराडुत्पत्तिमुक्त्वा शब्दमात्रस्य सृष्टिं विवक्षुर्भूमिकां करोति —

तमेवमिति ।

अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति —

अशनायावत्त्वादिति ।

विराजो भयकारणमाह —

स्वाभाविक्येति ।

इन्द्रियं देवतां च व्यावर्तयति —

वाक्शब्द इति ॥४॥

इदानीमृगादिसृष्टिमुपदेष्टुं पातनिकां करोति —

स इत्यादिना ।

ईक्षणप्रतिबन्धकसद्भावं दर्शयति —

अशनायावानपीति ।

अभिपूर्वो मन्यतिरिति ।

रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।

अन्नस्य कनीयस्त्वे का हानिरित्याशङ्क्याऽऽह —

बहु हीति ।

तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —

तद्भक्षणे हीति ।

तस्यान्नात्मकत्वात्तदुत्पादकत्वाच्चेति शेषः ।

कारणनिवृत्तौ कार्यनिवृत्तिरित्यत्र दृष्टान्तमाह —

बीजेति ।

यथोक्तेक्षणानन्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —

स एवमिति ।

ननु विराजः सृष्ट्या स्थावरजङ्गमात्मनो जगतः सृष्टेरुक्तत्वात्किं पुनरुक्त्येत्याशयेन पृष्ट्वा परिहरति —

किं तदिति ।

गायत्र्यादीनीत्यादिपदेनोष्णिगनुष्टुब्बृहतीपङ्क्तित्रिष्टुब्जगतीछन्दांस्युक्तानि ।

केवलानां छन्दसां सर्गासंभवात्तदारूढानामृग्यजुःसामात्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —

स्तोत्रेति ।

उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्यतेऽध्वर्युप्रभृतिभिश्च प्रयुज्यते तदप्यत्र ग्राह्यमित्यभिप्रेत्याऽदिपदम् (यजूंषि) । अत एव त्रिविधानित्युक्तम् । अजादयो ग्राम्याः पशवो गवयादयस्त्वारण्या इति भेदः । कर्मसाधनभूतानसृजतेति संबन्धः ।

स मनसा वाचं मिथुनं समभवदित्युक्तत्वात्प्रागेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —

नन्विति ।

व्यक्ताव्यक्तविभागेन परिहरति —

नेत्यादिना ।

इति मिथुनीभावसर्गयोरुपपत्तिरिति शेषः ।

अत्तृसर्गश्चान्नसर्गश्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजापतेर्गुणान्तरं निर्दिशति —

स प्रजापतिरित्यादिना ।

कथं मृत्योरदितिनामत्वं सिद्धवदुच्यते तत्राह —

तथा चेति ।

अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्योरदितिनामत्वं सूचितमिति भावः ।

मृत्योरदितित्वविज्ञानवतोऽवान्तरफलमाह —

सर्वस्येति ।

सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —

अन्यथेति ।

सर्वरूपेणावस्थानाभावे सर्वान्नभक्षणस्याशक्यत्वादित्यर्थः ।

विरोधमेव साधयति —

न हीति ।

फलस्योपासनाधीनत्वात्प्रजापतिमदितिनामानमात्मत्वेन ध्यायन्ध्येयात्मा भूत्वा तत्तद्रूपत्वमापन्नः सर्वस्यान्नस्यात्ता स्यादित्यर्थः ।

अन्नमन्नमेवास्य सदा न कदाचित्तदस्यात्तृ भवतीति वक्तुमनन्तरवाक्यमादत्ते —

सर्वमिति ।

अत एवेत्युक्तं व्यक्तीकरोति —

सर्वात्मनो हीति ॥५॥

उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्मणस्योचिता किमुत्तरग्रन्थेनेत्याशङ्क्य प्रतीकमादाय तात्पर्यमाह —

सोऽकामयतेत्यादिना ।

तदेवाश्वमेधस्याश्वमेधत्वमित्येतदन्तं वाक्यमिदमा निर्दिश्यते । भूयोदक्षिणाकत्वादश्वमेधस्य भूयस्त्वम् । इतिशब्दोऽकामयतेत्यनेन संबध्यते ।

कथं पुनस्तेन यक्ष्यमाणस्य प्रजापतेर्भूयःशब्दोक्तिः । न हि स पूर्वमश्वमेधमन्वतिष्ठत्कर्मानधिकारित्वात्तत्राऽऽह —

जन्मान्तरेति ।

तदेव स्पष्टयति —

स प्रजापतिरिति ।

अथातीते जन्मनि यजमानोऽश्वमेधस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृभेदाद्भूयःशब्दसामञ्जस्यमत आह —

स तद्भावेति ।

स प्रजापतिरश्वमेधवासनाविशिष्टो ज्ञानकर्मफलत्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृभोक्त्रोरैक्येन साधकफलावस्थयोर्यजमानसूत्रयोर्भेदाभावादित्यर्थः ।

प्रजापतिरीश्वरो न तस्य दुःखात्मकक्रत्वनुष्ठानेच्छा युक्तेत्याशङ्क्य प्रकृतिवशात्तदुपपत्तिमभिप्रेत्याऽऽह —

सोऽश्वमेधेति ।

कथमेतावता विवक्षितास्तुतिः सिद्धेत्याशङ्क्याऽऽह —

एवमिति ।

श्रमकार्यमाह —

स तप इति ।

चक्षुरादीनां यशस्त्वे हेतुमाह —

यशोहेतुत्वादिति ।

तदेव साधयति —

तेषु हीति ।

प्राणा एवेति तथाशब्दार्थः । सत्सु हि तेषु शरीरे बलं भवतीति पूर्ववदेव हेतुरुन्नेयः ।

उक्तमर्थं व्यतिरेकद्वारा स्फोरयति —

न हीति ।

प्राणानां यशस्त्वं वीर्यत्वं चोपसंहृत्य वाक्यार्थं निगमयति —

तदेवमिति ।

तत्प्राणेष्वित्यादि व्याचष्टे —

तदेवमित्यादिना ।

शरीरान्निर्गतस्य प्रजापतेर्मुक्तत्वमाशङ्क्याऽऽह —

तस्येति ॥६॥

सम्यग्ज्ञानाभावादासंगे सत्यपि न पुनस्तस्मिन्प्रवेशो युक्तः परित्यक्तपरिग्रहायोगादिति शङ्कते —

स तस्मिन्निति ।

अज्ञानवशात्परित्यक्तपरिग्रहोऽपि संभवतीत्याह —

उच्यत इति ।

वीतदेहस्य कामनाऽयुक्तेति शङ्कते —

कथमिति ।

सामर्थ्यातिशयादशरीरस्यापि प्रजापतेस्तदुपपत्तिरिति मन्वानो ब्रूते —

मेध्यमिति ।

कामनाफलमाह —

इति प्रविवेशेति ।

तथापि कथं प्रकृतनिरुक्तिसिद्धिरित्याशङ्क्याऽऽह —

यस्मादिति ।

यच्छब्दो यस्मादिति व्याख्यातः ।

देहस्याश्वत्वेऽपि कथं प्रजापतेस्तथात्वमित्याशङ्क्य तत्तादात्म्यादित्याह —

तत इति ।

अश्वस्य प्रजापतित्वेन स्तुतत्वात्तस्योपास्यत्वं फलतीति भावः ।

तथापि कथमश्वमेधनामनिर्वचनमित्याशङ्क्याऽऽह —

यस्माच्चेति ।

क्रतोस्तदात्मकस्य प्रजापतेरिति यावत् । देहो हि प्राणवियोगादश्वयत्पुनस्तत्प्रवेशाच्च मेधार्होऽभूदतः सोऽश्वमेधस्तत्तादात्म्यात्प्रजापतिरपि तथेत्यर्थः ।

ननु प्रजापतित्वेनाश्वमेधस्य स्तुतिर्नोपयोगिनी, अग्नेरुपास्यत्वेन प्रस्तुतत्वात्क्रतूपासनाभावादत आह —

क्रियेति ।

ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —

क्रतुनिर्वर्तकस्येति ।

उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।

अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —

तस्यैवेति ।

य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —

पूर्वत्रेति ।

यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।

तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —

एष इति ।

यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।

विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —

तस्मादिति ।

अश्वमेधो विशेष्यत्वेन संबध्यते ।

एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —

कथमिति ।

एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —

तत्रेत्यादिना ।

उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।

कथं नु पशुविषयं दर्शनं तद्दर्शयति —

तत्रेति ।

एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।

अथ विवक्षितविधिमभिदधाति —

यस्माच्चेति ।

प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —

अत एवेति ।

प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।

उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —

एष इति ।

द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।

विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —

कोऽसाविति ।

क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —

तस्यास्येति ।

आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।

क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —

तस्यैवेति ।

ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —

तस्य चेति ।

तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —

तथा चेति ।

तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।

अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —

ताविति ।

यथाविशेषितत्वमादित्यरूपत्वम् ।

कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —

क्रियात्मक इति ।

तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

क्रतुसाध्यत्वादिति ।

नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —

ताविति ।

क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।

एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —

का सेति ।

कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —

पूर्वमपीति ।

उक्तेऽर्थे वाक्योपक्रममनुकूलयति —

तथा चेति ।

पुनरित्यादेरर्थं निगमयति —

सा पुनरिति ।

ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —

यः पुनरिति ।

एकत्वमभिन्नत्वम् ॥७॥

ब्राह्मणान्तरमवतार्य तस्य पूर्वेण संबन्धाप्रतीतेर्न सोऽस्तीत्याक्षिपति —

द्वया हेत्याद्यस्येति ।

विवक्षितं संबन्धं वक्तुं वृत्तं कीर्तयति —

कर्मणामिति ।

सा काष्ठा सा परा गतिरिति श्रुतेरुक्ता परा गतिर्मुक्तिरित्याशङ्क्याऽऽह —

मृत्य्वात्मभाव इति ।

अश्वमेधोपासनस्य साश्वमेधस्य केवलस्य वा फलमुक्तं नोपास्त्यन्तराणां कर्मान्तराणां चेत्याशङ्क्याश्वमेधफलोक्त्योपास्त्यन्तराणां केवलानां समुच्चितानां च फलमुपलक्षितमित्याह —

अश्वमेधेति ।

वृत्तमनूद्योत्तरब्राह्मणस्य तात्पर्यमाह —

अथेति ।

ज्ञानयुक्तानां कर्मणां संसारफलत्वप्रदर्शनानन्तरमिति यावत् ।

ज्ञानकर्मणोरुद्भावकस्य प्राणस्य स्वरूपं निरूपयितुं ब्राह्मणमित्युत्थाप्योत्थापकत्वं संबन्धमुक्तमाक्षिपति —

नन्विति ।

मृत्युमतिक्रान्तो दीप्यत इति मृत्योरतिक्रमस्य वक्ष्यमाणज्ञानकर्मफलत्वात्पूर्वत्र च तद्भावस्य तत्फलस्योक्तत्वादुभयस्यापि फलस्य भेदात्पूर्वोत्तरयोर्ज्ञानकर्मणोर्विषयशब्दितोद्देश्यभेदान्न पूर्वोक्तयोस्तयोरुद्भवकारणप्रकाशनार्थं ब्राह्मणमित्यर्थः ।

पूर्वोत्तरज्ञानकर्मफलभेदाभावादेकविषयत्वात्तदुद्भावकप्रकाशनार्थं ब्राह्मणं युक्तमिति परिहरति —

नायमिति ।

वाक्यशेषविरोधं शङ्कित्वा दूषयति —

नन्वित्यादिना ।

स्वाभाविकः शास्त्रानाधेयो योऽयं पाप्मा विषयासंगरूपः स मृत्युस्तस्यातिक्रमणं वाक्यशेषे कथ्यते न हि हिरण्यगर्भाख्यमृत्योरतः पूर्वोक्तज्ञानकर्मभ्यां तुल्यविषयत्वमेवोत्तरज्ञानकर्मणोरित्यर्थः ।

ज्ञानकर्मणोरुद्भावकत्वं वक्तुं ब्राह्मणमारभ्यतामाख्यायिका तु किमर्थेत्याशङ्क्य तस्यास्तात्पर्यमाह —

कोऽसाविति ।

कथं यथोक्तो ब्राह्मणाख्यायिकयोरर्थः शक्यो ज्ञातुमित्याकाङ्क्षां निक्षिप्याक्षराणि व्याकरोति —

कथमित्यादिना ।

निपातार्थमेव स्फुटयति —

वर्तमानेति ।

प्रजापतिशब्दो भविष्यद्वृत्त्या यजमानं गोचरयतीत्याह —

वृत्तेति ।

इन्द्रादयो देवा विरोचनादयश्चासुरा इत्याशङ्कां वारयति —

तस्यैवेति ।

यजमानेषु प्राणेषु देवत्वमसुरत्वं च विरुद्धं न सिद्ध्यतीति शङ्कते —

कथमिति ।

तेषु तदुभयमौपाधिकं साधयति —

उच्यत इति ।

शास्त्रानपेक्षयोर्ज्ञानकर्मणोरुत्पादकमाह —

प्रत्यक्षेति ।

सन्निधानासंन्निधानाभ्यां प्रमाणद्वयोक्तिः । स्वेष्वेवासुषु रमणं नामाऽऽत्मम्भरित्वम् ।

तत इत्यादिवाक्यद्वयं व्याचष्टे —

यस्माच्चेति ।

देवानामल्पत्वं प्रपञ्चयति —

स्वाभाविकी हीति ।

महत्तरत्वे हेतुर्दृष्टप्रयोजनत्वादिति ।

असुराणां बहुत्वं प्रपञ्चयति —

शास्त्रजनितेति ।

असुराणां बाहुल्यमिति शेषः ।

तदेव साधयति —

अत्यन्तेति ।

उभयेषां देवासुराणां मिथः संघर्षं दर्शयति —

देवाश्चेति ।

कथं ब्रह्मादीनां स्थावरान्तानां भोगस्थानानां स्पर्धानिमित्तत्वमित्याशङ्क्य तेषां शास्त्रीयेतरज्ञानकर्मसाध्यत्वात्तयोश्च देवासुरजयाधीनत्वात्तस्य च स्पर्धापूर्वकत्वात्परम्परया लोकानां तन्निमित्तत्वमित्यभिप्रेत्य विशिनष्टि —

स्वाभाविकेति ।

का पुनरेषां स्पर्धा नामेत्याशङ्क्याऽऽह —

देवानां चेति ।

तामेव सफलां विवृणोति —

कदाचिदित्यादिना ।

अधिकृतैरसुरपराजये देवजये च प्रयतितव्यमित्यनुग्रहबुद्ध्या जयफलमाह —

एवमिति ।

आकाङ्क्षापूर्वकमनन्तरवाक्यमादाय व्याकरोति —

त एवमित्यादिना ।

योऽयमुद्गीथो नाम कर्माङ्गभूतः पदार्थस्तत्कर्तुः प्राणस्य स्वरूपाश्रयणमेव कथं सिद्ध्यतीत्याशङ्क्याऽऽह —

उद्गीथेति ।

किं तत्कर्म किं वा ज्ञानं तदाह —

कर्मेति ।

तदेतान्यसतो मा सद्गमयेत्यादीनि यजूंषि जपेदिति विधित्स्यमानमिति योजना ।

द्वया हेत्यादि न ज्ञाननिरूपणपरं जपविधिशेषत्वेनार्थवादत्वात्तत्कुतोऽत्र ज्ञानस्य निरूप्यमाणत्वमित्याक्षिपति —

नन्विति ।

आभिमुख्येनाऽऽरोहति देवभावमनेनेत्यभ्यारोहो मन्त्रजपस्तद्विधिशेषोऽर्थवादो द्वया हेत्यादिवाक्यमित्यर्थः ।

उपास्तिविधिश्रवणात्तत्परं वाक्यं न जपविधिशेष इति दूषयति —

नेति ।

मा भूज्जपविधिशेषस्तथाऽप्युद्गायेत्यौद्गात्रस्य कर्मणः सन्निधाने पुरातनकल्पनाप्रकारस्य द्वया हेत्यादिना श्रवणात्तद्विधिशेषोऽर्थवादोऽयमिति शङ्कते —

उद्गीथेति ।

नेदं वाक्यं ज्ञानं चोद्गीथविधिशेषस्तत्प्रकरणस्थत्वाभावेन सन्निध्यभावादिति दूषयति —

नाप्रकरणादिति ।

उद्गीथस्तर्हि क्व विधीयते न खल्वविहितमङ्गं भवति तत्राऽऽह —

उद्गीथस्य चेति ।

अन्यत्रेति कर्मकाण्डोक्तिः ।

अथोद्गायेत्युद्गीथविधिरपीह प्रतीयते तत्कथं सन्निधिरपोद्यते तत्राऽऽह —

विद्येति ।

उद्गीथविधिरिह प्रतीयमानः प्राणस्योद्गातृदृष्ट्योपासनविधिरन्यथा प्रकरणविरोधादित्यर्थः ।

जपविधिशेषत्वमुद्गीथविधिशेषत्वं वा ज्ञानस्य नास्तीत्युक्तम् । इदानीं जपविधिशेषत्वाभावे युक्त्यन्तरमाह —

अभ्यारोहेति ।

अनित्यत्वं साधयति —

एवमिति ।

प्राणविज्ञानवताऽनुष्ठेयो जपो न तद्विज्ञानात्प्रागस्ति । तेनासौ पश्चाद्भावी प्रागेव सिद्धं विज्ञानं प्रयोजयतीत्यर्थः ।

तस्यापि प्राचीनत्वं कथमित्याशङ्क्याऽऽह —

विज्ञानस्य चेति ।

’य एवं विद्वान्पौर्णमासीं यजत’ इतिवद्य एवं वेदेति विज्ञानं श्रुतम् । न हि प्रयाजादि पौर्णमासीप्रयोजकम् । तस्या एव तत्प्रयोजकत्वात् । तथा प्राणवित्प्रयोज्यो जपो न विज्ञानप्रयोजकः तस्य स्वप्रयोजकत्वेन प्रागेव सिद्धेरावश्यकत्वादित्यर्थः ।

फलवत्त्वाच्च प्राणविज्ञानं स्वतन्त्रं विधित्सितमित्याह —

तद्धेति ।

प्राणोपास्तेर्विवक्षितत्वे हेत्वन्तरमाह —

प्राणस्येति ।

’यद्धि स्तूयते तद्विधीयते’ इति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —

न हीति ।

इतश्च प्राणोपास्तिरत्र विधित्सितेत्याह —

मृत्युमिति ।

फलवचनं प्राणस्यानुपास्यत्वे नोपपद्यत इति संबन्धः ।

उक्तमेव व्यनक्ति —

प्राणेति ।

मृत्युमोक्षणानन्तरं वागादीनां यदग्न्यादित्वं फलं तदध्यात्मपरिच्छेदं हित्वोपासितुराधिदैविकप्राणस्वरूपापत्तेरुपपद्यते । तस्माद्विधित्सितैवात्र प्राणोपास्तिरित्यर्थः ।

उक्तन्यायेन प्राणोपास्तिमुपेत्य प्राणदेवतां शुद्ध्यादिगुणवतीमाक्षिपति —

भवत्विति ।

यथा प्राणस्योपास्तिः शास्त्रदृष्टत्वादिष्टा तथाऽस्य गुणसंबन्धः श्रुतत्वादेष्टव्य उपास्तावुपास्ये च गुणवति प्राणे प्रामाणिकत्वप्राप्तेरविशेषादिति सिद्धान्ती ब्रूते —

नन्विति ।

प्राणस्योपास्यत्वेऽपि विशुद्ध्यादिगुणवादस्य स्तुत्यर्थत्वेनार्थवादत्वसंभवान्न यथोक्ता देवता स्यादिति पूर्ववाद्याह —

न स्यादिति।

विशुद्ध्यादिगुणवादस्यार्थवादत्वेऽपि नाभूतार्थवादत्वमिति परिहरति —

नेति ।

विशुद्ध्यादिगुणविशिष्टप्राणदृष्टेरत्र फलप्राप्तिः श्रुता न सा ज्ञानस्य मिथ्यार्थत्वे युक्ता सम्यग्ज्ञानादेव पुमर्थप्राप्तेः संभवादतः स्तुतिरपि यथार्थैवेत्यर्थः ।

लोकदृष्टान्तं व्याचष्टे —

यो हीति ।

इहेति वेदाख्यदार्ष्टान्तिकोक्तिः ।

ननु विशुद्ध्यादिगुणवतीं देवतां वदन्ति वाक्यान्युपासनाविध्यर्थत्वान्न स्वार्थे प्रामाण्यं प्रतिपद्यन्ते तत्राऽह —

न चेति ।

अन्यपराणामपि वाक्यानां मानान्तरसम्वादविसम्वादयोरसतोः स्वार्थे प्रामाण्यमनुभवानुसारिभिरेष्टव्यमित्यर्थः ।

ननु प्राणस्य विशुद्ध्यादिवादो न स्वार्थे मानमन्यपरत्वादादित्ययूपादिवाक्यवदता आह —

न चेति ।

आदित्ययूपादिवाक्यार्थज्ञानस्य प्रत्यक्षादिनाऽपवादवद्विशुद्ध्यादिगुणविज्ञानस्य नापवादः श्रुतस्तस्माद्विशुद्ध्यादिवादस्य स्वार्थे मानत्वमप्रत्यूहमित्यर्थः ।

विशुद्ध्यादिगुणकप्राणविज्ञानात्फलश्रवणात्तद्वादस्य यथार्थत्वमेवेत्युपसंहरति —

तत इति ।

लोकवद्वेदेऽपि सम्यग्ज्ञानादिष्टप्राप्तिरनिष्टपरिहारश्चेत्यन्वयमुखेनोक्तमर्थं व्यतिरेकमुखेनापि समर्थयते —

विपर्यये चेत्यादिना ।

शास्त्रस्यानर्थार्थत्वमिष्टमिति शङ्कां निराचष्टे —

न चेति ।

अपौरुषेयस्यासंभावितसर्वदोषस्याशेषपुरुषार्थहेतोः शास्त्रस्यानर्थार्थत्वमेष्टुमशक्यमित्यर्थः ।

शास्त्रस्य यथाभूतार्थत्वं निगमयति —

तस्मादिति ।

उपासनार्थं ज्ञानार्थं चेति शेषः ।

शास्त्राद्यथार्थप्रतिपत्तेः श्रेयःप्राप्तिरित्यत्र व्यभिचारं चोदयति —

नामादाविति ।

तदेव स्फुटयति —

स्फुटमिति ।

अब्रह्मणि ब्रह्मदृष्टिरतस्मिंस्तद्बुद्धित्वान्मिथ्या धीः सा च यावन्नाम्नो गतमित्यादिश्रुत्या फलवती ततः शास्त्राद्यथार्थप्रतिपत्तेरेव फलमित्ययुक्तमित्यर्थः ।

भेदाग्रहपूर्वकोऽन्यस्यान्यात्मतावभासो मिथ्याज्ञानमत्र तु भेदे भासमानेऽन्यत्रान्यदृष्टिर्विधीयते । यथा विष्णोर्भेदे प्रतिमायां गृह्यमाणे तत्र विष्णुदृष्टिः क्रियते तन्नेदं मिथ्याज्ञानमित्याह —

नेति ।

नञर्थं स्पष्टयति —

नामादाविति ।

प्रश्नपूर्वकं हेतुं व्याचष्टे —

कस्मादिति ।

प्रतिमायां विष्णुदृष्टिं प्रत्यालम्बनत्वमेव न विष्णुतादात्म्यं नामादेस्तु ब्रह्मतादात्म्यं श्रुतमिति वैषम्यमाशङ्क्यऽऽह —

आलम्बनत्वेनेति ।

उक्तमर्थं वैधर्म्यदृष्टान्तेन स्पष्टयति —

यथेति ।

कर्ममीमांसको ब्रह्मविद्वेषं प्रकटयन्प्रत्यवतिष्ठते —

ब्रह्मेति ।

केवला तद्दृष्टिरेव नाम्नि चोद्यते चोदनावशाच्च फलं सेत्स्यति ब्रह्म तु नास्ति मानाभावादित्यर्थः ।

अथ यथा देवानां प्रतिमादिषूपास्यमानानामन्यत्र सत्त्वं यथा च वस्वाद्यात्मनां पितृणां ब्राह्मणादिदेहे तर्प्यमाणानामन्यत्र सत्त्वं तथा ब्रह्मणोऽपि नामादावुपास्यत्वादन्यत्र सत्त्वं भविष्यतीत्याशङ्क्याऽऽह —

एतेनेति ।

नामादौ ब्रह्मदर्शनेनेति यावत् । दृष्टान्तासिद्धेर्न क्वापि ब्रह्मास्तीति भावः ।

सत्यज्ञानादिलक्षणं ब्रह्म नास्तीत्ययुक्तम् ’सदेव सोम्येदम्’ इत्यादिश्रुतेरित्याह —

नेति ।

किं च ब्रह्मदृष्टिः सत्यार्था शास्त्रीयदृष्टित्वादियमेवर्गग्निः सामेतिदृष्टिवदित्याह —

ऋगादिष्विति ।

तदेवं स्पष्टयति —

विद्यमानेति ।

ताभिर्दृष्टिभिः सामान्यं दृष्टित्वं तस्मादिति यावत् ।

यत्तु दृष्टान्तासिद्धिरिति तत्राऽऽह —

एतेनेति ।

ब्रह्मदृष्टेः सत्यार्थत्ववचनेनेति यावत् ।

ब्रह्मास्तित्वे हेत्वन्तरमाह —

मुख्यापेक्षत्वादिति ।

उक्तमेव विवृणोति —

पञ्चेति ।

पञ्चाग्नयो द्युपर्जन्यपृथिवीपुरुषयोषितः । आदिपदं वाग्धेन्वादिग्रहार्थम् ।

ननु वेदान्तवेद्यं ब्रह्मेष्यते न च तेभ्यस्तद्धीः सिद्ध्यति तेषां विधिवैधुर्येणाप्रामाण्यात्तत्कुतो ब्रह्मसिद्धिरत आह —

क्रियार्थैश्चेति ।

विमतं स्वार्थे प्रमाणमज्ञातज्ञापकत्वात्सम्मतवत् । अतो वेदान्तशास्त्रादेव ब्रह्मसिद्धिरित्यर्थः ।

सिद्धसाध्यर्थभेदेन वैषम्यादविशिष्टत्वमनिष्टमित्याशङ्क्योक्तं विवृणोति —

यथा चेति ।

विशिष्टत्वं स्वरूपोपकारित्वं फलोपकारित्वं च । पञ्चमोक्तं प्रकारं पराम्रष्टुमेवमित्यादिष्टम् ।

अलौकिकत्वं साधयति —

प्रत्यक्षादीति ।

किञ्च वेदान्तानामप्रामाण्यं बुद्ध्यनुत्पत्तेर्वा संशयाद्युत्पत्तेर्वा ? नाऽऽद्य इत्याह —

न चेति ।

न द्वितीय इत्याह —

न चानिश्चितेति ।

कोटिद्वयास्पर्शित्वादबाधाच्चेत्यर्थः ।

क्रियार्थैर्वाक्यैर्विद्यार्थानां वाक्यानां साधर्म्यमुक्तमाक्षिपति —

अनुष्ठेयेति ।

साधर्म्यस्यायुक्तत्वमेव व्यनक्ति —

क्रियार्थैरिति ।

वाक्योत्थबुद्धेर्यथार्थत्वाद्विध्यभावेऽपि वाक्यप्रामाण्यमज्ञातज्ञापकत्वेनाविरुद्धमिति परिहरति —

न ज्ञानस्येति ।

अनुष्ठेयनिष्ठत्वमन्तरेण कुतो वस्तुनि प्रयोगप्रत्यययोस्तथार्थत्वमित्याशङ्क्य तयोर्विषयतया तथार्थत्वं तदपेक्षस्वप्रामाण्यार्थत्वं वेति विकल्प्याऽऽद्यं दूषयति —

न हीति ।

तदुभयविषयस्य कर्तव्यार्थस्य तथात्वं न कर्तव्यत्वापेक्षं किन्तु मानगम्यत्वादन्यथा विप्रलम्भकविधिवाक्येऽपि तथात्वापत्तेरित्यर्थः ।

द्वितीयं प्रत्याह —

न चेति ।

बुद्धिग्रहणं प्रयोगोपलक्षणार्थम् । कर्तव्यतार्थविषयप्रयोगादेर्नानुष्ठेयविषयत्वान्मानत्वं किन्तु प्रमाकरणत्वात्तज्जन्यत्वाच्चान्यथोक्तातिप्रसक्तितादवस्थ्यादतोऽनुष्ठेयनिष्ठत्वं मानत्वेऽनुपयुक्तमित्यर्थः ।

कुतस्तर्हि कार्याकार्यधियावित्याशङ्क्याऽऽह —

वेदेति ।

वैदिकस्यार्थस्याबाधेन तथार्थत्वे सिद्धे समीहितसाधनत्वविशिष्टं चेद्वस्तु तदा कर्तव्यमिति धियाऽनुतिष्ठति । तच्चेदनिष्टसाधनत्वविशिष्टं तदा न कार्यमिति धिया नानुतिष्ठति । अतो मानात्तस्यानुष्ठानाननुष्ठानहेतू कार्याकार्यधियावित्यर्थः ।

तथाऽपि ब्रह्मणो वाक्यार्थत्वं पदार्थत्वं वा ? नाऽऽद्य इत्याह —

अननुष्ठेययत्व इति ।

तस्याकार्यत्वेऽपि वाक्यार्थत्वं किं न स्यादित्याशङ्क्याह —

न हीति ।

उभयत्रासतीतिच्छेदः ।

द्वितीयं दूषयति —

पदार्थत्वे चेति ।

ब्रह्मणः शास्त्रार्थत्वमेतदित्युच्यते कार्यास्पृष्टेऽर्थे वाक्यप्रामाण्यं दृष्टान्तेन साधयति —

नेत्यादिना ।

शुक्लकृष्णलोहितमिश्रलक्षणं वर्णचतुष्टयं तद्विशिष्टो मेरुरस्तीत्यादिप्रयोगे मेर्वादावकार्येऽपि सम्यग्धीदर्शनात्तत्त्वमसिवाक्यादपि कार्यास्पृष्टे ब्रह्मणि सम्यग्ज्ञानसिद्धिरित्यर्थः ।

दृष्टान्तेऽपि कार्यधीरेव वाक्यादुदेतीत्याशङ्क्याऽऽह —

न चेति ।

ननु तत्र क्रियापदाधीना पदसंहतिर्युक्ता वेदान्तेषु पुनस्तदभावात्पदसंहत्ययोगात्कुतो वाक्यप्रमाणत्वं ब्रह्मणः संभवति तत्राऽऽह —

तथेति ।

विमतमफलं सिद्धार्थज्ञानत्वात्सम्मतवदित्यनुमानात्तत्त्वमादेः सिद्धार्थस्यायुक्तं मानत्वमिति शङ्कते —

मेर्वादीति ।

श्रुतिविरोधेनानुमानं धुनीते —

नेत्यादिना ।

विद्वदनुभवविरोधाच्च नैवमित्याह —

संसारेति ।

फलश्रुतेरर्थवादत्वेनामानत्वादनुमानबाधकतेत्याशङ्क्याऽऽह —

अनन्येति ।

पर्णमयीत्वाधिकरणन्यायेन जुह्वाः फलश्रुतेरर्थवादत्वं युक्तम् । ब्रह्मधियोऽन्यशेषत्वप्रापकाभावात्तत्फलश्रुतेरर्थवादत्वासिद्धिरिति । अन्यथा शारीरकानारम्भः स्यादित्यर्थः ।

श्रुत्यनुभवाभ्यां वाक्योत्थज्ञानस्य फलवत्त्वदृष्टेर्युक्ता कार्यास्पृष्टे स्वार्थे तत्त्वमस्यादेर्मानतेत्युक्तं संप्रति शास्त्रस्य कार्यपरत्वानियमे हेत्वन्तरमाह —

प्रतिषिद्धेति ।

यद्यपि कलञ्जभक्षणादेरधःपातस्य च संबन्धो न कलञ्जं भक्षयेदित्यादिवाक्यात्प्रतीयते तथाऽपि तस्यानुष्ठेयत्वाद्वाक्यस्यानुष्ठेयनिष्ठत्वसिद्धिरित्याशङ्क्याऽऽह —

न चेति ।

संबन्धस्याभावार्थत्वान्नानुष्ठेयतेत्यर्थः ।

अभक्षणादि कार्यमिति विधिपरत्वमेव निषेधवाक्यस्य किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

तस्यापि कार्यार्थत्वे विधिनिषेधभेदभङ्गान्नञश्च स्वसंबन्ध्यभावबोधने मुख्यस्यार्थान्तरे वृत्तौ लक्षणापातान्निषिद्धविषये रागादिना प्रवृत्तक्रियावतो निषेधशास्त्रार्थधीसंस्कृतस्य निषेधश्रुतेरकरणात्प्रसक्तक्रियानिवृत्त्युपलक्षितादौदासीन्यादन्यदनुष्ठेयं न प्रतिभातीत्यर्थः ।

भावविषयं कर्तव्यत्वं विधीनामर्थोऽभावविषयं तु निषेधानामिति विशेषमाशङ्क्याऽह —

अकर्तव्यतेति ।

अभावस्य भावार्थत्वाभावात्कर्तव्यताविषयत्वासिद्धिरिति हिशब्दार्थः ।

प्रतिषेधज्ञानवतोऽपि कलञ्जभक्षणादिज्ञानदर्शनात्तन्निवृत्तेर्नियोगाधीनत्वात्तन्निष्ठमेव वाक्यमेष्टव्यमिति चेन्नेत्याह —

क्षुधार्तस्येति ।

विषलिप्तबाणहतस्य पशोर्मांसं कलञ्जं ब्रह्मवधाद्यभिशापयुक्तस्यान्नपानाद्यभोज्यं तस्मिन्नभक्ष्येऽभोज्ये च प्राप्ते यद्भ्रमज्ञानं क्षुत्क्षामस्योत्पन्नं तन्निषेधधीसंस्कृतस्य तद्धीस्मृत्या बाध्यमित्यत्र लौकिकदृष्टान्तमाह —

मृगतृष्णिकायामिति ।

तथाऽपि प्रवृत्त्यभावसिद्धये विधिरर्थ्यतामिति चेन्नेत्याह —

तस्मिन्निति ।

तदभावः प्रवृत्त्यभावो न विधिजन्यप्रयत्नसाध्यो निमित्ताभावेनैव सिद्धेरित्यर्थः ।

दृष्टान्तमुपसंहरति —

तस्मादिति ।

दार्ष्टान्तिकमाह —

तथेति ।

न केवलं तत्त्वमस्यादिवाक्यानां सिद्धवस्तुमात्रपर्यवसानता किन्तु सर्वकर्मनिवर्तकत्वमपि सिद्ध्यतीत्याह —

तथेति ।

अकर्त्रभोक्तृब्रह्माहमितिज्ञानसंस्कृतस्य प्रवृत्तीनामभावः स्यादिति संबन्धः । अस्माद्ब्रह्मभावाद्विपरीतोऽर्थो यस्य कर्तृत्वादिज्ञानस्य तन्निमित्तानामनर्थार्थत्वेन ज्ञायमानत्वादिति हेतुः ।

कदा पुनस्तासामभावः स्यादत आह —

परमात्मादीति ।

भ्रान्तिप्राप्तभक्षणादिनिरासेन निवृत्तिनिष्ठतया निषेधवाक्यस्य मानत्ववत्तत्त्वमादेरपि प्रत्यगज्ञानोत्थकर्तृत्वादिनिवर्तकत्वेन मानत्वोपपत्तिरिति समुदायार्थः ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमाशङ्कते —

नन्विति ।

तस्य निषिद्धत्वादनर्थार्थत्वमेव यद्वस्तुयाथात्म्यं तज्ज्ञानेन निषेधे कृते तत्संस्करद्वारा संपादितस्मृत्या शास्त्रीयज्ञानेन विपरीतज्ञाने बाधिते तत्कार्यप्रवृत्त्यभावो निमित्ताभावे नैमित्तिकाभावन्यायेन युक्तो न तथाऽग्निहोत्रादिप्रवृत्त्यभावो युक्तः । ब्रह्मविदाऽग्निहोत्रादि न कर्तव्यमिति निषेधानुपलम्भादित्यर्थः ।

तत्त्वमस्यादिवाक्येनार्थान्निषिद्धमग्निहोत्रादीति मन्वानः साम्यमाह —

नेत्यादिना ।

शास्त्रीयप्रवृत्तीनां गर्भवासादिहेतुत्वादनर्थार्थत्वमहं कर्तेत्याद्यभिमानकृतत्वेन विपरीतज्ञाननिमित्तत्वम् ।

एतदेव दृष्टान्तावष्टम्भेन स्पष्टयति —

कलञ्जेति ।

काम्यानामज्ञानहेतुत्वानर्थार्थत्वाभ्यां विदुषस्तेषु प्रवृत्त्यभावो युक्तो नित्यानां तु शास्त्रमात्रप्रयुक्तानुष्ठानत्वान्नाज्ञानकृतत्वं प्रत्यवायाख्यानर्थध्वंसित्वाच्च नानर्थकरत्वमतस्तेषु प्रवृत्त्यभावो युक्तो न भवतीति शङ्कते —

नन्विति ।

नित्यानां शास्त्रमात्रकृतानुष्ठानत्वमसिद्धमिति परिहरति —

नेत्यादिना ।

तदेव प्रपञ्चयति —

यथेति ।

अविद्यादीत्यादिशब्देनास्मितादिक्लेशचतुष्टयोक्तिः । तैरविद्यादिभिर्जनितेष्टप्राप्तौ तादृगनिष्टप्राप्तौ च क्रमेण रागद्वेषवतः पुरुषस्येष्टप्राप्तिमनिष्टपरिहारं च वाञ्छतस्ताभ्यामेव रागद्वेषाभ्यामिष्टं मे भूयादनिष्टं मा भूदित्यविशेषकामनाभिः प्रेरिताविशेषप्रवृत्तियुक्तस्य नित्यानि विधीयन्ते । स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यानि । तुल्यं तूभयेषां केवलशास्त्रनिमित्तत्वमित्यर्थः ।

किं च काम्यानां दुष्टत्वं ब्रुवता नित्यानामपि तदिष्टमुत्पत्तिविनियोगप्रयोगाधिकारविधिरूपे विशेषाभावादित्याह —

न चेति ।

कथं तर्हि काम्यनित्यविभागस्तत्राऽऽह —

कर्तृगतेनेति ।

स्वर्गकामः पशुकाम इति विशेषार्थिनः काम्यविधिरिष्टं मे स्यादनिष्टं मा भूदित्यविशेषकामप्रेरिताविशेषितप्रवृत्तिमतो नित्यविधिरित्युक्तमित्यर्थः ।

नन्वविद्यादिदोषवतो नित्यानि कर्माणीत्ययुक्तं परमात्मज्ञानवतोऽपि यावज्जीवश्रुतेस्तेषामनुष्ठेयत्वादित्याशङ्क्य श्रुतेरविरक्तविषयत्वान्मैवमित्याह —

न परमात्मेति ।

“योगारूढस्य तस्यैव शमः कारणमुच्यते” इति स्मृतेर्ज्ञानपरिपाके कारणं कर्मोपशम एव प्रतीयते न तथा कर्मविधिरित्यर्थः ।

न केवलं विहितं नोपलभ्यते न संभवति चेत्याह —

कर्मनिमित्तेति ।

यदा नासि त्वं संसारी किन्त्वकर्त्रभोक्तृ ब्रह्मासीति श्रुत्या ज्ञाप्यते तदा देवतायाः संप्रदानत्वं करणत्वं व्रीह्यादेरित्येतत् सर्वमुपमृदितं भवति । तत्कथमकर्त्रादिज्ञानवतः संभवति कर्मविधिरित्यर्थः ।

उपमृदितमपि वासनावशादुद्भविष्यति । ततश्च विदुषोऽपि कर्मविधिः स्यादित्याशङ्क्याऽऽह —

न चेति ।

वासनावशादुद्भूतस्याऽऽभासत्वादात्मस्मृत्या पुनः पुनर्बाधाच्च विदुषो न कर्मप्रवृत्तिरित्यर्थः ।

किञ्चानवच्छिन्नं ब्रह्मास्मीति स्मरतस्तदात्मकस्य देशादिसापेक्षं कर्म निरवकाशमित्याह —

नहीति ।

विदुषो भिक्षाटनादिवत्कर्मावसरः स्यादिति शङ्कते —

भोजनादीति ।

अपरोक्षज्ञानवतो वा परोक्षज्ञानवतो वा भोजनादिप्रवृत्तिः ? नाऽऽद्यः । अनभ्युपगमात्तत्प्रवृत्तेर्बाधितानुवृत्तिमात्रत्वादग्निहोत्रादेरबाधिताभिमाननिमित्तस्य तथात्वानुपपत्तेरित्यभिप्रेत्याऽऽह —

नेति ।

न द्वितीयः । परोक्षज्ञानिनः शास्त्रानपेक्षक्षुत्पिपासादिदोषकृतत्वात्तत्प्रवृत्तेरिष्टत्वादित्याह —

अविद्यादीति ।

अग्निहोत्राद्यपि तथा स्यादिति चेन्नेत्याह —

न त्विति ।

भोजनादिप्रवृत्तेरावश्यकत्वानुपपत्तिं विवृणोति —

केवलेति ।

न तु तथेत्यादि प्रपञ्चयति —

शास्त्रनिमित्तेति ।

तर्हि शास्त्रविहितकालाद्यपेक्षत्वान्नित्यानामदोषप्रभवत्वं भवेदित्याशङ्क्याऽऽह —

दोषेति ।

एवं दोषकृतत्वेऽपि नित्यानां शास्त्रसापेक्षत्वात्कालाद्यपेक्षत्वमविरुद्धमित्याह —

एवमिति ।

भोजनादेर्दोषकृतत्वेऽपि ’चातुर्वर्ण्यं चरेद्भैक्षं’ ’यतीनां तु चतुर्गुणम्’ इत्यादिनियमवद्विदुषोऽग्निहोत्रादिनियमोऽपि स्यादिति शङ्कते —

तद्भोजनादीति ।

विदुषो नास्ति भोजनादिनियमोऽतिक्रान्तविधित्वात् । न चैतावता यथेष्टचेष्टापत्तिः अधर्माधीनाऽविवेककृता हि सा । न च तौ विदुषो विद्येते अतोऽविद्यावस्थायामप्यसतीः यथेष्टचेष्टा विद्यादशायां कुतः स्यात् । संस्कारस्याप्यभावात् ।

बाधितानुवृत्तेश्च । अग्निहोत्रादेस्त्वनाभासत्वान्न बाधितानुवृत्तिरित्याह —

नेति ।

किञ्चाविदुषां विविदिषूणामेव नियमः । तेषां विधिनिषेधगोचरत्वात् । न च तेषामप्येष ज्ञानोदयपरिपन्थी । तस्यान्यनिवृत्तिरूपस्य स्वयङ्क्रियात्वाभावात् ।

नापि स क्रियामाक्षिपन्ब्रह्मविद्यां प्रतिक्षिपति । अन्यनिवृत्त्यात्मनस्तदाक्षेपकत्वासिद्धेरित्याह —

नियमस्येति ।

कर्मसु रागादिमतोऽधिकाराद्विरक्तस्य ज्ञानाधिकाराज्ञानिनो हेत्वभावादेव कर्माभावात्तस्य भोजनाद्यतुल्यात्वात्तत्त्वमादेः सर्वव्यापारोपरमात्मकज्ञानहेतोर्निवर्तकत्वेन प्रामाण्यं प्रतिपादितमुपसम्हरति —

तस्मादिति ।

तस्य विधिरुत्पादकं वाक्यम् । तस्य निषेधवाक्यवत्तत्त्वज्ञानहेतोस्तद्विरोधिमिथ्याज्ञानध्वंसित्वादशेषव्यापारनिवर्तकत्वेन कूटस्थवस्तुनिष्ठस्य युक्तं प्रामाण्यम् । मिथ्याज्ञानध्वंसे हेत्वभावे फलाभावन्यायेन सर्वकर्मनिवृत्तेरित्यर्थः ।

तत्पदोपात्तं हेतुमेव स्पष्टयति —

कर्मप्रवृत्तीति ।

यथा प्रतिषेध्ये भक्षणादौ प्रतिषेधशास्त्रवशात्प्रवृत्त्यभावस्तथा तत्त्वमस्यादिवाक्यसामर्थ्यात्कर्मस्वपि प्रवृत्त्यभावस्य तुल्यत्वात्प्रामाण्यमपि तुल्यमित्यर्थः ।

प्रतिषेधशास्त्रसाम्ये तत्त्वमस्यादिशास्त्रस्योच्यमाने तथैव निवृत्तिनिष्ठत्वं स्यान्न वस्तुप्रतिपादकत्वमित्याशङ्क्याऽऽह —

तस्मादिति ।

प्रतिषेधो हि प्रसक्तक्रियां निवर्तयंस्तदुपलक्षितौदासीन्यात्मके वस्तुनि पर्यवस्यति । तथा तत्त्वमस्यादिवाक्यस्यापि वस्तुप्रतिपादकत्वमविरुद्धमित्यर्थः । वेदान्तानां सिद्धे प्रामाण्यवदर्थवादादीनामन्यपराणामपि संवादविसंवादयोरभावे स्वार्थे मानत्वसिद्धौ सिद्धा विशुद्ध्यादिगुणवती प्राणदेवतेति चकारार्थः ॥१॥

ज्ञानमिह परीक्ष्यमाणमित्येतत्प्रसंगागतं विचारं परिसमाप्य ते ह वाचमित्यादि व्याचष्टे —

ते देवा इति ।

अचेतनाया वाचो नियोज्यत्वं वारयति —

वागभिमानिनीमिति ।

नियोक्तॄणां देवानामभिप्रायमाह —

वाग्देवतेति ।

नन्वौद्गात्रं कर्म जपमन्त्रप्रकाश्या देवता निर्वर्तयिष्यति न तु वाग्देवतेति तत्राऽऽह —

तामेवेति ।

असतो मा सद्गमयेति जपमन्त्राभिधेयां दृष्टवन्त इति पूर्वेण संबन्धः —

वागाद्याश्रयं कर्तृत्वादि दर्शयतोऽर्थवादस्य प्रासंगिकं तात्पर्यमाह —

अत्र चेति ।

आत्माश्रये कर्तृत्वादाववभासमाने तस्य वागाद्याश्रयत्वमयुक्तमित्याह —

कस्मादिति ।

परस्य जीवस्य वा कर्तृत्वादि विवक्षितमिति विकल्प्याऽऽद्यं दूषयति —

यस्मादिति ।

विचारदशायां वागादिसंघातस्य क्रियादिशक्तिमत्त्वात्कर्तृत्वादिस्तदाश्रयो यस्मात्प्रतीतस्तस्मात्परस्याऽऽत्मनः स्वतस्तच्छक्तिशून्यस्य न तदाश्रयत्वमित्यर्थः ।

किञ्चाविद्याश्रयः सर्वो व्यवहारो न तद्धीने परस्मिन्नवतरतीत्याह —

तद्विषय इति ।

“कर्ता शास्त्रार्थवत्त्वात्” इति न्यायेन कर्तृत्वमात्मनोऽङ्गीकर्तव्यमित्याशङ्क्य “’यथा च तक्षोभयथा’ इति न्यायादौपाधिकं तस्मिन्कर्तृत्वमित्यभिप्रेत्याऽऽह —

वक्ष्यति हीति ।

यदुक्तमविद्याविषयः सर्वो व्यवहार इति तत्र वाक्यशेषमनुकूलयति —

इहापीति ।

इतश्च परस्मिन्नात्मनि कर्तृत्वादिव्यवहारो नास्तीत्याह —

अव्याकृतात्त्विति ।

अनामरूपकर्मात्मकमित्यस्मादुपरिष्टात्तत्पदमध्याहर्तव्यं पृथगविद्याविषयात्क्रियाकारकफलजातादिति शेषः ।

मा भूत्परमात्मा कर्तृत्वाद्याश्रयो जीवस्तु स्यादिति द्वितीयमाशङ्क्याऽऽह —

यस्त्विति ।

जीवशब्दवाच्यस्य विशिष्टस्य कल्पितत्वान्न तात्त्विकं कर्तृत्वादिकं किन्तु तद्द्वारा स्वरूपे समारोपितमिति भावः ।

आत्मनि तात्त्विककर्तृत्वाद्यभावे फलितमर्थवादतात्पर्यमुपसम्हरति —

तस्मादिति ।

तात्पर्यमर्थवादस्योक्त्वा नियुक्तया वाग्देवतया यत्कृतं तदुपन्यस्यति —

तथेत्यादिना ।

उद्गातृत्वं जपमन्त्रप्रकाश्यत्वं चाऽऽत्मनोऽङ्गीकृत्य वागुद्गाने प्रवृत्ता चेत्तया कश्चिदुपकारो देवानामुद्गानेन निर्वर्तनीयः स च नास्तीति शङ्कते —

कः पुनरिति ।

वदनादिव्यापारे सति यः सुखविशेषसंघात्स निष्पद्यते स एव कार्यविशेष इत्याह —

उच्यत इति ।

यो वाचीति प्रतीकमादाय व्याख्यायते कथं पुनर्वाचो वचनं चक्षुषो दर्शनमित्यादिना निष्पन्नं फलं सर्वसाधारणमित्याशङ्क्यानुभवमनुसृत्याऽऽह —

सर्वेषामिति ।

किञ्च देवार्थमुद्गायन्त्या वाचः स्वार्थमपि किञ्चिदुद्गानमस्ति । तथा च ज्योतिष्टोमे द्वादश स्तोत्राणि तत्र त्रिषु पवमानाख्येषु स्तोत्रेषु याजमानं फलमुद्गानेन कृत्वा शिष्टेषु नवसु स्तोत्रेषु यत्कल्याणवदनसामर्थ्यं तदात्मने स्वार्थमेवाऽऽगायदित्याह —

तं भोगमिति ।

ऋत्विजां क्रीतत्वान्न फलसंबन्धः संभवतीत्याशङ्क्याऽऽह —

वाचनिकमिति ।

’अथाऽऽत्मनेऽन्नाद्यमागायत्’ इति श्रुतमित्यर्थः ।

कल्याणवदनसामर्थ्यस्य स्वार्थत्वं समर्थयते —

तद्धीति ।

कल्याणवदनं वाचोऽसाधारणं चेत्कस्तर्हि यो वाचीत्यादेर्विषयस्तत्राऽऽह —

यत्त्विति ।

वाग्देवतायामसुराणामवकाशं दर्शयति —

तत्रेति ।

स्वार्थे परार्थे चोद्गाने सतीति यावत् । कल्याणवदनस्याऽऽत्मना वाचैव संबन्धे योऽयमासंगोऽभिनिवेशः स एवावसरो देवतायास्तमवसरं प्राप्येत्यर्थः ।

अवसरमेव व्याकरोति —

रन्ध्रमिति ।

अस्मानतीत्येति संबन्धः ।

कोऽसावसुरात्ययस्तं व्याचष्टे —

स्वाभाविकमिति ।

तत्रोपायमुपन्यस्यति —

शास्त्रेति ।

असुरानभिभूय केनात्मना देवाः स्थास्यन्तीति विवक्षायामाह —

ज्योतिषेति ।

प्रजापतेर्वाचि पाप्मा क्षिप्तोऽसुरैरिति कुतोऽवगम्यते तत्राऽऽह —

स यः स पाप्मेति ।

प्रतिषिद्धवदनमेव पाप्मेत्ययुक्तमदृष्टस्य क्रियातिरिक्तत्वाङ्गीकारादित्याशङ्क्याऽऽह —

येनेति ।

असभ्यं सभानर्हं स्त्रीवर्णनादि । बीभत्सं भयानकं प्रेतादिवर्णनम् । अनृतमयथादृष्टवचनम् । आदिशब्दात्पिशुनत्वं गृह्यते ।

किमत्र प्रजापतेर्वाचि पाप्मसत्त्वे मानमुक्तं भवतीत्याशङ्क्य स एव स पाप्मेति व्याकरोति —

अनेनेति ।

प्राजापत्यासु प्रजासु प्रतिपन्नेनासत्यवदनादिना लिङ्गेन तद्वाचि पाप्माऽनुमीयते । विमतं कारणपूर्वकं कार्यत्वाद्घटवत् । न च प्रजागतं दुरितं प्राजापत्यं तद्विना हेत्वन्तरादेव स्यात्कारणानुविधायित्वात्कार्यस्य । न च तत्कारणेऽपि परस्मिन्प्रसंगः ’अपापविद्धम्’ इति श्रुतेः । न च ’न ह वै देवान्पापं गच्छति’ इति श्रुतेर्न सूत्रेऽपि पापवेधस्तस्य फलावस्थस्यापापत्वेऽपि यजमानावस्थस्य तद्भावादित्यर्थः । आद्यसकाराभ्यां कारणस्थं पाप्मानमनूद्य तस्यैव कार्यस्थत्वमुच्यते । उत्तराभ्यां तु कार्यस्थं पाप्मानमनूद्य तस्यैव कारणस्थत्वमिति विभागम् ॥२॥

वाग्देवताया जपमन्त्रप्रकाश्यत्वमुपास्यत्वञ्च नेति निर्धार्यावशिष्टपर्यायचतुष्टयस्य तात्पर्यमाह —

तथैवेति ।

परीक्षाफलनिर्णयमाह —

देवानाञ्चेति ।

अनुपास्यत्वे हीत्वन्तरमाह —

इतरेति ।

इतरः कार्यकरणसंघातस्तस्मिन्नव्यापकत्वं परिच्छिन्नत्वमतश्चानुपास्यत्वं जपमन्त्राप्रकाश्यत्वञ्चेत्यर्थः ।

उक्तैरिन्द्रियैरनुक्तेन्द्रियाण्युपलक्षणीयानीति विवक्षित्वोपसम्हरति —

एवमिति ।

वागादिवत्त्वगादिषु कल्पकाभावान्न पाप्मवेधोऽस्तीत्याशङ्क्याऽऽह —

कल्याणेति ।

पाप्मभिरुपासृजन्पाप्मनाऽविध्यन्नित्यनयोरस्ति पौनरुक्त्यमित्याशङ्क्य व्याख्यानव्याख्येयभावान्नैवमित्याह —

इति यदुक्तमिति ॥३ –४ –५ –६॥

संप्रति मुख्यप्राणस्य मन्त्रप्रकाश्यत्वमुपास्यत्वं च वक्तुमुत्तरवाक्यमुपादाय व्याकरोति —

वागादीति ।

क्रमेणोपासीना इति संबन्धः वागादिषु नैराश्यानान्तर्यमथशब्दार्थः ।

विवक्षितार्थज्ञापकोऽसाधारणो देहतदवयवव्यापारोऽभिनयः । दोषासंसर्गिणं दोषेण संसृष्टं कर्तृमिच्छा कुतो जातेत्याशङ्क्याऽऽह —

स्वेनेति ।

तदभ्यासानुवृत्त्या तस्य पाप्मसंसर्गकरणस्याभ्यासवशादिति यावत् ।

उक्तमर्थं दृष्टान्तेन स्पष्टयति —

कथमित्यादिना ।

असुरनाशेनाऽऽसंगजनितपाप्मवियोगे हेतुमाह —

असंसर्गेति ।

वक्ष्यमाणं सोऽग्निरभवदित्यादिनेति शेषः ।

वागादीनां स्थितानां नष्टानां च कुतोऽग्न्यादिरूपत्वमित्याशङ्क्याह —

पूर्वमपीति ।

न तर्हि तेषां परिच्छेदाभिमानः स्यादित्याशङ्क्याऽऽह —

स्वाभाविकेनेति ।

परिच्छेदाभिमानादग्न्याद्यात्माभिमानस्य बलवत्त्वं सूचयति —

शास्त्रेति ।

न केवलमत्रोक्तानामेवासुराणामसंसर्गधर्मिप्राणाश्रयाद्विनाशः किन्तु तत्तुल्यजातीयानामपीत्यभिप्रेत्याऽऽह —

किञ्चेति ।

वागादीनामग्न्यादिभावापत्तिवचनेन तत्संहतस्य यजमानस्य देवताप्राप्तिरासुरपाप्मध्वंसश्च फलमित्युक्तं तत्र पूर्वकल्पीययजमानस्यातिशयशालित्वाद्यथोक्तफलवत्त्वेऽपि नेदानीन्तनस्यैवमित्याशङ्क्य भवतीत्यादिश्रुतिमवतारयति —

यथेति ।

पूर्वकल्पनाप्रकारेण पूर्वजन्मस्थो यजमानः शास्त्रप्रकाशितं वर्तमानप्रजापतित्वं प्रतिपन्नो यथेति संबन्धः । पूर्वयजमान इत्यस्य व्याख्या अतिक्रान्तकालिक इति ।

पुराकल्पमेव दर्शयति —

एतामिति ।

तेनेति श्रुत्युक्तेनेत्येतत् । तेनैव विधिना श्रुतिप्रकाशितेन क्रमेण मुख्यं प्राणमात्मत्वेनोपगम्येति शेषः ।

सपत्नो भ्रातृव्यस्तस्य द्विषन्निति कुतो विशेषणमर्थसिद्धत्वाद्द्वेषस्येत्याशङ्क्याऽऽह —

यत इति ।

तस्य द्वेष्टृत्वनियमे हेतुमाह —

पारमार्थिकेति ।

अपरिछिन्नदेवतात्वमत्र पारमार्थिकमात्मस्वरूपं विवक्षितं तत्तिरस्करणकारणत्वादुक्तपाप्मनो विशेषणमर्थवदिति शेषः ।

’यदाग्नेयोऽष्टाकपाल’ इतिवद् ’य एवं वेदे’ति प्रसिद्धार्थोपबन्धेऽपि विधिपरं वाक्यमतश्चैवं विद्यादिति विवक्षितमित्यभिप्रेत्याऽऽह —

यथोक्तमिति ॥७॥

फलवत्प्रधानोपास्तेरुक्तत्वात्ते होचुरित्याद्युत्तरवाक्यं गुणोपास्तिपरमित्याह —

फलमिति ।

फलवन्तं प्रधानविधिमुक्त्वा संप्रत्याख्यायिकामेवाऽऽश्रित्य गुणविशिष्टं प्राणोपासनमाहानन्तरश्रुतिरित्यर्थः ।

शङ्कोत्तरत्वेन चोत्तरग्रन्थमवतारयति —

कस्माच्चेति ।

विशुद्धत्वस्योक्तत्वाद्धेत्वन्तरं जिज्ञास्यमिति द्योतयितुं चशब्दः । करणानां कार्यस्य तदवयवानां च प्राणो यस्मादात्मा व्यापकस्तस्मात्स एवाश्रयितव्य इत्युपपत्तिनिरूपणार्थं तस्य व्यापकत्वमित्येतमर्थमाख्यायिकया दर्शयन्ती श्रुतिर्हेत्वन्तरमाहेति योजना । तच्छब्दस्तस्मादर्थे ।

प्राणस्याऽऽत्मत्वादि व्यक्तीकर्तुमाख्यायिकाश्रुतिं विभजते —

ते प्रजापतीति ।

वागादयश्चेत्प्राणमाश्रित्य फलावस्थास्तर्हि किमति प्राणं स्मरन्ति प्राप्तफलत्वादित्याशङ्क्याऽऽह —

स्मरन्ति हीति ।

विचारफलमुपलब्धिं कथयति —

लोकवदिति ।

तामेवोपलब्धिमाकाङ्क्षाद्वारेण विवृणोति —

कथमिति ।

दृष्टान्तं स्पष्टयति —

सर्वो हीति ।

तथा देवा विचार्य प्राणमास्यान्तराकाशस्थं निर्धारितवन्त इत्याह —

तथेति ।

किमनया कथया सिद्धमित्याशङ्क्याऽऽह —

यस्मादिति ।

उपलब्धिसिद्धेऽर्थे युक्तिं समुच्चिनोति —

विशेषेति ।

सर्वानेव वागादीनविशेषेणाग्न्यादिभावेन प्राणः संजितवान् । न चामध्यस्थः साधारणं कार्यं निर्वर्तयति । अतो युक्तितोऽप्ययमास्यान्तराकाशे वर्तमानः सिद्ध इत्यर्थः ।

अयास्यत्ववदाङ्गिरसत्वं गुणान्तरं दर्शयति —

अत एवेति ।

सर्वसाधारणत्वादेवेति यावत् ।

तथाऽपि कुतोऽस्याङ्गिरसत्वं साधारणेऽपि नभसि तदनुपलब्धेरित्याशङ्क्य परिहरति —

कथमित्यादिना ।

अङ्गेषु चरमधातोः सारत्वप्रसिद्धेर्न प्राणस्य तथात्वमिति शङ्कित्वा समाधत्ते —

कथं पुनरित्यादिना ।

कस्माच्च हेतोरित्यादिचोद्यपरिहारमुपसम्हरति —

यस्माच्चेति ।

वाक्यार्थं प्रपञ्चयति —

आत्मा हीति ॥८॥

प्राणस्य शुद्धत्वाद्व्यापकत्वाच्चोपास्यत्वमुक्तं तस्य शुद्धत्वं वागादिवदसिद्धमित्याशङ्कते —

स्यान्मतमिति ।

शङ्कामाक्षिप्य समाधत्ते —

नन्वित्यादिना ।

शवेन स्पृष्टिर्यस्यास्ति तेन स्पृष्टेऽपरस्तस्याशुद्धवागादिसंबन्धादशुद्धत्वाशङ्का प्राणस्योन्मिषतीत्यर्थः ।

तात्पर्यं दर्शयन्नुत्तरवाक्यमुत्तरत्वेनावतारयति —

आहेति ।

नन्वत्र प्राणो वोच्यते स्त्रीलिङ्गेनार्थान्तरोक्तिप्रतीतेरित्याशङ्क्याऽऽह —

यं प्राणमिति ।

तस्यामूर्तस्य परोक्षत्वादपरोक्षवाची च कथमेतच्छब्दो युज्यते तत्राऽऽह —

सैवेति ।

कथं प्राणे देवताशब्दो न हि तस्य तच्छब्दत्वं प्रसिद्धमित्याशङ्क्याऽऽह —

देवता चेति ।

यागे हि देवता कारकत्वेन गुणभूता प्रसिद्धा । तथा प्राणोऽपि द्रव्याद्यन्यत्वे सति विहितक्रियागुणत्वाद्देवतेत्यर्थः ।

प्राणोपास्तेर्द्विविधं फलं पापहानिर्देवताभावश्च तत्र पापहानेरेव प्रधानफलस्यात्र श्रवणाद्दुर्गुणविशिष्टप्राणोपास्तिरिह विवक्षितेति वाक्यार्थमाह —

यस्मादिति ।

न तावत्प्राणदेवताया दूर्नामत्वं निरूढं तत्र तच्छब्दप्रसिद्धेरदर्शनान्नापि यौगिकं प्राणस्य प्रत्यग्वृत्तेर्दूरत्वाभावादित्याक्षिपति —

कुतः पुनरिति ।

परिहरति —

आहेति ।

कथं पाप्मसन्निधौ वर्तमानस्य ततो दूरत्वमित्याशङ्क्याऽऽह —

असंश्लेषेति ।

उपास्ते सदा भावयतीति यावत् ।

ब्रह्मज्ञानादिव प्राणतत्त्वज्ञानात्फलसिद्धिसंभवे किं सदा तद्भावनयेत्याशङ्क्य भावनापर्यायोपासनशब्दार्थमाह —

उपासनं नामेति ।

दीर्घकालादरनैरन्तर्यरूपविशेषणत्रयं विवक्षित्वाऽऽह —

लौकिकेति ।

तस्य मर्यादां दर्शयति —

यावदिति ।

मनुष्योऽहमितिवद्देवोऽहमिति यस्य जीवत एवाभिमानाभिव्यक्तिस्तस्यैव देहपातादूर्ध्वं तद्भावः फलतीत्यत्र प्रमाणमाह —

देवो भूत्वेति ।

का देवता रूपं तवेति किन्देवतोऽसीति तद्भावो भातीत्यर्थः ॥९॥

कण्डिकान्तरमवतार्य वृत्तं कीर्तयति —

सा वा इति ।

नित्यानुष्ठानात्पापहानिर्धर्मात्पापक्षयश्रुतेः ।

न चेदमुपासनं नित्यं नैमित्तिकं वा देवतात्मत्वकामिनो विधानात्तत्कथं पापमेवंविदो दूरे भवतीत्याक्षिपति —

कथं पुनरिति ।

विरोधिसन्निपाते पूर्वध्वंसमावश्यकं मन्वानः समाधत्ते उच्यत इति ।

उक्तमेव व्यनक्ति —

इन्द्रियेति ।

इन्द्रियाणां विषयेषु संसर्गे योऽभिनिवेशस्तेन जनितः पाप्मा परिच्छेदाभिमानोऽपरिच्छिन्ने प्राणात्मन्यात्माभिमानवतो विरुध्यते परिच्छेदापरिच्छेदयोर्विरोधस्य प्रसिद्धत्वादित्यर्थः ।

विरोधं साधयति —

वागादीति ।

पाप्मनो वागादिविशेषवत्यात्मनि विशिष्टेऽभिमानहेतुत्वादाधिदैविकापरिच्छिन्नाभिमाने ध्वंसो युज्यते । दृश्यते हि चाण्डालभाण्डावलम्बिनो जलस्य गङ्गाद्यविशेषभावापत्तावपेयत्वनिवृत्तिः ।
’अशुच्यपि पयः प्राप्य गङ्गां याति पवित्रताम्’
इति न्यायादित्यर्थः ।

यन्नैसर्गिकाज्ञानजन्यं तदागन्तुकप्रमाणज्ञानेन निवर्तते यथा रज्जुसर्पादिज्ञानं नैसर्गिकाज्ञानजन्यश्च पाप्मा तेन प्रामाणिकप्राणविज्ञानेन तद्ध्वस्तिरित्याह —

स्वाभाविकेति ।

नन्वभिमानयोर्विरोधाविशेषाद्बाध्यबाधकत्वव्यवस्थायोगाद्द्वयोरपि मिथो बाधः स्यात्तत्राऽऽह —

शास्त्रजनितो हीति ।

उक्तमेव पापध्वंसरूपं विद्याफलं प्रपञ्चयितुमुत्तरवाक्यमित्याह —

तदेतदिति ।

मृत्युमपहत्य यत्राऽऽसां दिशामन्तस्तद्गमयाञ्चकारेति संबन्धः ।

कथं पाप्मा मृत्युरुच्यते तत्राऽऽह —

स्वाभाविकेति ।

अपहत्येत्यत्र पूर्ववदन्वयः ।

प्राणदेवता चेत्पाप्मनां हन्ति सदैव किं न हन्यादित्याशङ्क्याऽऽह —

प्राणात्मेति ।

भवतु प्राणो वागादीनां पाप्मनोऽपहन्ता विदुषस्तु किमायातमित्याशङ्क्याऽऽह —

विरोधादेवेति ।

अनन्ताकाशदेशत्वाद्दिशामन्ताभावाद्यत्राऽऽसामित्याद्ययुक्तमिति शङ्कते —

नन्विति ।

शास्त्रीयज्ञानकर्मसंस्कृतो जनो मध्यदेशः प्रसिद्धस्यापि तदधिष्ठितत्वेन मध्यदेशत्वात्तत्राप्यन्त्यजाधिष्ठितदेशस्य पापीयस्त्वस्वीकारादतस्तं जनं तदधिष्ठितं च देशमवधिं कृत्वा तेनैव निमित्तेन दिशां कल्पितत्वादानन्त्याभावात्पूर्वोक्तजनातिरिक्तजनस्य तदधिष्ठितदेशस्य चान्तत्वोक्तेर्मध्यदेशादन्यो देशो दिशामन्त इत्युक्ते न काचिदनुपपत्तिरिति परिहरति —

उच्यत इति ।

किमित्यन्त्यजनेष्वित्यधिकावापः क्रियते तत्राऽऽह —

इति सामर्थ्यादिति ।

देशमात्रे पाप्मावस्थानानुपपत्तेरित्यर्थः ।

तामेवानुपपत्तिं साधयति —

इन्द्रियेति ।

भवतु यथोक्तो दिशामन्तस्तथा च पाप्मसंसर्गोऽस्तु तथाऽपि किमायातमित्याशङ्क्य तस्य शिष्टैस्त्याज्यत्वमित्याह —

तस्मादिति ।

निषेधद्वयस्य तात्पर्यमाह —

जनशून्यमपीति ।

प्राणोपास्तिप्रकरणे निषेधश्रुतेस्तदुपासकेनैवायं निषेधोऽनुष्ठेयो न सर्वैरित्याशङ्क्याऽऽह —

नेदित्यादिना ।

इत्थं श्रुत्युक्तं निषेधं न चेदहं कुर्यां ततः पाप्मानमनुगच्छेयं निषेधातिक्रमादिति सर्वस्य भयं जायते न प्राणोपासकस्यैव । अतः सर्वोऽपि पापाद्भीतो नोभयं गच्छेद्वाक्यं हि प्रकरणाद्बलवदित्यर्थः ॥१०॥

द्विविधमुपास्तिफलं पापहानिर्देवताभावश्च । तत्र पापहानिमुपदिशता प्रासंगिकः, साधारणो निषेधो दर्शितः । संप्रति देवताभावं वक्तुमुत्तरवाक्यमिति प्रतीकोपादानपूर्वकमाह —

सा वा एषेति ।

अथशब्दावद्योतितमर्थं कथयति —

यस्मादिति ।

पाप्मापहन्तृत्वमनूद्यावशिष्टं भागं व्याचष्टे —

तस्मात्स एवेति ॥११॥

सामान्योक्तमर्थं विशेषेण प्रपञ्चयति —

स वै वाचमित्यादिना ।

कथं वाचः प्राथम्यं तदाह —

उद्गीथेति ।

वाचो मृत्युमतिक्रान्ताया रूपं प्रश्नपूर्वकं प्रदर्शयति —

तस्या इति ।

अनग्नेरग्नित्वविरोधं धुनीते —

सा वागिति ।

पूर्वमपि वाचोऽग्नित्वे नोपासनालभ्यं तदग्नित्वमित्याशङ्क्याऽऽह —

एतावानिति ।

उक्तं विशेषं विशदयति —

प्रागिति ॥१२ –१३– १४– १५ ॥

वागादीनामग्न्यादिदेवतात्वप्राप्तावुपासकस्य किमायातं न हि तदेव तस्य फलमित्याशङ्क्याऽऽह —

यथेति ।

देवतात्वप्रतिबन्धकान्पाप्मनः सर्वानपोह्योक्तवर्त्मना वागादीनामुपासकोपाधिभूतानामग्न्यादिदेवताप्त्यैव सोऽपि सदा प्राणमात्मत्वेन ध्यायन्भावनाबलाद्वैराजं पदं पूर्वयजमानवदाप्नोतीति भावः ।

कस्येदं फलमित्याकाङ्क्षायामुपासकं विशिनष्टि —

यो वागादीति ।

उक्तोपासनस्य प्रागुक्तं फलमनुगुणमित्यत्र मानमाह —

तं यथेति ॥१६॥

उपास्यस्य प्राणस्य कार्यकरणसंगातस्य विधारकत्वं नाम गुणान्तरं वक्तुमुत्तरवाक्यम् , तदादाय व्याकरोति —

अथेत्यादिना ।

कथमुद्गातुर्विक्रीतस्य फलसंबन्धस्तत्राऽऽह —

कर्तुरिति ।

अन्नागानमार्त्विज्यमित्यत्र प्रश्नपूर्वकं वाक्यशेषमनुकूलयति —

कथमित्यादिना ।

तमेव हेतुमाह —

यस्मादिति ।

प्राणेनैव तदद्यत इति संबन्धः । यस्मादित्यस्य तस्मादित्यादिभाष्येणान्वयः ।

अनितेर्धातोरनशब्दश्चेत्प्राणपर्यायस्तर्हि कथं शकटे तच्छब्दप्रयोगस्तत्राऽऽह —

अनःशब्द इति ।

इतश्च प्राणस्य स्वार्थमन्नागानं युक्तमित्याह —

किञ्चेति ।

प्राणेन वागादिवदात्मार्थमन्नमागीतं चेत्तर्हि तस्यापि पाप्मवेधः स्यादित्याशङ्क्याऽऽह —

यदपीति ।

इहान्ने देहाकारपरिणते प्राणस्तिष्ठति तदनुसारिणश्च वागादयः स्थितिभाजोऽतः स्थित्यर्थं प्राणस्यान्नमिति न पाप्मवेधस्तस्मिन्नस्तीत्यर्थः ॥१७॥

भर्ता श्रेष्ठः पुरो गन्तेत्यादिगुणविधानार्थं वाक्यान्तरमादत्ते —

ते देवा इति ।

तस्य विवक्षितमर्थं वक्तुमादावाक्षिपति —

नन्विति ।

अयुक्तत्वे हेतुमाह —

वागादीनामिति ।

अवधारणानुपपत्तिं दूषयति —

नैष दोष इति ।

यथा प्राणस्योपकारोऽन्नकृतो न वागादिद्वारकस्तथा तेषामपि नासौ प्राणद्वारको विशेषाभावादिति शङ्कते —

कथमिति ।

वाक्येन परिहरति —

एतमर्थमिति ।

आह विशेषमिति शेषः ।

तेषां देवत्वं साधयति —

स्वविषयेति ।

तत्र प्रसिद्धं प्रमाणयितुं वैशब्द इत्याह —

वा इति ।

स्मरणार्थ इति । तत्प्रसिद्धस्यार्थस्येति शेषः ।

वाक्यार्थमाह —

इदं तदिति ।

एतावत्त्वमेव व्याचष्टे —

तत्सर्वमिति ।

किमिदं प्राणार्थमन्नागानं नाम तदाह —

आगानेनेति ।

का पुनरेतावता भवतां क्षतिस्तत्राऽऽह —

वयञ्चेति ।

अन्नमन्तरेण ममापि स्थातुमशक्तेर्मददर्थं तदागीतमिति चेत्तत्राह —

अत इति ।

आभजस्वेति श्रूयमाणे कथमन्यथा व्याख्यायते तत्राऽऽह —

णिच इति ।

तवैवान्नस्वामित्वमस्माकमपि तत्र प्रवेशमात्रं स्थित्यर्थमपेक्षितमिति वाक्यार्थमाह —

अस्मांञ्चेति ।

वैशब्दो यद्यर्थे प्रयुक्तः ।

प्राणं परिवेष्ट्य तदनुज्ञया वागादीनामन्नार्थिनामवस्थानं चेत्तेषामपि प्राणवदन्नसंबन्धः स्यादित्याशङ्क्याऽऽह —

तथेति ।

त्यक्तप्राणस्यान्नबलाद्वागादिस्थित्यनुपलब्धेरित्यर्थः ।

वागादीनामन्नजन्योपकारस्य प्राणद्वारत्वे सिद्धे फलितमाह —

तस्मादिति ।

तेषामन्नकृतोपकारस्य प्राणद्वारकत्वे वाक्यशेषं संवादयति —

तदेवेति ।

विद्याफलं दर्शयन्गुणजातमुपदिशति —

वागादीति ।

वेदनमेव व्याचष्टे —

वागादयश्चेति ।

स च प्राणोऽहमस्मीति वेदेति चकारार्थः । अनामयावी व्याधिरहितो दीप्ताग्निरिति यावत् ।

संप्रति प्राणविद्यां स्तोतुं तद्विद्यावद्विद्वेषिणो दोषमाह —

किञ्चेति ।

इदानीं प्राणविदं प्रत्यनुरागे लाभं दर्शयति —

अथेत्यादिना ।

ते देवा अब्रुवन्नित्यादौ गुणविधिर्विवक्षितो न विशिष्टविधिर्गुणफलस्यैवात्र श्रवणादित्याह —

सर्वमेतदिति ।

उत्तरग्रन्थस्य व्यवहितेन संबन्धं वक्तुं व्यवहितमनुवदति —

कार्यकारणानामिति ।

अनन्तरग्रन्थमवतारयति —

अस्मादिति ।

किमित्यङ्गिरसत्वसाधको हेतुः साधनीयस्तत्राऽऽह —

तद्धेत्विति ॥१८॥

संप्रत्यव्यवहितं संबन्धं दर्शयति —

अनन्तरं चेति ।

प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः ।

तर्हि यदुपपादनीयं तदुच्यतां किमित्युक्तस्य पुनरुक्तिरित्याशङ्क्याऽऽह —

उत्तरार्थमिति ।

प्रतिज्ञानुवादो वक्ष्यमाणहेतोरुपयोगीत्यर्थः ।

यथोपन्यस्तमेवेत्यादि प्रपञ्चयति —

प्राणो वा इति ।

उक्तार्थनिर्णयहेतुं पृच्छति —

कथमिति ।

तत्र प्रसिद्धिं हेतुं कुर्वन्परिहरति —

प्राणो हीति ।

प्रसिद्धिमेव प्रकटयति —

प्रसिद्धिमिति ।

स्मारणं प्रसिद्धस्याऽऽङ्गिरसत्वस्येति शेषः ।

प्रसिद्धिरसिद्धेति शङ्कते —

कथमिति ।

तामन्वयव्यतिरेकाभ्यां साधयति —

अत आहेति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यस्मात्कस्मादिति ।

उक्तेन व्यतिरेकेणानुक्तमन्वयं समुच्चेतुं चशब्दः ।

तस्माच्छब्दस्योपरिभावेन संबन्धमुक्तं स्फुटयति —

तस्मादिति ।

अन्वयव्यतिरेकाभ्यामङ्गरसत्वे प्राणस्य सिद्धे फलितमाह —

अत इति ।

उक्तन्यायादङ्गरसत्वे सिद्धेऽपि कथमात्मत्वं सिध्येदित्याशङ्क्याऽऽह —

आत्मेति ।

अस्तु प्राणः संघातस्याऽऽत्मा तथाऽपि किं स्यात्तदाह —

तस्मादिति ।

भवतु प्राणाधीनं संघातस्य जीवनं तथाऽपि कथं तस्यैवोपास्यत्वमित्याशङ्क्याऽऽह —

तस्मादपास्येति ॥१९॥

बृहस्पत्यादिधर्मकं प्राणोपासनं वक्तुं वाक्यान्तरमवतारयति —

एष इति ।

तस्य विधान्तरेण तात्पर्यामाह —

न केवलमिति ।

कार्यं स्थूलशरीरं प्रत्यक्षतो निरूप्यमाणं रूपात्मकं करणं च ज्ञानक्रियाशक्तिमत्कर्मभूतं तयोरात्मा प्राण इत्युक्त्वा नामराशेरपि तथेति वक्तुं कण्डिकाचतुष्टयमित्यर्थः ।

किमिति प्राणस्याऽऽत्मत्वेन सर्वात्मत्वोक्त्या स्तुतिरित्याशङ्क्याऽऽह —

उपास्यत्वायेति ।

उशब्दोऽप्यर्थो बृहस्पतिशब्दादुपरि संबध्यते ।

’बृहस्पतिर्देवानां पुरोहित आसीत्’ इति श्रुतेर्देवपुरोहितो बृहस्पतिरुच्यते तत्कथं प्राणस्य बृहस्पतित्वमिति शङ्कते —

कथमिति ।

देवपुरोहितं व्यावर्तयितुमुत्तरवाक्येनोत्तरमाह —

उच्यत इति ।

प्रसिद्धवचनं कथमित्याशङ्क्याऽऽह —

बृहतीछन्द इति ।

सप्त हि गायत्र्यादीनि प्रधानानि च्छन्दांसि तेषां मध्यमं छन्दो बृहतीत्युच्यते । सा च बृहती षट्त्रिंशदक्षरा प्रसिद्धेत्यर्थः ।

भवतु यथोक्ता बृहती तथाऽपि कथम् ’वाग्वै बृहती’ इत्युक्तं तत्राऽऽह —

अनुष्टुप् चेति ।

द्वात्रिंशदक्षरा तावदनुष्टुबिष्टा, सा चाष्टाक्षरैश्चतुर्भिः पादैः षट्त्रिंशदक्षरायां बृहत्यामन्तर्भवत्यवान्तरसंख्याया महासंख्यायामन्तर्भावादित्याह —

सा चेति ।

वागनुष्टुभोरनुष्टुब्बृहत्योश्चोक्तमैक्यमुपजीव्य फलितमाह —

अत इति ।

भवतु वागात्मिका बृहती तथाऽपि तत्पतित्वेन प्राणस्य कथमृक्पतित्वमित्याशङ्क्याऽऽह —

बृहत्यां चेति ।

सर्वात्मकप्राणरूपेण बृहत्याः स्तुतत्वात्तत्र सर्वासामृचामन्तर्भावः संभवति, तस्मात्प्राणस्य बृहस्पतित्वे सिद्धमृक्पतित्वमित्यर्थः ।

प्राणरूपेण स्तुता बृहतीत्यत्र प्रमाणमाह —

प्राणो बृहतीति ।

तथाऽपि प्राणस्य विवक्षितमृगात्मत्वं कथं सिद्ध्यतीत्याशङ्क्याऽऽह —

प्राण इति ।

तस्य तदात्मत्वे हेत्वन्तरमाह —

वागात्मत्वादिति ।

तासां तदात्मत्वेऽपि कथं प्राणेऽन्तर्भावो न हि घटो मृदात्मा पटेऽन्तर्भवतीति शङ्कते —

तत्कथमिति ।

प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —

आहेत्यादिना ।

प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भावो न हि घटो मृदात्मा पटोऽन्तर्भवतीति शङ्कते —

तत्कथमिति ।

प्राणस्य वाङ्निष्पादकत्वात्तद्भूतानामृचां कारणे प्राणे युक्तोऽन्तर्भाव इत्याह —

आहेत्यादिना ।

प्राणस्य तन्निर्वर्तकत्वेऽपि न तस्मिन्वाचोऽन्तर्भावो न हि घटस्य कुलालेऽन्तर्भाव इत्याशङ्क्याऽऽह —

कौष्ठ्येति ।

कोष्ठनिष्ठेनाग्निना प्रेरितस्तद्गतो वायुरूर्ध्वं गच्छन्कण्ठादिभिरभिहन्यमानो वर्णतया व्यज्यते तदात्मिका च वाङ्निर्णीता देवताधिकरण ऋक्च वागात्मिकोक्ता तद्युक्तं तस्याः प्राणेऽन्तर्भूतत्वमित्यर्थः ।

ऋगात्मत्वं प्राणस्य प्रकारान्तरेण साधयति —

पालनाद्वेति ।

सत्ताप्रदत्वे सति स्थापकत्वं तादात्म्यव्याप्तमित्यभिप्रेत्योपसंहरति —

तस्मादिति ॥२०॥

यजुषामात्मेति पूर्वेण संबन्धः ।

नियतपादाक्षराणामृचां प्राणत्वे कुतस्तद्विपरीतानां यजुषां तत्त्वमिति शङ्कित्वा परिहरति —

कथमिति ।

तथाऽपि कथं प्राणो यजुषामात्मेत्याशङ्क्याऽऽह —

वग्वै ब्रह्मेति ।

निर्वर्तकत्वं पालयितृत्वं चात्रापि तुल्यमित्याह —

पूर्ववदिति ।

रूढिमाश्रित्य शङ्कते —

कथं पुनरिति ।

वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति —

उच्यत इति ।

वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना ।

तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह —

तथा चेति ।

परिशेषमेव दर्शयति —

साम्नीति ।

इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह —

वाग्विशेषत्वाच्चेति ।

तत्रैव हेत्वन्तरमाह —

अविशेषेति ।

प्रसंगमेव व्यतिरेकमुखेन विवृणोति —

सामेति ।

द्वितीयश्चकारोऽवधारणार्थः ।

किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह —

वाङ्मात्रत्वे चेति ।

तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —

ऋगिति ॥२१॥

ऋग्यजुष्ट्वं प्राणस्य प्रतिपाद्य तस्यैव सामत्वं साधयति —

एष इत्यादिना ।

तदेव स्पष्टयति —

सर्वेति ।

साशब्दो हि सर्वनाम । तथा च यः स्त्रीलिङ्गः सर्वशब्दस्तेनाभिधेयं वस्तु वागित्यर्थः ।

अमः प्राण इत्युक्तमुपपादयति —

सर्वपुंशब्देति ।

पुंलिङ्गेन सर्वेण शब्देनाभिधेयं वस्तु प्राण इत्यर्थः ।

तत्र श्रुत्यन्तरं प्रमाणयति —

केनेति ।

आचार्यस्य शिष्यं प्रत्येतद्वाक्यम् ।

पौंस्नानि पुंसो वाचकानि । तथाऽपि कस्य सामशब्दवाच्यत्वमित्याशङ्क्य फलितमाह —

वागिति ।

वागुपसर्जनः प्राणः सामशब्दाभिधेय एकवचननिर्देशादित्यर्थः ।

ननु ’गीतिषु सामाख्ये’ति न्यायाद्विशिष्टा काचिद्गीतिः सामेत्युच्यते तत्कुतो वागुपसर्जनस्य प्राणस्य सामत्वमत आह —

तथेति ।

प्राणस्य सामत्वे सतीति यावत् ।

प्रगीते मन्त्रवाक्ये सामशब्दस्य वृद्धैरिष्टत्वादस्ति प्राणादिव्यतिरेकेण सामेत्याशङ्क्याऽऽह —

स्वरेति ।

आदिपदेन पदवाक्यादिग्रहः । वागुपसर्जने प्राणे मुख्यः सामशब्दस्तत्संबन्धादितरत्र गौणौ मञ्चादिशब्दवदित्यर्थः ।

उक्तेऽर्थे तत्साम्नः सामत्वमिति वाक्यं योजयति —

यस्मादिति ।

इदं सामेदं सामेति यद्व्यवह्रियते तद्वाक्प्राणात्मकमेवोच्यते सा चामश्चेति व्युत्पत्तेर्यस्मादेवं तस्मात्प्रसिद्धस्य साम्नो यत्सामत्वं तन्मुख्यसामनिर्वर्त्यत्वाद्गौणमेव सदध्येतृव्यवहारे प्रसिद्धमिति योजना ।

प्रकारान्तरेण प्राणस्य सामत्वमुपासनार्थमुपन्यस्यति —

यदित्यादिना ।

प्रकारान्तरद्योती वाशब्दोऽत्र न श्रूयत इत्याशङ्क्याऽऽह —

वाशब्द इति ।

निमित्तान्तरमेव प्रश्नपूर्वकं प्रकटयति —

केनेत्यादिना ।

ननु प्राणस्य तत्तच्छरीरपरिमाणत्वे परिच्छिन्नत्वादानन्त्यानुपपत्तिस्तत्कथमस्य विरुद्धेषु शरीरेषु समत्वमित्याशङ्क्याऽऽह —

पुत्तिकादीति ।

समशब्दस्य यथाश्रुतार्थत्वं किं न स्यादित्याशङ्क्याऽऽह —

न पुनरिति ।

आधिदैविकेन रूपेणामूर्तत्वं सर्वगतत्वं च द्रष्टव्यम् ।

ननु प्रदीपो घटे संकुचति प्रासादे च विकसति तथा प्राणोऽपि मशकादिशरीरेषु संकोचमिभादिदेहेषु विकासं चाऽऽपद्यतामिति समत्वासिद्धिरित्याशङ्क्याऽऽह —

न चेति ।

प्राणस्य सर्वगतत्वे समत्वश्रुतिविरोधमाशङ्क्याऽऽह —

सर्वगतस्येति ।

खण्डादिषु गोत्ववच्छरीरेषु सर्वत्र स्थितस्य प्राणस्य तत्तच्छरीरपरिमाणाया वृत्तेर्लाभः । संभवति सर्वगतस्यैव नभसस्तत्र तत्र कूपकुम्भाद्यवच्छेदोपलम्भादित्यर्थः ।

फलश्रुतिमवतार्य व्याकरोति —

एवमिति ।

फलविकल्पे हेतुमाह —

भावनेति ।

वेदनं व्याकरोति —

आ प्राणेति ।

इदञ्च फलं मध्यप्रदीपन्यायेनोभयतः संबन्धमवधेयम् ॥२२॥

प्रस्तावादिशब्दवदुद्गीथशब्दस्यापि भक्तिविशेषे रूढत्वाद्दुगीथेनात्ययामेत्यत्र चौद्गात्रे कर्मणि प्रयुक्तत्वात्कथमुद्गीथः प्राण इत्याशङ्क्याऽऽह —

उद्गीथो नामेति ।

नञ्पदस्योभयतः संबन्धः ।

सामशब्दितस्य प्राणस्य प्रकृतत्वादिति हेतुमाह —

सामाधिकारादिति ।

न तावदुद्गीथशब्दस्य प्राणे रूढिस्तस्य तस्मिन्वृद्धप्रयोगादर्शनान्नापि योगोऽवयववृत्तेरदृष्टेरिति शङ्कते —

कथमिति ।

योगवृत्तिमुपेत्य परिहरति —

प्राण इति ।

उच्छब्दो नास्यार्थस्य वाचको निपातत्वादित्याशङ्क्याऽऽह —

उत्तब्धेति ।

तथाऽपि कथं प्राणो वा उदित्युक्तं तत्राऽह —

प्राणेति ।

’वायुर्वै गौतम तत्सूत्रम्’ इत्यादिश्रुतेरित्यर्थः ।

उद्गीथभक्तेः शब्दविशेषत्वेऽपि गीथा वागिति कथमुच्यते तत्राऽऽह —

गायतेरिति ।

अथावधारणं साधयति —

न हीति ।

तथाऽति कथं प्राणस्योद्गीथत्वमित्याशङ्क्य वागुपसर्जनस्य तस्य तथात्वं कथयति —

उच्चेति ॥२३॥

तद्धापीत्यादिवाक्यस्य प्रकृतानुपयोगमाशङ्क्याऽऽह —

उक्तार्थेति ।

उद्गीथदेवता प्राणो न वागादिरित्युक्तार्थः । ’जीवति तु वंशे युवा’ इति स्मरणात्पित्रादौ वंश्ये जीवति पौत्रप्रभृतेर्यदपत्यं तद्युवसंज्ञकमिति द्रष्टव्यम् ।

क्रियापदनिष्पत्तिप्रकारं सूचयति —

तोरिति ।

तुप्रत्ययस्यायमाशिषि विषये तातङादेशः ’तुह्योस्तातङाशिष्यन्यतरस्याम्’ इति स्मरणादित्यर्थः ।

मूर्धपातप्रापकं दर्शयति —

यदीति ।

अनृतवादित्वस्य प्रापकाभावादप्राप्तिरिति शङ्कते —

कथं पुनरिति ।

उद्गानस्य बुद्ध्यादिसन्निधानात्तद्देवता प्रजापत्यादिलक्षणा किं तस्मिन्देवता किंवा वर्णस्वरादिसन्निधानात्तद्देवतैव तत्र देवतेति विप्रतिपत्तेरनृतवादित्वे शङ्किते ब्रह्मदत्तः शपथेन निर्णयं चकारेत्याह —

उच्यत इति ।

प्राणाद्वाक्संयुक्तादन्येनायास्यो यद्युदगायदिति संबन्धः ।

नन्वयास्याङ्गिरसशब्दवाच्यो मुख्यप्राणो देवतात्वान्नोद्गाता भवितुमुत्सहते तत्राऽऽह —

मुख्येति ।

उक्तार्थदार्ढ्यायेत्युक्तमुपसम्हरति —

इति विज्ञान इति ।

उक्तरीत्या शपथक्रियया प्राण एवोद्गीथदेवतेत्यस्मिन्विज्ञाने प्रत्ययो विश्वासस्तस्य यद्दार्ढ्यं तस्य कर्तव्यत्वमाख्यायिकया दर्शयति श्रुतिरिति यावत् ।

आख्यायिकार्थस्यैव वाचेत्यादिनोक्तेः पौनरुक्त्यमित्याशङ्क्याऽऽह —

तमिममिति ।

शपथस्य स्वातन्त्र्येणाप्रामाण्येऽपि श्रुतिमूलतया प्रामाण्यं सिद्ध्यतीति भावः ॥२४॥

उद्गीथदेवता प्राण एवेति निर्धार्य स्वसुवर्णप्रतिष्ठागुणविधानार्थमुत्तरकण्डिकात्रयमवतारयति —

तस्येत्यादिना ।

किमित्यादौ फलमभिलप्यते तत्राऽऽह —

फलेनेति ।

सौस्वर्यं स्म् भूषणमित्यत्रानुभवमनुकूलयति —

तेन हीति ।

कथं तर्हि कण्ठगतं माधुर्यं संपादनीयमित्याशङ्क्याऽऽह —

यस्मादिति ।

प्राणोऽहं ममैव गीतिभावमापन्नस्य सौस्वर्यं धनमिति प्रकृते प्राणविज्ञाने गुनविधिर्विवक्षितश्चेत्किमित्युद्गातुरन्यत्कर्तव्यमुपदिश्यत इत्याशङ्क्य दृष्टफलतयेत्याह —

इदं त्विति ।

अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्गकामनामात्रेण स्वर्गः सिध्यत्यत आह —

साम्न इति ।

तस्य सुस्वरत्वेन तच्छब्दितस्य प्राणस्योपासकात्मकस्य स्वरवत्त्वप्रत्यये कार्ये सति विहितेच्छामात्रेण साम्नः न सौस्वर्यं भवतीत्यस्मात्सामर्थ्याद्दन्तधावनादि कर्तव्यमित्येतदत्र विधित्सितमिति योजना ।

सौस्वर्यस्य सामभूषणत्वे गमकमाह —

तस्मादिति ।

दृष्टान्तमनन्तरवाक्यावष्टम्भेन स्पष्टयति —

प्रसिद्धं हीति ।

भवति हास्य स्वमिति प्रागेवोक्तत्वादनर्थिका पुनरुक्तिरित्याशङ्क्याऽऽह —

सिद्धस्येति ॥२५॥

साम्नो गुणान्तरमवतारयति —

अथेति ।

तर्हि पुनरुक्तिः स्यात्तत्राऽऽह —

एतावानिति ।

लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्षणज्ञानपूर्वकं सुष्ठु वर्णोच्चारणं ममैव सामशब्दितप्राणभूतस्य धनमिति यावत् ।

लाक्षणिकसौस्वर्यगुणवत्प्राणविज्ञानवतो यथोक्तफललाभे हेतुमाह —

सुवर्णशब्देति ।

वाक्यार्थमाह —

लौकिकमेवेति ।

फलेन प्रलोभ्याभिमुखीकृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते —

तस्येति ।

गुणविज्ञानफलमुपसम्हरति —

भवतीति ।

साम्नस्तच्छब्दवाच्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥

उपास्यस्य प्रतिष्ठागुणत्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह —

तं यथेति ।

आदिपदादुरःशिरःकण्ठदन्तौष्ठनासिकातालूनि गृह्यन्ते ।

किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह —

वाचि हीति ।

पक्षान्तरमाह —

अन्न इति ।

अन्नशब्देन तत्परिणामो देहो गृह्यते ।

एकीयपक्षे युक्तिमाह —

इहेति ।

कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —

अनिन्दितत्वादिति ॥२७॥

अथातः पवमानानामित्यादिवाक्यमवतारयति —

एवमिति ।

तत्राथशब्दं व्याचष्टे —

यद्विज्ञानवत इति ।

अतःशब्दार्थमाह —

यस्माच्चेति ।

इहेति प्राणविदुक्तिः ।

कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह —

तस्येति ।

उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रकरणादुद्गीथेन संबन्धाज्जपस्य सर्वत्रोद्गानकाले प्राप्तौ पवमानानामेवेति वचनात्कालनियमसिद्धिरित्यर्थः ।

स वै खल्वित्यादिवाक्यतात्पर्यमाह —

पवमानेष्विति ।

ननु कर्तव्यत्वेनाभ्यारोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संगतमित्याशङ्क्याऽऽह —

अस्य चेति ।

अभ्यारोहशब्दस्य न तत्र रूढिर्वृद्धप्रयोगाभावादित्याशङ्क्याऽऽह —

आभिमुख्येनेति ।

यजुर्मन्त्राणामनियतपादाक्षरत्वादसतो मा सद्गमयेत्यारभ्यैको वा द्वौ वा मन्त्रावित्याशङ्क्याऽऽह —

एतानीति ।

यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभाषिकग्रन्थोक्तेन भाव्यमित्याशङ्क्याऽऽह —

द्वितीयेति ।

यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ’उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’ इति । प्रकृते तु द्वितीयानिर्देशाज्जपकर्ममात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रतिभातीत्यर्थः ।

केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह —

ब्राह्मणेति ।

भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह —

याजमानमिति ।

व्याचिख्यासितयजुषां स्वरूपं दर्शयति —

एतानीति ।

मन्त्रार्थशब्देन पदार्थो वाक्यार्थस्तत्फलं चेति त्रयमुच्यते ।

लौकिकं तमो व्यावर्तयति —

सर्वं हीति ।

पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते ।

वैपरीत्ये हेतुमाह —

प्रकाशात्मकत्वादिति ।

ज्ञानं तेन साध्यमिति यावत् । पदार्थोक्तिसमाप्तावितिशब्दः ।

उत्तरवाक्याभ्यां वाक्यार्थस्तत्फलं चेति द्वयं क्रमेणोच्यत इत्याह —

पूर्ववदिति ।

फलवाक्यमादाय पूर्वस्माद्विशेषं दर्शयति —

अमृतमिति ।

प्रथमद्वितीयमन्त्रयोरर्थभेदाप्रतीतेः पुनरुक्तिमाशङ्क्यावान्तरभेदमाह —

पूर्वो मन्त्र इति ।

तथाऽपि तृतीये मन्त्रे पुनरुक्तिस्तदवस्थेत्याशङ्क्याऽऽह —

पूर्वयोरिति ।

वृत्तमनूद्योत्तरवाक्यमवतार्य व्याचष्टे —

याजमानमिति ।

यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थमागानमकरोत्तथेत्याह —

प्राणविदिति ।

तद्विदोऽपि तद्वदागाने योग्यतामाह —

प्राणभूत इति ।

हेतुवाक्यमादौ योजयति —

यस्मादिति ।

प्रतिज्ञावाक्यं व्याचष्टे —

तस्मादिति ।

किमिति व्यत्यासेन वाक्यद्वयव्याख्यानमित्याशङ्क्यार्थाच्चेति न्यायेन पाठक्रममनादृत्येति परिहरति —

यस्मादित्यादिना ।

स एष एवंविदुद्गाताऽऽत्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतुग्रन्थस्तस्मादिति प्रतिज्ञाग्रन्थात्प्रागेव संबध्यत इति योजना ।

वृत्तं कीर्तयति —

एवं तावदिति ।

तत्र कर्मसमुच्चिते ज्ञाने देवताप्तौ शङ्कासंभवो नास्ति मिथः सहकृतयोर्ज्ञानकर्मणोस्तदाप्तिहेतुत्वादित्याह —

तत्रेति ।

समनन्तरं वाक्यमवतारयति —

अत इति ।

समुच्चयात्फलाप्तेर्दृष्टत्वादिति यावत् ।

न हेत्यादिना पदानि छिन्दन्वाक्यमादाय व्याकरोति —

अलोकार्हत्वायेति ।

तदेव स्फुटयति —

न हीति ।

तत्र दृष्टान्तमाह —

न हीति ।

दृश्यमानमाशंसनं तर्हि कस्मिन्विषये स्यादित्याशङ्क्याऽऽह —

असन्निकृष्टेति ।

प्राणात्मना व्यवस्थितस्य विदुषस्तदात्मभावं कदाचिदहं न प्रपद्येयमित्याशंसनं नास्तीति निगमयति —

तस्मादिति ।

कर्मसमुच्चितादुपासनात्केवलाच्च प्राणात्मत्वं फलमुक्तं तत्र समुच्चितादुद्गातुर्यजमानस्य वा फलं केवलाच्चोपासनात्तयोरन्यतरस्यान्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते —

कस्येति ।

ज्ञानकर्मणोरुभयत्र समभावादुभयोरपि वचनात्फलसिद्धिः ।

आश्रमान्तरविषयं तु केवलज्ञानस्य लोकजयहेतुत्वमित्यभिप्रेत्याऽऽह —

य एवमिति ।

एवंशब्दस्य प्रकृतपरामर्शित्वात्पूर्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति —

अहमस्मीत्यादिना ।

तस्य वागादिभ्यो विशेषं दर्शयति —

इन्द्रियेति ।

किमिदानीं प्राणस्यैवोपास्यतया वागादिपञ्चकमुपेक्षितमिति नेत्याह —

वागादीति ।

तस्य प्राणाश्रयत्वेऽपि कुतो देवतात्वमासंगपाप्मविद्धत्वादित्याशङ्क्याऽऽह —

स्वाभाविकेति ।

अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति —

सर्वेति ।

रूपकर्मात्मके जगति प्राणस्य स्वरूपमनुसन्धत्ते —

आत्मा चेति ।

नामात्मके जगति प्राणस्याऽऽत्मत्वमुक्तं स्मारयति —

ऋगिति ।

सति सामत्वे गीतिभावावस्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति —

ममेति ।

तस्यैव वैकल्पिकीं प्रतिष्ठामुक्तामनुस्मारयति —

गीतीति ।

य एवमित्यादिनोक्तं परामृशति —

एवङ्गुणोऽहमिति ।

इत्येवमभिमानाभिव्यक्तिपर्यन्तं यो ध्यायति तस्येदं फलमित्युपसम्हरति —

इतीति ॥२८॥

ब्राह्मणान्तरमवतार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —

आत्मैवेत्यादिना ।

केवलप्राणदर्शनेन च प्रजापतित्वप्राप्तिर्व्याख्यातेति संबन्धः ।

इदानीमात्मेत्यादेस्तद्धेदमित्यतः प्राक्तनग्रन्थस्याऽऽपाततस्तात्पर्यमाह —

प्रजापतेरिति ।

आदिपदेन सर्वात्मत्वादि गृह्यते ।

फलोत्कर्षोपवर्णनं कुत्रोपयुज्यते तत्राऽऽह —

तेन चेति ।

कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।

फलातिशयो हेत्वतिशयापेक्षोऽन्यथाऽऽकस्मिकत्वापातादतो ज्ञानकर्मफलभूतसूत्रविभूतिरुच्यमाना ज्ञानकर्मणोर्महत्त्वं दर्शयतीत्याह —

सामर्थ्यादिति ।

आपातिकं तात्पर्यमुक्त्वा परमतात्पर्यमाह —

विवक्षितं त्विति ।

किञ्च विमतं संसारान्तर्भूतं कार्यकरणात्मत्वादस्मदादिकार्यकरणवदित्याह —

कार्येति ।

प्राजापत्यपदस्य संसारान्तर्भूतत्वे हेत्वन्तरमाह —

स्थूलेति ।

स्थूलत्वं साधयति —

व्यक्तेति ।

अनित्यत्वाद्दृश्यत्वाच्च प्रजापतित्वं संसारान्तर्गतमित्याह —

अनित्येति ।

इतिशब्दो विवक्षितार्थसमाप्त्यर्थः ।

किमित्येतद्विवक्षितमुपवर्ण्यते तत्राऽऽह —

ब्रह्मविद्याया इति ।

तच्चेदं विवक्षितार्थवचनमेकाकिन्या विद्याया वक्ष्यमाणाया मुक्तिहेतुत्वमित्युत्तरार्थमिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्पर्यन्तात्सर्वस्मात्तस्माद्विरक्तस्य वक्ष्यमाणविद्यायामधिकारः सेत्स्यतीत्यर्थः ।

अथ यस्य कस्यचिदर्थितामात्रेण तत्राधिकारसंभवाद्वैराग्यं न मृग्यमित्याशङ्क्याऽऽह —

न हीति ।

उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।

विवक्षितमर्थमुपसम्हरति —

तस्मादिति ।

वैराग्यमन्तरेण ज्ञानानधिकाराज्ज्ञानादिफलस्य प्रजापतित्वस्योत्कर्षवतः संसारत्ववचनं ततो विरक्तस्य वक्ष्यमाणविद्यायामधिकारार्थम् ।

विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादित्याशङ्क्याऽऽह —

तथा चेति ।

ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्षश्चापुरुषार्थत्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —

तदेतदिति ।

आपातिकमनापातिकञ्च तात्पर्यमुक्त्वा प्रतीकमादायाक्षराणि व्याकरोति —

आत्मैवेति ।

तस्याश्वमेधाधिकारे प्रकृतत्वं सूचयति —

अण्डज इति ।

पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तुतत्वमस्तीत्याह —

वैदिकेति ।

स एवाऽऽसीदिति संबन्धः ।

स्थित्यवस्थायामपि प्रजापतिरेव समष्टिदेहस्तत्तद्व्यष्ट्यात्मना तिष्ठतीति विशेषासिद्धिरित्याशङ्क्याऽऽह —

तेनेति ।

आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्यशेषादित्याह —

स चेति ।

वक्ष्यमाणमन्वालोचनादि विराडात्मकर्तृकमेवेत्याह —

स एवेति ।

स्वरूपधर्मविषयौ द्वौ विमर्शौ ।

नान्यदिति वाक्यमादायाक्षराणि व्याचष्टे —

वस्त्वन्तरमिति ।

दर्शनशक्त्यभावादेव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वानित्याशङ्क्याऽऽह —

केवलं त्विति ।

सोऽहमित्यादि व्याचष्टे —

तथेति ।

यथा सर्वात्मा प्रजापतिरहमिति पूर्वस्मिञ्जन्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना ।

व्याहरणफलमाह —

तत इति ।

किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वेषामित्याशङ्क्योपासनार्थमित्याह —

तस्येति ।

आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुतिसिद्धमेवैतन्नामास्य ध्यानार्थमिहोक्तमित्यर्थः ।

प्रजापतेरहंनामत्वे लोकप्रसिद्धिं प्रमाणयितुमुत्तरं वाक्यमित्याह —

तस्मादिति ।

उपासनार्थं प्रजापतेरहंनामोक्त्वा पुरुषनामनिर्वचनं करोति —

स चेत्यादिना ।

पूर्वस्मिञ्जन्मनि साधकावस्थायां कर्माद्यनुष्ठानैरहमहमिकया प्रजापतित्वप्रेप्सूनां मध्ये पूर्वो यः सम्यक्कर्माद्यनुष्ठानैः सर्वं प्रतिबन्धकं यस्माददहत्तस्मात्स प्रजापतिः पुरुषः इति योजना ।

उक्तमेव स्फुटयति —

प्रथमः सन्निति ।

सर्वस्मादस्मात्प्रजापतित्वप्रतिपित्सुसमुदायात्प्रथमः सन्नौषदिति संबन्धः ।

आकाङ्क्षापूर्वकं दाह्यं दर्शयति —

किमित्यादिना ।

पूर्वं प्रजापतित्वप्रतिबन्धकप्रध्वंसित्वे सिद्धमर्थमाह —

यस्मादिति ।

पुरुषगुणोपासकस्य फलमाह —

यथेति ।

अयं प्रजापतिरिति भविष्यद्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते ।

कोऽसावोषतीत्यपेक्षायामाह —

तं दर्शयतीति ।

पुरुषगुणः प्रजापतिरहमस्मीति यो विद्यात्सोन्यानोषतीत्यर्थः ।

विद्यासाम्ये कथमेषा व्यवस्थेत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

हेतुसाम्ये दाहकत्वानुपपत्तेस्तत्प्रकर्षवानितरान्दहतीत्यर्थः ।

प्रसिद्धं दाहमादाय चोदयति —

नन्विति ।

तथा च तत्प्रेप्सायोगात्तदुपास्त्यसिद्धिरित्यर्थः ।

विवक्षितं दाहं दर्शयन्नुत्तरमाह —

नैष दोष इति ।

तदेव स्पष्टयति —

उत्कृष्टेति ।

प्राप्नुवन्भवतीति शेषः ।

औपचारिकं दाहं दृष्टान्तेन साधयति —

यथेति ।

आजिर्मर्यादा तां सरन्ति धावन्तीत्याजिसृतस्तेषामिति यावत् ॥१॥

ज्ञानकर्मफलं सौत्रं पदमुत्कृष्टत्वान्मुक्तिस्तदन्यमुक्त्यभावात्तद्धेतुसम्यग्धीसिद्धये प्रवृत्तिरनर्थिकेत्याशङ्क्य सोऽबिभेदित्यस्य तात्पर्यमाह —

यदिदमिति ।

तुष्टूषितं स्तोतुमभिप्रेतमिति यावत् । आह विवक्षितार्थसिद्ध्यर्थं हेतुं भयभाक्त्वमिति शेषः । ज्ञानकर्मफलं त्रैलोक्यात्मकसूत्रत्वमुत्कृष्टमपि संसारान्तर्भूतमेव न कैवल्यमिति वक्तुमुत्तरं वाक्यमित्यर्थः ।

अहमेकाकी कोऽपि मां हनिष्यतीत्यात्मनाशविषयविपरीतज्ञानवत्त्वात्प्रजापतिर्भीतवानित्यत्र किं प्रमाणमित्याशङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह —

यस्मादिति ।

तत्सामान्यादेकाकित्वाविशेषादिति यावत् ।

प्रजापतेः संसारान्तर्भूतत्वे हेत्वन्तरमाह —

किञ्चेति ।

यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्पपुरुषादिभ्रमजनितभयनिवृत्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपादितवानित्यर्थः ।

परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् ।

मच्छब्दोपलक्षितं प्रत्यक्चैतन्यमद्वितीयब्रह्मरूपेण ज्ञात्वा सहेतुं भीतिं प्रजापतिरक्षिपदित्युक्तमिदानीं तत्त्वज्ञानफलमाह —

तत इति ।

कस्माद्धीत्यादेरुत्तरस्य पूर्वेण पौनरुक्त्यमित्याशङ्क्य विदुषो हेत्वभावान्न भयमित्युक्तसमर्थनार्थत्वादुत्तरस्य नैवमित्याह —

तस्येत्यादिना ।

अनुपपत्तौ हेतुमाह —

यस्मादिति ।

परमार्थदर्शनेऽपि वस्त्वन्तरात्किमिति भयं न भवतीत्याशङ्क्याऽऽह —

द्वितीयञ्चेति ।

अन्वयव्यतिरेकाभ्यां द्वैतस्याविद्याप्रत्युपस्थापितत्वेऽपि कुतस्तदुत्थद्वैतदर्शनं भयकारणं न भवतीत्याशङ्क्याऽऽह —

न हीति ।

तत्त्वज्ञाने सत्यायोगात्तदुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्वभावाद्भयानुपपत्तिरित्यर्थः ।

अद्वैतज्ञाने भयनिवृत्तिरित्यत्र मन्त्रं संवादयति —

तत्रेति ।

विराडैक्यदर्शनेनैव प्रजापतेर्भयमपनीतं नाद्वैतदर्शनेनेत्यस्मिन्नर्थेऽपि यन्मदन्यन्नास्तीत्यादि शक्यं व्याख्यातुमित्याशङ्क्याङ्गीकुर्वन्नाह —

यच्चेति ।

तदेव प्रश्नद्वारा प्रकटयति —

कस्मादित्यादिना ।

प्रथमव्याख्यानानुसारेण चोद्यमुत्थापयति —

अत्रेति ।

प्रजापतेर्ब्रह्मात्मैक्यज्ञानाद्भीतिध्वस्तिरुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्वभावादित्याह —

कुत इति ।

यस्मादस्माकमैक्यधीस्तस्मादेव तस्यापि स्यादित्याशङ्क्याऽऽह —

को वेति ।

न हि तस्य शास्त्रश्रवणमाचार्याभावान्नापि संन्यासस्तस्य त्रैवर्णिकविषयत्त्वान्नापि शमादि ऐश्वर्यासक्तत्वादतोऽस्मासु प्रसिद्धश्रवणादिविद्याहेत्वभावान्न प्रजापतेरैक्यधीर्युक्तेत्यर्थः ।

उपदेशानपेक्षमेव प्रजापतेरैक्यज्ञानं प्रादुर्भूतमिति शङ्कते —

अथेति ।

अतिप्रसक्त्या प्रत्याह —

अस्मदादेरिति ।

प्रजापतेर्यजमानावस्थायामाचार्यस्य सत्त्वाच्छ्रवणाद्यावृत्तेरैक्यज्ञानोदयात्तत्संस्कारोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति —

अथेति ।

दूषयति —

एकत्वेति ।

अज्ञानध्वंसित्वेनार्थवत्त्वमित्याशङ्क्याऽऽह —

यथेति ।

तत्र गमकमाह —

यत इति ।

दार्ष्टान्तिकमाह —

एवमिति ।

नन्वस्मिन्नेव जन्मनि प्रजापतेरैक्यधीरनपेक्षा जायते ’ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदुत्पत्त्यनन्तरमेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते —

अन्त्यमेवेति ।

प्रवृत्तफलस्य कर्मणः स्वोपपादकाज्ञानलेशाद्विज्ञानशक्तिप्रतिबन्धकत्वेऽपि, जन्मान्तरसर्वसंसारहेत्वज्ञानध्वंसिज्ञानसामर्थ्यप्रतिबन्धकत्वे मानाभावान्मध्ये जातं ज्ञानमनिवर्तकमित्यशक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यजमानान्तरस्यान्त्ये ज्ञाने तद्ध्वंसित्वादृष्टेरन्त्यत्वस्याज्ञानध्वंसित्वेनानियमात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञानत्वादज्ञानध्वंसि, पूर्वज्ञानेषु बन्धहेत्वज्ञानध्वंसित्वादृष्टेर्ज्ञानत्वहेतोरनैकान्त्यात् । न चान्त्यमैक्यज्ञानमैक्यज्ञानत्वादज्ञानध्वंसीति युक्तम् । उपान्त्यतादृग्ज्ञानवदन्त्येऽपि तदयोगात् ।

उपान्त्ये हेतोरनैकान्त्यादित्यभिप्रेत्य दूषयति —

नेत्यादिना ।

क्लृप्तकारणाभावात्तदन्तरेण चोत्पत्तावतिप्रसंगात्संस्काराधीनत्वेऽपि विशेषाभावादन्त्यस्य च ज्ञानस्याज्ञानध्वंसित्वासिद्धेरयुक्तं प्रजापतेरेकत्वदर्शनमित्युपसम्हरति —

तस्मादिति ।

प्रजापतेः सुप्तप्रतिबुद्धवत्प्रकृष्टादृष्टोत्थकार्यकरणवत्त्वात्पूर्वकल्पीयपदपदार्थवाक्यस्मरणवतः स्मृतिविपरिवर्तिनो वाक्याद्विचार्यमाणाददृष्टसहकृतात्तत्त्वज्ञानं स्याल्लोके विशिष्टादृष्टोत्थकार्यकरणानां प्रज्ञाद्यतिशयदर्शनात्तेन च ज्ञानेन जन्मान्तरहेत्वविद्याक्षयेऽप्यारब्धं कर्म तज्जं भयारत्याद्यविद्यालेशतो भविष्यतीति परिहरति —

नैष दोष इति ।

संगृहीतमर्थं समर्थयते —

यथेत्यादिना ।

धर्मादिचतुष्टयाद्विपरीतमधर्मादिचतुष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृष्टज्ञानादिशालित्वम् ।

उक्तजन्मफलमाह —

तदुद्भवञ्चेति ।

तस्य ज्ञानादिवैशारद्ये पौराणिकीं स्मृतिमुदाहरति —

तथा चेति ।

अप्रतिघमप्रतिबद्धं निरङ्कुशमित्येतत्प्रत्येकं संबध्यते यस्यैतच्चतुष्टयं सहसिद्धं स निरवर्ततेति संबन्धः ।

सहसिद्धत्वस्मृतेः ’सोऽबिभेत्’ इतिश्रुतिविरुद्धत्वादप्रामाण्यमिति विरोधाधिकरणन्यायेन शङ्कते —

सहसिद्धत्व इति ।

सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह —

न हीति ।

अन्येनाऽऽचार्येणानुपदिष्टमेव प्रजापतेर्ज्ञानमुदेतीत्येवमर्थपरत्वात्सहसिद्धवाक्यस्य । तज्ज्ञानात्प्राक्तस्य भयमविरुद्धमूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुतिस्मृत्योरिति समाधत्ते —

नेत्यादिना ।

ज्ञानोत्पत्तेराचार्याद्यनपेक्षत्वे श्रद्धादिविधानानर्थक्यादनेकश्रुतिस्मृतिविरोधः स्यादिति शङ्कते —

श्रद्धेति ।

आदिपदेन शमादिग्रहः ।

अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह —

प्रजापतेरिवेति ।

चोदितं विरोधं निराकरोति —

नेत्यादिना ।

निमित्तानां विकल्पः समुच्चयो गुणवत्त्वमगुणत्त्वमित्यनेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धादिविध्यानर्थक्यमित्यर्थः ।

संग्रहवाक्यं विवृणोति —

लोके हीति ।

तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूपज्ञानाख्यकार्ये दर्शयामीत्याह —

तद्यथेति ।

तत्र विकल्पमुदाहरति —

तमसीत्यादिना ।

समुच्चयं दर्शयति —

अस्माकं त्विति ।

विकल्पितानां समुच्चितानां च निमित्तानां गुणवदगुणवत्त्वप्रयुक्तं भेदं कथयति —

तथेति ।

आलोकविशेषस्य गुणवत्त्वं बहुलत्वमगुणवत्त्वं मन्दप्रभत्वं चक्षुरादेर्गुणवत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः ।

दृष्टान्तं प्रतिपाद्य दार्ष्टान्तिकमाह —

एवमिति ।

तथाऽन्यस्यापि प्रजापतितुल्यस्य वामदेवादेर्जन्मान्तरीयसाधनवशादीश्वरानुग्रहादस्मिञ्जन्मनि स्मृतवाक्यादैक्यज्ञानमुदेतीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचिदित्युच्यते । तपोऽन्वयव्यतिरेकाख्यमालोचनम् ।

श्वेतकेतुप्रभृतिषु ज्ञाननिमित्तानां समुच्चयं दर्शयति —

क्वचिदित्यादिना ।

एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् ।

अथ प्रणिपातादिव्यतिरेकेण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह —

अधर्मादीति ।

प्रणिपातादेर्ज्ञानोदयप्रतिबन्धकनिवर्तकत्वात्प्रजापतेश्च तन्निवृत्तेर्जन्मान्तरीयसाधनायत्तत्वादाधुनिकप्रणिपातादिना विना स्मृतवाक्यादेवैक्यधीः संभवतीत्यर्थः ।

तर्हि श्रवणादिव्यतिरेकेणापि प्रजापतेर्ज्ञानं स्यादित्याशङ्क्याऽऽह —

वेदान्तेति ।

न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्रजापतेस्तु जन्मान्तरीयश्रवणवशादिदानीमनुस्मृतवाक्यात्तदुत्पत्तिरिति शेषः ।

तर्हि श्रद्धादिकमपि प्रतिबन्धकनिवर्तकत्वेन प्रजापतेरादरणीयं तन्निवृत्तिमन्तरेण ज्ञानोत्पत्त्यनुपपत्तेरित्याशङ्क्याऽऽह —

पापादीति ।

आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजापतेरीश्वरानुग्रहात्स्मृतवाक्यस्य परमार्थज्ञानोत्पत्तौ केवलस्य निमित्तत्वात्तस्याऽऽधुनिकश्रद्धाद्यतिरेकेण ज्ञानोदयेऽपि न तद्विधिवैयर्थ्यम् । अस्माकं तद्वशादेव तदुत्पत्तेर्वाक्यतात्पर्यादिज्ञानं सर्वेषामेव ज्ञानसाधनमाचार्यादिषु पुनर्विकल्पसमुच्चयावित्यर्थः ।

अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुतिस्मृतिविरोधोऽस्तीत्युपसंहरति —

तस्मादिति ॥२॥

प्रजापतेर्भयाविष्टात्वेन संसारान्तर्भूतत्वमुक्तमिदानीं तत्रैव हेत्वन्तरमाह —

इतश्चेति ।

अरत्याविष्टत्वे प्रजापतेरेकाकित्वं हेतूकरोति —

यत इति ।

कार्यस्थारतिः कारणस्थारतेर्लिङ्गमित्यनुमानं सूचयति —

इदानीमपीति ।

आदिपदेन भयाविष्टत्वादिग्रहः अरतिं प्रतियोगिनिरुक्तिद्वारा निर्वक्ति —

रतिर्नामेति ।

कथं तर्हि यथोक्तारतिनिरसनमित्याशङ्क्य स द्वितीयमैच्छदित्येतद्व्याचष्टे —

स तस्या इति ।

स हेत्यस्य वाक्यस्य पातनिकाङ्करोति —

तस्येति ।

तेन भावेनेति यावत् ।

कथमभिमानमात्रेण यथोक्तपरिमाणत्वं तत्राऽऽह —

सत्येति ।

निपातोऽवधारणे । तस्यैव पुनरनुवादोऽन्वयार्थः ।

परिमाणमेव प्रश्नपूर्वकं विवृणोति —

किमित्यादिना ।

संप्रति स्त्रीपुंसयोरुत्पत्तिमाह —

स तथेति ।

ननु द्वेधाभावो विराजो वा संसक्तस्त्रीपुम्पिण्डस्य वा ? नाऽऽद्यः । सशब्देन विराड्ग्रहयोगात्तस्य कर्मत्वाद्द्वितीये त्वात्मशब्दानुपपत्तिस्तत्राऽऽह —

इममिति ।

तथा च सशब्देन कर्तृतया विराड्ग्रहणमविरुद्धमित्यर्थः ।

तदेव स्फुटयति —

नेत्यादिना ।

कस्य तर्हि द्विधाकरणमित्याशङ्क्याऽऽह —

किं तर्हीति ।

तच्च द्विधाकरणकर्मेति शेषः ।

कथं तर्हि तत्राऽऽत्मशब्दः संभवतीत्याशङ्क्याऽऽह —

स एव चेति ।

तथाभूतः संसक्तजायापुम्परिमाणोऽभूदिति यावत् ।

न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयोरेतद्द्रष्टव्यं सर्वत्रास्य संभवादित्याह —

लौकिकयोरिति ।

उक्ते निर्वचने लोकानुभवमनुकूलयति —

तस्मादिति ।

प्रागिति सहधर्मचारिणीसंबन्धात्पूर्वमित्यर्थः ।

आकाङ्क्षाद्वारा षष्ठीमादायानुभवमवलम्ब्य व्याचष्टे —

कस्येत्यादिना ।

बृगलशब्दो विकारार्थः ।

अनुभवसिद्धेऽर्थे प्रामाणिकसम्मतिमाह —

एवमिति ।

द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह —

यस्मादिति ।

उद्वहनात्प्रागवस्थायामाकाशः पुरुषार्धः स्त्र्यर्धशून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्तस्त्र्यर्धेन पुनरितरो भागः पूर्यते यथा विदलार्धोऽसंपूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभाविकयोग्यतावशेन संसर्गोऽभूदनादित्वात्संसारस्येति सूचयितुं पुनरित्युक्तम् ।

पुरुषार्धस्येतरार्धस्य च मिथः संबन्धान्मनुष्यादिसृष्टिरित्याह —

तामित्यादिना ॥३॥

स्मार्तं प्रतिषेधमिति । ’न सगोत्रां समानप्रवरां भार्यां विन्देते’त्यादिकमिति यावत् ।

’अकृत्यं हीदं यद्दुहितृगमनं मातृतश्चाऽऽपञ्चमात्पुरुषात्पितृतश्चाऽऽसप्तमादि’ति स्मृतेरिति मत्वाऽऽह —

कथमिति ।

तयोर्जात्यन्तरगमनं कथमित्याशङ्क्याऽऽह —

यद्यपीति ।

शतरूपायां गोभावमापन्नायामृषभादिभावो मनोर्भवतु तावता यथोक्तदोषपरिहारस्तयोर्वडवादिभावे तु न कारणमस्तीत्याशङ्क्याऽऽह —

उत्पाद्येति ।

ततस्तया गोभावादनन्तरमिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।

वाक्यद्वये वीप्सा विवक्षितेत्याह —

तामिति ।

तामेवाभिनयति —

तामजामिति ।

तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभवनाद्यथोक्तादिति यावत् ।

विशेषाणामानन्त्यात्प्रत्येकमुपदेशासंभवं मन्वानः संक्षिप्योपसम्हरन्ति —

एवमेवेति ।

तद्विभजते —

इदं मिथुनमिति ।

पशुकर्मप्रयोगो न्यायः ॥४॥

यद्यपि मन्वादिसृष्टिरेवोक्ता तथापि सर्वा सृष्टिरुक्तैवेति सिद्धवत्कृत्याऽऽह —

स प्रजापतिरिति ।

अवगतिं प्रश्नपूर्वकं विशदयति —

कथमित्यादिना ।

कथं सृष्टिरस्मीत्यवधार्यते कर्तृक्रिययोरेकत्वायोगादित्याशङ्क्याऽऽह —

सृज्यत इतीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —

यन्मयेति ।

जगच्छब्दादुपरि तच्छब्दमध्याहृत्याहमेव तदस्मीति संबन्धः ।

तत्र हेतुमाह —

मदभेदत्वादिति ।

एवकारार्थमाह —

नेति ।

मदभेदत्वादित्युक्तमाक्षिप्य समाधत्ते —

कुत इत्यादिना ।

न हि सृष्टं स्रष्टुरर्थान्तरं तस्यैव तेन तेन मायाविवदवस्थानादित्यर्थः ।

ततः सृष्टिरित्यादि व्याचष्टे —

यस्मादिति ।

किमर्थं स्रष्टुरेषा विभूतिरुपदिष्टेत्याशङ्क्याऽऽह —

सृष्ट्यामिति ।

जगति भवतीति संबन्धः ।

वाक्यार्थमाह —

प्रजापतिवदिति ॥५॥

ननु सर्वा सृष्टिरुक्तोक्तञ्च प्रजापतेर्विभूतिसंकीर्तनफलं किमवशिष्यते यदर्थमुत्तरं वाक्यमित्याशङ्क्याऽऽह —

एवमिति ।

आदावभ्यमन्थदिति संबन्धः ।

अभिनयप्रदर्शनमेव विशदयति —

अनेनेति ।

मुखादेरग्निं प्रति योनित्वे गमकमाह —

यस्मादिति ।

प्रत्यक्षविरोधं शङ्कित्वा दूषयति —

किमित्यादिना ।

हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —

अस्ति हीति ।

प्रजापतेर्मुखादित्थमग्निः सृष्टोऽपि कथं ब्राह्मणमनुगृह्णाति तत्राऽऽह —

तथेति ।

उक्तेऽर्थे श्रुतिस्मृतिसंवादं दर्शयति —

तस्मादिति ।

’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिर्द्रष्टव्या ।

’अग्निमसृजत’ इत्येतदुपलक्षणार्थमित्यभिप्रेत्य सृष्ट्यन्तरमाह —

तथेति ।

बलभिदिन्द्रः । आदिशब्देन वरुणादिर्गृह्यते । क्षत्त्रियं चासृजतेत्यनुवर्तते ।

उक्तमर्थं प्रमाणेन द्रढयति —

तस्मादिति ।

’ऐन्द्रो राजन्यः’ इत्याद्या श्रुतिस्तदनुसारिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वादेर्ज्येष्ठत्वं च तच्छब्दार्थः । ’पद्भ्यां शूद्रो अजायत’ इत्याद्या श्रुतिस्तथाविधा च स्मृतिरनुसर्तव्या ।

अग्निसर्गस्य वक्ष्यमाणेन्द्रादिसर्गोपलक्षणत्वे सति सृष्टिसाकल्यादेष उ एव सर्वे देवा इत्युपसंहारसिद्धिरिति फलितमाह —

तत्रेति ।

उक्तेन वक्ष्यमाणोपलक्षणं सर्वशब्दः सूचयतीति भावः ।

किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —

यथेति ।

तत्र हेतुमाह —

स्रष्टुरिति ।

तथाऽपि कथं देवतादि सर्वं प्रजापतिमात्रमित्याशङ्क्याऽऽह —

प्रजापतिनेति ।

तद्यदिदमित्यादिवाक्यस्य तात्पर्यमाह —

अथेति ।

स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वोक्तप्रकारेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्यदिदमित्याद्यविद्वन्मतान्तरस्य निन्दार्थं वचनमित्यर्थः ।

मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भवतीत्याशङ्क्याऽऽह —

अन्येति ।

एकैकं देवमित्यस्य तात्पर्यमाह —

नामेति ।

काठकं कालापकमितिवन्नामभेदात्क्रतुषु तत्तद्देवतास्तुतिभेदाद्घटशकटादिवदर्थक्रियाभेदाच्च प्रत्येकं देवानां भिन्नत्वात्कर्मिणामेतद्वचनमित्यर्थः । आदिशब्देन रूपादिभेदात्तद्भिन्नत्वं संगृह्णाति ।

नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्मतोपन्यासस्यैव प्रतीतेरित्याशङ्क्याऽऽह —

तन्नेति ।

एकस्यैव प्राणस्यानेकविधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —

प्राण इति ।

अग्न्यादयो देवाः सर्वं प्रजापतिरेवेत्युक्तं संप्रति तत्स्वरूपनिर्दिधारयिषया तत्र विप्रतिपत्तिं दर्शयति —

अत्रेति ।

हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः ।

तत्र पूर्वपक्षं गृह्णाति —

पर एव त्विति ।

नन्वेकस्यानेकात्मकत्वं मन्त्रवर्णादवगम्यते न तु परमात्मत्वं प्रजापतेरित्याशङ्क्य ब्राह्मणवाक्यमुदाहरति —

एष इति ।

ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः ।

तत्रैव वाक्यान्तरं पठति —

योऽसाविति ।

कर्मेन्द्रियाविषयत्वमतीन्द्रियत्वम् । अग्राह्यत्वं ज्ञानेन्द्रियाविषयत्वम् ।

तत्र हेतुमाह —

सुक्ष्मोऽव्यक्त इति ।

न च तस्यासत्त्वं प्रमात्रादिभावाभावसाक्षित्वेन सदा सत्त्वादित्याह —

सनातन इति ।

इतश्च तस्य नासत्त्वं सर्वेषामात्मत्वादित्याह —

सर्वेति ।

अन्तःकरणाविषयत्वमाह —

अचिन्त्य इति ।

योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह —

स एवेति ।

मन्त्रब्राह्मणस्मृतिषु परस्य सर्वदेवतात्मत्वदृष्टेरत्र च सूत्रस्य तत्प्रतीतेस्तस्य परत्वमित्युक्तमिदानीं पूर्वपक्षान्तरमाह —

संसार्येवेति ।

सर्वपाप्मदाहश्रवणमात्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह —

न हीति ।

’अन्तस्तद्धर्मोपदेशादि’त्यत्र परस्यापि सर्वपाप्मोदयाङ्गीकारान्नेदं संसारित्वे लिङ्गमित्याशङ्क्याऽऽह —

भयेति ।

असृजतेति च श्रवणादिति संबन्धः ।

न केवलं मर्त्यत्वश्रुतेरेव संसारित्वं किन्तु जन्मश्रुतेश्चेत्याह —

हिरण्यगर्भमिति ।

यथोक्तहेतूनां संसार्येव स्यादिति प्रतिज्ञयाऽन्वयः ।

कर्मफलदर्शनाधिकारे ब्रह्मेत्याद्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसारित्वमेवेत्याह —

स्मृतेश्चेति ।

विराड्ब्रह्मेत्युच्यते । विश्वसृजो मन्वादयः । धर्मस्तदभिमानिनी देवता यमः । महान्प्रकृतेराद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः ।

अस्तु तर्हि द्विविधवाक्यवशात्प्रजापतेः संसारित्वमसंसारित्वं चेत्याशङ्क्याऽऽह —

अथेति ।

तद्द्विविधवाक्यश्रवणानन्तर्यमथशब्दार्थः । एवंशब्दः संसारित्वासंसारित्वप्रकारपरामर्शार्थः ।

विरोधकृतमप्रामाण्यं निराकरोति —

नेत्यादिना ।

स्वतोऽसंसारित्वं कल्पनया च संसारित्वमिति कल्पनान्तरसंभवाद्द्विविधश्रुतीनामविरोधात्प्रामाण्यसिद्धिरित्यर्थः ।

कल्पनया संसारित्वमित्येतद्विशदयति —

उपाधीति ।

औपाधिकी परस्य विशेषकल्पनेत्यत्र प्रमाणमाह —

आसीत इति ।

स्वारस्येन कूटस्थोऽप्यात्मा मनसः शीघ्रं दूरगमनदर्शनात्तदुपाधिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।

कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —

कस्तमिति ।

आदिपदेन ’ध्यायती’वेत्यादिश्रुतयो गृह्यन्ते ।

उदाहृतश्रुतीनां तात्पर्यमाह —

उपाधीति ।

किं तर्हि पारमार्थिकं तदाह —

स्वत इति ।

पूर्वेण संबन्धः ।

हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरूपितमुपसंहरति —

एवमिति ।

तस्याप्यस्मदादिवन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभाविकमित्याशङ्क्य दृष्टान्तस्य साध्यविकलतामाह —

तथेति ।

सर्वजीवानामेकत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।

तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —

तत्त्वमिति ।

कस्तर्हि हिरण्यगर्भे विशेषो येनासावस्मदादिभिरुपास्यते तत्राऽऽह —

हिरण्यगर्भस्त्विति ।

ननु श्रुतिस्मृतिवादेषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पितमित्यभिप्रेत्याऽऽह —

संसारित्वं त्विति ।

अस्मदादिषु तुल्यमेतदित्याशङ्क्याऽऽह —

जीवानां त्विति ।

कथं तर्हि ’तत्त्वमसि’ ’क्षेत्रज्ञं चापि मां विद्धि’ इत्यादिश्रुतिस्मृतिवादाः संगच्छन्ते तत्राऽऽह —

व्यावृत्तेति ।

स्वमते तत्त्वनिश्चयमुक्त्वा, परमते तदभावमाह —

तार्किकैस्त्विति ।

नन्वेकजीववादेऽपि सर्वव्यवस्थानुपपत्तेस्तत्त्वनिश्चयदौर्लभ्यं तुल्यमिति चेन्नेत्याह —

ये त्विति ।

स्वप्नवत्प्रबोधात्प्रागशेषव्यवस्थासंभवादूर्ध्वं च तदभावस्येष्टत्वादेकमेव ब्रह्मानाद्यविद्यावशादशेषव्यवहारास्पदमिति पक्षे न काचन दोषकलेति भावः ।

सर्वदेवतात्मकस्य प्रजापतेः स्वतोऽसंसारित्वं कल्पनया वैपरीत्यमिति स्थिते सत्यथेत्याद्युत्तरग्रन्थस्य तात्पर्यमाह —

तत्रेति ।

विवक्षित इत्युत्तरग्रन्थप्रवृत्तिरिति शेषः ।

तस्य विषयं परिशिनष्टि —

तत्राग्निरिति ।

अत्राद्ययोर्निर्धारणार्था सप्तमी ।

संप्रति प्रतीकमादायाक्षराणि व्याकरोति —

अथेति ।

अत्तुः सर्गान्तन्तर्यमथशब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमायातमित्याशङ्क्याऽऽह —

द्रवात्मकश्चेति ।

श्रद्धाख्याहुतेः सोमोत्पत्तिश्रवणात्तत्र शैत्योपलब्धेश्चेति भावः ।

सोमस्य द्रवात्मकत्वे फलितमाह —

तस्मादिति ।

अग्नीषोमयोरन्नान्नादयोः सृष्टावपि जगति स्रष्टव्यान्तरमवशिष्टमस्तीत्याशङ्क्याऽऽह —

एतावदिति ।

आप्यायकः सोमो द्रवात्मकत्वादन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।

यथाश्रुतमवधारणमवधीर्य कुतो विधान्तरेण तद्व्याख्यानमित्याशङ्क्याऽऽह —

अर्थ बलाद्धीति ।

अन्नादस्य संहर्तृत्वादग्नित्वमन्नस्य च संहरणीयतया सोमत्वमवधारयितुं युक्तमित्यर्थः ।

नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तुरग्नित्वेन नियमः सोमस्यापि कदाचिदिज्यमानत्वेनात्तृत्वात्तत्कुतोऽर्थबलमित्याशङ्क्याऽऽह —

अग्निरपीति ।

सोऽपि संहार्यश्चेत्सोम एव स च संहर्ता चेदग्निरेवेत्यवधारणसिद्धिरित्यर्थः ।

प्रजापतेः सर्वात्मत्वमुपक्रम्य जगतो द्वेधाविभक्तत्वाभिधानं कुत्रोपयुक्तमित्याशङ्क्य तस्य सूत्रे पर्यवसानात्तस्मिन्नात्मबुद्ध्योपासकस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —

एवमिति ।

अनुग्राहकदेवसृष्टिमुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —

सैषेति ।

’अग्निर्मूर्धा’ इत्यादिश्रुतेरग्न्यादयोऽस्यावयवास्तत्कथं तत्सृष्टिस्ततोऽतिशयवतीत्याशङ्कते —

कथमिति ।

प्रजापतेर्यजमानावस्थापेक्षया देवसृष्टेरुत्कृष्टत्ववचनमविरुद्धमिति परिहरति —

अत आहेति ।

देवसृष्टेरतिसृष्टित्वाभावशङ्कानुवादार्थोऽथशब्दः । ज्ञानस्येत्युपलक्षणं कर्मणोऽपीति द्रष्टव्यम् ।

अतिसृष्ट्यामित्यादि व्याचष्टे —

तस्मादिति ।

देवादिस्रष्टा तदात्मा प्रजापतिरहमेवेत्युपासितुस्तद्भावापत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥

पूर्वोत्तरग्रन्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति —

तद्धेत्यादिना ।

तस्याऽऽदेयत्वार्थं वैदिकमित्युक्तम् ।

साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति —

ज्ञानेति ।

एकरूपस्य मोक्षस्यानेकरूपं न साधनं भवतीति भावः ।

मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह —

कर्त्रादीति ।

किञ्चेदं प्रजापतित्वफलावसानम् । ’मृत्युरस्याऽऽत्मा भवति’ इति श्रुतेः ।

न च तदेव कैवल्यं भयारत्यादिश्रवणादतोऽपि नेदं मुक्त्यर्थमित्याह —

प्रजापतित्वेति ।

किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्तिहेतुरित्याह —

साध्यमिति ।

किञ्च मुक्तिर्व्याकृतादर्थान्तर’मन्यदेव तद्विदितादि’त्यादिश्रुतेः ।

इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह —

एतावदेवेति ।

संप्रत्यव्याकृतकण्डिकामवतारयन्प्रवेशवाक्यात्प्राक्तनस्य तद्धेदमित्यादेर्वाक्यस्य तात्पर्यमाह —

अथेति ।

ज्ञानकर्मफलोक्त्यान्तर्यमथशब्दार्थः । बीजावस्था साभासप्रत्यगविद्या तस्या निर्देष्टुमिष्टत्वमेव न साक्षान्निर्देश्यत्वमनिर्वाच्यत्वादिति वक्तुं निर्दिदिक्षतीत्युक्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः ।

यज्ज्ञाने पुमर्थाप्तिस्तदेव वाच्यं किमिति प्रत्यगविद्योच्यते तत्राऽऽह —

कर्मेति ।

उद्धर्तव्य इति तन्मूलनिरूपणमर्थवदिति शेषः ।

अथ पुरुषार्थमर्थयमानस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह —

तदुद्धरणे हीति ।

ननु संसारस्य मूलमेव नास्ति स्वभाववादात्प्रधानाद्येव वा तन्मूलं नाज्ञातं ब्रह्मेत्याशङ्क्य श्रुतिस्मृतिभ्यां परिहरति —

तथा चेति ।

ऊर्ध्वमुत्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूलमस्येत्यूर्ध्वमूलो हिरण्यगर्भादयो मूलापेक्षयाऽवाच्यः शाखा इत्यवाक्शाखः । एवम् ’ऊर्ध्वमूलमधःशाखम्’ इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ’नेदममूलं भविष्यति’ इति श्रुतेस्तच्चाज्ञातं ब्रह्मैवेति श्रुतिस्मृतिप्रसिद्धमिति भावः ॥६॥

संप्रति प्रतीकमादाय पदानि व्याचष्टे —

तद्धेत्यादिना ।

अप्रत्यक्षाभिधानेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः ।

कथं जगतो बीजावस्थत्वमित्याशङ्क्य तर्हीत्यस्यार्थमाह —

प्रागिति ।

कथं तस्य परोक्षत्वं तत्राऽऽह —

भूतेति ।

निपातार्थमाह —

सुखेति ।

हशब्दार्थमभिनयति —

किलेति ।

यथावर्णितमित्यनर्थत्वेन संसारेऽसारत्वोक्तिः ।

पदद्वयसामानाधिकरण्यलब्धमर्थमाह —

तदिदमिति ।

एकत्वभिनयेनोदाहरति —

तदेवेति ।

एकत्वावगतिफलं कथयति —

अथेति ।

सामानाधिकरण्यवशादेकत्वे निश्चिते सत्यनन्तरम् – ’नासतो विद्यतो भावो नाभावो विद्यते सतः’ इति स्मृतिरनुसृता भवतीति भावः ।

अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति —

तदेवम्भूतमिति ।

तृतीयामित्थम्भावार्थत्वेन व्याचष्टे —

नाम्नेति ।

क्रियापदप्रयोगाभिप्रायं तदनुवादपूर्वकमाह —

व्याक्रियतेति ।

तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह —

व्याक्रियतेत्यादिना ।

स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्योत्पत्तिरयुक्तेत्याशङ्क्याऽऽह —

सामर्थ्यादिति ।

निर्हेतुकार्यसिद्ध्यनुपपत्त्याऽऽक्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साधनक्रियाकरणव्यापारस्तन्निमित्तं तदपेक्ष्य व्यक्तिभावमापद्यतेति योजना ।

नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामान्यविशेषवानर्थो नामव्याकरणवाक्ये विवक्षित इत्याह —

असावित्यादिना ।

असौशब्दः श्रौतोऽव्ययत्वेन नेयः ।

रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूपव्याकरणवाक्येनेत्याह —

तथेत्यादिना ।

अव्याकृतमेव व्याकृतात्मना व्यक्तमित्येतत्सुप्तप्रबुद्धदृष्टान्तेन स्पष्टयति —

तदिदमिति ।

तद्धेत्यत्र मूलकारणमुक्त्वा तन्नामरूपाभ्यामित्यादिना तत्कार्यमुक्तमिदानीं प्रवेशवाक्यस्थसशब्दापेक्षितमर्थमाह —

यदर्थ इति ।

काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्थानुष्ठानाहितचित्तशुद्धिद्वारा तत्त्वज्ञानोपयोगीष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ’सर्वे वेदा यत्पदमामनन्ति’ इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना ।

सर्वस्याऽऽम्नायस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरोधसमाधानार्थमाह —

यस्मिन्निति ।

अध्यासस्य चतुर्विधख्यातीनामन्यतमत्वं वारयति —

अविद्ययेति ।

तस्या मिथ्याज्ञानत्वेन सादित्वादनाद्यध्यासहेतुत्वासिद्धिरित्याशङ्क्याऽऽह —

स्वाभाविक्येति ।

विद्याप्रागभावत्वमविद्याया व्यावर्तयति —

कर्त्रिति ।

न हि तदुपादानत्वमभावत्वे संभवति न चोपादानान्तरमस्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः ।

आत्मनि कर्तृत्वाध्यासस्याविद्याकृतत्वोक्त्या समन्वये विरोधः समाहितः । संप्रत्यध्यासकारणस्योक्तत्वेऽपि निमित्तोपादानभेदं साङ्ख्यवादमाशङ्क्योक्तमेव कारणं तद्भेदनिराकरणार्थं कथयति —

यः कारणमिति ।

श्रुतिस्मृतिवादेषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः ।

नामरूपात्मकस्य द्वैतस्याविद्याविद्यमानदेहत्वाद्विद्यापनोद्यत्वं सिध्यतीत्याह —

यदात्मके इति ।

व्याकर्तुरात्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह —

सलिलादिति ।

व्याक्रियमाणयोर्नामरूपयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह —

मलमिवेति ।

यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽज्ञातब्रह्मोत्थं जगद्ब्रह्ममात्रं तज्ज्ञानबाध्यञ्चेति भावः ।

नित्यशुद्धत्वादिलक्षणमपि वस्तु न स्वतोऽज्ञाननिवर्तकं केवलस्य तत्साधकत्वाद्वाक्योत्थबुद्धिवृत्त्यारूढं तु तथेति मन्वानो ब्रूते —

यश्चेति ।

’आकाशो ह वै नाम नामरूपयोर्निवहिता ते तदन्तरा तद्ब्रह्म’ इति श्रुतिमाश्रित्याऽऽह —

ताभ्यामिति ।

नामरूपात्मकद्वैतासंस्पर्शित्वादेव नित्यशुद्धत्वमशुद्धेर्द्वैतसंबन्धाधीनत्वात्तत्राविद्या प्रयोजिकेत्यभिप्रेत्य तत्संबन्धं निषेधति —

बुद्धेति ।

तस्मादेव दुःखाद्यनर्थासंस्पर्शित्वमाह —

मुक्तेति ।

विद्यादशायां शुद्ध्यादिसद्भावेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह —

स्वभाव इति ।

अव्याकृतवाक्योक्तमज्ञातं परमात्मानं परामृशति —

स इति ।

तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति —

एष इति ।

आत्मा हि स्वतो नित्यशुद्धत्वादिरूपोऽपि स्वाविद्यावष्टम्भान्नामरूपे व्याकरोतीति तत्सर्जनस्याविद्यामयत्वं विवक्षित्वाऽऽह —

अव्याकृते इति ।

तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि —

आत्मेति ।

जनिमन्मात्रमिहशब्दार्थं कथयति —

ब्रह्मादीति ।

तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि —

कर्मेति ।

ब्रह्मात्मैक्ये पदद्वयसामानाधिकरण्याधिगते हेतुमाह —

प्रविष्ट इति ।

परमात्मा स्रष्टा सृष्टे प्रविष्टो जगतीत्यादिष्टमाक्षिपति —

नन्विति ।

पूर्वापरविरोधं समाधत्ते —

नेत्यादिना ।

व्याक्रियतेति कर्मकर्तृप्रयोगाज्जगत्कर्तुरविवक्षितत्वमुक्तमित्याशङ्क्याह —

आक्षिप्तेति ।

मुच्यते वत्सः स्वयमेवेतिवत्कर्मकर्तरि लकारो व्याकरणसौकर्यापेक्षया सत्येव कर्तरि निर्वहतीति भावः ।

अव्याकृतशब्दस्य नियन्त्रादियुक्तजगद्वाचित्वे हेत्वन्तरमाह —

इदंशब्देति ।

कथमुक्तसामानाधिकरण्यमात्रादव्याकृतस्य जगतो नियन्त्रादियुक्तत्वं तत्राऽऽह —

यथेति ।

नियन्त्रादीत्यादिशब्देन कर्तृकरणादिग्रहणम् । निमित्तादीत्यादिपदेनोपादानमुच्यते । विमतं नियन्त्रादिसापेक्षं कार्यत्वात्संप्रतिपन्नवदित्यर्थः ।

कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह —

व्याकृतेति ।

कथं पुनरव्याकृतशब्देन जगद्वाचिना परो गृह्यत एकस्य शब्दस्यानेकार्थत्वायोगादत आह —

दृष्टश्चेति ।

उक्तमेव स्फुटयति —

कदाचिदिति ।

उभयविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —

तद्वदिति ।

इहेत्यव्याकृतवाक्योक्तिः ।

निवासमात्रविवक्षया ग्रामशब्दप्रयोगस्य दार्ष्टान्तिकमाह —

तथेति ।

निवासिजनविवक्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति —

तथा महानिति ।

अव्याकृतवाक्ये परस्य प्रकृतत्वात्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रकारान्तरेणाऽऽक्षिपति —

नन्विति ।

कथमिति सूचितामनुपपत्तिमेव स्पष्टयति —

अप्रविष्टो हीति ।

दृष्टान्तावष्टम्भेन प्रवेशवादी शङ्कते —

पाषाणेति ।

तदेव विवृणोति —

अथापीत्यादिना ।

परस्य परिपूर्णस्य क्वचित्प्रवेशाभावेऽपीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।

दृष्टान्तं व्याचष्टे —

यथेति ।

पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पादेरश्मादिरूपेण स्थितभूतपञ्चकपरिणामत्वात्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पादिस्तद्रूपेण तत्र भूतानामनुप्रवेशवदपरिच्छिन्नस्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवेशसिद्धिरित्यर्थः ।

आक्षेप्ता ब्रूते —

नेति ।

तदेव स्पष्टयति —

यः स्रष्टेति ।

ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —

यथेति ।

पाषाणसर्पन्यायेन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृष्ट्वेत्यादिश्रवणमनुपपन्नमिति व्यतिरेकं दर्शयति —

नत्विति ।

अस्तु तर्हि परस्य मार्जारादिवत्पूर्वावस्थानत्यागेनावस्थानान्तरसंयोगात्मा प्रवेशो नेत्याह —

न चेति ।

निरवयवोऽपरिच्छिन्नश्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्टप्रवेशसदृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।

प्रवेशश्रुत्या निरवयवत्वासिद्धिं शङ्कते —

सावयव इति ।

प्रवेशश्रुतेरन्यथोपपत्तेर्वक्ष्यमाणत्वान्नैवमिति परिहरति —

नेत्यादिना ।

अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।

प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —

प्रतिबिम्बेति ।

आदित्यादौ जलादिना सन्निकर्षादिसंभवात्प्रतिबिम्बाख्यप्रवेशोपपत्तिः । आत्मनि तु परस्मिन्नसंगेऽनवच्छिन्ने केनचिदपि तदभावान्न यथोक्तप्रवेशसिद्धिरित्याह —

न वस्त्वन्तरेणेति ।

प्रकारान्तरेण प्रवेशं चोदयति —

द्रव्य इति ।

परस्यापि कार्ये प्रवेश इति शेषः ।

गुणापेक्षया परस्य दर्शयन्परिहरति —

नेत्यादिना ।

स्वातन्त्र्यश्रवणमेष सर्वेश्वर इत्यादि ।

पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —

फल इत्यादिना ।

विनाशादीत्यादिशब्देनानात्मत्वानीश्वरत्वादि गृह्यते ।

प्रसंगस्येष्टत्वमाशङ्क्य निराचष्टे —

न चेति ।

जन्मादीनां धर्माणां धर्मिणो भिन्नत्वाभिन्नत्वासंभवादिन्यायः । बीजफलयोरवयवावयवित्वं पाषाणसर्पयोराधाराधेयतेत्यपुनरुक्तिः ।

परस्य सर्वप्रकारप्रवेशासंभवे प्रवेशश्रुतेरालम्बनं वाच्यमित्याशङ्क्य पूर्वपक्षमुपसंहरति —

अन्य एवेति ।

जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवेशव्याकरणयोरेककर्तृत्वश्रुतेस्तस्मात्परस्मादन्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —

नेत्यादिना ।

तत्रैव तैत्तिरीयश्रुतिं संवादयति —

तथेति ।

ऐतरेयश्रुतिरपि यथोक्तमर्थमुपोद्बलयतीत्याह —

स एतमेवेति ।

श्रीनारायणाख्यमन्त्रमप्यत्रानुकूलयति —

सर्वाणीति ।

वाक्यान्तरमुदाहरति —

त्वं कुमार इति ।

अत्रैव वाक्यशेषस्याऽनुगुण्यं दर्शयति —

पुर इति ।

उदाहृतश्रुतीनां तात्पर्यमाह —

न परादिति ।

परस्य प्रवेशे प्रविष्टानां मिथो भेदात्तदभिन्नस्य तस्यापि नानात्वप्रसक्तिरिति शङ्कते —

प्रविष्टानामिति ।

न परस्यानेकत्वमेकत्वश्रुतिविरोधादिति परिहरति —

नेत्यादिना ।

विचार विचचारेति यावत् ।

परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति —

प्रवेश इति ।

तेषां संसारित्वेऽपि परस्य किमायातं तदाह —

तदनन्यत्वादिति ।

श्रुत्यवष्टम्भेन दूषयति —

नेति ।

अनुभवमनुसृत्य शङ्कते —

सुखित्वेति ।

नासंसारित्वमिति शेषः ।

गूढाभिसन्धिरुत्तरमाह —

नेति ।

आगमो हि परस्यासंसारित्वे मानं त्वयोच्यते स चाध्यक्षविरुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते —

प्रत्यक्षादीति ।

शङ्किते पूर्ववादिनि स्वाशयमाविष्कृतवति सिद्धान्ती स्वाभिसन्धिमाह —

नोपाधीति ।

उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशेषश्चिदाभासस्तद्गतदुःखादिविषयत्वात्प्रत्यक्षादेराभासत्वात्तेनाऽत्मन्यसंसारित्वागमस्य न विरोधोऽस्तीत्यर्थः ।

किञ्च प्रत्यक्षादीनामनात्मविषयत्वादात्मविषयत्वाच्चाऽऽगमस्य भिन्नविषयतया नानयोर्मिथो विरोधोऽस्तीत्यभिप्रेत्याऽऽत्मनोऽध्यक्षाद्यविषयत्वे श्रुतीरुदाहरति —

न दृष्टेरिति ।

सुख्यहमित्यादिप्रतिभासस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति —

किं तर्हीति ।

बुद्ध्यादिरुपाधिस्तत्राऽऽत्मप्रतिच्छाया तत्प्रतिबिम्बस्तद्विषयमेव सुख्यहमित्यादिविज्ञानमिति योजना ।

आत्मनो दुःखित्वाभावे हेत्वन्तरमाह —

अयमिति ।

अयं देहोऽहमिति दृश्येन द्रष्टुस्तादात्म्याध्यासदर्शनाद्दृश्यविशिष्टस्यैव प्रत्यक्षविषयत्वान्न केवलस्याऽऽत्मनो दुःखादिसंसारोऽस्तीत्यर्थः ।

किञ्चास्थूलादिविशेषणमक्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह —

नान्यदिति ।

किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहावयवावच्छिन्नत्वेन तत्प्रतीतेस्तद्धर्मत्वनिश्चयान्नाऽऽत्मनि संसारित्वं प्राणाणिकमित्याह —

देहेति ।

श्रुतिवशादात्मनः संसारित्वं शङ्कते —

आत्मनस्त्विति ।

सुखं तावदात्माश्रय’मात्मनस्तु कामाये’ति सुखसाधनस्याऽऽत्मार्थत्वश्रुतेरतस्तदविनाभूतं दुःखमपि तत्रेत्यात्मन्यसंसारित्वमयुक्तमित्यर्थः ।

आविद्यकसंसारित्वानुवादेनाऽऽत्मनोतिशयानन्दत्वप्रतिपादकमात्मनस्तु कामायेत्यादिवाक्यमिति मत्वाऽऽह —

नेति ।

तदाविद्यकसंसारानुवादीत्यत्र गमकमाह —

यत्रेति ।

अनेन हि वाक्येनाविद्यावस्थायामेवाऽऽत्मार्थत्वं सुखादेरभ्युपगम्यते । अतो न तस्याऽऽत्मधर्मत्वमित्यर्थः ।

आत्मनि संसारित्वस्याप्रतिपाद्यत्वेऽपि गमकमाह —

तत्केनेति ।

आत्मनोऽसंसारित्वे विद्वदनुभवमनुकूलयितुं चशब्दः ।

तर्कशास्त्रप्रामाण्यादात्मनः संसारित्वमिति शङ्कते —

तार्किकेति ।

बुद्ध्यादिचतुर्दशगुणवानात्मेति तार्किकसमयस्तेन विरोधात्तस्यासंसारित्वमयुक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः ।

सर्वतर्काविरोधी वा कतिपयतर्काविरोधी वा सिद्धान्तः ? नाऽऽद्यः । तार्किकादिसिद्धान्तस्यापि मिथो वैदिकतर्कैश्च विरोधादसिद्धिप्रसंगात् । द्वितीये तु श्रौततर्काविरोधादात्मासंसारित्वसिद्धान्तोऽपि सिद्ध्येदित्यभिसन्धायाऽऽह —

न युक्त्याऽपीति ।

किञ्च दुःखादिरात्मधर्मो न भवति वेद्यत्वाद्रूपादिवदित्याह —

न हीति ।

प्रत्यक्षाविषयत्वोक्त्या प्रतीचस्तद्विषयदुःखाविशेष्यत्वमुक्तमयुक्तं प्रत्यक्षाप्रत्यक्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुणगुणित्वसंभवादिति शङ्कते —

आकाशस्येति ।

यत्र धर्मधर्मिभावस्तत्रैकज्ञानगम्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखात्मनोर्धर्मधर्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्दतन्मात्रमाकाशमिति स्थितेरित्याशयेनाऽऽह —

नैकेति ।

कथं तदनुपपत्तिस्तत्राऽऽह —

न हीति ।

नित्यानुमेयस्येति जरत्तार्किकमतानुसारेण साङ्ख्यसमयानुसारेण चोक्तम् ।

आधुनिकं तार्किकं प्रत्याह —

तस्य चेति ।

सुखादिवदात्मनोऽपि प्रत्यक्षेण विषयीकरणे सत्येकस्मिन्देहे तदैक्यसम्मतेरात्मान्तरस्य तत्रायोगादेकत्र भोक्तृद्वयानिष्टेः पुरुषान्तरस्यान्यं प्रत्यप्रत्यक्षत्वाद्द्रष्ट्रभावादात्मदृश्यत्वासिद्धिरित्यर्थः ।

दीपस्य स्वव्यवहारहेतुत्वेन विषयविषयित्ववदेकस्यैवाऽऽत्मनो द्रष्टृदृश्यत्वसिद्धेर्द्रष्ट्रभावो नास्तीति शङ्कते —

एकस्यैवेति ।

आत्मनो विषयविषयित्वं कार्त्स्न्येनांशाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह —

न युगपदिति ।

क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुणप्रधानत्वायोगान्नैवमित्यर्थः ।

न द्वितीयः । एकभावेऽन्याभावादिति मत्वा कल्पान्तरं प्रत्याह —

आत्मनीति ।

एतेन प्रदीपदृष्टान्तोऽपि प्रतिनीतस्तस्यांशाभ्यां तद्भावे प्रकृताननुकूलत्वात् ।

ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्यग्राहकत्वमुपयन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह —

एतेनेति ।

एकस्योभयत्वनिरासेनेत्यर्थः ।

मा भूत्प्रत्यक्षमागमिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुणत्वाद्रूपादिवदित्याश्रये सिद्धे परिशेषादात्मनस्तदाश्रयत्वादित्याशङ्क्याऽऽह —

प्रत्यक्षेति ।

न हि मिथो विरुद्धयोर्गुणगुणित्वमनुमेयं दुःखादेश्च साभासबुद्धिस्थत्वात्पारिशेष्यासिद्धिरित्यर्थः ।

साभासान्तःकरणनिष्ठदुःखादीत्यत्र प्रमाणाभावात्कथं सिद्धसाधनत्वमित्याशङ्क्य दुःख्यहमित्यादिप्रत्यक्षस्य तत्र प्रमाणत्वादुक्तानुमानस्य सिद्धसाध्यतया परिशेषासिद्धिरित्याह —

दुःखस्येति ।

यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृतदुःखाद्युपलम्भान्नाऽऽत्मनस्तद्वत्त्वमिति हेत्वन्तरमाह —

रूपादिति ।

यत्त्वात्ममनःसंयोगादात्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति —

मनःसंयोगजत्वेऽपीति ।

दुःखस्याऽऽत्मनि मनःसंयोगजत्वेऽभ्युपगतेऽपि मनोवदात्मनः संयोगित्वात्सावयवत्वादिप्रसंगादात्मत्वमेव न स्यादित्यर्थः ।

तत्र संयोगित्वेन सक्रियत्वं साधयति —

नहीति ।

संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति —

न चेति ।

यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चिदिष्टत्वात्तस्य सक्रियत्वमविरुद्धमित्याशङ्क्याऽऽह —

न चेति ।

आत्मा न परिणामी निरवयवत्वान्नभोवदिति भावः ।

किञ्चाऽऽत्मा न गुणी नित्यत्वात्सामान्यवदित्याह —

अनित्येति ।

नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः ।

आकाशे व्यभिचारमाशङ्क्याऽऽह —

न चेति ।

आकाशस्य नित्यत्वं चेत् ’आत्मन आकाशः संभूतः’ इत्यादिश्रुतिविरोधः स्यादिति सूचयितुमागमवादिभिरित्युक्तम् ।

परमाण्वादौ व्यभिचारमाशङ्क्याऽऽह —

न चान्य इति ।

न तावदणवः सन्ति त्र्यणुकेतरसत्त्वे मानाभावाद्दिशश्चाऽऽकाशेऽन्तर्भवन्ति कालस्तु ’सर्वे निमेषा जज्ञिर’ इत्यादिश्रुतेरुत्पत्तिमान्मनोऽप्यन्नमयं श्रुतिप्रसिद्धमतो न क्वचिद्व्यभिचार इति भावः ।

यस्मिन्विक्रियमाणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते —

विक्रियमाणमिति ।

तत्प्रत्ययस्तदेवेदमिति प्रत्ययः ।

विक्रियां वदता द्रव्यस्यावयवान्यथात्वं वाच्यं तदेव तस्यानित्यत्वमत्यन्ताभावस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति —

न द्रव्यस्येति ।

आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते —

सावयवत्वेऽपीति ।

यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभागावसानत्वादवयवविभागे द्रव्यनाशोऽवश्यम्भावीति दूषयति —

न सावयवस्येति ।

यत्सावयवं तदवयवसंयोगपूर्वकमिति न व्याप्तिः ।

सावयवेष्वेव वज्रादिष्ववयवसंयोगपूर्वकत्वे प्रमाणाभावादिति शङ्कते —

वज्रादिष्विति ।

विमतमवयवसंयोगपूर्वकं साववयत्वात्पटवदित्यनुमानेन परिहरति —

नानुमेयत्वादिति ।

आत्मनो मनःसंयोगजन्यदुःखादिगुणत्वे सावयवत्वसक्रियत्वानित्यत्वादिप्रसंगं प्रतिपाद्य प्रकृतमुपसंहरति —

तस्मादिति ।

आत्मनोऽनर्थध्वंसार्थशास्त्रारम्भान्यथानुपपत्त्या संसारितेत्यर्थापत्त्या शङ्कते —

परस्येति ।

अविद्याविद्यमानमात्मस्थमनर्थभ्रमं निराकर्तुं तदारम्भः संभवतीत्यन्यथोपपत्त्या समाधत्ते —

नाविद्येति ।

परस्यैवाविद्याकृतसंसारित्वभ्रान्तिध्वंसार्थं शास्त्रमित्येतद्दृष्टान्तेन स्पष्टयति —

आत्मनीति ।

यत्तु परस्यादुःखित्वमन्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह —

कल्पितेति ।

न तावत्परस्मादन्यो दुःखी ’नान्योऽतोस्ति द्रष्टा’ इत्यादिश्रुतेः । स पुनरनाद्यनिर्वाच्याज्ञानसंबन्धात्तज्जन्यैर्बुद्ध्यादिभिरैक्याध्यासमापन्नः संसरति । तथा च कल्पिताकारद्वारा दुःखिनः परस्याऽऽत्मनोङ्गीकारान्नार्थापत्तेरुत्थानमित्यर्थः ।

परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्रवेशस्वरूपं निरूपयति —

जलेति ।

यथा जले सूर्यादेः प्रतिबिम्बलक्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः ।

अनवच्छिन्नाद्वयचिद्धातोर्वस्त्वन्तरेण सन्निकर्षासंभवान्न प्रतिबिम्बाख्यप्रवेशः संभवतीत्याशङ्क्य वस्त्वन्तरकल्पनया कल्पितसन्निकर्षाद्यादाय प्रतिबिम्बपक्षं साधयति —

आत्मेति ।

तदेव प्रपञ्चयति —

प्रागुत्पत्तेरित्यादिना ।

स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे —

न त्विति ।

कुतश्चिद्दिशो देशात्कालाच्चापक्रमणेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् ।

यत्तु परस्मादन्यस्य प्रवेष्टृत्वमिति तत्राऽऽह —

न चेति ।

अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह —

उपलब्धीति ।

आत्मज्ञानार्थत्वेन प्रवेशादीनां कल्पितत्वात्तद्वाक्यानां न स्वार्थे पर्यवसानमित्यर्थः ।

फलवत्सन्निधावफलं तदङ्गमिति न्यायमाश्रित्योक्तमेव प्रपञ्चयति —

उपलब्धेरित्यादिना ।

ततःशब्दो भक्तियोगपरामर्शी । तदित्यात्मज्ञानमुच्यते ।

तस्याग्र्यत्वं साधयति —

प्राप्यते हीति ।

सृष्ट्यादिवाक्यानामैक्यज्ञानार्थत्वे हेत्वन्तरमाह —

भेदेति ।

कल्पितं प्रवेशं प्रतिपादितमुपसंहरति —

तस्मादिति ।

का पुनरस्य प्रवेशस्य मर्यादेत्याशङ्क्याऽऽह —

आ नखाग्रेभ्य इति ।

संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्यादेत्याशङ्क्याऽऽह —

नखाग्रेति ।

दृष्टान्तद्वयमाकाङ्क्षापूर्वकमुत्थापयति —

तत्रेति ।

प्रवेशाधारो देहादिः सप्तम्यर्थः ।

प्रथमोदाहरणप्रतीकोपादानम् —

यथेति ।

तद्व्याचष्टे —

लोक इति ।

तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह —

अन्तःस्थ उपलभ्यत इति ।

विश्वम्भरशब्दस्याग्निविषयत्वं व्युत्पादयति —

विश्वस्येति ।

तस्य तद्भर्तृत्वं महाभूतत्वाज्जाठरत्वाद्वा द्रष्टव्यम् ।

काष्ठादावग्नेरवहितत्वे युक्तिमाह —

तत्रेति ।

दृष्टान्तद्वये विवक्षितमंशमनूद्य दार्ष्टान्तिकमाह —

यथेत्यादिना ।

आत्मनो जाग्रत्स्वप्नयोर्देहे द्वयी वृत्तिः स्वापे तु सामान्यवृत्तिरेवेत्यवान्तरविभागमाह —

तत्र हीति ।

अवस्थाद्वयं सप्तम्यर्थ; न केवलं विशेषवृत्तिरेव तदोपलब्धा किन्तु सामान्यवृत्तिश्चेति चकारार्थः । अवस्थान्तरे सैवेत्यपि तस्यैवार्थः ।

वाक्यान्तरमवतारयितुं भूमिकामाह —

तस्मादिति ।

यस्मादुभयी वृत्तिरात्मनः शरीरे दृश्यते तस्मात्तत्रैव जलसूर्यवदविद्यया प्रविष्टोऽयमिति योजना ।

व्याकृताज्जगतः सकाशादात्मानं पृथक्कर्तुं तं न पश्यन्तीति वाक्यं तद्व्याचष्टे —

तमात्मानमिति ।

विशिष्टं पश्यन्तोऽपि केवलमात्मानं न पश्यन्तीति यावत् ।

चाक्षुषत्वनिषेधस्येष्टत्वमाशङ्क्य व्याचष्टे —

नोपलभन्त इति ।

उक्तनिषेधमाक्षिपति —

नन्विति ।

प्रतिषेध्यस्य प्राप्तिं दर्शयन्परिहरति —

नेत्यादिना ।

’तन्नामरूपाभ्यां’ ।

स एष इत्यादिवाक्यानां ज्ञानार्थत्वे मानमाह —

रूपमिति ।

विशिष्टस्य दर्शनेऽपि पूर्णस्यादर्शने हेतूक्तिरनन्तरवाक्यमित्याह —

तत्रेति ।

प्रतिज्ञावाक्यार्थे स्थिते सतीति यावत् । तस्मात्तद्दर्शनेऽपि पूर्णस्यादर्शनमिति शेषः ।

विशिष्टस्यापि पूर्णत्वमात्मत्वादन्यथा प्राणनादिकर्तृत्वायोगादिति शङ्कते —

कुत इति ।

प्राणनादिक्रियाकर्ता प्राणादिभिः संहतत्वात्पूर्णो न भवतीत्युत्तरवाक्यैरुत्तरमाह —

उच्यत इति ।

आत्मनि प्राणशब्दप्रवृत्तिमुपपादयति —

प्राणनक्रियाकर्तृत्वादिति ।

तत्कर्तृत्वादात्मा प्राण उच्यते प्राणितीति व्युत्पत्तेरिति योजना ।

सदृष्टान्तमेवकारार्थमाह —

नान्यामिति ।

एवकारार्थमनूद्य हेत्वर्थमुपसंहरति —

तस्मादिति ।

स्वापावस्थायां समस्तकरणोपसंहारेऽपि प्राणस्य व्यापारदर्शनात्प्राधान्यावगमात्प्राणन्नित्यादिवाक्यमादौ व्याख्याय क्रियाशक्तित्वेन प्राणसादृश्याद्वाचो वदन्नित्येतत्पूर्वकमुत्तरवाक्यानि व्याचष्टे —

तथेत्यादिना ।

प्राणनवदनाभ्यामनुक्तकर्मेन्द्रियव्यापारमुपलक्ष्य वाक्यद्वयतात्पर्यमाह —

प्राणन्नेवेति ।

प्राणवागाद्युपाधिद्वारेणाऽऽत्मनीति शेषः ।

दृष्टिश्रुतिभ्यामनुक्तज्ञानेन्द्रियव्यापारोपलक्षणं कृत्वाऽनन्तरवाक्ययोस्तात्पर्यमाह —

पश्यन्निति ।

चक्षुराद्युपाधिद्वाराऽत्मनीति पूर्ववत् ।

उक्तबुद्धीन्द्रियव्यापाराभ्यामनुक्तं तद्व्यापारमुपलक्ष्याऽऽत्मनः स्रष्टृत्वादिपरिच्छेदो न सिद्ध्यति संबन्धं विनोपलक्षणायोगादित्याशङ्क्याऽऽह —

नामरूपेत्यादिना ।

प्रकाश्यप्रकाशकातिरिक्तज्ञेयाभावात्तदुपलम्भे च चक्षुःश्रोत्रयोरिव त्वगादेरपि करणत्वादेकार्थत्वरूपसंबन्धादुपलक्षणसंभवादात्मनः स्रष्टृत्वादिसिद्धिरित्यर्थः ।

तथाप्युक्तकर्मेन्द्रियव्यापारेणानुक्ततद्व्यापारोपलक्षणादात्मनो न गन्तृत्वादिपरिच्छेदः संगच्छते विना संबन्धमुपलक्षणासिद्धेरित्याशङ्क्याऽऽह —

क्रिया चेत्यादिना ।

सर्वा क्रिया नामरूपव्यङ्या प्राणाश्रया च तत्र प्राणाश्रयनामविषयोच्चारणक्रियाव्यञ्जकत्वं वाचो हस्तादीनां तदाश्रयादानादिव्यञ्जकता तस्मादेकाश्रयक्रियाव्यञ्जकत्वयोगादुपलक्षणसंभावादात्मनो गन्तृत्वादिसिद्धिरित्यर्थः ।

शक्तिद्वयोद्भवोक्त्या समस्तसंसारस्य प्रतीच्यध्यासोऽत्र विवक्षित इत्याह —

एतदेवेति ।

उद्भूतं शक्तिद्वयमेतच्छब्दार्थः, उक्तेऽर्थे वाक्यशेषमनुकूलयति —

त्रयमिति ।

आत्मा मन्वानः सन्मन इत्युच्यते मनुत इति व्युत्पत्तेरिति वाक्यान्तरं व्याचष्टे —

मन्वान इति ।

करणे प्रसिद्धस्य मनःशब्दस्य कथमात्मनि वृत्तिरित्याशङ्क्य व्युत्पत्तिभेदमाह —

ज्ञानशक्तीत्यादिना ।

आत्मादिशब्देभ्यो विशेषमाह —

तानीति ।

कृत्स्नात्मवस्त्ववद्योतकानि न भवन्तीत्येतदेव स्फुटयति —

एवं हीति ।

प्राणादीनां कर्मनामत्वे सतीति यावत् । अवद्योत्यमानोऽपि न कृत्स्नो दृष्टः स्यादिति शेषः ।

अकृत्स्नदर्शिनोऽप्यात्मदर्शित्वमाशङ्क्याऽऽह —

स य इति ।

आत्मोपासितुरात्मदर्शनासत्त्वमयुक्तमिति शङ्कित्वा परिहरति —

कस्मादित्यादिना ।

तस्माद्विशिष्टात्मदर्शी न ब्रह्मात्मत्वदर्शीति शेषः ।

उपास्तिर्ज्ञानमुपास्त इति न जानाति स्वभावादुपासनमित्युक्तत्वात् । तथा च जानन्न जानातीति व्याहतिरित्याशङ्क्याऽऽह —

यावदिति ।

एवं वेदेत्येतदेव विव्रियते —

पश्यामीत्यादिना ।

आकाङ्क्षापूर्वकं विद्यासूत्रमवतारयति —

कथमिति ।

तत्र व्याख्येयं पदमादत्ते —

आत्मेतीति ।

तद्व्याचष्टे प्राणादीनीति ।

तस्मिन्दृष्टे पूर्वोक्तदोषपराहित्यं दर्शयति —

स तथेति ।

तत्तद्विशेषणव्याप्तिद्वारेणेति यावत् ।

कथं तत्तद्विशेषोपसंहारी तेन तेनाऽत्मना तिष्ठन्कृत्स्नः स्यात्तत्राह —

वस्तुमात्रेति ।

स्वतोऽस्य प्राणनादिसंबन्धे संभवति किमित्युपाधिसंबन्धेनेत्यासंक्याऽऽह —

तथा चेति ।

आत्मनि सर्वोपसंहारवति दृष्टे पूर्वोक्तदोषाभावात्तं पश्यन्नेवाऽऽत्मदर्शीत्युपसंहरति —

तस्मादिति ।

यथोक्तात्मोपासने पूर्वोक्तदोषाभावे प्रागुक्तमेव हेतुं स्मारयति —

एवमिति ।

तस्यार्थं स्फोरयति —

स्वेनेति ।

वाङ्मनसातीतेनाकार्यकरणेन प्रत्यग्भूतेनेति यावत् ।

आकाङ्क्षापूर्वकमुत्तरवाक्यमवतार्य व्याकरोति —

कस्मादित्यादिना ।

तस्माद्यथोक्तमात्मानमेवोपासीतेति शेषः । अस्यैव द्योतको द्वितीयो हिशब्दः ।

विद्यासूत्रं विधिस्पर्शं विना विवक्षितेऽर्थे व्याख्यायापूर्वविधिरयमिति पक्षं प्रत्याह —

आत्मेत्येवेति ।

अत्यन्ताप्राप्तार्थो ह्यपूर्वविधिर्यथा स्वर्गकामोऽग्निहोत्रं जुहुयादिति । नायं तथा पक्षे प्राप्तत्वादात्मोपासनस्य । तस्य तत्प्राप्तिश्च पुरुषविशेषापेक्षया विचारावसाने स्पष्टीभविष्यतीत्यर्थः ।

इदानीमात्मज्ञानस्याविधेयत्वख्यापनार्थं वस्तुस्वभावालोचनया नित्यप्राप्तिमाह —

यत्साक्षादिति ।

उत्पाद्यतामुक्तश्रुतिभिरात्मविज्ञानं किं तावतेत्यत आह —

तत्रेति ।

कारकादीत्यादिपदं तदवान्तरभेदविषयम् ।

नन्वविद्यायामपनीतायामपि रागद्वेषादिसद्भावाद्वैधी प्रवृत्तिः स्यान्नहि विद्वदविदुषोर्व्यवहारे कश्चिद्विशेषः ’पश्वादिभिश्चाविशेषादि’ति न्यायादत आह —

तस्यामिति ।

बाधितानुवृत्तिमात्रान्न वैधी प्रवृत्तिरबाधिताभिमानमन्तरेण तदयोगादिति भावः ।

विदुषः सुषुप्ततुल्यत्वं व्यावर्तयति —

पारिशेष्यादिति ।

श्रौतज्ञानात्पूर्वमपि सर्वासां चित्तवृत्तीनां जन्मनैवाऽऽत्मचैतन्यव्यञ्जकत्वात्प्राप्तमात्मज्ञानं श्रौते तु ज्ञाने नास्त्यनात्मेति स्फुरणमात्मज्ञानमेवेति नित्यप्राप्तिमभिप्रेत्याऽऽह —

तस्मादिति ।

अस्मिन्पक्ष इति नित्यप्राप्तत्वपक्षोक्तिः ।

अपूर्वविधिवादी शङ्कते —

तिष्ठतु तावदिति ।

सर्वेषां स्वभावतो विषयप्रवणानीन्द्रियाणि नाऽऽत्मज्ञानवार्तामपि मृष्यन्ते तदत्यन्ताप्राप्तत्वादात्मज्ञाने भवत्यपूर्वविधिरिति भावः ।

विशिष्टस्याधिकारिणः शाब्दज्ञानं शब्दादेव सिद्धमिति कथमप्राप्तिरित्याशङ्क्याऽऽह —

ज्ञानेति ।

न खल्वत्र शाब्दज्ञानं विवक्षितं किन्तूपासनम् । उपासनं नाम मानसं कर्म तदेव ज्ञानावृत्तिरूपत्वाज्ज्ञानमित्येकत्वे सत्यप्राप्तत्वाद्विधेयमित्यर्थः ।

तयोरेकत्वं विवृणोति —

नेत्यादिना ।

अनेन हीत्यादौ वेदशब्दस्यार्थान्तरविषयत्ववन्न स वेदेत्यत्रापि किं न स्यादित्याशङ्क्यऽऽह —

अनेनेति ।

उक्तश्रुतिभ्यो यद्विज्ञानं श्रुतं तदुपासनमेवेति योजना । ’स योऽत एकैकमुपास्ते’ इत्युपक्रमात् ’आत्मेत्येवोपासीत’ इत्युपसंहाराच्च न स वेदेत्यत्र तावद्वेदशब्दस्योपासनार्थत्वमेष्टव्यमन्यथोपक्रमोपसंहारविरोधात् । तथा चार्धवैशसासंभवादुपासनमेव सर्वत्र वेदनं न तच्च सर्वथैवाप्राप्तमिति तस्मिन्नपूर्वविधिः स्यादिति भावः ।

इतश्च तस्मिन्नेष्टव्यो विधिरित्याह —

न चेति ।

अतः प्रवर्तको विधिरुपेय इति शेषः ।

स चात्यन्ताप्राप्तविषयत्वान्नियमादिरूपो न भवतीत्याह —

तस्मादिति ।

आत्मोपास्तिर्विधेयेत्यत्र हेत्वन्तरमाह —

कर्मविधीति ।

कर्मात्मज्ञानविध्योः शब्दानुसारेणाविशेषमभिदधाति —

यथेत्यादिना ।

संप्रत्यर्थतोऽप्यविशेषमाह —

मानसेति ।

तदेव दृष्टान्तेन स्पष्टयति —

यथेति ।

यदि क्रिया विधीयते कथं ज्ञानात्मिकेति विशेष्यते तत्राऽऽह —

तथेति ।

इतश्चाऽत्मोपासने विधिरस्तीत्याह —

भावनेति ।

वेदान्तेषु भावनोपेक्षितांशत्रयोपपत्तिं विशदयितुं दृष्टान्तमाह —

यथेति ।

भावनाया विधीयमानत्वे सतीति शेषः । प्रेरणाधर्मकः शब्दव्यापारः स्वज्ञानकरणकः स्तुत्यादिज्ञानेतिकर्तव्यताकः पुरुषप्रयत्नभाव्यनिष्ठः शब्दभावनोच्यते ।

स्वर्गं यागेन प्रयाजादिभिरुपकृत्य साधयेदिति पुरुषप्रवृत्तिरर्थभावनेति विभागः दृष्टान्तस्थमर्थं दार्ष्टान्तिके योजयति —

तथेत्यादिना ।

त्यागो निषिद्धकाम्यवर्जनम् । उपरमो नित्यनैमित्तिकत्यागः । तितिक्षादीत्यादिपदं समाधानादिसंग्रहार्थमित्यंशत्रयमिति संबन्धः । शास्त्रं ’शान्तो दान्त’ इत्यादि । उक्तप्रकारमंशत्रयमन्यदपि सुलभमिति वक्तुमादिपदम् ।

विधियुक्तानां वेदान्तानां कार्यपरत्वेऽपि तद्धीनानां तेषां वस्तुपरतेत्याशङ्क्याऽऽह —

यथा चेति ।

विध्युद्देशत्वेन तच्छेषत्वेनेति यावत् ।

अस्थूलादिवाक्यानामारोपितद्वैतनिषेधेनाद्वयं वस्तु समर्पयतां कथमुपास्तिविधिशेषत्वमित्याशङ्क्याऽऽह —

नेत्यादिना ।

’ब्रह्म वेद ब्रह्मैव भवति’ ’तरति शोकमात्मवित्’ इत्यादीनां फलार्पकत्वेनोपास्तिविध्युपयोगमभिप्रेत्याऽऽह —

फलञ्चेति ।

मोक्षो ब्रह्मप्राप्तिः ।

आत्मोपासनं विधेयमिति पक्षमुक्त्वा पक्षान्तरमाह —

अपर इति ।

तस्यानुपयोगमाशङ्क्याऽऽह —

तेनेति ।

शाब्दस्य ज्ञानस्यासंस्पृष्टापरोक्षात्मविषयत्वाभावमितिशब्देन हेतूकरोति ।

ज्ञानान्तरं वेदान्तेषु विधेयमित्यत्र मानमाह —

एतस्मिन्निति ।

पक्षद्वये प्राप्ते प्रथमपक्षं प्रत्याह —

नार्थान्तराभावादिति ।

तत्र नञर्थमेव स्वयं व्याचष्टे —

न चेति ।

शाब्दज्ञानवतो विषयाभावान्न विधिः संभवत्यविद्यातत्कार्यनिवृत्तौ स्वयं फलावस्थत्वाच्चेत्यर्थः ।

हेतुभागं प्रश्नपूर्वकं विवृणोति —

कस्मादित्यादिना ।

आत्मोपदेशेनानात्मनिषेधद्वारा वाक्योत्थज्ञानातिरेकेणेति यावत् ।

कर्तव्यान्तराभावेऽपि वाक्यजन्यविज्ञानमेव विधेयं स्यादित्याशङ्क्याऽऽह —

तत्र हीति ।

दृष्टान्तेऽपि वाक्योत्थज्ञानातिरेकेण पुरुषप्रवृत्तिरसिद्धेत्याशङ्क्याऽऽह —

न हीति ।

तदनुष्ठानं तर्हि वाक्यार्थज्ञानाधीनमिति व्यर्थो विधिस्तत्राऽऽह —

तच्चेति ।

अधिकारो विधिपुरुषसंबन्धस्तत्कृतज्ञानापेक्षमनुष्ठानमित्यर्थवान्विधिरित्यर्थः ।

तर्हि प्रकृतेऽपि वाक्योत्थज्ञानव्यतिरेकेण पुरुषव्यापारसंभवाद्विधिसाफल्यमित्याशङ्क्याऽऽह —

नत्विति ।

अथ विमतं प्रवर्तकं वैदिकज्ञानत्वाद्विधिवाक्योत्थज्ञानवदित्याशङ्क्य प्रवर्तकविषयत्वमुपाधिरित्याह —

नहीति ।

मिथ्याज्ञानानिवर्तकत्वमुपाध्यन्तरमाह —

अब्रह्मेति ।

वाक्योत्थज्ञानस्य तन्निवर्तकत्वेऽपि प्रवर्तकत्वं किं न स्यादित्याशङ्क्याऽऽह —

न चेति ।

द्वितीयोपाधेः साधनव्याप्तिं शङ्कते —

वाक्येति ।

ब्रह्मात्मैक्यधीपरवाक्योत्थविज्ञानस्याज्ञानतत्कार्यध्वंसित्वध्रौव्यान्न साधनव्याप्तिरित्याह —

नेत्यादिना ।

तद्वादित्वाद्वस्तुपरत्वादिति यावत् ।

उक्तानां वाक्यानां विध्यपेक्षितार्थसमर्पकत्वेन तच्छेषत्वं शङ्क्तितमनुभाषते —

द्रष्टव्येति ।

सिद्धान्तोपक्रमेण समाहितमेतदित्याह —

नेति ।

तदेव स्पष्टयति —

आत्मेति ।

परोक्तमुद्भावयति —

आत्मस्वरूपेति ।

कुत्र तर्हि विधिरात्मज्ञाने वा वाक्यश्रवणे वा तदर्थज्ञानस्मृतिसन्ताने वा चित्तवृत्तिनिरोधे वा ? नाऽऽद्य इत्याह —

नाऽऽत्मवादीति ।

द्वितीयं शङ्कते —

तच्छ्रवणेऽपीति ।

अनिष्टार्थवादिवाक्यस्यासत्यादिलक्षणस्य विधिं विना श्रवणात्तत्त्वमादेरपि तस्मादृते श्रवणमविरुद्धमित्यभिसन्धाय दोषान्तरमाह —

नेत्यादिना ।

तत्त्वमादिश्रवणप्रयोजको विधिरात्मनोऽपि प्रयुङ्क्ते श्रवणमिति चेन्नैवं स खल्वध्ययनविधिरन्यो वा ? आद्ये तदपेक्षया श्रुतस्य तत्त्वमस्यादेः स्वार्थबोधित्वं कर्मवाक्यवदिति स्वार्थनिष्ठत्वाविशेषः, द्वितीये तस्याप्रमाणत्वात्तदीयस्वपरनिर्वाहकत्वं दूरोत्सारितमित्यभिप्रेत्यानवस्थां विवृणोति —

यथेत्यादिना ।

तृतीयमाशङ्कते —

वाक्यजनितेति ।

ततः सा विधेयेति शेषः ।

तस्या विधेयत्वं दूषयति —

नेति ।

अर्थप्राप्तिं विवृणोति —

यदैवेति ।

अनात्मस्मृतिहेत्वज्ञाननिवृत्तौ तत्कार्यस्मृत्यनुपपत्तेः स्वभावबलप्राप्तैवाऽऽत्मस्मृतिरित्युक्तमिदानीमनात्मस्मृतेरनर्थत्वस्यान्वयव्यतिरेकसिद्धत्वाच्चाऽऽत्मस्मृतिः स्वभावप्राप्तेत्याह —

अनर्थत्वेति ।

अनात्मनोऽनर्थत्वनिश्चयाच्च तदीयस्मृत्यनुपपत्तावितरस्मृतिरर्थप्राप्तेत्याह —

आत्मावगताविति ।

आत्मनश्च परमेष्टत्वावगमादर्थप्राप्ता तदीयस्मृतिरित्याह —

आत्मवस्तुनश्चेति ।

अर्थप्राप्त्या विधेयत्वाभावमुपसंहरति —

तस्मादिति ।

अनात्मस्मृतिहेत्वज्ञानाभावादिस्तच्छब्दार्थः । अर्थतः चिदेकरसात्मस्वभावबलादिति यावत् ।

दृष्टफलत्वाच्चाऽत्मस्मृतिर्न विधेयेत्याह —

शोकेति ।

मिथ्याज्ञानमेव सा निवर्तयति न शोकादीत्याशङ्क्याऽऽह —

विपरीतेति ।

आत्मस्मृतेः शोकादिनिवर्तकत्वे मानमाह —

तथा चेति ।

चतुर्थमुत्थापयति —

निरोधस्तर्हीति ।

यदि वाक्योत्थज्ञानादेरविधेयत्वं तर्हि चित्तवृत्तिनिरोधो मुक्तिसाधनत्वेन विधीयतां तस्योक्तज्ञानादेरर्थान्तरत्वादित्यर्थः ।

चोद्यमेव विवृणोति —

अथापीति ।

अर्थान्तरत्वात्तस्य विधेयतेति शेषः ।

तस्य मुक्तिहेतुत्वेन विधेयत्वे योगशास्त्रं संवादयति —

तन्त्रान्तरेष्विति ।

’अथ योगानुशासनमि’ति निःश्रेयसहेतुः समाधिः सूत्रितस्तस्य च लक्षणमुक्तं ’योगश्चित्तवृत्तिनिरोध’ इति । तन्निरोधावस्थायां चाऽऽत्मनः स्वरूपप्रतिष्ठत्वं कैवल्यमाख्यातं तदा द्रष्टुः स्वरूपेऽवस्थानमित्येवं योगशास्त्रे मुक्तिहेतुत्वेनेष्टो निरोधविधिरित्यर्थः ।

योगशास्त्रादपि बलवतीं श्रुतिमाश्रित्योत्तरमाह —

नेत्यादिना ।

चित्तवृत्तिनिरोधस्य मुक्तिहेतुत्वेऽपि न विधेयत्वं विधिं विना तत्सिद्धेरित्याह —

अनन्येति ।

न तावद्यथाकथञ्चिन्निरोधो विधेयः सर्वस्यापि तत्संभवाद्विधिवैयर्थ्यान्नापि सर्वात्मना तन्निरोधो विधेयो ज्ञानादेव तत्सिद्धेर्विध्यानर्थक्यादित्यर्थः ।

’नान्यः पन्था विद्यते’ ’ज्ञानादेव तु कैवल्यमि’त्यादिशास्त्रमनुसरन्नुपेत्यवादं त्यजति —

अभ्युपगम्येति ।

निरोधस्य मुक्तिहेतुत्वमिदमा परामृष्टम् । योगशास्त्रमपि श्रुतिस्मृतिविरोधे न प्रमाणम् । ’एतेन योगः प्रयुक्त’ इति न्यायादिति भावः ।

वेदान्तेषु विधेयाभावोक्त्या विधिर्निरस्तः संप्रत्यंशत्रयवती भावना तेष्वस्तीत्युक्तं दूषयति —

आकाङ्क्षेति ।

तदेव स्फुटयितुमुक्तमनुवदति —

यदुक्तमिति ।

आगमावष्टम्भेन निराचष्टे —

तदसदिति ।

विधिमन्तरेण वाक्यार्थज्ञाने प्रवृत्त्ययोगाद्वैधमेव ज्ञानं सर्वाकाङ्क्षानिवर्तकमित्याशङ्क्याऽऽह —

न चेति ।

यथा कर्मकाण्डे स्वाध्यायविधेरर्थावबोधपर्यन्तत्वेन ज्योतिष्टोमादिविध्यर्थज्ञाने विध्यन्तरं नापेक्षते तथा ज्ञानकाण्डेऽपि स्यादित्यर्थः ।

तत्रापि वेदः कृत्स्नोऽधिगन्तव्य इति विध्यन्तरप्रयुक्तमेव वाक्यार्थज्ञानमित्याशङ्क्याऽऽह —

विध्यन्तरेति ।

श्रुतहान्यश्रुतकल्पनाप्रसंगाच्च न विधिशेषत्वं वेदान्तानामित्याह —

न चेति ।

वेदान्तः स्वार्थे न मानं सिद्धार्थवाक्यत्वात्सोऽरोदीदित्यादिवदित्यनुमानात्तेषां विधिशेषत्वं प्रामाण्यार्थमेष्टव्यमिति शङ्कते —

वस्तुस्वरूपेति ।

तदेवानुमानं प्रपञ्चयति —

अथापीति ।

विधेरश्रुतत्वेऽपीति यावत् ।

फलवन्निश्चितज्ञानाजनकत्वमुपाधिरिति मन्वानः समाधत्ते —

न विशेषादिति ।

नञर्थं स्पष्टयति —

न वाक्यस्येति ।

विशेषं व्याचष्टे —

किं तर्हीति ।

तस्य प्रामाण्यप्रयोजकत्वमन्वयव्यतिरेकाभ्यां दर्शयति —

तद्यत्रेति ।

सामान्यन्यायं प्रकृते योजयन्पृच्छति —

किञ्चेति ।

किं तेषु तादृग्ज्ञानमुत्पद्यते न वेति प्रश्नार्थः ।

द्वितीयेऽनुभवविरोधः स्यादिति मत्वा पक्षान्तरमनूद्य प्रत्याह —

उत्पद्यते चेदिति ।

प्रामाण्ये हेतुसद्भावान्नाप्रामाण्यमित्यर्थः ।

निश्चितज्ञानजनकत्वेऽपि फलवत्त्वविशेषणमसिद्धमित्याशङ्क्याऽऽह —

किंवेति ।

विद्वदनुभवफलश्रुतिसिद्धं विशेषणमिति भावः ।

दृष्टान्तं विघटयितुं प्रश्नान्तरं प्रस्तौति —

एवमिति ।

वेदान्तेष्विवेति यावत् । किं वा नेति शेषः ।

आद्ये साध्यवैकल्यं मत्वा द्वितीयं दूषयति —

न चेदिति ।

तर्हि तद्दृष्टान्तेन तत्त्वमस्यादेरपि स्यादप्रामाण्यमित्याशङ्क्याऽऽह —

तदप्रामाण्य इति ।

विमतं स्वार्थे मानं यथोक्तज्ञानजनकत्वाद्दर्शादिवाक्यवदिति भावः ।

विपक्षे दोषमाह —

तदप्रामाण्ये चेति ।

प्रवर्तकज्ञानजनकत्वमुपाधिरिति शङ्कते —

नन्विति ।

साधनव्याप्तिं धुनीते —

आत्मेति ।

प्रवर्तकधीजनकत्वं धर्मिणि नास्तीत्यङ्गीकरोति —

सत्यमिति ।

तर्हि यथोक्तोपाधिसद्भावादनुमानानुत्थानमित्याशङ्क्याऽऽह —

नैष दोष इति ।

न हि प्रवर्तकधीजनकत्वं प्रामाण्ये कारणं निषेधवाक्येष्वप्रामाण्यप्रसंगात् । न च निवर्तकधीजनकत्वमपि तथा; विधावप्रामाण्यप्रसंगात् । नोभयं प्रत्येकमुभयकारणत्वाभावेनाप्रामाण्यादिति भावः ।

वेदान्तेषु प्रवर्तकधीजनकत्वाभावो न केवलमदोषः किन्तु गुण इत्याह —

अलङ्कारश्चेति ।

’आत्मानं चेदि’त्यादिश्रुते’रेतद्बुध्वे’त्यादिस्मृतेश्चाऽऽत्मज्ञानं कृतकृत्यतानिदानम् । न च ज्ञानस्य प्रवर्तकत्वे तद्युक्तं प्रवृत्तीनां क्लेशाक्षेपकत्वादतो यथोक्तज्ञानजनकत्वं वाक्यानां भूषणमेवेत्यर्थः ।

शब्दोत्थं ज्ञानं विधेयमिति प्रतिक्षिप्य पूर्वोक्तपक्षान्तरमनुवदति —

यत्तूक्तमिति ।

उपासनार्थत्वमित्यात्मोपासनेन तत्साक्षात्कारं भावयेदित्येवमर्थत्वमित्यर्थः ।

अभ्युपगमवादेन परिहरति —

सत्यमिति ।

यथोक्तेषु वाक्येष्वात्मोपासनं तत्साक्षात्कारमुद्दिश्य विधीयते चेत्प्रकृतेऽपि वाक्ये तत्संभवान्नापूर्वविधिरिति प्रक्रमो भज्येतेत्याशङ्क्याऽऽह —

किन्त्विति ।

कथं तर्हि विध्यङ्गीकारवाचोयुक्तिरित्याशङ्क्याऽऽह —

पक्ष इति ।

यथा पक्षे प्राप्तस्यावघातस्य व्रीहीनवहन्तीति नियमरूपो विधिरङ्गीकृतस्तथाऽऽत्मोपासनस्यापि पक्षे प्राप्तस्य तदेव कर्तव्यं नानात्मोपासनमिति यो नियमस्तदर्थता प्रकृतवाक्यस्येति न प्रक्रमविरोधोऽस्तीत्यर्थः ।

पाक्षिकीं प्राप्तिमुक्तामाक्षिपति —

कथमिति ।

का पुनरत्रानुपपत्तिरित्याशङ्क्याऽऽह —

यावतेति ।

आत्मनि वाक्योत्थे विज्ञाने सत्यनात्मस्मृतिहेतूनां मिथ्याज्ञानादीनामपनीतत्वाद्धेत्वभावे फलाभाव इति न्यायेन तासामसंभवादात्मस्मृतिसन्ततिरेव पुनः सदा स्यात्प्रकारान्तरायोगादिति सिद्धान्तिनोक्तत्वान्नाऽऽत्मोपासनस्य पक्षे प्राप्तिरित्यर्थः ।

तस्य नित्यप्राप्तिमुक्तामङ्गीकरोति —

बाढमिति ।

तर्हि नियमविधिवाचोयुक्तिरयुक्तेत्याशङ्क्याऽऽह —

यद्यपीति ।

आत्मनि नित्यापरोक्षसंविदेकताने स्मरणं विस्मरणं वा यद्यपि नोपपद्यते तथाऽपि तयोस्तस्मिन्ननुभवसिद्धत्वान्नियमविधेः सावकाशत्वमित्याशयेनाऽऽह —

शरीरेति ।

अथाऽऽरब्धफलस्यापि कर्मणः सम्यग्ज्ञानान्निवृत्तेर्न विदुषो वागादीनां प्रवृत्तिरत आह —

लब्धेति ।

यथा मुक्तस्येषुपाषाणादेरप्रतिबन्धाद्यावद्वेगं प्रवृत्तिरवश्यम्भाविनी तथा प्रवृत्तफलस्य कर्मणो ज्ञानेनोपजीव्यतया ततो बलवत्त्वात्तद्वशाद्विदुषोऽपि यावद्भोगं वागादिप्रवृत्तिध्रौव्यमित्यर्थः ।

आरब्धकर्मप्राबल्ये फलितमाह —

तेनेति ।

आरब्धस्य कर्मणो यथोक्तेन न्यायेन प्राबल्ये तद्वशात्क्षुधादिदोषो यदोद्भवति तदाऽऽत्मनि विस्मरणादिसंभवात्तज्ज्ञानप्राप्तेः पाक्षिकत्वादवश्यम्भाविकर्मापेक्षया तद्दौर्बल्यं स्यादित्यर्थः ।

तथाऽपि नियमविध्यङ्गीकारस्य किमायातं तदाह —

तस्मादिति ।

ज्ञानस्य पक्षे प्राप्तत्वं तच्छब्दार्थः । आदिपदं ब्रह्मचर्यशमदमादिसंग्रहार्थम् ।

विज्ञायेत्यादिवाक्यानां नियमविध्यर्थत्वमुपसंहरति —

तस्मादिति ।

आदिपदेन प्रकृतमपि वाक्यं संगृह्यते ।

तच्छब्दार्थमेव स्पष्टयति —

अन्यार्थेति ।

शाब्दज्ञानादेव पुमर्थसिद्धेस्तस्य तदावृत्तेस्तृतीयज्ञानस्य वा विधेयत्वाभावाद्वेदान्ताः शुद्धे सिद्धेऽर्थे मानमित्युक्तमिदानीमितिशब्दप्रयुक्तं चोद्यमुत्थापयति —

अनात्मेति ।

आत्मशब्दादूर्ध्वमितिशब्दप्रयोगादात्मशब्दार्थस्योपास्यत्वेनाविवक्षितत्वादात्मगुणकस्यानात्मनोऽव्याकृतशब्दितस्य प्रधानस्योपासनमस्मिन्वाक्ये विवक्षितमित्यर्थः ।

उक्तमेवार्थं दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

अनात्मोपासनमेवात्र विधित्सितमित्यत्र हेत्वन्तरमाह —

आत्मेति ।

तदेव प्रपञ्चयति —

परेणेति ।

ततो वैलक्षण्यं दर्शयति —

इह त्विति ।

वैलक्षण्यान्तरमाह —

इतिपरश्चेति ।

वैलक्षण्यफलमाह —

अत इति ।

नात्रानात्मोपासनं विवक्षितमिति परिहरति —

नेत्यादिना ।

हेत्वर्थं स्फुटयति —

अस्यैवेति ।

आत्मनश्चेदुपास्यत्वं तदा प्रक्रमविरोधः स्यादिति शङ्कते —

प्रविष्टस्येति ।

आत्मनो दर्शनप्रतिषेधं प्रकटयति —

यस्येति ।

तस्यैवेति नियमे हेतुमाह —

प्रकृतेति ।

तच्छब्दस्य प्रकृतपरामर्शित्वात्प्रविष्टस्य च प्रकृतत्वात्तस्य तेनोपादानादिति हेत्वर्थः ।

पूर्वपक्षं निगमयति —

तस्मादिति ।

प्राणनादिविशिष्टस्य परिच्छिन्नत्वात्तस्य दृष्टत्वेऽपि पूर्णस्य न दृष्टतेति निषेधश्रुतिपर्यवसानान्नोपक्रमविरोधोऽस्तीति परिहरति —

नेत्यादिना ।

तदेव विशदयति —

दर्शनेति ।

कथमयमभिप्रायभेद श्रुतेरवगम्यते तत्राऽऽह —

प्राणनादीति ।

प्राणन्नेवेत्यादिना । क्रियाविशेषविशिष्टत्वेनाऽऽत्मनो विशेषणात्तस्य दृष्टत्वेऽपि नासौ परिपूर्णो दृष्टः स्यादिति श्रुतेराशयो लक्ष्यते केवलस्य तु तस्योपास्यत्वमभिसंहितमकृत्स्नत्वदोषाभावादित्यर्थः ।

उक्तमर्थं व्यतिरेकमुखेन साधयति —

आत्मनश्चेदिति ।

तस्यानुपास्यत्वार्थं तद्वचनमर्थवदित्याशङ्क्य तदुपास्यत्वनिषेधस्याऽऽत्मोपास्यत्वे पर्यवसानमभिप्रेत्याऽऽह —

अतोऽनेकैकेति ।

उपक्रमोपसंहाराभ्यामुपास्यत्वमात्मनो दर्शितमिदानीमितिशब्दप्रयोगादनात्मोपासनमिदमित्युक्तं प्रत्याह —

यस्त्विति ।

प्रयोगशब्दादुपरिष्टात्सशब्दो द्रष्टव्यः ।

इतिशब्दस्य यथोक्तार्थत्वाभावे दोषमाह —

अन्यथेति ।

न चाऽऽत्मनः स्वातन्त्र्येणानुपास्यत्वार्थमितिशब्दोऽर्थवान्पूर्वापरवाक्यविरोधादिति द्रष्टव्यम् ।

इतिशब्दमन्तरेण वाक्यप्रयोगे दोषमाह —

तथेति ।

तस्य शब्दप्रत्ययविषयत्वमिष्टमेवेति चेत्तत्राऽऽह —

तच्चेति ।

आत्मोपास्यत्ववाक्यवैलक्षण्यादनात्मोपासनमेतदित्युक्तं तद्दूषयति —

यत्त्विति ।

आत्मैव ज्ञातव्यो नानात्मेति प्रतिज्ञायामत्र हीत्यादिना हेतुरुक्तः संप्रति तदेतत्पदनीयमित्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

अनिर्ज्ञातत्वेति ।

उत्तरमाह —

अत्रेति ।

निर्धारणमेव स्फोरयति —

अस्मिन्निति ।

नान्यदित्युक्तत्वादनात्मनो विज्ञातव्यत्वाभावश्चेदनेन हीत्यादिशेषविरोधः स्यादिति शङ्कते —

किं नेति ।

तस्याज्ञेयत्वं निषेधति —

नेति ।

तस्यापि ज्ञातव्यत्वे नान्यदिति वचनमनवकाशमित्याह —

किं तर्हीति ।

तस्य सावकाशत्वं दर्शयति —

ज्ञातव्यत्वेऽपीति ।

आत्मनः सकाशादनात्मनोऽर्थान्तरत्वात्तस्याऽऽत्मज्ञानाज्ज्ञातव्यत्वायोगाज्ज्ञातव्यत्वे ज्ञानान्तरमपेक्षितव्यमेवेति शङ्कते —

कस्मदिति ।

उत्तरवाक्येनोत्तरमाह —

अनेनेति ।

आत्मन्यानात्मजातस्य कल्पितत्वात्तस्य तदतिरिक्तस्वरूपाभावात्तज्ज्ञानेनैव ज्ञातत्वसिद्धेर्नास्ति ज्ञानान्तरापेक्षेत्यर्थः ।

लोकदृष्टिमाश्रित्यानेनेत्यादिवाक्यार्थमाक्षिपति —

नन्विति ।

आत्मकार्यत्वादनात्मनस्तस्मिन्नन्तर्भावात्तज्ज्ञानेन ज्ञानमुचितमिति परिहरति —

अस्येति ।

सत्योपायाभावादात्मतत्त्वस्य पदनीयत्वासिद्धिरिति शङ्कते —

कथमिति ।

असत्यस्यापि श्रुत्याचार्यादेरर्थक्रियाकारित्वसंभवादात्मतत्त्वस्य पदनीयत्वोपपत्तिरित्याह —

उच्यत इति ।

विवित्सितं लब्धुमिष्टम् । अन्वेषणोपायत्वं दर्शयितुं पदेनेति पुनरुक्तिः ।

अनेनेत्यत्र वेदेति ज्ञानेनोपक्रम्यानुविन्देदिति लाभमुक्त्वा कीर्तिमित्यादिश्रुतौ पुनर्ज्ञानार्थेन विदिनोपसंहारादनुविन्देदिति श्रुतेरुपक्रमोपसंहारविरोधः स्यादिति शङ्कते —

नन्विति ।

शङ्कितं विरोधं निराकरोति —

नेति ।

कथं तयोरैकार्थ्यं ग्रामादौ तदेकत्वाप्रसिद्धेरित्याशङ्क्याऽऽह —

आत्मन इति ।

ग्रामादावप्राप्ते प्राप्तिरेव लाभो न ज्ञानमात्रं तथाऽत्रापि किं न स्यादित्याशङ्क्याऽऽह —

नेत्यादिना ।

ज्ञानलाभशब्दयोरर्थभेदस्तर्हि कुत्रेत्याशङ्क्याऽऽह —

यत्र हीति ।

अनात्मनि लब्धृलब्धव्ययोर्ज्ञातृज्ञेययोश्च भेदे क्रियाभेदात्फलभेदसिद्धिरित्यर्थः ।

नन्वात्मलाभोऽपि ज्ञानाद्भिद्यते लाभत्वादनात्मलाभवदित्याशङ्क्य ज्ञानहेतुमात्रानधीनत्वमुपाधिरित्याह —

स चेति ।

अप्राप्तत्वं व्यक्तीकरोति —

उत्पाद्येति ।

तद्व्यवधानमेव साधयति —

कारकेति ।

किञ्चानात्मलाभोऽविद्याकल्पितः कादाचित्कत्वात्सम्मतवदित्याह —

स त्विति ।

किञ्चासावविद्याकल्पितोऽप्रामाणिकत्वात्संप्रतिपन्नवदित्याह —

मिथ्येति ।

प्रकृते विशेषं दर्शयति —

अयं त्विति ।

वैपरीत्यमेव स्फोरयति —

आत्मत्वादिति ।

आत्मनस्तर्हि नित्यलब्धत्वान्न तत्रालब्धत्वबुद्धिः स्यादित्याशङ्क्याऽऽह —

नित्येति ।

आत्मन्यलाभोऽज्ञानं लाभस्तु ज्ञानमित्येतद्दृष्टान्तेन स्पष्टयति —

यथेत्यादिना ।

शुक्तिकायाः स्वरूपेण गृह्यमाणाया अपीति योजना ।

आत्मलाभोऽविद्यानिवृत्तिरेवेत्यत्रोक्तं वक्ष्यमाणं च गमकं दर्शयति —

तस्मादिति ।

अविरोधमुपसंहरति —

तस्मादित्यादिना ।

तयोरेकार्थत्वेऽपि कथमनुविन्देति मध्ये प्रयुज्यते —

तत्राऽऽह –

विन्दतेरिति ।

आदिमध्यावसानानामविरोधमुक्त्वा कीर्तिमित्यादिवाक्यमवतार्य व्याकरोति —

गुणेत्यादिना ।

इतिशब्दादुपरिष्टाद्यथेत्यस्य संबन्धः । ज्ञानस्तुतिश्चात्र विवक्षिता ज्ञानिनामीदृक्फलस्यानभिलषितत्वादिति द्रष्टव्यम् ॥७॥

आत्मनः पदनीयत्वे तस्यैवाज्ञातत्वसंभवो हेतुरुक्तोऽधुना तत्रैव हेत्वन्तरत्वेनोत्तरवाक्यमवतारयति —

कुतश्चेति ।

अन्यदनात्मेति यावत् ।

विरक्तस्य पुत्रे प्रीत्यभावात्कथमात्मनस्तत्प्रियतरत्वमित्याशङ्क्याऽऽह —

पुत्रो हीति ।

प्रियतरमात्मतत्त्वमिति शेषः ।

लोकदृष्टिमेवावष्टभ्याऽऽह —

तथेति ।

वित्तपदेन मानुषवित्तवद्दैवं वित्तमपि गृह्यते ।

विशेषाणामानन्त्यात्प्रत्येकं प्रदर्शनमशक्यमित्याशयेनाऽऽह —

तथाऽन्यस्मादिति ।

पुत्रादौ प्रीतिव्यभिचारेऽपि प्राणादौ तदव्यभिचारादात्मनो न प्रियतमत्वमिति शङ्कते —

तत्कस्मादिति ।

पदान्तरमादाय व्याकुर्वन्परिहरति —

उच्यत इत्यादिना ।

अन्तरतरत्वे प्रियतमत्वसाधने हेतुरात्मत्वमित्यभिप्रेत्य विशेष्यं व्यपदिशति —

यदयमिति ।

आत्मनो निरतिशयप्रेमास्पदत्वेऽपि कुतस्तस्यैव पदनीयत्वमित्याशङ्क्य वाक्यार्थमाह —

यो हीत्यादिना ।

पुत्रादिलाभे दारादीनां कर्तव्यत्वेन प्राप्तप्रयत्नविरोधादात्मलाभे प्रयत्नः सुकरो न भवतीत्याशङ्क्याऽऽह —

कर्तव्यतेति ।

आत्मनो निरतिशयप्रेमास्पदत्वे युक्तिं पृच्छति —

कस्मादिति ।

आत्मप्रियस्योपादानमनुसन्धानमितरस्यानात्मप्रियस्य हानमननुसन्धानम् । विपर्ययोऽनात्मनि पुत्रादावभिनिवेशेनाऽऽत्मप्रियस्याननुसन्धानमिति विभागः ।

युक्तिलेशं दर्शयितुमनन्तरवाक्यमवतारयति —

उच्यत इति ।

यः कश्चिदात्मप्रियवादी स तस्मादन्यं प्रियं ब्रुवाणं प्रति ब्रूयादिति संबन्धः ।

वक्तव्यं प्रश्नपूर्वकं प्रकटयति —

किमित्यादिना ।

आत्मप्रियवादिन्येवं वदत्यपि पुत्रादिनाशस्तद्वाक्यार्थो नियतो न सिद्ध्यतीत्याशङ्क्य परिहरति —

स कस्मादित्यादिना ।

हशब्दोऽवधारणार्थः समर्थपदादुपरि संबध्यते । तस्मादेवं वक्तीति शेषः ।

उक्तं सामर्थ्यमनूद्य फलितमाह —

यस्मादिति ।

अथाऽत्मप्रियवादिना यथोक्तं सामर्थ्यमेव कथं लब्धमित्याशङ्क्याऽऽह —

यथेति ।

’अतोऽन्यदार्तमि’त्यनात्मनो विनाशित्वाद्विनाशिनश्च दुःखात्मकत्वात्तत्प्रियत्वस्य भ्रान्तिमात्रत्वादात्मनस्तद्वैपरीत्यान्मुख्या प्रीतिस्तत्रैवानात्मन्यमुख्येति भावः ।

पक्षान्तरमनूद्य वृद्धप्रयोगाभावेन दूषयति —

ईश्वरशब्द इति ।

अनात्मन्यमुख्या प्रीतिरिति स्थिते फलितमाह —

तस्मादिति ।

उपास्तिमनूद्य तत्फलं कथयति —

स य इति ।

अनुवादद्योतको हशब्दः प्रियमात्मसुखं तस्यापि लौकिकसुखवन्नाशः सुखत्वादित्याशङ्किते तन्निरासार्थमनुवादमात्रमत्र विवक्षितमित्याह —

नित्येति ।

फलश्रुतेर्गत्यन्तरमाह —

आत्मप्रियेति ।

महद्धीदमात्मप्रियग्रहणं यत्तन्निष्ठस्य प्रियं न प्रणश्यति तस्मात्तदनुसन्धानं कर्तव्यमिति स्तुत्यर्थं फलकीर्तनमित्यर्थः ।

पक्षान्तरमाह —

प्रियगुणेति ।

यो मन्दः सन्नात्मदर्शी तस्य प्रियगुणविशिष्टात्मोपासने प्रियं प्राणादि न नश्यतीति फलं विधातुं फलवचनमित्यर्थः ।

नन्वात्मानं प्रियमुपासीनस्य प्रियं प्राणादि विद्यासामर्थ्यान्न नश्यति तथा च मन्दविशेषणं मन्दमित्याशङ्क्याऽऽह —

ताच्छील्येति ।

ताच्छील्येऽर्थे विहितस्योकञ्प्रत्ययस्य श्रुत्योपादानात्स्वभावहानायोगाच्च प्रमरणशीलत्वाभावेऽपि प्राणादेरात्यन्तिकमप्रमरणमविवक्षितमित्यर्थः ॥८॥

तदाहुरित्यादेर्गतेन ग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रितेति ।

तस्यां प्रमाणमाह —

यदर्थेति ।

तर्हि सूत्रव्याख्यानेनैव सर्वोपनिषदर्थसिद्धेस्तदाहुरित्यादि वृथेत्याशङ्क्याऽऽह —

तस्येति ।

विद्यासूत्रं व्याख्यातुमिच्छन्ती श्रुतिः सूत्रितविद्याविवक्षितप्रयोजनाभिधानायोपोद्घातं चिकीर्षति । प्रतिपाद्यमर्थं बुद्धौ संगृह्य तादर्थ्येनार्थान्तरोपवर्णनस्य तथात्वाच्चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं प्रचक्षत इति न्यायादित्यर्थः ।

यद्ब्रह्मविद्ययेत्यादिवाक्यप्रकाश्यं चोद्यं तच्छब्देनोच्यते प्रकृतसंबन्धासंभवादित्याह —

तदितीति ।

ब्राह्मणमात्रस्य चोद्यकर्तृत्वं व्यावर्तयति —

ब्रह्मेति ।

उत्प्रेक्षया ब्रह्मवेदनेच्छावत्त्वं व्यावर्तयितुं तदेव विशेषणं विभजते —

जन्मेति ।

जन्म च जरा च मरणञ्च तेषां प्रबन्धे प्रवाहे चक्रवदनवरतं भ्रमणेन कृतं यदायासात्मकं दुःखं तदेवोदकं यस्मिन्नपारे संसाराख्ये महोदधौ तत्र प्लवभूतं तरणसाधनमिति यावत् । तत्तीरं तस्य संसारसमुद्रस्य तीरं परं ब्रह्मेत्यर्थः ।

तेषां विविदिषायाः साफल्यार्थं तत्प्रत्यनीके संसारे वैराग्यं दर्शयति —

धर्मेति ।

निर्वेदस्य निरङ्कुशत्वं वारयति —

तद्विलक्षणेति ।

उत्तरवाक्यमवतार्य व्याचष्टे —

किमित्यादिना ।

अथ परा यया तदक्षरमधिगम्यत इति श्रुत्यन्तरमाश्रित्याऽऽह —

यद्ययेति ।

मनुष्या यन्मन्यन्ते तत्र विरुद्धं वस्तु भातीति शेषः ।

मनुष्यग्रहणस्य कृत्यमाह —

मनुष्येति ।

ननु देवादीनामपि विद्याधिकारो देवताधिकरणन्यायेन वक्ष्यते तत्कुतो मनुष्याणामेवाधिकारज्ञापनमित्यत आह —

मनुष्या इति ।

विशेषतः सर्वाविसंवादेनेति यावत् ।

तथाऽपि किमिति ते ज्ञानान्मुक्तिं सिद्धवद्ब्रुवन्तीत्याशङ्क्याऽऽह —

यथेति ।

उभयत्र कर्मब्रह्मणोरिति यावत् ।

उत्तरवाक्यमुपादत्ते —

तत्रेति ।

मनुष्याणां मतं तच्छब्दार्थः । वस्तुशब्देन ज्ञानात्फलमुच्यते । आक्षेपगर्भस्य चोद्यस्य प्रवृत्तौ विरोधप्रतिभासो हेतुरित्यतः शब्दार्थः ।

तद्ब्रह्म परिच्छिन्नमपरिच्छिन्नं वेति कुतो ब्रह्मणि चोद्यते तत्राऽह —

यस्येति ।

प्रश्नान्तरं करोति —

तत्किमिति ।

ब्रह्म स्वात्मानमज्ञासीदतिरिक्तं वेतिप्रश्नस्य प्रसंगं दर्शयति —

यस्मादिति ।

सर्वस्य व्यतिरिक्तविषये ज्ञानं प्रसिद्धं तत्किं विचारेणेत्याशङ्क्याऽऽह —

ब्रह्म चेति ।

सर्वं खल्विदं ब्रह्मेत्यादौ ब्रह्मणः सर्वात्मत्वश्रवणादतिरिक्तविषयाभावादात्मानमेवावेदिति पक्षस्य सावकाशतेत्यर्थः ।

किंशब्दस्य प्रश्नार्थत्वमुक्त्वाऽऽक्षेपार्थमाह —

तद्यदीति ।

ब्रह्म हि किञ्चिदज्ञात्वा सर्वमभवज्ज्ञात्वा वा ? नाऽऽद्यो ब्रह्मविद्यानर्थक्यादित्युक्त्वा द्वितीयमनुवदति —

अथेति ।

स्वरूपमन्यद्वा ज्ञात्वा ब्रह्मणः सर्वापत्तिरिति विकल्प्योभयत्र साधारणं दूषणमाह —

विज्ञानेति ।

द्वितीये दोषान्तरमाह —

अनवस्थेति ।

बहिरेवाऽऽक्षेपं परिहरति —

न तावदिति ।

अज्ञात्वैव ब्रह्मणः सर्वभावोऽस्मदादेस्तु ज्ञानादिति शास्त्रार्थे वैरूप्यम् । न चास्मदादेरपि तदन्तरेण तद्भावः शास्त्रानर्थक्यात् ।

ज्ञानाद्ब्रह्मणः सर्वभावापक्षे स्वोक्तं दोषमाक्षेप्ता स्मारयति —

फलेति ।

स्वतोऽपरिच्छिन्नं ब्रह्माविद्यातत्कार्यसंबन्धात्परिच्छिन्नवद्भाति तन्निवृत्त्यौपाधिकं सर्वभावस्य साध्यत्वं न चानवस्था ज्ञेयान्तरानङ्गीकारान्नापि[स्व]क्रियाविरोधो विषयत्वमन्तरेण वाक्यीयबुद्धिवृत्तौ स्फुरणादिति परिहरति —

नैकोऽपीति ।

एतेन विद्यावैयर्थ्यमपि परिहृतमित्याह —

अर्थेति ।

यद्यपि ब्रह्मापरिच्छिन्नं नित्यसिद्धं तथाऽपि तत्राविद्यातत्कार्यध्वंसरूपस्यार्थविशेषस्य ज्ञानादुपपत्तेर्न तद्वैयर्थ्यमित्यर्थः ॥९॥

इदानीं प्रश्नमनूद्य तदुत्तरत्वेन ब्रह्मेत्यादिश्रुतिमवतारयति —

यदीत्यादिना ।

अत्र वृत्तिकृतां मतानुसारेण ब्रह्मशब्दार्थमाह —

ब्रह्मेति ।

तस्य परिच्छिन्नत्वाज्ञानेन सर्वभावस्य साध्यत्वसंभवादिति हेतुमाह —

सर्वभावस्येति ।

सिद्धान्ते यथोक्तहेत्वनुपपत्तिं दोषमाह —

न हीति ।

सा तर्हि विज्ञानसाध्या मा भूदित्यत आह —

विज्ञानेति ।

हिरण्यगर्भस्य नोपदेशजन्यज्ञानाद्ब्रह्मभावः ’सहसिद्धं चतुष्ट्यम्’ इति स्मृतेः । स्वाभाविकज्ञानवत्त्वात्तस्मात्तत्सर्वमभवदिति चोपदेशाधीनधीसाध्योऽसौ श्रुतौ । न चाऽऽसीदित्यतीतकालावच्छेदस्त्रिकाले तस्मिन्युज्यते । समवर्ततेति च जन्ममात्रं श्रूयते । कालात्मके तत्संबन्धस्य स्वाश्रयपराहतत्वान्मनुष्याणां प्रकृतत्वाच्च नापरं ब्रह्मेह ब्रह्मशब्दमित्यपरितोषाद्वृत्तिकारमतं हित्वा ब्रह्मेति ब्रह्मभावी पुरुषो निर्दिश्यत इति भर्तृप्रपञ्चोक्तिमाश्रित्य तन्मतमाह —

मनुष्येति ।

तदेव प्रपञ्चयति —

सर्वमित्यादिना ।

द्वैतकत्वं सर्वजगदात्मकमपरं हिरण्यगर्भाख्यं ब्रह्म तस्मिन्विद्या हिरण्यगर्भोऽहमित्यहङ्ग्रहोपास्तिस्तस्या समुच्चितया तद्भावमिहैवोपगतो हिरण्यगर्भपदे यद्भोज्यं ततोऽपि दोषदर्शनाद्विरक्तः सर्वकर्मफलप्राप्त्या निवृत्तिकामादिनिगडः साध्यान्तराभावाद्विद्यामेवार्थयमानस्तद्वशाद्ब्रह्मभावी जीवोऽस्मिन्वाक्ये ब्रह्मशब्दार्थ इति फलितमाह —

अत इति ।

कथं ब्रह्मभाविनि जीवे ब्रह्मशब्दस्य प्रवृत्तिरित्याशङ्क्याऽऽह —

दृष्टश्चेति ।

आदिशब्देन “गृहस्थः सदृशीं भार्यां विन्देते”त्यादि गृह्यते । इहेति प्रकृतवाक्यकथनम् ।

भर्तृप्रपञ्चव्याख्यानं दूषयति —

तन्नेति ।

ब्रह्मशब्देन परस्मादर्थान्तरस्य ग्रहे तस्य सर्वभावापत्तेः साध्यत्वादनित्यत्वापत्तेर्न तन्मतमुचितमित्यर्थः ।

साध्यस्यापि मोक्षस्य नित्यत्वमाशङ्क्य यत्कृतकं तदनित्यमिति न्यायमाश्रित्याऽऽह —

न हीति ।

सामान्यन्यायं प्रकृते योजयति —

तथेति ।

भवतु सर्वभावापत्तेरनित्यत्वं का हानिस्तत्राऽऽह —

अनित्यत्वे चेति ।

किञ्च जीवस्याब्रह्मत्वं तवाविद्याकृतं पारमार्थिकं वेति विकल्प्याऽऽद्यमनूद्य दूषयति —

अविद्याकृतेति ।

तत्रानुवादभागं विभजते —

प्रागित्यादिना ।

ब्रह्मभाविपुरुषकल्पना व्यर्थेत्युक्तं व्यक्तीकरोति —

तदेति ।

तस्मिन्पक्षे यद्ब्रह्मज्ञानात्पूर्वमपि परमार्थतः परं ब्रह्माऽऽसीत्तदेव प्रकृते वाक्ये ब्रह्मशब्देनोच्यत इति युक्तं वक्तुं तद्धि ब्रह्मशब्दस्य मुख्यमालम्बनमिति योजना ।

गौर्बाहीक इतिवदमुख्यार्थोऽपि ब्रह्मशब्दो निर्वहतीत्याशङ्क्याऽऽह —

यथेति ।

निरतिशयमहत्त्वसंपन्नं वस्तु ब्रह्मशब्देन श्रुतमश्रुतस्तु ब्रह्मभावी पुरुषः श्रुतहान्या चाश्रुतकल्पना न न्यायवती तस्मात्तत्कल्पना न युक्तेतिव्यावर्त्यमाह —

नत्विति ।

अग्निरधीतेऽनुवाकमित्यादौ श्रुतहान्याऽश्रुतोपादानं दृष्टमित्याशङ्क्याऽऽह —

महत्तर इति ।

तत्राग्निशब्दस्य मुख्यार्थत्वे सत्यन्विताभिधानानुपपत्त्या वाक्यार्थासिद्धेस्तज्ज्ञाने प्रयोजने श्रुतमपि हित्वाऽश्रुतं गृह्यते प्रकृते त्वसति प्रयोजनविशेषे श्रुतहान्यादिर्न युक्तिमतीत्यर्थः । मनुष्याधिकारं निर्वोढुं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्य महत्तरविशेषणम् । यद्ब्रह्मविद्ययेति परस्यापि तुल्यमधिकृतत्वं तस्य चाविद्याद्वाराऽधिकारित्वमविरुद्धमित्यग्रे स्फुटीभविष्यतीति भावः ।

द्वितीयं कल्पमुत्थापयति —

अविद्येति ।

ब्रह्मविद्यावैयर्थ्यप्रसंगान्मैवमिति दूषयति —

न तस्येति ।

अनुपपत्तिमेव साधयति —

न हीति ।

साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं साधयति —

न हीति ।

साक्षादारोपमन्तरेणेति यावत् । वस्तुधर्मस्य परमार्थभूतस्य पदार्थस्येत्यर्थः ।

विद्यायास्तर्हि कथमर्थवत्त्वं तत्राऽऽह —

अविद्यायास्त्विति ।

सर्वत्र शुक्त्यादाविति यावत् ।

विमतमविद्यात्मकं विद्यानिवर्त्यत्वाद्रजतादिवदित्यभिप्रेत्य दार्ष्टान्तिकमाह —

तथेति ।

विमतं न कारकं विद्यात्वाच्छुक्तिविद्यावदित्याशयेनाऽऽह —

न त्विति ।

अब्रह्मत्वादेर्वास्तवत्वायोगादयुक्ता ब्रह्मभाविपुरुषकल्पनेत्युपसंहरति —

तस्मादिति ।

ब्रह्मण्यविद्यानिवृत्तिर्विद्याफलमित्यत्र चोदयति —

ब्रह्मणीति ।

न हि सर्वज्ञे प्रकाशैकरसे ब्रह्मण्यज्ञानमादित्ये तमोवदुपपन्नमिति भावः ।

तस्याज्ञातत्वमज्ञत्वं वाऽऽक्षिप्यते ? नाऽऽद्य इत्याह —

न ब्राह्मणीति ।

नहि तत्त्वमसीति विद्याविधानं विज्ञाते ब्रह्मणि युक्तं पिष्टपिष्टिप्रसंगात् । अतस्तदज्ञातमेष्टव्यमित्यर्थः ।

ब्रह्मात्मैक्यज्ञानं शास्त्रेण ज्ञाप्यते तद्विषयं च श्रवणादि विधीयते तेन तस्मिन्नज्ञातत्वमेष्टव्यमित्युक्तमर्थं दृष्टान्तेन साधयति —

न हीति ।

मिथ्याज्ञानस्याज्ञानाव्यतिरेकाद्ब्रह्मण्यविद्याध्यारोपणायां शुक्तौ रूप्यारोपणं दृष्टान्तितमिति द्रष्टव्यम् ।

कल्पान्तरमालम्बते —

न ब्रूम इति ।

ब्रह्माविद्याकर्तृ न भवतीत्यस्य यथाश्रुतो वाऽर्थस्तदन्यस्तदाश्रयोऽस्तीति वा ? तत्राऽद्यमङ्गीकरोति —

भवत्विति ।

अनादित्वादविद्यायाः कर्त्रपेक्षाभावात् विना च द्वारं ब्रह्मणि भ्रान्त्यनभ्युपगमादित्यर्थः ।

द्वितीयं प्रत्याह —

किं त्विति ।

ब्रह्मणोऽन्यश्चेतनो नास्तीत्यत्र श्रुतिस्मृतीरुदाहरति —

नान्योऽतोऽस्तीत्यादिना ।

ब्रह्मणोऽन्योऽचेतनोऽपि नास्तीत्यत्र मन्त्रद्वयं पठति —

यस्त्विति ।

ब्रह्मणोऽन्यस्याज्ञस्याभावे दोषमाशङ्कते —

नन्विति ।

किमिदमानर्थक्यमवगतेऽनवगते वा चोद्यते तत्राऽऽद्यमङ्गीकरोति —

बाढमिति ।

द्वितीये नोपदेशानर्थक्यमवगमार्थत्वादिति द्रष्टव्यम् ।

उपदेशवदवगमस्यापि स्वप्रकाशे वस्तुनि नोपयोगोऽस्तीति शङ्कते —

अवगमेति ।

अनुभवमनुसृत्य परिहरति —

न । अनवगमेति ।

सा वस्तुनो भिन्ना चेदद्वैतहानिरभिन्ना चेज्ज्ञानाधीनत्वासिद्धिरिति शङ्कते —

तन्निवृत्तेरिति ।

अनवगमनिवृत्तेर्दृश्यमानतया स्वरूपापलापायोगात्प्रकारान्तरासंभवाच्च पञ्चमप्रकारत्वमेष्टव्यमिति मत्वाऽऽह —

न दृष्टेति ।

दृष्टमपि युक्तिविरोधे त्याज्यमित्याशङ्क्याऽऽह —

दृश्यमानमिति ।

दृष्टविरुद्धमपि कुतो नेष्यते तत्राऽऽह —

न चेति ।

अनुपपन्नत्वमङ्गीकृत्योक्तम् , तदेव नास्तीत्याह —

न चेति ।

युक्तिविरोधे दृष्टिराभासीभावतीति शङ्कते —

दर्शनेति  ।

दृष्टिविरोधे युक्तेरेवाऽभासत्वं स्यादिति परिहरति —

तत्रापीति ।

अनुपपन्नत्वं हि सर्वस्य दृष्टिबलादिष्टं दृष्टस्य त्वनुपपन्नत्वे न किञ्चिन्निमित्तमस्तीत्यर्थः ।

ब्रह्मभाविपुरुषकल्पनां निराकृत्य स्वपक्षे शास्त्रस्यार्थवत्त्वमुक्तं संप्रति प्रकारान्तरेण पूर्वपक्षयति —

पुण्य इति ।

आदिशब्देन ’योऽयं विज्ञानमयः प्राणेषु’ इत्याद्या श्रुतिर्गृह्यते । ’कुरु कर्मैव तस्मात्त्वम्’ इत्याद्या स्मृतिः । न्यायो मिथो विरुद्धयोरेकत्वायोगः । विलक्षणत्वमन्यत्वे हेतुः ।

जीवस्य परस्मादन्यत्वेऽपि न तस्य ततोऽन्यत्वमित्याशङ्क्याऽऽह —

तद्विलक्षणश्चेति ।

परस्य तद्विलक्षणत्वं श्रुतितो दर्शयित्वा तत्रैवोपपत्तिमाह —

कणादेति ।

क्षित्यादिकमुपलद्भिमत्कर्तृकं कार्यत्वाद्घटवदित्याद्योपपत्तिः ।

तयोर्मिथो भेदे हेत्वन्तरमाह —

संसारेति ।

जीवस्य स्वगतदुःखध्वंसे दुःखं मे मा भूदित्यर्थित्वेन प्रवृत्तिर्दृष्टा नेशस्य साऽस्ति दुःखाभावादतो भेदस्तयोरित्यर्थः ।

इतश्चेश्वरस्य न प्रवृत्तिर्हेतुफलयोरभावादित्याह —

अवाकीति ।

मिथो भेदे श्रौतं लिङ्गान्तरमाह —

सोऽन्वेष्टव्य इति ।

तत्रैव लिङ्गान्तरमाह —

मुमुक्षोश्चेति ।

गतिर्देवयानाख्या तस्या मार्गविशेषोऽर्चिरादिर्देशो गन्तव्यं ब्रह्म तेषामुपदेशा”स्तेऽर्चिषमभिसंभवन्ती”त्यादयस्तथाऽपि कथं भेदसिद्धिस्तत्राऽऽह —

असतीति ।

मा भूद्गतिरित्याशङ्क्याऽऽह —

तदभावे चेति ।

कथं तर्हि गत्यादिकमुपपद्यते तत्राऽऽह —

भिन्नस्येति ।

जीवेश्वरयोर्मिथो भेदे हेत्वन्तरमाह —

कर्मेति ।

भेदे सत्युपपन्ना भवन्तीति शेषः ।

तदेव स्फुटयति —

भिन्नश्चेदिति ।

तद्भेदे प्रामाणिकेऽपि कथं ब्रह्मभाविपुरुषकल्पनेत्याशङ्क्योपसंहरति —

तस्मादिति ।

ब्रह्मभाविनो जीवस्य ब्रह्मशब्दवाच्यत्वे ब्रह्मोपदेश्याऽनर्थक्यप्रसंगान्नैवमिति दूषयति —

नेत्यादिना ।

प्रसंगमेव प्रकटयति —

संसारी चेदिति ।

विधिशेषत्वेन ब्रह्मोपदेशोऽर्थवानिति चेत्तत्र किं कर्मविधिशेषत्वेनोपास्तिविधिशेषत्वेन वा तदर्थवत्त्वमिति विकल्याऽऽद्यं दूषयति —

तद्विज्ञानस्येति ।

अविनियोगाद्विनियोजकश्रुत्याद्यभावादिति शेषः ।

कल्पान्तरमादत्ते —

संसारिण इति ।

उपदेशस्य ज्ञानार्थत्वात्तदनपेक्षत्वाच्च संपत्तेस्तस्य कथं तादर्थ्यमित्याशङ्क्याऽऽह —

अनिर्ज्ञाते हीति ।

व्यतिरेकमुक्त्वाऽन्वयमाचष्टे —

निर्ज्ञातेति ।

पदयोः सामानाधिकरण्येन जीवब्रह्मणोरभेदावगमान्न संपत्पक्षः संभवतीति समाधत्ते —

नेत्यादिना ।

कथमेकत्वे गम्यमानेऽपि संपदोऽनुपपत्तिरित्याशङ्क्याऽऽह —

अन्यस्य हीति ।

एकत्वे हेत्वन्तरमाह —

इदमिति ।

एकत्वे फलितमाह —

तस्मादिति ।

किञ्च संपत्तिपक्षे तदापत्तिः फलमन्यद्वेति विकल्प्य द्वितीयं प्रत्याह —

न चेति ।

आद्यं दूषयति —

संपत्तिश्चेदिति ।

’तं यथा यथे’त्यादिवाक्यमाश्रित्य शङ्कते —

वचनादिति ।

संपत्तेरमानत्वान्न तद्बलादन्यस्यान्यत्वमित्याह – श्रुतिश्च न पूर्वसिद्धसूत्रादिभावाभिधायिनी तत्सादृश्याप्त्या तद्भावोपचारादतो ब्रह्मभावः स्वतः सिद्धो न साम्पादिक इत्याह —

विज्ञानस्येति ।

अथान्यस्यान्यभावे यथोक्तं वचनमेव शक्त्याध्यायकमित्याशङ्क्याऽह —

न चेति ।

ब्रह्मोपदेशानर्थक्यप्रसंगान्न ब्रह्मभाविपुरुषकल्पनेत्युक्त्वा तत्रैव हेत्वन्तरमाह —

स एष इति ।

ब्रह्मोपदेशस्य संपच्छेषत्वे दोषान्तरमाह —

इष्टार्थेति ।

तदेव विवृण्वन्निष्टमर्थमाचष्टे —

सैन्धवेति ।

यथोक्तं वस्तु तात्पर्यगम्यमस्यामुपनिषदीत्यत्र हेतुमाह —

काण्डद्वयेऽपीति ।

मधुकाण्डावसानगतमवधारणं दर्शयति —

इत्यनुशासनमिति ।

मुनिकाण्डान्ते व्यवस्थितमुदाहरति —

एतावदिति ।

न केवलमुपदेशस्य संपच्छेषत्वे बृहदारण्यकविरोधः किन्तु सर्वोपनिषद्विरोधोऽस्तीत्याह —

तथेति ।

इष्टमर्थमित्थमुक्त्वा तद्बाधनं निगमयति —

तत्रेति ।

ननु बृहदारण्यके ब्रह्मकण्डिकायां जीवपरयोर्भेदोऽभिप्रेत उपसंहारे त्वभेद इति व्यवस्थायां तद्विरोधः शक्यः समाधातुमित्यत आह —

तथा चेति ।

ब्रह्मभाविपुरुषकल्पनायामुपदेशानर्थक्यमिष्टार्थबाधश्चेत्युक्तमिदानीं ब्रह्मेत्यादिवाक्ये ब्रह्मशब्देन परस्याग्रहणे तद्विद्याया ब्रह्मविद्येति संज्ञानुपपत्तिं दोषान्तरमाह —

व्यपदेशानुपपत्तेश्चेति ।

अत्रोक्तब्रह्मशब्दार्थाद्वेदितुर्जीवादन्यस्तदात्मानमित्यत्राऽऽत्मशब्देन परो गृह्यते तद्विद्या च ब्रह्मविद्येति संज्ञासिद्धिरिति शङ्कते —

आत्मेतीति ।

वाक्यशेषविरोधान्नैवमित्याह —

नाहमिति ।

तदेव प्रपञ्चयति —

अन्यश्चेति ।

यथोक्तावगमे फलितमाह —

तथा च सतीति ।

अत्यन्तभेदे व्यपदेशानुपपत्तिं विशदयति —

संसारीति ।

जीवब्रह्मणोर्भेदाभेदोपगमादभेदेन ब्रह्मविद्येति व्यपदेशः सेत्स्यतीत्याशङ्क्याऽऽह —

न चेति ।

स्यातां वा ब्रह्मात्मनोर्भेदाभेदौ तथाऽपि भिन्नाभिन्नविद्यायां ब्रह्मविद्येति नियतो व्यपदेशो न स्यादित्याह —

न चेति ।

निमित्तं विषयः ।

भिन्नाभिन्नविषया विद्या ब्रह्मविषयापि भवत्येवेति व्यपदेशसिद्धिमाशङ्क्याऽऽह —

तदेति ।

उभयात्मकत्वाद्वस्तुनस्तद्विद्याऽपि तथेति विकल्पोपपत्तिमाशङ्क्याऽऽह —

न चेति ।

अस्तु तर्हि वस्तु ब्रह्म वाऽब्रह्म वा वैकल्पिकमित्याशङ्क्याऽऽह —

श्रोतुरिति ।

संशयितमपि ज्ञानं वाक्यादुत्पद्यते चेत्तावतैव पुरुषार्थः श्रोतुः सिद्ध्यतीत्याशङ्क्याऽऽह —

निश्चितञ्चेति ।

श्रोतुर्निश्चितज्ञानस्य फलवत्त्वेऽपि वक्तुः संशयितमर्थं वदतो न काचन हानिरित्याशङ्क्याऽऽह —

अत इति ।

निश्चितस्यैव ज्ञानस्य पुमर्थसाधनत्वं न संशयितस्येत्यतःशब्दार्थः ।

जीवपरयोरत्यन्तभेदस्य भेदाभेदयोश्चायोगात्परमेव ब्रह्म ब्रह्मशब्दवाच्यं न जीवस्तद्भावीत्युक्तं संप्रत्यत्यन्ताभेदपक्षे दोषमाशङ्कते —

ब्रह्मणीति ।

तदात्मानमेवावेदिति ज्ञातृत्वं ब्रह्मण्युच्यते तदयुक्तं तस्य ज्ञानमूर्तित्वादत एव न तत्कर्मत्वमपि । न च स्वकर्तृकर्मज्ञानान्मुक्तिः परस्य क्रियाकारकफलविलक्षणत्वादतो न परं ब्रह्म ब्रह्मशब्दितमित्यर्थः ।

शास्त्रं ब्रह्मणि साधकत्वादि दर्शयति तच्चापौरुषेयमदोषान्नोपालम्भार्हं तथा च तस्मिन्नविद्यं साधकत्वाद्यविरुद्धमिति समाधत्ते —

न शास्त्रेति ।

स चायुक्तस्तस्यापौरुषेयत्वेनासंभावितदोषत्वादिति शेषः ।

ननु ब्रह्मणो नित्यमुक्तत्वपरिरक्षणार्थं शास्त्रमप्युपालभ्यते । नेत्याह —

न चेति ।

शास्त्राद्धि ब्रह्मणो नित्यमुक्तत्वं गम्यते साधकत्वादिति च तस्य तेनैवोच्यते न चार्धजरतीयमुचितं तथा च वास्तवं नित्यमुक्तत्वं कल्पितमितरदित्यास्थेयम् । यदि तस्य नित्यमुक्तत्वार्थं सर्वथैव साधकत्वादि नेष्यते तदा स्वार्थपरित्यागः स्यात्साधकत्वादिना विनाऽभ्युदयनिःश्रेयसयोरसंभवात् । न च ब्रह्मणोऽन्यश्चेतनोऽचेतनो वाऽस्ति ’नान्योऽतोऽस्ति द्रष्टा’ ’ब्रह्मैवेदं सर्वम्’ इत्यादिश्रुतेस्तस्माद्यथोका व्यवस्थाऽऽस्थेयेत्यर्थः ।

किञ्च सर्वस्यापि संसारस्य ब्रह्मण्यविद्ययाऽध्यासात्तदन्तर्भूतं साधकत्वाद्यपि तत्राध्यस्तमित्यभ्युपगमे काऽनुपपत्तिरित्याह —

न चेति ।

तस्य तस्मिन्कल्पितत्वं कुतोऽवगतमित्याशङ्क्याऽऽह —

एकधेति ।

उक्तश्रुतितात्पर्यं संकलयति —

सर्वो हीति ।

सर्वस्य द्वैतव्यवहारस्य ब्रह्मणि कल्पितत्वे प्रकृतचोद्यस्याऽऽभासत्वं फलतीत्याह —

अत्यल्पमिति ।

परपक्षं निराकृत्य स्वपक्षं दर्शयति —

तस्मादिति ।

तद्व्यतिरेकेण जगन्नास्तीति सूचयति —

वैशब्द इति ।

तत्पदार्थमुक्त्वा त्वम्पदार्थं कथयति —

इदमिति ।

तयोर्वस्तुतो भेदं शङ्कित्वा पदान्तरं व्याचष्टे —

प्रागिति ।

तस्यापरिच्छिन्नत्वमाह —

सर्वं चेति ।

कथं तर्हि विपरीतधीरित्याशङ्क्याऽऽह —

किन्त्विति ।

यथाप्रतिभासं कर्तृत्वादेर्वास्तवत्वमाशङ्क्य शास्त्रविरोधान्मैवमित्याह —

परमार्थतस्त्विति ।

तद्विलक्षणमध्यस्तसमस्तसंसाररहितमिति यावत् ।

किमु तद्ब्रह्मेति चोद्यं परिहृत्य किं तदवेदिति चोद्यन्तरं प्रत्याह —

तत्कथञ्चिदिति ।

पूर्ववाक्योक्तमविद्याविशिष्टमधिकारित्वेन व्यवस्थितं ब्रह्म नासि संसारीत्याचार्येण दयावता कथञ्चिद्बोधितमात्मानमेवावेदिति संबन्धः ।

आत्मैव प्रमेयस्तज्ञानमेव प्रमाणमित्येवमर्थत्वमेवकारस्य विवक्षन्नाह —

अविद्येति ।

प्रकृतमात्मशब्दार्थं विविच्य वक्तुं पृच्छति —

ब्रूहीति ।

स एष इह प्रविष्ट इत्यत्राऽऽत्मनो दर्शितत्वात्प्राणनादिलिङ्गस्य तस्य त्वयैवानुसन्धातुं सत्यत्वान्नास्ति वक्तव्यमित्याह —

नन्विति ।

आत्मानं प्रत्यक्षयितुं पृच्छतस्तत्परोक्षवचनमनुत्तरमिति शङ्कते —

नन्वसाविति ।

आत्मानञ्चेत्प्रत्यक्षयितुमिच्छसि तर्हि प्रत्यक्षमेव तं दर्शयामीत्याह —

एवं तर्हीति ।

नेदं प्रतिज्ञानुरूपं प्रतिवचनमिति चोदयति —

नन्वत्रेति ।

प्रत्यक्षत्वाद्दर्शनादिक्रियायास्तत्कर्तुः स्वरूपमपि तथेत्याशङ्क्याऽऽह —

न हीति ।

यदि दर्शनादिक्रियाकर्तृस्वरूपोक्तिमात्रेण जिज्ञासा नोपशाम्यति तर्हि दृष्ट्यादिसाक्षित्वेनाऽऽत्मोक्त्या तुष्यतु भवानित्याह —

एवं तर्हि दृष्टेरिति ।

पूर्वस्मात्प्रतिवचनादस्मिन्प्रतिवचने द्रष्टृविषयो विशेषो नास्तीति शङ्कते —

नन्विति ।

विशेषाभावं विशदयति —

यदीत्यादिना ।

घटस्य द्रष्टा दृष्टेर्द्रष्टेति विशेषे प्रतीयमाने तदभावोक्तिर्व्याहतेत्याशङ्क्याऽऽह —

द्रष्टव्य एवेति ।

तथा द्रष्टर्यपि विशेषो भविष्यतीत्याशङ्क्याऽऽह —

द्रष्टा त्विति ।

वृत्तिमदन्तःकरणावच्छिन्नः सविकारो घटद्रष्टा कूटस्थचिन्मात्रस्वभावः सन्निधिसत्तामात्रेण बुद्धितद्वृत्तीनां द्रष्टा दृष्टेर्द्रष्टेति विशेषमङ्गीकृत्य परिहरति —

नेत्यादिना ।

एतदेव स्फुटयति —

अस्तीति ।

सप्तमी द्रष्टारमधिकरोति ।

दृष्टेद्रष्टुस्तावदन्वयव्यतिरेकाभ्यां विशेषं विशदयति —

यो दृष्टेरिति ।

भवतु दृष्टिसद्भावे द्रष्टुः सदा तद्द्रष्टृत्वं तथाऽपि कथं कूटस्थदृष्टित्वमित्याशङ्क्याऽऽह —

तत्रेति ।

नित्यत्वमुपपादयति —

अनित्या चेदिति ।

उक्तपक्षपरामर्शार्था सप्तमी ।

कादाचित्के द्रष्टृदृश्यत्वे दृष्टान्तमाह —

यथेति ।

घटादिवद्दृष्टिरपि कदाचिदेव द्रष्ट्रा दृश्यते न सर्वदेत्यनिष्टापत्तिमाशङ्क्याऽऽह —

न चेति ।

विकार्णश्चित्तस्याद्रष्टृत्वं क्रमद्रष्टृत्वमन्यथाद्रष्टृत्वं च दृष्टं तत्साक्षिणो व्यावर्तमानं तस्य निर्विकारत्वं गमयतीति भावः ।

दृष्टिद्वयं प्रमाणाभावादश्लिष्टमिति शङ्कते —

किमिति ।

तदुभयमङ्गीकरोति —

बाढमिति ।

तत्रानित्यान् दृष्टिमनुभवेन साधयति —

प्रसिद्धेति ।

उक्तमर्थं युक्त्या व्यक्तीकरोति —

नित्यैवेति ।

संप्रति नित्यां दृष्टिं श्रुत्या समर्थयते —

द्रष्टुरिति ।

तत्रैवोपपत्तिमाह —

अनुमानाच्चेति ।

तदेव विवृणोति —

अन्धस्यापीति ।

जागरिते चक्षुरादिहीनस्यापि पुंसः स्वप्ने वासनामयघटादिविषया दृष्टिरुपलब्धा या च सा तस्मिन्काले चक्षुरादिजनितदृष्ट्यभावेऽपि स्वयमविनश्यन्त्यनुभूयते सा द्रष्टुः स्वभावभूता दृष्टिर्नित्यैष्टव्या । विमतं नित्यमव्यभिचारित्वात्परेष्टात्मवदिति प्रयोगोपपत्तिरित्यर्थः ।

नन्वात्मा दृष्टिस्तदभावश्चेत्कथं दृष्टेर्द्रष्टेत्युक्तमतमाह —

तथेति ।

नित्यत्वे हेतुः —

अविपरिलुप्तयेति ।

नित्यद्वयं परिहर्तुं स्वरूपभूतयेत्युक्तम् । तस्या दृष्ट्यन्तरापेक्षां वारयति —

स्वयमिति ।

उक्तमविपरिलुप्तत्वं व्यनक्ति —

इतरामिति ।

आत्मा दृष्टेर्द्रष्टेति स्थिते फलितमाह —

एवञ्चेति ।

अन्यश्चेतनोऽचेतनो वेति शेषः ।

नित्यदृष्टिस्वभावमात्मपदार्थं परिशोध्य श्रुत्यक्षराणि योजयति —

तद्ब्रह्मेति ।

वाक्यशेषविरोधं चोदयति —

नन्विति ।

किं कर्मत्वेनाऽऽत्मनो ज्ञानं विरुद्ध्यते किं वा साक्षित्वेनेति वाच्यं नाऽऽद्योऽनभ्युपगामदित्याह —

नेति ।

न द्वितीय इत्याह —

एवमिति ।

तदेव स्पष्टयति —

एवं दृष्टेरिति ।

तर्हि तद्विषयं ज्ञानान्तरमपेक्षितव्यमिति कुतो विरोधो न प्रसरतीत्याशङ्क्याऽऽह —

अन्यज्ञानेति ।

न विप्रतिषेध इति पूर्वेण संबन्धः संगृहीतमर्थं विवृणोति —

नचेति ।

नित्यैव स्वरूपभूतेति शेषः । विज्ञातत्वं वाक्यीयबुद्धिवृत्तिव्याप्यत्वम् । अन्यां दृष्टिं स्फुरणलक्षणाम् ।

आत्मविषयस्फुरणाकाङ्क्षाभावं प्रतिपादयति —

निवर्तते हीति ।

आत्मनि स्फुरणरूपे स्फुरणस्यान्यस्यासंभवेऽपि कुतस्तदाकाङ्क्षोपशान्तिरित्याशङ्क्याऽऽह —

न हीति ।

किञ्च द्रष्टरि दृश्याऽदृश्या वा दृष्टिरपेक्ष्यते नाऽऽद्य इत्याह —

नचेति ।

आदित्यप्रकाश्यस्य रूपादेस्तत्प्रकाशकत्वाभावादिति भावः ।

न द्वितीय इत्याह —

नचेति ।

आत्मनो वृत्तिव्याप्यत्वेऽपि स्फुरणव्याप्यत्वाङ्गीकरणान्न वाक्यशेषविरोधोऽस्तीत्युपसंहरति —

तस्मादिति ।

वाक्यान्तरमाकाङ्क्षापूर्वकमादत्ते —

तत्कथमिति ।

तदक्षराणि व्याचष्टे —

दृष्टेरिति ।

इतिपदमवेदित्यनेन संबध्यते ।

ब्रह्मशब्दं व्याचष्टे —

ब्रह्मेतीति ।

ब्रह्माहम्पदार्थयोर्मिथो विशेषणविशेष्यभावमभिप्रेत्य वाक्यार्थमाह —

तदेवेति ।

आचार्योपदिष्टेऽर्थे स्वस्य निश्चयं दर्शयति —

यथेति ।

इतिशब्दो वाक्यार्थज्ञानसमाप्त्यर्थः ।

इदानीं फलवाक्यं व्याचष्टे —

तस्मादिति ।

सर्वभावमेव व्याकरोति —

अब्रह्मेति ।

ब्रह्मैवाविद्यया संसरति विद्ययां च मुच्यत इति पक्षस्य निर्दोषत्वमुपसम्हरति —

तस्माद्युक्तमिति ।

वृत्तं कीर्तयति —

यत्पृष्टमिति ।

यथाऽग्निहोत्रादि मनुष्यत्वादिजातिमन्तमर्थित्वादिविशेषणवन्तं चाधिकारिणमपेक्षते न तथा ज्ञानमिति वक्तुं तद्यो यो देवानामित्यादिवाक्यं तदक्षराणि व्याचष्टे —

तत्तत्रेति ।

यथोक्तेन विधिनाऽन्वयादिकृतपदार्थपरिशोधनादिनेत्यर्थः । ज्ञानादेव मुक्तिर्न साधनान्तरादित्येवकारार्थः ।

विवक्षितमधिकार्यनियमं प्रकटयति —

तथेत्यादिना ।

यो यः प्रत्यबुध्यत स एव तदभवदिति पूर्वेण संबन्धः ।

ब्रह्मैवाविद्यया संसरति मुच्यते च विद्ययेत्युक्तत्वाद्देवादीनां विद्याविद्याभ्यां बन्धमोक्षोक्तिस्तद्विरुद्धेत्याशङ्क्याऽऽह —

देवानामित्यादीति ।

तत्त्वदृष्ट्यैव भेदवचने का हानिरित्याशङ्क्याऽऽह —

पुर इति ।

आविद्यकं भेदमनूद्य तत्तदात्मना स्थितब्रह्मचैतन्यस्यैव विद्याविद्याभ्यां बन्धमोक्षोक्तेर्न पूर्वापरविरोधोऽस्तीति फलितमाह —

अत इति ।

अविद्यादृष्टिमनूद्य तत्त्वदृष्टिमन्वाचष्टे —

परमार्थतस्त्विति ।

प्रबोधात्प्रागपि तत्र तत्र देवादिशरीरेषु परमार्थतो ब्रह्मैवाऽऽसीच्चेदौपदेशिकं ज्ञानमनर्थकमित्याशङ्क्याऽऽह —

अन्यथैवेति ।

नानाजीववादस्य तु नावकाशः प्रक्रमविरोधादित्याशयेनाऽऽह —

तदिति ।

तथैवेत्युत्पन्नज्ञानानुसारित्वपरामर्शः ।

तद्धैतदित्यादिवाक्यमवतार्य व्याकरोति —

अस्या इति ।

मन्त्रोदाहरणश्रुतिमेव प्रश्नद्वारा व्याचष्टे —

कथमित्यादिना ।

ज्ञानान्मुक्तिरित्यस्यार्थवादोऽयमिति द्योतयितुं किलेत्युक्तम् । आदिपदं समस्तवामदेवसूक्तग्रहणार्थम् ।

तत्रावान्तरविभागमाह —

तदेतदिति ।

शतृप्रत्ययप्रयोगप्राप्तमर्थं कथयति —

पश्यन्निति ।

“लक्षणहेत्वोः क्रियायाः” इति हेतौ शतृप्रत्ययविधानान्नैरन्तर्ये च सति हेतुत्वसंभवात्प्रकृते च प्रत्ययबलाद्ब्रह्मविद्यामोक्षयोर्नैरन्तर्यप्रतीतेस्तया साधनान्तरानपेक्षया लभ्यं मोक्षं दर्शयति श्रुतिरित्यर्थः ।

अत्रोदाहरणमाह —

भुञ्जान इति ।

भुजिक्रियामात्रसाध्या हि तृप्तिरत्र प्रतीयते तथा पश्यन्नित्यादावपि ब्रह्मविद्यामात्रसाध्या मुक्तिर्भातीत्यर्थः ।

तद्धैतदित्यादि व्याख्याय तदिदमित्यद्यवतारयितुं शङ्कते —

सेयमिति ।

ऐदंयुगीनानां कलिकालवर्तिनामिति यावत् ।

उत्तरवाक्यमुत्तरत्वेनावतार्य व्याकरोति —

तद्व्युत्थापनायेति ।

तस्य ताटस्थ्यं वारयति —

यत्सर्वभूतेति ।

प्रविष्टे प्रमाणमुक्तं स्मारयति —

दृष्टीति ।

व्यावृत्तं बाह्येषु विषयेषूत्सुकं साभिलाषं मनो यस्य स तथोक्तः । एवंशब्दार्थमेवाऽऽह अहमिति ।

तदेवं ज्ञानं विवृणोति —

अपोह्येति ।

यद्वा मनुष्योऽहमित्यादिज्ञाने परिपन्थिनि कथं ब्रह्माहमिति ज्ञानमित्याशङ्क्याऽह —

अपोह्येति ।

अहमित्यात्मज्ञानं सदा सिद्धमिति न तदर्थं प्रयतितव्यमित्याशङ्क्याऽऽह —

संसारेति ।

केवलमित्यद्वितीयत्वमुच्यते ।

ज्ञानमुक्त्वा तत्फलमाह —

सोऽविद्येति ।

यत्तु देवादीनां महावीर्यत्वाद्ब्रह्मविद्यया मुक्तिः सिद्ध्यति नास्मदादीनामल्पवीर्यत्वादिति तत्राऽऽह —

नहीति ।

श्रेयांसि बहुविघ्नानीति प्रसिद्धिमाश्रित्य शङ्कते —

वार्तमानिकेष्विति ।

शङ्कोत्तरत्वेनोत्तरवाक्यमादाय व्याकरोति —

अत आहेत्यादिना ।

यथोक्तेनान्वयादिना प्रकारेण ब्रह्मविज्ञातुरिति संबन्धः ।

अपिशब्दार्थं कथयति —

किमुतेति ।

अल्पवीर्यास्तत्र विघ्नकरणे पर्याप्ता नेति किमुत वाच्यमिति योजना ।

आप्राप्तप्रतिषेधायोगमभिप्रेत्य चोदयति —

ब्रह्मविद्येति ।

शङ्कानिमित्तं दर्शयन्नुत्तरमाह —

उच्यत इति ।

अधमर्णानिवोत्तमर्णा देवादयो मर्त्यान्प्रति विघ्नं कुर्वन्तीति शेषः ।

कथं देवादीन्प्रति मर्त्यानामृणित्वं तत्राऽऽह —

ब्रह्मचर्येणेति ।

यथा पशुरेवं स देवानामिति मनुष्याणां पशुसादृश्यश्रवणाच्च तेषां पारतन्त्र्याद्देवादयस्तान्प्रति विघ्नं कुर्वन्तीत्याह —

पश्विति ।

’अथो अयं वा आत्मा सर्वेषां लोकः’ इति च सर्वप्राणिभोग्यत्वश्रुतेश्च सर्वे तद्विघ्नकरा भवन्तीत्याह —

अथो इति ।

लोकश्रुत्यभिप्रेतमर्थं प्रकटयति —

आत्मन इति ।

यथाऽधमर्णान्प्रत्युत्तमर्णा विघ्नमाचरन्ति तथा देवादयः स्वास्थितिपरिरक्षणार्थं परतन्त्रान्कर्मिणः प्रत्यमतत्वप्राप्तिमुद्दिश्य विघ्नं कुर्वन्तीति तेषां तान्प्रति विघ्नकर्तृत्वशङ्का सावकाशैवेत्यर्थः ।

पशुनिदर्शनेन विवक्षितमर्थं विवृणोति —

स्वपशूनिति ।

पशुस्थानीयानां मनुष्याणां देवादिभी रक्ष्यत्वे हेतुमाह —

महत्तरामिति ।

इतश्च देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वममृतत्वप्राप्तौ संभावितमित्याह —

तस्मादिति ।

ततश्च तेषां तान्प्रति विघ्नकर्तृत्वं भातीत्याह —

यथेति ।

स्वलोको देहः । एवंवित्त्वं सर्वभूतभोज्योऽहमिति कल्पनावत्त्वम् । क्रियापदानुषङ्गार्थश्चकारः ।

ब्रह्मवित्त्वेऽपि मनुष्याणां देवादिपारतन्त्र्याविघातात्किमिति ते विघ्नमाचरन्तीत्याशङ्क्याऽऽह —

ब्रह्मवित्त्व इति ।

देवादीनां मनुष्यान्प्रति विघ्नकर्तृत्वे शङ्कामुपपादितामुपसंहरति —

तस्मादिति ।

न केवलमुक्तहेतुबलादेव किन्तु सामर्थ्याच्चेत्याह —

प्रभाववन्तश्चेति ।

सामर्थ्याच्चेद्विद्याफलप्राप्तौ तेषां विघ्नकरणं तर्हि कर्मफलप्राप्तावपि स्यादित्यतिप्रसंगं शङ्कते —

नन्विति ।

भवतु तेषां सर्वत्र विघ्नाचरणमित्यत आह —

हन्तेति ।

अविस्रम्भो विश्वासाभावः ।

सामर्थ्याद्विघ्नकर्तृत्वेऽतिप्रसक्त्यन्तरमाह —

तथेति ।

अतिप्रसंगान्तरमाह —

तथा कालेति ।

विघ्नकरणे प्रभुत्वमिति पूर्वेण संबन्धः ।

ईश्वरादीनां यथोक्तकार्यकरत्वे प्रमाणमाह —

एषां हीति ।

“एष ह्येव साधु कर्म कारयति” । “कर्म हैव तदूचतुरि”त्यादिवाक्यं शास्त्रशब्दार्थः ।

देवादीनां विघ्नकर्तृत्ववदीश्वरादीनामपि तत्संभवाद्वेदार्थानुष्ठाने विश्वासाभावात्तदप्रमाण्यं प्राप्तमिति फलितमाह —

अतोऽपीति ।

किमिदमवैदिकस्य चोद्यं किं वा वैदिकस्येति विकल्प्याऽऽद्यं दूषयति —

नेत्यादिना ।

दध्याद्युत्पिपादयिषया दुग्धाद्यादानदर्शनात्प्राणिनां सुखदुःखादितारतम्यदृष्टेः स्वभाववादे च नियतनिमित्तादानवैचित्र्यदर्शनयोरनुपपत्तेस्तदयोगात्कर्मफलं जगदेष्टव्यमित्यर्थः ।

द्वितीयं प्रत्याह —

सुखेति ।

’कर्म हैव’ इत्याद्या श्रुतिः । ’कर्मणा बद्ध्यते जन्तुः’ इत्याद्या स्मृतिः । जगद्वैचित्र्यानुपपत्तिश्च न्यायः ।

कथमेतावता देवादीनां कर्मफले विघ्नकर्तृत्वाभावस्तत्राऽऽह —

कर्मणामिति ।

कथं हेतुसिद्धिरित्याशङ्क्य कर्मणः स्वोत्पत्तौ देवाद्यपेक्षां व्यतिरेकमुखेन दर्शयति —

कर्म हीति ।

स्वफलेऽपि तस्य तत्सापेक्षत्वमस्तीत्याह —

लब्धेति ।

निष्पन्नमिति कर्म पूर्वोक्तं कारकमनपेक्ष्य स्वफलदाने शक्तं न भवतीत्यर्थः ।

कर्मणः स्वोत्पत्तौ स्वफले च कारकसापेक्षत्वे हेतुमाह —

क्रियाया हीति ।

कारकादीनामनेकेषां निमित्तानामुपादानेन स्वभावो निष्पद्यते यस्याः सा तथोक्ता तस्या भावः कारकाद्यनेकनिमित्तोपादानस्वाभाव्यं तस्मादुभयत्र परतन्त्रं कर्मेत्यर्थः ।

देवादीनां कर्मापेक्षितकारकत्वे फलितमाह —

तस्मादिति ।

इतोऽपि कर्मफले नाविस्रम्भोऽस्तीत्याह —

कर्मणामिति ।

एषां देवादीनां क्वचिद्विघ्नलक्षणे कार्ये कर्मणां वशवर्तित्वम् एष्टव्यं प्राणिकर्मापेक्षामन्तरेण विघ्नकरणेऽतिप्रसंगादतोन्यत्रापि सर्वत्र तेषां तदपेक्षा वाच्येत्यर्थः ।

तत्र तेषां कर्मवशवर्तित्वे हेत्वन्तरमाह —

स्वसामर्थ्यस्येति ।

विघ्नलक्षणं हि कार्यं दुःखमुत्पादयति । न च दुःखमृते पापादुपपद्यते। दुःखविषये पापसामर्थ्यस्य शात्राधिगतस्याप्रत्याख्येयत्वात्तस्मात्प्राणिनामदृष्टवशादेव देवादयो विघ्नकरणमित्यर्थः ।

देवादीनां कर्मपारतन्त्र्ये कर्म तत्परतन्त्रं न स्यात्प्रधानगुणभाववैपरीत्यायोगादित्याशङ्क्याऽऽह —

कर्मेति ।

इतश्च नामीषां नियतो गुणप्रधानभावोऽस्तीत्याह —

दुर्विज्ञेयश्चेति ।

इतिशब्दो हेत्वर्थः । यथो गुणप्रधानकृतो मतिविभ्रमो लोकस्योपलभ्यते तस्मादसौ दुर्विज्ञेयो न नियतोऽस्तीति योजना ।

मतिविभ्रमे वादविप्रतिपत्तिं हेतुमाह —

कर्मैवेत्यादिना ।

कथं तर्हि निश्चयस्तत्राऽऽह —

तत्रेति ।

वेदवादानुदाहरति —

पुण्यो वा इति ।

आदिपदेन ’धर्मरज्ज्वा व्रजेदूर्ध्वम्’ इत्यादयः स्मृतिवादा गृह्यन्ते ।

सूर्योदयदाहसेचनादौ कालज्वलनसलिलादेः प्राधान्यप्रसिद्धेर्न कर्मैव प्रधानमित्याशङ्क्याह —

यद्यपीति ।

अनैकान्तिकत्वमप्रधानत्वम् ।

तत्र हेतुमाह —

शास्त्रेति ।

श्रुतिस्मृतिलक्षणं शास्त्रमुदाहृतम् । जगद्वैचित्र्यानुपपत्तिर्न्यायः ।

कर्मफले देवादीनां विघ्नकर्तृत्वं प्रसंगागतं निराकृत्य विद्याफले तेषां तदाशङ्कितं निराकरोति नाविद्येति । तत्र नञर्थमुक्त्वानुवादपूर्वकं विशदयति —

यदुक्तमिति ।

तत्र प्रश्नपूर्वकं पूर्वोक्तं हेतुं स्फुटयति —

कस्मादिति ।

आत्मनो ब्रह्मत्वप्राप्तिरूपाया मुक्तेरज्ञानध्वस्तिमात्रत्वात्तस्याश्च ज्ञानेन तुल्यकालत्वात्तस्मिन्सति तस्य फलस्याऽऽवश्यकत्वाद्देवादीनां विघ्नाचरणे नावकाशोऽस्तीत्यर्थः ।

उक्तमेवार्थमाकाङ्क्षापूर्वकं दृष्टान्तेन समर्थयते —

कथमित्यादिना ।

ब्रह्मविद्यातत्फलयोः समानकालत्वे फलितमाह —

अत इति ।

देवादीनां ब्रह्मविद्याफले विघ्नकर्तृत्वाभावे हेत्वन्तरमाह —

यत्रेति ।

यस्यां विद्यायां सत्यां ब्रह्मविदो देवादीनामात्मत्वमेव तस्यां सत्यां कथं ते तस्य विघ्नमाचरेयुः । स्वविषये तेषां प्रातिकूल्याचरणानुपपत्तेरित्यर्थः ।

उक्तेऽर्थे समनन्तरवाक्यमुत्थाप्य व्याचष्टे —

तदेतदाहेति ।

कथं ब्रह्मविद्यासमकालमेव ब्रह्मविद्देवादीनामात्मा भवति तत्राऽऽह —

अविद्यामात्रेति ।

यथेदं रजतमिति रजताकारायाः शुक्तिकायाः शुक्तिकात्वमविद्यामात्रव्यवहितं तथा ब्रह्मविदोऽपि सर्वात्मत्वे तन्मात्रव्यवधानात्तस्याश्च विद्योदये नान्तरीयकत्वेन निवृत्तेर्युक्तं विद्यातत्फलयोः स्मानकालत्वम् । उक्तं चैतत्प्रतिवचनदशायामित्यर्थः ।

उक्तस्य हेतोरपेक्षितं वदन्ब्रह्मविदो देवाद्यात्मत्वे फलितमाह —

अत इति ।

कैवल्ये तेषां विघ्नाकर्तृत्वे कुत्र तत्कर्तृतेत्याशङ्क्याऽऽह —

यस्य हीति ।

तेषां निरङ्कुशप्रसरत्वं वारयति —

नत्विति ।

सफलः प्रयत्न इति पूर्वेणसंबन्धः ।

तस्य निरवकाशत्वादिति हेतुमाह —

अवसरेति ।

ज्ञानस्यानन्तरफलत्वात्तत्फले देवादीनां न विघ्नकर्तृतेत्युक्तमुपेत्य स्वयूथ्यः शङ्कते —

एवं तर्हीति ।

ज्ञानस्यान्तरफलत्वे न तदज्ञानं निवर्तयेदज्ञानमिव तत्त्वज्ञानमपि ब्रह्मास्मीति ज्ञानसन्तत्यभावात् । न चाऽऽद्यमेव ज्ञानमज्ञानध्वंसि प्रागिवोर्ध्वमपि रागादेस्तत्कार्यस्य च दृष्टत्वात् । अतो देहपातकालीनं ज्ञानमज्ञानं निवर्तयतीति कुतो जीवन्मुक्तिरित्यर्थः ।

अन्त्यज्ञानस्याज्ञाननिवर्तकत्वं तत्सन्ततेर्वा प्रथमे तस्यान्त्यत्वादात्मविषयत्वाद्वा तद्ध्वंसितेति विकल्प्योभयत्र दृष्टान्तभावं मत्वा द्वितीये दोषान्तरमाह —

न प्रथमेनेति ।

तदेवानुमानेन स्फोरयति —

यदि हीति ।

कल्पान्तरं शङ्कयति —

एवं तर्हीति ।

अविच्छिन्ना ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येदद्दूषयति —

नेत्यादिना  ।

जीवनादिहेतुकः प्रत्ययो बुभुक्षितोऽहं भोक्ष्येऽहमित्यादिलक्षणः । तस्य बुभुक्षाद्युपप्लुतस्य ब्रह्मास्मीत्यविच्छिन्नप्रत्ययसन्ततेश्च विरुद्धतया यौगपद्यायोगे हेतुमाह —

विरोधादिति ।

प्रत्ययसन्ततिमुपपादयन्नाशङ्कते —

अथेति ।

उक्तरीत्या प्रत्ययसन्ततिमुपेत्य दूषयति —

नेत्यादिना ।

तमेव दोषं विशदयति —

इयतामिति ।

शास्त्रार्थो ज्ञानसन्ततिरज्ञानं निवर्तयतीत्येवमात्मकः ।

आत्मेत्येवोपासीतेति श्रुतेरात्मज्ञानसन्ततिमात्रसद्भावे ततो विद्याद्वाराऽविद्याध्वस्तिरिति शास्त्रार्थनिश्चयसिद्धिरित्याह —

सन्ततीति ।

आत्मधीसन्ततेः सत्त्वेऽपि न साऽऽत्मविषयत्वाद्विद्याद्वाराऽविद्यां निवर्तयति । आद्य द्वित्रिक्षणस्थात्मधीसन्ततौ व्यभिचारादिति परिहरति —

नाद्यन्तयोरिति ।

पूर्वस्मिन्प्रत्यये नाविद्यानिवर्तकत्वमन्त्ये तु तथेत्युक्ते तस्यान्त्यत्वात्तथात्वं चेद्दृष्टान्ताभावः । आत्मविषयत्वात्तथात्वे प्रथमप्रत्यये व्यभिचारः स्यादित्युक्तौ दोषौ । आद्या सन्ततिर्नाविद्याध्वंसिनी । अन्त्या तु तथेत्यङ्गीकारेऽपि विशेषाभावादन्त्यत्वात्तस्या निवर्तकत्वे दृष्टान्ताभावः ।

आत्मविषयत्वात्तद्भावे त्वनैकान्तिकत्वमित्येतावेव दोषौ स्यातामित्युक्तं विवृणोति —

प्रथमेति ।

अन्त्यप्रत्ययस्य तत्सन्ततेश्चाविद्यानिवर्तकत्वाऽसंभवे प्रथमस्यापि रागाद्यनुवृत्त्या तदयोगाज्ज्ञानमज्ञानानिवर्तकमेवेति चोदयति —

एवं तर्हीति ।

श्रुतिविरोधेन परिहरति —

न तस्मादिति ।

तासामर्थवादत्वेनाविवक्षितत्वं शङ्कते —

अर्थवाद इति चेदिति ।

अतिप्रसंगेन दूषयति —

न सर्वेति ।

यथोक्तश्रुतीनामर्थवादत्वेऽपि कथं सर्वशाखोपनिषदां तत्त्वप्रसक्तिरित्याशङ्क्याऽऽह —

एतावदिति ।

एतावन्मात्रार्थत्वमात्मज्ञानात्तदज्ञाननिवृत्तिरित्येतावन्मात्रस्यार्थस्य सद्भावः ।

अहन्धीगम्ये प्रतीचि तासां प्रवृत्तेः संवादविसंवादाभ्यां मानत्वायोगादस्त्येवार्थवादतेति प्रसंगस्येष्टत्वं शङ्कते —

प्रत्यक्षेति ।

प्रमातुरहन्धीगम्यता नाऽऽत्मनस्तत्साक्षिणस्तस्य वेदान्ता ब्रह्मत्वं बोधयन्तीति न संवादादिशङ्केत्याह —

नोक्तेति ।

विद्वदनुभवमाश्रित्यापि फलश्रुतेरर्थवादत्वं समाहितमित्याह —

अविद्येति ।

आत्मज्ञानस्य तदज्ञाननिवर्तकत्वे स्थिते परमतस्य निरवकाशत्वं फलतीत्याह —

तस्मादिति ।

चोद्यस्यानवकाशत्वमेव विशदयति —

अविद्यादीति ।

ज्ञानसन्ततेरन्त्यज्ञानस्य वाऽज्ञानध्वंसित्वासिद्धेराद्यमेव ज्ञानं तथेत्युक्तं संप्रति परोक्तमनुवदति —

यत्तूक्तमिति ।

दर्शनान्नाऽऽद्यं ज्ञानमज्ञानध्वंसीतिइ शेषः ।

प्रारब्धकर्मशेषस्य विद्वद्देहस्थितिहेतुत्वाद्विदुषाऽपि यावदारब्धक्षयं रागाद्याभासाविरोधात्तत्क्षये च देहाभासजगदाभासयोरभावान्नाऽऽद्यज्ञानस्याज्ञाननिवर्तकत्वानुपपत्तिरित्युत्तरमाह —

न तच्छेषेति ।

तदेव पेरपञ्चयति —

येनेत्यादिना ।

यच्छब्दस्याऽऽक्षिपतीत्यनेन संबन्धः ।

आक्षेपकत्वनियमं साधयति —

विपरीतेति ।

मिथ्याज्ञानेन रागादिदोषेण च निमित्तेन प्रवृत्तत्वादिति यावत् । तथाभूतस्येत्यस्य विवरणं विपरीतप्रत्ययेत्यादि । कर्मैव षष्ठ्या विशेष्यते । तावन्मात्रं प्रतिभासमात्रशरीरम् ।

प्रारब्धकर्मणोऽप्यज्ञानजन्यत्वेन ज्ञाननिवर्त्यत्वान्न ज्ञानिनस्ततो देहाभासादि संभवतीत्याशङ्क्याऽऽह —

मुक्तेषुवदिति ।

यथा प्रवृत्तवेगस्येष्वादेर्वेगक्षयादेवाप्रतिबद्धस्य क्षयस्तथा भोगादेवाऽऽरब्धक्षयो ’भोगेन त्वितरे क्षपयित्वा संपद्यत’ इति न्यायान्न ज्ञानादित्यर्थः । तद्धेतुकस्य विपरीतप्रत्ययादिप्रतिभासकार्यजनकस्येति यावत् ।

ननु ज्ञानमनारब्धकर्मवदारब्धमपि कर्म कर्मत्वाविशेषान्निवर्तयिष्यति नेत्याह —

तेनेति ।

अविद्यालेशेन सहाऽऽरब्धस्य कर्मणो विद्या निवर्तिका न भवतीत्यत्र हेतुमाह —

अविरोधादिति ।

न हि ज्ञानादारब्धं कर्म क्षीयते तदविरोधित्वादविद्यालेशाच्च तदवस्थितेरन्यथा जीवन्मुक्तिशास्त्रविरोधादिति भावः ।

आरब्धस्य कर्मणो ज्ञानानिवर्त्यत्वे ज्ञानं कर्मनिवर्तकमिति कथं प्रसिद्धिरित्याह —

किं तर्हीति ।

प्रसिद्धिविषयमाह —

स्वाश्रयादिति ।

ज्ञानाविरोधियदज्ञानकार्यमनारब्धं कर्म ज्ञानाश्रयप्रमात्राद्याश्रयादज्ञानात्फलात्मना जन्माभिमुखं तन्निवर्तकं ज्ञानमिति प्रसिद्धिरविरुद्धेत्यर्थः ।

विमतं न ज्ञाननिवर्त्य कर्मत्वादारब्धकर्मवदित्यनुमानादनारब्धमपि कर्म न ज्ञाननिरस्यमित्याशङ्क्याऽऽह —

अनागतत्वादिति ।

अनारब्धं कर्म फलरूपेणाप्रवृत्तत्वात्प्रवृत्तेन ज्ञानेन निवर्त्यम् । आरब्धं तु कर्म फलरूपेण जातत्वात्तद्भोगादृते न निवृत्तिमर्हति । अनुमानं त्वागमापबाधितमप्रमाणमित्यर्थः ।

नन्वनारब्धकर्मनिवृत्तावपि विदुषश्चेदारब्धकर्म न निवर्तते तथा च यथापूर्वं विपरीतप्रत्ययादिप्रवृत्तेर्विद्वदविद्वद्विशेषो न स्यादत आह —

किञ्चेति ।

हेतुसिद्ध्यर्थं विपरीतप्रत्ययविषयं विशदयति —

अनवधृतेति ।

संप्रति विद्वद्विषये विषयाभावाद्विपरीतप्रत्ययस्यानुत्पत्तिमुपन्यस्यति —

स चेति ।

आशयस्यागृहीतविशेषस्य सामान्यमात्रस्यालम्बनस्येति यावत् । आश्रयस्येति पाठेऽप्ययमेवार्थः ।

विदुषो विपरीतप्रत्ययादिप्रतिभासेऽपि न यथापूर्वं तत्सत्त्वं यस्य तु यथापूर्वं संसारित्वमित्यादिन्यायविरोधादिति मत्वोक्तम् —

न पूर्ववदिति ।

तत्रानुभवं प्रमाणयति —

शुक्तिकादाविति ।

यथाऽज्ञानवतो विपरीतप्रत्ययभावोऽनुभूयते तथा तद्वतोऽपि क्वचिद्विपरीतप्रत्यायो दृश्यते । तथा च कथं तवानुभवविरोधो न प्रसरेदित्याशङ्क्य परोक्षज्ञानवति विपरीतप्रत्ययसत्त्वेऽपि नापरोक्षज्ञानवति तद्दार्ढ्यमित्यभिप्रेत्याऽऽह —

क्वचित्त्विति ।

परोक्षज्ञानाधारः सप्तम्यर्थः । पञ्चमी त्वपरोक्षज्ञानार्था । अकस्मादित्यज्ञानातिरिक्तक्लृप्तसामग्र्यभावोक्तिः ।

विदुषो मिथ्याज्ञानाभावमुक्त्वा विपक्षे दोषमाह —

सम्यगिति ।

तत्पूर्वकमनुष्ठानमादिशब्दार्थः ।

सम्यग्ज्ञानाविस्रम्भे दोषान्तरमाह —

सर्वञ्चेति ।

ज्ञानादज्ञानध्वंसे तदुत्थमिथ्याज्ञानस्य सविषयस्य बाधितत्वान्न विदुषो रागादिरित्युपपाद्य ज्ञानान्मोक्षे तज्जन्ममात्रेण शरीरं स्थितिहेत्वभावात्पतेदिति सद्योमुक्तिपक्षं प्रत्याह —

एतेनेति ।

प्रवृत्तफलस्य कर्मणो भोगादृते क्षयो नास्तीत्युक्तेन न्यायेनेति यावत् ।

आरब्धकर्मणा देहस्थितिमुक्त्वेतरेषां ज्ञाननिवर्त्यत्वमुपसम्हरति —

ज्ञानोत्पत्तेरिति ।

तस्य ह न देवाश्च नेति विदुषो विद्यफलप्राप्तौ विघ्ननिषेधश्रुत्यनुपपत्त्या यथोक्तोऽर्थोभातीत्यर्थः ।

न केवलं श्रुतार्थापत्त्या यथोक्तार्थसिद्धिः किन्तु श्रुतिस्मृतिभ्यामपीत्याह —

क्षीयन्ते चेत्यादिना ।

जीवन्मुक्तिं साधयता ज्ञानफले प्रतिबन्धाभाव उक्त इदानीं पूर्वोक्तं शङ्काबीजमनुवदति —

यत्त्विति ।

ऋणित्वं हि विदुषोऽविदुषो वेति विकल्प्याऽऽद्यं दूषयन्द्वितीयमङ्गीकरोति —

तन्नेत्यादिना ।

ऋणित्वस्येति शेषः ।

तदेव स्फुटयति —

अविद्यावानिति ।

अविदुषोऽस्ति कर्तृत्वादीत्यत्र मानमाह —

यत्रेति ।

वक्ष्यमाणवाक्यार्थं प्रकृतोपयोगित्वेन कथयति —

अनन्यदिति ।

ऋणित्वं विदुषो नेत्युक्तं व्यक्तीकर्तुं तस्य नास्ति कर्तृत्वादीत्यत्रापि प्रमाणमाह —

यत्र पुनरिति ।

विद्यायां सत्यामविद्यायास्तत्कृतानेकत्वभ्रमस्य च प्रहाणं यत्र संपद्यते तत्र तस्मादेव कारणात्तत्केनेत्यादिना कर्मादेरसंभवं दर्शयतीति योजना ।

प्रमाणसिद्धमर्थं निगमयति —

तस्मादिति ।

अविद्याविषयमृणित्वमित्येतत्प्रपञ्चयन्नविद्यासूत्रमवतारयति —

एतच्चेति ।

तदणित्वमविद्याविषयं यथा स्फुटं भवति तथाऽथ योऽन्यामित्यादावनन्तरग्रन्थ एव कथते प्रथममित्यर्थः ।

तदक्षराणि व्याकरोति —

अथेत्यादिना ।

विद्यासूत्रानन्तर्यमविद्यासूत्रस्याथशब्दार्थः । यागो गन्धपुष्पादिना पूजा । बल्युपहारो नैवेद्यसमर्पणम् । प्रणिधानमैकाग्र्यम् । ध्यानं तत्रैवानन्तरितप्रत्ययप्रवाहकरणम् । आदिपदं प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य प्रदक्षिणादिग्रहणार्थम् ।

भेददर्शनमत्रोपासनं न शास्त्रीयमित्यभिप्रेत्यैतदेव विवृणोति —

अन्योऽसाविति ।

तस्य मूलमाह —

न स इति ।

वाक्यान्तरमवतार्य व्याचष्टे —

न स केवलमिति ।

सोऽविद्वानेवमुक्तदृष्टान्तवशात्पशुरिव देवानां भवति तेषां मध्ये तस्यैकैकेन बहुभिरुपकारैर्भोग्यत्वादिति योजना ।

पशुसाम्ये सिद्धमर्थं कथयति —

अत इति ।

अथानेनाविद्यासूत्रेण किं कृतं भवतीत्यपेक्षायामविद्यायाः संसारहेतुत्वं सूचितमिति वक्तुमविद्याकार्य कर्मफलं संक्षिपति —

एतस्येत्यादिना ।

कर्मसहायभूता विद्या देवताध्यानात्मिका । शास्त्रीयवत्स्वाभाविककर्मणोऽपि द्वैविध्यं सूचयितुं चशब्दः । तत्र तु सहकारिणीविद्या नग्नस्त्रीदर्शनादिरूपेति भेदः ।

कथं यथोक्तं कर्मफलमविद्यावतः स्यादित्याशङ्क्याऽऽह —

यथा चेति ।

सूत्रद्वैविध्यसिद्ध्यर्थं विद्यासूत्रार्थमनुक्रामति —

विद्यायाश्चेति ।

सूत्रान्तराशङ्कां वारयति —

सर्वा हीति ।

कथमेतदवगम्यते तत्राऽऽह —

यथेति ।

मनुष्याणामविद्यावतां देवपशुत्वे स्थिते फलितमाह —

यस्मादिति ।

तत्र प्रमाणत्वेनोत्तरं वाक्यमुत्थापयति —

एतदिति ।

किमिदमविद्यावतो देवादिपालनमित्याशङ्क्य वाक्यतात्पर्यमाह —

इम इन्द्रादय इति ।

अभिसन्धिरविद्यावतः पुरुषस्येति शेषः ।

एकस्मिन्नेवेत्यादिवाक्यमादाय व्याचष्टे —

तत्रेति ।

मनुष्याणां पशुभावाद्व्युत्थानमप्रियं देवानामिति स्थिते तदुपायमपि तत्त्वज्ञानं तेषां देवा विद्विषन्तीत्याह —

तस्मादिति ।

तत्त्वविद्यया दौलभ्यं कथञ्चनेत्युक्तम् ।

मनुष्याणामुत्कर्षं देवा न मृष्यन्तीत्यत्र प्रमाणमाह —

तथा चेति ।

तेषां ब्रह्मविद्यया कैवल्यप्राप्तिः सुतरामनिष्टेति भावः ।

देवादीनां मनुष्येषु ब्रह्मज्ञानस्याप्रियत्वेऽपि किं स्यादित्याशङ्क्याऽऽह —

अत इति ।

तेषां विघ्नमारचयतामभिप्रायमाह —

अस्मदिति ।

तर्हि देवादिभिरुपहतानां मनुष्याणां मुमुक्षैव न संपद्येतेत्याशङ्क्याऽऽह —

यं त्विति ।

उक्तं हि –
“न देवा दण्डमादाय रक्षन्ति पशुपालवत् ।
यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम् ॥“ इति ।

तर्हि किमिति सर्वानेव देवा नानुगृह्णन्तीत्याशङ्क्याऽऽह —

विपरीतमिति ।

देवतापराङ्मुखममुमोचयिषितमिति यावत् ।

संप्रति देवाप्रियवाक्येन ध्वनितमर्थमाह —

तस्मादिति ।

अविद्वत्सु मनुष्येषु देवादीनां स्वातन्त्र्यं तच्छब्दार्थः श्रद्धादिप्रधानस्तदाराधनपरः सन्देवादीनां प्रियः स्यात्तद्विपक्षस्य मुमुक्षावैफल्यादित्यर्थः ।

तत्प्रीत्विषयश्च तत्प्रसादासादितवैआग्यः सर्वाणि कर्माणि संन्यस्य विद्याप्रापकश्रवणादिकं प्रत्येकाग्रमनाः स्यादित्याह —

अप्रमादीति ।

श्रवणादिकमनुतिष्ठन्नपि वर्णाश्रमाचारपरो भवेदन्यथा विद्यालक्षणे फले प्रतिबन्धसंभवादित्याशयेनाऽऽह —

विद्यां प्रतीति ।

भयादिनिमित्ता ध्वनेर्विकृतिः काकुरुच्यते । यथाऽऽह –
’काकुः स्त्रियां विकारो यः शोकभीत्यादिभिध्वनेः’ इति ।

तया काक्वा काण्वश्रुतेः स्वरकम्पेन भयमुपलक्ष्य देवादिभजने कल्प्यते तात्पर्यमित्याह —

काक्वेति ॥१०॥

ब्रह्मकण्डिकामित्थं व्याख्याय ब्रह्म वा इदमित्यादिवाक्यस्यातीतेन संबन्धं वक्तुं वृत्तं कीर्तयति —

सूत्रित इति ।

शास्त्रार्थशब्दो ब्रह्मविद्याविषयः ।

तदाहुरित्यादिनोक्तमनुवदति —

तस्य चेति ।

अर्थवादस्तद्यो यो देवानामित्यदिः । संबन्धो ज्ञानस्य सर्वापत्तिफलेन साध्यसाधनत्वमधिकारिणाऽऽश्रयाश्रयित्वमैक्येन विषयविषयित्वमिति विभागः ।

अविद्यासूत्रे वृत्तं कथयति —

अविद्यायाश्चेति ।

संसारस्याधिकारः प्रवृत्तिरुत्पत्तिरिति यावत् ।

यथा पशुरित्यादिनोक्तमनुभाषते —

तत्रेति ।

अविद्याधिकारः सप्तम्यर्थः ।

तत्राविद्याकार्यं प्रपञ्चयितुमध्यायशेषप्रवृत्तिरिति मन्वानोऽविद्याविवर्तचातुर्वर्ण्यसृष्टिप्रकटनार्थं तदेतद्ब्रह्मेत्यस्मात्प्राक्तनं वाक्यमित्याकाङ्क्षापूर्वकमाह —

किं पुनरिति ।

ब्रह्म वा इदमित्यादिवाक्यमिदमा परामृश्यते ।

वर्णानेव विशिनष्टि —

यन्निमित्तेति ।

यैर्निमित्तैर्ब्राह्मण्यादिभिः संबद्धेषु कर्मस्वयमविद्वानधिकृतः पशुरिव संसरतीति पशुनिदर्शनश्रुतौ प्रसिद्धं तानि निमित्तानि दर्शयितुमुत्तरं वाक्यं प्रवृत्तमित्यर्थः ।

अथेत्यभ्यमन्थदित्यत्रानुग्राहकदेवतासर्गं प्रक्रम्याग्नेरेव सृष्टिरुक्ता नेन्द्रादीनामत्र त्वविद्यां प्रस्तुत्य तेषां सोच्यते तत्र कः श्रुतेरभिप्रायस्तत्राऽऽह —

एतस्येति ।

पूर्वमग्निसर्गानन्तरमिन्द्रादिसर्गो वाच्योऽपि नोक्तः फलाभावात् । इह त्वविदुषस्तत्कार्यवर्णाद्यभिमानिनः कर्माधिकृतिरित्येतस्यार्थस्य प्रदर्शनार्थं तदाविद्यत्वविवक्षया स व्युत्पाद्यत इत्यर्थः ।

अग्निसर्गोऽपि तर्हि तद्वदत्रैव वाच्यो विशेषाभावादित्याशङ्क्याऽऽह —

अग्नेस्त्विति ।

प्रजापतेः सृष्टिपूर्तये चेदग्निसृष्टिस्तत्रोक्ता हतेन्द्रादिसर्गोऽपि तत्रैव वाच्योऽन्यथा तदपूर्तेरित्याशङ्क्याऽऽह —

अयञ्चेति ।

तर्हि तत्रोक्तस्य कस्मादत्रोक्तिः पुनरुक्तेरित्याशङ्क्यैतस्यैवार्थस्येत्यत्रोक्तं स्मारयति —

इह त्विति ।

संगतिमुक्त्वा वाक्यमादाय व्याचष्टे —

ब्रह्मेति ।

अग्रे क्षात्रादिसर्गात्पूर्वमिति यावत् ।

वैशब्दस्यावधारणार्थत्वं वदन्वाक्यार्थोक्तिपूर्वकमेकमित्यस्यार्थमाह —

इदमिति ।

द्वितीयमेवकारं व्याचष्टे —

नाऽऽसीदिति ।

कथं तर्हि तस्य कर्मानुष्ठानसामर्थ्यसिद्धिरित्याशङ्क्य समनन्तरवाक्यं व्याचष्टे —

तत इति ।

तदेवसृष्टमाकाङ्क्षाद्वारा स्पष्टयति —

किं पुनरिति ।

एका चेत्क्षत्रजातिः सृष्टा कथं तर्हि यान्येतानीति बहूक्तिरित्याशङ्क्याऽऽह –

तद्व्यक्तिभेदेनेति ।

क्षत्रजातेरेकत्वात्कथं क्षत्राणीति बहुवचनमित्याशङ्क्य ’जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्’ इति स्मृतिमाश्रित्याऽऽह —

जातीति ।

बहूक्तेगत्यन्तरमाह —

व्यक्तीति ।

तासां बहुत्वाज्जातेश्च तदभेदात्तत्रापि भेदमुपचर्य बहूक्तिरित्यर्थः । क्षत्राणीति बहुवचनमिति यावत् ।

तेषां विशेषतो ग्रहणं क्षत्रस्योत्तमत्वं ख्यापयितुमिति मन्वानः सन्नाह —

कानि पुनरित्यादिना ।

ननु किमिति देवेषु क्षत्त्रसृष्टिरुच्यते ब्राह्मणस्य कर्मानुष्ठानसामर्थ्यसिद्ध्यर्थं मनुष्येष्वेव तत्सृष्टिरुपदेष्टव्येत्याशङ्क्याऽऽह —

तदन्विति ।

तथाऽपि विवक्षिता सृष्टिर्मुखतो वक्तव्येत्याशङ्क्योपोद्घातोऽयमित्याह —

तदर्थ इति ।

तस्मादित्यादि व्याचष्टे —

यस्मादिति ।

क्षत्रस्य नियन्तृत्ववदुत्कर्षे हेत्वन्तरमाह —

तस्मादिति ।

ब्रह्मेति प्रसिद्धं ब्राह्मण्याख्यमिति यावत् ।

उक्तम्मेव प्रपञ्चयति —

राजसूयेति ।

आसन्द्यां मञ्चिकायाम् ।

क्षत्रे स्वकीयं यशः समर्पयतो ब्राह्मणस्य निष्कर्षमाशङ्क्याऽऽह —

सैषेति ।

तयोर्ब्राह्मणत्वस्य तुल्यत्वात्कुतोऽवान्तरभेदः क्षत्त्रमपि क्रतुकाले ब्राह्मण्यं प्राप्नोतीत्याशङ्क्याऽऽह —

तस्मादिति ।

क्षत्त्रस्य ब्रह्माभिभवे दोषश्रवणाच्च तस्य तदपेक्षया तद्गुणत्वमित्याह —

यस्त्विति ।

प्रमादादपीति वक्तुमुशब्दः । य उ एनं हिनस्तीति प्रतीकग्रहणं यस्तु पुनरित्यादिव्याख्यानमिति भेदः ।

ईयसुनस्तरबर्थस्य प्रयोगे हेतुमाह —

पूर्वमपीति ।

ब्राह्मणाभिभवे पापीयस्त्वमित्येतदुदाहरणेन बुद्धावारोपयति —

यथेति ॥११॥

कर्तृब्राह्मणस्य नियन्तुश्च क्षत्रियस्य सृष्टत्वात्किमुत्तरेणेत्याशङ्क्याऽऽह —

क्षत्र इति ।

तद्व्याचष्टे —

कर्मण इति ।

ब्रह्म ब्राह्मणोऽस्मीत्यभिमानी पुरुषः । तथा क्षत्त्रसर्गात्पूर्वमिवेति यावत् ।

कथं तर्हि लौकिकसामर्थ्यसंपादनद्वारा कर्मानुष्ठानमत आह —

स विशमिति ।

देवजातानीत्यत्र तकारो निष्ठा ।

गणं गणं कृत्वा किमित्याख्यानं विशामित्याशङ्क्याऽऽह —

गणेति ।

विशां समुदायप्रधानत्वमद्यापि प्रत्यक्षमित्याह —

प्रायेणेति ॥१२॥

कर्तृपालयितृधनार्जयितॄणां सृष्टत्वात्कृतं वर्णान्तरसृष्ट्येत्याशङ्क्याऽऽह —

स परिचारकेति ।

शौद्रं वर्णमसृजतेत्यत्रौकारो वृद्धिः ।

पुष्यतीति पुषेत्युक्तत्वात्प्रश्नस्यानवकाशत्वमाशङ्क्याऽऽह —

विशेषत इति ।

पूषशब्दस्यार्थान्तरे प्रसिद्धत्वात्कथं पृथिव्यां वृत्तिरित्याशङ्क्याऽऽह —

स्वयमेवेति ॥१३॥

ननु चातुर्वर्ण्ये सृष्टे तावतैव कर्मानुष्ठानसिद्धेरलं धर्मसृष्ट्येत्यत आह —

स चतुर इति ।

अनियताशङ्क्या नियामकाभावे तस्यानियतत्वसंभावनयेति यावत् । तच्छब्दः स्रष्टृब्रह्मविषयः ।

कुतो धर्मस्य सर्वनियन्तृत्वं क्षत्त्रस्यैव तत्प्रसिद्धेरित्याह —

तत्कथमिति ।

अनुभवमनुसृत्य परिहरति —

उच्यत इत्यादिना ।

तदेवोदाहरति —

यथेति ।

राज्ञा स्पर्धमान इति शेषः ।

धर्मस्योत्कृष्टत्वेन नियन्तृत्वे सत्यादभिन्नत्वं हेत्वन्तरमाह —

यो वा इति ।

कथं धर्मस्य सत्यत्वं स हि पुरुषधर्मो वचनधर्मः सत्यत्वमित्यवान्तरभेदादित्याशङ्क्याऽऽह —

स एवेति ।

यथोक्ते विवेके लोकप्रसिद्धिं प्रमाणयति —

यस्मादिति ।

उभयशब्दो धर्मसत्यविषययोः धर्मं वदतीत्येतदेव विभजते —

प्रसिद्धमिति ।

यथा शास्त्रानुसारेण वदन्तं धर्मं वदतीति वदन्ति तथा पूर्वोक्तवदनवैपरीत्येन धर्मं वदन्तं सत्यं वदतीत्याहुरिति योजना ।

धर्ममेव व्याचष्टे —

लौकिकमिति ।

सत्यं वदतीत्येतदेव स्फुटयति —

शास्त्रादिति ।

कार्यकारणभावेनानयोरेकत्वमुपसम्हरति —

एतदिति ।

शास्त्रार्थसंशये शिष्टव्यवहारान्निश्चयो यथा याववराहादिशब्देषु, धर्मसंशये तु शास्त्रार्थवशान्निर्णयो यथा चैत्यवन्दनादिव्युदासेनाग्निहोत्रादौ । अतो हेतुहेतुमद्भावादुभयोरैक्यमिति भावः ।

धर्मस्य सत्यादभेदे फलितमाह —

तस्मादिति ।

तस्य सर्वनियन्तृत्वेऽपि प्रकृते किमायातं तदाह —

तस्मात्स इति ।

तर्हि यथोक्तधर्मवशादेव कर्मानुष्ठानसिद्धेर्वर्णाश्रमाभिमानस्याकिञ्चित्करत्वमित्याशङ्क्याऽऽह —

अत इति ।

धार्मिकत्वाद्यभिमानो ब्राह्मण्याद्यभिमानं पुरोधायानुष्ठापकश्चेत्तदभिमानोऽपि तथैवाभिमानान्तरं पुरस्कृत्यानुष्ठापयेदित्याशङ्क्याऽऽह —

तानि चेति ।

न खल्वविदुषो धार्मिकस्य ब्राह्मण्यादिषु निमित्तेषु सत्सु कर्मप्रवृत्तौ निमित्तान्तरमपेक्ष्यते प्रमाणाभावादित्यर्थः ॥१४॥

पुनरुक्तिवैयर्थ्यमाशङ्क्योक्तम् —

उत्तरार्थ इति ।

पूर्वत्र देवेषु दर्शितस्य वर्णविभागस्य मनुष्येषूत्तरग्रन्थेन योजनार्थ इति यावत् ।

सृष्टवर्णचतुष्टयनिविष्टमवान्तरविभागमभिधातुमारभते —

यत्तदिति ।

नान्येन देवान्तररूपेण क्षत्त्रादिविकारमन्तरेणेति यावत् । विकारान्तरमग्निब्राह्मणलक्षणम् ।

क्षत्त्रियेणेत्यत्र विवक्षितमर्थमाह —

इन्द्रादिदेवताधिष्ठित इति ।

वैश्येनेति वस्वाद्यधिष्ठितत्वमुच्यते । शूद्रेणेति पूषाधिष्ठितत्वम् ।

अग्न्यादिभावमापन्नस्य क्षत्त्रादिभावो न तु क्षत्त्रादिभावमापन्नस्याग्न्यादिभाव इत्येतावन्मात्रेण ब्रह्मणोविकृतत्वाविकृतत्वमग्निब्राह्मणस्तुत्यर्थमुक्तमित्यभिप्रेत्य तस्मादित्यादि व्याचष्टे —

यस्मादिति ।

यथोक्तप्रार्थनाया न्याय्यत्वं साधयति —

तदर्थमेवेति ।

कर्मफलदानार्थमिति यावत् ।

मनुष्याणां मध्ये कमपि मनुष्यमवलम्ब्य कर्मफलभोगापेक्षायामधिकरणसंप्रदानभावेनावस्थिताग्नीन्द्रादिनिमित्तक्रियापेक्षा नास्ति किन्तु ब्राह्मणजातिप्राप्तिमात्रेण तत्संबद्धं जप्यादिकर्मावश्यम्भावीति । तन्मात्रेण पुरुषार्थः सिध्यतीति प्रतीकग्रहणपूर्वकमाह —

मनुष्याणामिति ।

कुत्र तर्हि यथोक्तक्रियापेक्षेति तत्राऽऽह —

यत्र त्विति ।

देवानां मध्येऽग्निसंबद्धमेव कर्म कृत्वा पुरुषार्थलाभो मनुष्याणां मध्ये तु ब्राह्मण्यप्रयुक्तजप्यादिमात्रेण तत्प्राप्तिरित्यत्र प्रमाणमाह —

स्मृतेश्चेति ।

जप्यग्रहणं जातिमात्रप्रयुक्तकर्मोपलक्षणार्थम् । अन्यदग्निसंबद्धं कर्म ।

कोऽयं ब्राह्मणो नाम तत्राऽऽह —

मैत्र इति ।

सर्वेषु भूतेष्वभयप्रदो विशिष्टजातिमानिति यावत् ।

ननु यथोक्तस्मृतेर्ब्राह्मण्यप्रतिलम्भमात्रादभ्युदयलाभेऽपि कुतस्ततो निःश्रेयससिद्धिस्तत्राऽऽह —

पारिव्राज्येति ।

’ब्राह्मणा व्युत्थायाथ भिक्षाचर्यञ्चरन्ती’ति ब्राह्मणस्य पारिव्राज्यं श्रूयते । तच्च ’संन्यासाद्ब्रह्मणः स्थान’मिति ब्रह्मलोकसाधनं मन्यते । अतश्च ब्राह्मणजातिनिमित्तं लोकमिच्छन्तीति युक्तमित्यर्थः ।

ब्राह्मणे मनुष्येष्वित्यस्यार्थमुपसम्हरति —

तस्मादिति ।

हेतुवाक्यमादाय व्याचष्टे —

यस्मादिति ।

हिशब्दार्थो यस्मादित्युक्तः यत्स्रष्टृ ब्रह्म तदेताभ्यां यस्मत्साक्षादभवत्तस्मादग्नावेवेत्यादि युक्तमिति योजना ।

अग्नौ हुत्वा ब्राह्मणे च दत्त्वा परमात्मलक्षणं लोकमाप्तुमिच्छन्तीति भर्तृप्रपञ्चव्याख्यानमनुवदति —

अत्रेति ।

सप्तमी तस्मादित्यादिवाक्यविषया ।

प्रक्रमालोचनायां कर्मफलमिह लोकशब्दार्थो न परमात्मा प्रक्रमभङ्गप्रसंगादिति दूषयति —

तदसदिति ।

कर्माधिकारार्थं कर्मसु प्रवृत्तिसिद्ध्यर्थमिति यावत् ।

वाक्यशेषगतविशेषणवशादपि कर्मफलस्यैवात्र लोकशब्दवाच्यत्वमित्याह —

परेण चेति ।

तदेव प्रपञ्चयति —

यदि हीति ।

परपक्षे स्वमिति विशेषणं व्यावर्त्याभावान्न घटते चेत्त्वत्पक्षेऽपि कथं तदुपपत्तिरित्याशङ्क्याऽऽह —

स्वलोकेति ।

परशब्दोऽनात्मविषयः ।

ननु प्रकृते वाक्ये लोकशब्देन परमात्मा नोच्यते चेदुत्तरवाक्येऽपि तेन नासावुच्येत विशेषाभावादित्याशङ्क्य विशेषणसामर्थ्यान्नैवमित्याह —

स्वत्वेन चेति ।

कर्मफलविषयत्वेनापि विशेषणस्य नेतुं शक्यत्वान्न विशेषसिद्धिरित्याशङ्क्याऽऽह —

अविद्येति ।

तेषां स्वरूपव्यभिचारे वाक्यशेषं प्रमाणयति —

ब्रवीति चेति ।

उत्तरवाक्यव्यावर्त्यं पूर्वपक्षमाह —

ब्रह्मणेति ।

अत्पुनरचेतनमकिञ्चित्करमित्याशङ्क्याऽऽह —

तच्चेति ।

सर्वैरेव वणैः स्वस्य कर्तव्यतया तान्प्रति नियन्तृ भूत्वेति योजना ।

तस्य पुमर्थोपायत्वप्रसिद्धिमादाय फलितमाह —

तस्मादिति ।

अविदितोऽपीति च्छेदः ।

देवतागुणवत्कर्म मुक्तिहेतुरिति पक्षं प्रतिक्षेप्तुमुत्तरं वाक्यमुत्थापयति —

अत आहेति ।

झानादेव मुक्तिर्न कर्मणेत्यागमप्रसिद्धमिति निपातयोरर्थः ।

तत्र निमित्तमुपादानञ्चेति द्वयं संक्षिपति —

अविद्येति ।

निमित्तं निवृणोति —

अग्न्यधीनेति ।

आत्माख्यस्य लोकस्य सत्त्वे हेतुमाह —

आत्मत्वेनेति ।

अहं ब्रह्मास्मीत्यदृष्ट्वेति संबन्धः । यः परमात्मानमविदित्वेव म्रियते तमेनं परमात्मा न पालयतीति योजना ।

परमात्मनः स्वरूपत्वादविदितस्यापि पालयितृत्वं स्यादित्याशङ्क्याऽऽह —

स यद्यपीति ।

लोकशब्दादुपरिष्टात्तथाऽपीति द्रष्टव्यम् । अविदित इत्यस्य व्याख्यानमविद्ययेत्यादि ।

परमात्माख्यो लोको नाज्ञातो भुनक्तीत्यत्र कर्मफलभूतं लोकं वैधर्म्यदृष्टान्ततया दर्शयति —

अस्व इवेति ।

अज्ञातस्यापालयितृत्वे साधर्म्यदृष्टान्तमाह —

संक्येति ।

यथा लौकिको दशमो दशमोऽस्मीत्यज्ञातो न शोकादिनिवर्तनेनाऽऽत्मानं भुनक्ति तथा परमात्माऽपीत्यर्थः ।

तत्रैव श्रुत्युक्तं दृष्टान्तद्वयं व्याचष्टे —

यथा चेत्यादिना ।

अविद्यादीत्यादिशब्देन तदुत्थं सर्वं संगृह्यते ।

यदिहेत्यादिवाक्यापोह्यं चोद्यमुत्थापयति —

नन्विति ।

नन्वनिष्टफलनिमित्तस्यापि कर्मणः फलप्राप्तिध्रौव्यात्कथं कर्मणा मोक्षः सेत्स्यति तत्राऽऽह —

इष्टेति ।

बाहुल्यमश्वमेधादिकर्मणो महत्तरत्वं तद्धि दुरितमभिभूय मोक्षमेव संपादयिष्यतीत्यर्थः ।

यत्कृतकं तदनित्यमिति न्यायमाश्रित्य परिहरति —

तन्नेत्यादिना ।

सप्तम्यर्थः संसारः इहेतिनिपातार्थं सूचयति —

अद्भुतवदिति ।

अनेवंवित्त्वं व्याकरोति —

स्वं लोकमिति ।

यथोक्तो विधिरन्वयव्यतिरेकादिः पुण्यकर्मच्छिद्रेषु दुरितप्रसक्तिं निवारयति —

नैरन्तर्येणेति ।

तथा पुण्यं संचिन्वतोऽभिप्रायमाह —

अनेनेति ।

प्रक्रान्तयच्छब्दापेक्षितं कथयति —

तत्कर्मेति ।

प्रागुक्तन्यायद्योती हेति निपातः ।

कारणरूपेण कार्यस्य द्रुवत्वमाशङ्क्याऽऽह —

तत्कारणयोरिति ।

मुक्तेरनित्यत्वदोषसमाधिस्तर्हि केन प्रकारेण स्यादित्याशङ्क्याऽऽह —

अत इति ।

आत्मशब्दार्थमाह —

स्वं लोकमिति ।

तदेव स्फुटयति —

आत्मानमितीति ।

आत्मशब्दस्य प्रकृतस्वलोकविषयत्वे हेत्वन्तरमाह —

इह चेति ।

प्रयोगे तु पुनरुक्तिभयादर्थान्तरविषयत्वमपि स्यादित्यर्थः ।

विद्याफलमाकाङ्क्षाद्वारा निक्षिपति —

स य इति ।

कर्मफलस्य क्षयित्वमुक्त्वा कर्मणोऽक्षयत्वं वदतो व्याहतिमाशङ्क्याऽऽह —

कर्मेति ।

वाक्यस्य विवक्षितमर्थं वैधर्म्यदृष्टान्तेन व्याचष्टे —

यथेति ।

अविदुष इति च्छेदः ।

कर्मक्षयेऽपि वा विदुषो दुःखाभावे दृष्टान्तमाह —

मिथिलायामिति ।

आत्मानमित्यादि केवलज्ञानान्मुक्तिरित्येवम्परतया व्याख्यातं संप्रति तत्र भर्तृप्रपञ्चव्याख्यामुत्थापयति —

स्वात्मेति ।

आत्मलोकोपासकस्य कर्माभावे कथं तदक्षयवाचोयुक्तिरित्याशङ्क्य कर्माभावस्यासिद्धिमभिसन्धाय कर्मसाध्यं लोकं व्याकृताव्याकृतरूपेण भिनत्ति —

लोकशब्दार्थञ्चेति ।

औत्प्रेक्षिकी कल्पना न तु श्रौतीति वक्तुं किलेत्युक्तम् । तत्राऽऽद्यं लोकशब्दार्थमनूद्य तदुपासकस्य दोषमाह —

एक इति ।

परिच्छिन्नः कर्मात्मा तत्साध्यो व्याकृतावस्थो लोकस्तस्मिन्नहङ्ग्रहोपासकस्येति यावत् । किलशब्दस्तु पूर्ववत् ।

द्वितीयं लोकशब्दार्थमनूद्य तदुपासकस्य लाभं दर्शयति —

तमेवेति ।

यथा कुण्डलादेरन्तर्बहिरन्वेषणे सुवर्णातिरिक्तरूपानुपलम्भात्तद्रूपेणास्य नित्यत्वं तथा कर्मसाध्यं हिरण्यमर्गादिलोकं कार्यत्वादव्याकृतं कारणमेवेत्यङ्गीकृत्य यस्तस्मिन्नहम्बुद्ध्योपास्ये तस्यापरिच्छिन्नकर्मसाध्यलोकात्मोपासकत्वाद्ब्रह्मवित्त्वं कर्मित्वं च घटते तस्य खल्वात्मैव कर्म तेन तस्य तन्न क्षीयते । यः पुनरद्वैतावस्थामुपास्ते तस्याऽऽत्मैव कर्म भवतीति हि भर्तृप्रपञ्चैरुक्तमित्यर्थः ।

आत्मानमित्यादिसमुच्चयपरमिति प्राप्तं पक्षं प्रत्याह —

भवतीति ।

श्रौतत्वाभावे हेतुमाह —

स्वलोकेति ।

स्वं लोकमदृष्ट्वेत्यत्र स्वलोकशब्देन परस्य प्रकृतस्याऽत्मानमेवेत्यत्र प्रकृतहानाप्रकृतप्रक्रियापरिहारार्थमुक्तत्वान्नात्र लोकद्वैविद्यकल्पना युक्तेत्यर्थः ।

लोकशब्देनात्र परमात्मपरिग्रहे हेत्वन्तरमाह —

स्वं लोकमितीति ।

यथा लोकस्य स्वशब्दार्थो विशेषणं तथाऽऽत्मानमित्यत्र स्वशब्दपर्यायात्मशब्दार्थस्तस्य विशेषणं दृश्यते न च कर्मफलस्य मुक्त्यमात्मत्वमतो लोकशब्दोऽत्र परमात्मैवेत्यर्थः ।

प्रकरणाद्विशेषणाच्च सिद्धमर्थं दर्शयति —

तत्रेति ।

परस्यैव लोकशब्दार्थत्वे हेत्वन्तरमाह —

परेणेति ।

उक्तमेव प्रपञ्चयति —

पुत्रेति ।

अथ परेषु वाक्येषु परमात्मा लोकशब्दार्थः प्रकृते तु कर्मफलमिति व्यवस्थेति चेन्नैवमेकवाक्यत्वसंभवे तद्भेदस्यान्याय्यत्वादित्याह —

तैरिति ।

एकवाक्यत्वसंभावनामेव दर्शयति —

इहापीति  ।

यथोत्तरत्राऽऽत्मादिशब्देन लोको विशेषिस्तथाऽऽत्मानमित्यत्राप्यात्मशब्देन विशेष्यते । पूर्ववाक्ये च स्वं लोकमदृष्ट्वेति स्वशब्देनाऽऽत्मवाचिना तस्य विशेषणं दृश्यते । तथा च पूर्वापरालोचनायामेकवाक्यत्वसिद्धिरित्यर्थः ।

प्रकरणेन तस्य लोकशब्दार्थत्वमयुक्तं लिङ्गविरोधादिति चोदयति —

अस्मादिति ।

तदेव विवृणोति —

इहेत्यादिना ।

अर्थवादस्थं लिङ्गं न प्रकरणाद्बलवदिति मत्वा समाधत्ते —

नेत्यादिना ।

स्तुतिमेव स्पष्टयति —

स्वस्मादेवेति ।

लोकाज्ज्ञातादिति शेषः ।

यथा छान्दोग्ये स्तुत्यर्थमात्मनः स्रष्टृत्वमुच्यते तथाऽत्राप्यात्मलोकं स्तोतुमेतत्फलवचनमित्याह —

आत्मत इति ।

भवतु वा मा भूदस्माद्ध्येवेत्यादिरर्थवादस्तथाऽपि तस्य सर्वात्मत्वप्रदर्शनार्थत्वाद्युक्तमत्र लोकशब्देन परमात्मग्रहणमित्याह —

सर्वात्मेति ।

तस्मात्तत्सर्वमभवदिति वाक्यं दृष्टान्तयति —

पूर्ववदिति ।

किञ्चाऽऽत्मशब्दस्य त्रिधापरिच्छेदशून्यार्थवाचिताया यच्चाऽऽप्नोतीत्यादिन्यायेन सिद्धत्वात्तत्समानाधिकरणलोकशब्दस्यापि तदर्थत्वात्परस्यैवात्र लोकत्वमित्याह —

यदि हीति ।

किञ्च यदि लोकशब्देन परं हित्वाऽर्थान्तरमुच्यते तदा सविशेषणं वाक्यं स्यादन्यथा स्वं लोकमिति प्रकृतपरमात्मलोकस्य त्वत्पक्षेऽन्तरोक्तब्रह्मलोकस्य च व्यावृत्त्ययोगात् । न चात्र सविशेषणं वाक्यं दृष्टमतः स्वं लोकमिति प्रकृतः परमात्मैवात्रापि लोक इत्याह —

अन्यथेति ।

विशेषणं विनैवास्मादित्यत्र परापराभ्यामर्थान्तरं किं न स्यादित्याशङ्क्याऽऽह —

न हीति ।

स्वं लोकमिति प्रकृते परमात्मन्यात्मानमेवेति विशेषिते चाव्याकृताख्या परापराभ्यामन्तरालावस्था न प्रतिपत्तुं शक्यते तस्याः श्रुतत्वाभावादित्यर्थः ॥१५॥

कण्डिकान्तरमवतार्य वृत्तमनूद्याऽऽकाङ्क्षापूर्वकं तात्पर्यमाह —

अथो इत्यादिना ।

अत्रेत्यविद्यावस्था पूर्वग्रन्थो वा दृश्यते ।

अपिपर्यायस्याथोशब्दस्यासंगतिमाशङ्क्य व्याकरोति —

अथो इतीति ।

परस्यापि प्रकृतत्वात्ततो विशिनष्टि —

गृहीति ।

गृहित्वे हेतुरविद्वानित्यादि ।

इतरपर्युदासार्थं कर्माधिकृत इत्युक्तम् । कथमुक्तस्याऽऽत्मनः सर्वभोग्यतेत्याशङ्क्याऽऽह —

सर्वेषामिति ।

तदेव प्रश्नद्वारा प्रकटयति —

कैः पुनरिति ।

यजतिजुहोत्योस्त्यागर्थत्वेनाविशेषात्पुनरुक्तिमाशङ्क्य यजतिचोदनाद्रव्यदेवताक्रियासमुदाये कृतार्थत्वादिति न्यायेनाऽऽह —

याग इति ।

आसेचनं प्रक्षेपः । उक्तञ्च – जुहोतिरासेचनावधिकः स्यादिति जै० सू० ४–२–२८ ।

यथोक्तसोमादिभिर्देवादीन्प्रत्युपकुर्वतो गृहिणौ विद्यया प्रतिबन्धसंभवात्तदुपकारित्वव्यावृत्तिरित्याशङ्क्याऽऽह —

यस्मादिति ।

पूर्वेषामथशब्दानामभिप्रेतमर्थमनूद्य समनन्तरवाक्यमनूद्य तदर्थमाह —

तस्मादिति ।

देवादीनां कर्माधिकारिणि कर्तृत्वादिपरिपालनमेव परिरक्षणमिति विवक्षित्वा पूर्वोक्तं स्मारयति —

तस्मादिति ।

यथोक्तं कर्म कुर्वन्यद्यपि देवादीन्प्रत्युपकरोति तथाऽपि न तत्कर्तृत्वमावश्यकं मानाभावादित्याशङ्क्याऽऽह —

तद्वा इति ।

भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञो ब्रह्मयज्ञश्चेत्येवं पञ्चमहायज्ञाः ।

ननु श्रुतमपि विचारं विना नानुष्ठेयं न हि रुद्ररोदनादि श्रुतमित्येवानुष्ठीयते तत्राऽऽह —

मीमांसितमिति ।

’तदेतदवदयते तद्यजते स यदग्नौ जुहोती’त्याद्यवधानप्रकरणम् । ’ऋणं ह वाव जायते जायमानो योऽस्ती’त्यादिनाऽर्थवादेनेति शेषः ।

वाक्यान्तरमादाय व्याख्यातुं पातनिकाङ्करोति —

आत्मैवेत्यादिना ।

कर्मैव बन्धनं तत्राधिकारोऽनुष्ठानं तस्मिन्निति यावत् । विद्याधिकारस्तदुपायै श्रवणादौ प्रवृत्तिस्तत्रेत्यर्थः ।

यथोक्ताधिकारिणो देवादिभी रक्षणं प्रवृत्तिमार्गे नियमेन प्रवर्तकमिति शङ्कते —

नन्विति ।

उक्तमङ्गीकरोति —

बाढमिति ।

तर्हि प्रवर्तकान्तरं न वक्तव्यं तत्राऽऽह —

कर्माधिकारेति ।

कर्मस्वधिकारेण स्वगोचरत्वं प्राप्तानेव देवादयोऽपि रक्षन्ति न सर्वाश्रमसाधारणं ब्रह्मचारिणमतोऽस्य कर्ममार्गे प्रवृत्तौ देवादिरक्षणस्याहेतुत्वाद्ब्रह्मचारिणो निवृत्तिं त्यक्त्वा प्रवृत्तिपक्षपाते कारणं वाच्यमित्यर्थः ।

मनुष्यमात्रं कर्मण्येव बलात्प्रवर्तयन्ति तेषामचिन्त्यशक्तित्वादित्याशङ्क्याऽऽह —

अन्यथेति ।

स्वगोचरारूढानेवेत्येवकारस्य व्यावर्त्यं कीर्तयति —

न त्विति ।

विशिष्टाधिकारो गृहस्थानुष्ठेयकर्मसु गृहस्थत्वेन स्वामित्वं तेन देवगोचरतामप्राप्तमित्यर्थः ।

देवादिरक्षणस्याकारणत्वे फलितमाह —

तस्मादिति ।

प्रत्यगविद्या यथोक्ताधिकारिणो नियमेन प्रवृत्त्यनुरागे हेतुरिति शङ्कते —

नन्विति ।

तदेव स्फुटयति —

अविद्वानिति ।

तस्याः स्वरूपेण प्रवर्तकत्वं दूषयति —

साऽपीति ।

अविद्यायस्तर्हि प्रवृत्त्यन्वयव्यतिरेकौ कथमित्याशङ्क्य कारणकारणत्वेनेत्याह —

प्रवर्तकेति ।

सत्यन्यस्मिन्कारणेऽकारणमेवाविद्या प्रवृत्तेरिति चेत्तत्राऽऽह —

एवं तर्हीति ।

उत्तरवाक्यमुत्तरत्वेनावतार्य तस्मिन्विवक्षितं प्रवर्तकं संक्षिपति —

तदिहाभिधीयत इति ।

तत्रार्थतः श्रुत्यन्तरं संवादयति —

स्वाभाविक्यामिति ।

तत्रैव भगवतः सम्मतिमाह —

स्मृतौ चेति ।

’अथ केन प्रयुक्तोऽयम्’ इत्यादिप्रश्नस्योत्तरम् –
’काम एष क्रोध एष रजोगुणसमुद्भवः’ इत्यादि ।

’अकामतः क्रिया काचिद्दृश्यते नेह कस्यचित् ।
यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्’ ॥
इति वाक्यमाश्रित्याऽऽह —

मानवे चेति ।

दर्शितमिति शेषः ।

उक्तेऽर्थे तृतीयाध्यायशेषमपि प्रमाणयति —

स एषोऽर्थ इति ॥१६॥

एवं तात्पर्यमुक्त्वा प्रतीकमादय पदानि व्याकरोति —

आत्मैवेत्यादिना ।

वर्णी द्विजत्वद्योतको ब्रह्मचारीति यावत् ।

कथं तर्हि हेत्वभावे तस्य कामित्वमपि स्यादित्याशङ्क्याऽऽह —

जायादीति ।

सशब्दं व्याकुर्वन्नुत्तरवाक्यमादयावशिष्टं व्याचष्टे —

स्वाभाविक्येति ।

कामनाप्रकारं प्रश्नपूर्वकं प्रकटयति —

कथमिति ।

कर्माधिकारहेतुत्वं तस्याः साधयति —

तयेति ।

प्रजां प्रति जायाया हेतुत्वद्योतकोऽथशब्दः । प्रजाया मानुषवित्तान्तर्भावमभ्युपेत्य द्वितीयोऽथशब्दः । तृतीयस्तु वित्तस्य कर्मानुष्ठानहेतुत्वविवक्षयेति विभागः ।

कर्मानुष्ठानफलमाह —

येनेति ।

तत्किं नित्यनैमित्तिककर्मणामेवानुष्ठानं नेत्याह —

काम्यानि चेति ।

क्रियापदमनुक्रष्टुं चशब्दः कामशब्दस्य यथाश्रुतमर्थं गृहीत्वैतावानित्यादिवाक्यस्याभिप्रायमाह —

साधनलक्षणेति ।

अस्याः साधनैषणायाः फलभूता इति संबन्धः ।

द्वयोरेषणात्वमुक्त्वा लोकैषणां परिशिनष्टि —

तदर्था हीति ।

कथं तर्हि साधनैषणोक्तिरित्याशङ्क्याऽऽह —

सैकेति ।

एतेन वाक्यशेषोऽप्यनुगुणी भवतीत्याह —

अत इति ।

साधनवत्फलमपि काममात्रं चेत्कथं तर्हि श्रुत्या साधनमात्रमभिधायैतावानवध्रियते तत्राह —

फलार्थत्वादिति ।

उक्ते साधने साध्यमार्थिकमित्यत्र दृष्टान्तमाह —

भोजन इति ।

साधनोक्तौ साध्यस्यार्थादुक्तेरेतावानिति द्वयोरनुवादेऽपि कथमेषणार्थे कामशब्दस्तत्र प्रयुज्यते, न हि तौ पर्यायौ, न च तदवाच्यत्वे तयोरनर्थकतेत्याशङ्क्य पर्यायत्वमेषणाकामशब्दयोरुपेत्याह —