आनन्दज्ञानविरचिता

आनन्दगिरिटीका

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

येनाऽऽत्मना परेणेशा व्याप्तं विश्वमशेषतः ।
सोऽहं देहद्वयीसाक्षी वर्जितो देहतद्गणेः ॥ १ ॥

ईशा वास्यमित्यादिमन्त्रान्व्याचिख्यासुर्भगवन्भाष्यकारस्तेषां कर्मशेषत्वशङ्कां तावद्व्युदस्यति । तथाहि कर्मजडाः केचन मन्यन्ते स्म । ईशा वास्यमित्यादयो मन्त्राः कर्मशेषा मन्त्रत्वाविशेषादिवेत्वादिमन्त्रवत् । अतः पृथक्प्रयोजनाद्यभावादव्याख्येया इति तान्प्रत्याह -

ईशा वास्यमित्यादय इति ।

कर्मस्वविनियुक्ता इति ।

इषे त्वेति शाखां छिनत्तीत्यादिवद्विनयोजकप्रमाणादर्शनात्प्राकरणान्तरत्वाच्चेत्यर्थः ।

श्रौतविनियोगाभावेऽपि `बर्हिर्देवसदनं दामी' त्यस्य बर्हिर्लवनप्रकाशनसामर्थ्याद्वर्हिर्लवने यथा विनियोगस्तथा कर्मशेषात्मप्रकाशनसामर्थ्येन कर्मस्वेषां विनियोग इत्यपि नाऽऽशङ्कनीयमित्याह -

तेषामिति ।

शुद्धत्वादिविशेषणस्याऽऽत्मनः कर्मशेषत्वे प्रमाणाभावात्तद्याथात्म्यं न केवलं कर्मानुपयोगि किन्तु कर्मणा विरुध्यते चेत्याह -

याथात्म्यं चेति ।

शुद्धोऽहं स्वभावतो नाऽऽगन्तुकेनापि पाप्मना विद्धः सर्वत्रैकोऽशरीर आकाशोपम इति जानन्न कटाक्षेणापि कर्म वीक्षते । किन्त्वापातप्रतिपत्तिरप्येतादृशी निरुणद्ध्येव कर्मप्रवृत्तिमित्यर्थः । किञ्च यः कर्मशेषः स उत्पाद्यो दृष्टो यथा पुरोडाशादिः । विकार्यः सोमादिः । आप्यो मन्त्रादिः । संस्कार्यो व्रीह्यादिस्तदुत्पाद्यादिरूपत्वं व्यापकं व्यावर्तमानमात्मयाथात्म्यस्य कर्मशेषत्वमपि व्यावर्तयति ।

तथाऽऽत्याथात्म्यं कर्तृ भोक्तृ च न भवति । येन ममेदं समीहीतसाधनं ततो मया कर्तव्यमित्यहङ्कारान्वयपुरः सरः कर्त्रन्वयः स्यादित्याह -

नह्येवमिति ।

ननूपनिषदां जपोपयोगित्वादन्यस्य च प्रमाणस्यादर्शनान्नास्त्येवैतादृशमात्मयाथात्म्यं तत्राऽऽह -

सर्वासामिति ।

``यत्परः शब्दः स शब्दार्थ'' इति मीमांसाप्रसिद्धेः सर्वासामुपनिषदां चैकात्म्ये तात्पर्यदर्शनान्न जपोपयोगित्वमुपनिषदांशक्यं वक्तुम् । तथाहि - ईशा वास्यमित्युपक्रम्य स पर्यगाच्छुमित्युपसंहारादनेजदेकं तदन्तरस्य सर्वस्येत्यभ्यासदर्शनान्नैनद्देवा आप्नुवन्नित्यपूर्वतासङ्कीतंनात् को मोहः कः शोक एकत्वमनुपश्यत इति फलवत्तासङ्कीर्तनात्कुर्वन्नेवेहेति जिजीविषोर्भेददर्शिनः कर्मकरणानुवादेनासुर्या नाम त इति निन्दयेकात्म्यदर्शनस्य स्सुतत्वात्तस्मिन्नपो मातरिश्वा दधातीति युक्त्यभिधानाच्चास्यास्तावदुपनिषद ऐकात्म्यतात्पर्यं दृश्यते । एवमन्यासामप्युपनिषदामुपक्रमोपसंहारैकरूप्याभ्यासापूर्वताफलवत्तार्यवादयुक्त्युपपादनानि षट् तात्पर्यलिङ्गानि विकल्पेन समुच्चयेन चास्माभिस्तत्त्वालोके दर्शितानीति नेह प्रतन्यन्ते ।

किञ्च प्रत्ययसम्वादोऽपि बलवत्त्वे कारणं प्रसिद्धम् । विद्यते चोपनिषदर्थे गीतादिसम्वादस्तस्मादुपनिषत्पदसमन्वयेनावगम्यमानमैकात्म्यं न प्रमाणान्तरानुपलम्भविरोधेनापलपनीयम् । यथेन्द्रियान्तरेणानवगम्यमानमपि रूपं चक्षुपाऽवगम्यमानं नापह्नूयते तथैकात्म्यमपि नापह्नवार्हमित्याह -

गीतानामिति ।

``समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति'' इत्यादिगीतानाम् । `एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत्' इत्यादिमोक्षशास्त्राणां चैकात्म्यपरत्वादित्यर्थः ।

यद्येतादृशमात्मतत्त्वं तर्हि निरधिकारित्वात्कर्मकाण्डमुच्छिद्येतेत्यपि नाऽऽशङ्कनीयमित्याह -

तस्मादिति ।

औपनिश्चयवत इष्यत एव श्येनादिविध्यप्रमाण्यम् । यथा च तीव्रक्रोधाक्रान्तस्वान्तं प्रत्येव श्येनादिविधिप्रामाण्यं तथा मिथ्यात्मदर्शिनं प्रत्येव कर्मविधिप्रामाण्यमित्यर्थः ।

अत्र जैमिनिप्रभृतीनां सम्मनिमाह -

यो हीत्यादिना ।

अर्थित्वादियुक्तस्य कर्मण्यधिकारः षष्ठेऽध्याये प्रतिष्ठापितः । अर्थित्वादि च मिथ्याज्ञाननिदानम् । न हि नभोवन्निष्क्रियस्य स्वत एव दुःखासंसर्गिणः परमानन्दस्वभावस्य सुखं मे स्याद्दुःखं मे मा भूदित्यर्थित्वं शरीरेन्द्रियसामर्थ्येन च समर्थोऽहमित्यभिमानित्वं मिथ्याज्ञानं विना सम्भवतीत्यर्थः ।

यस्मादात्मयाथात्म्यप्रकाशका मन्त्रा न कर्मविधिशेषभूता न च मानान्तरविरुद्धास्तस्मात्प्रयोजनादिमत्त्वमपि तेषां सिद्धमित्याह -

तस्मादेत इति ।

व्याख्येयत्वमुक्त्वा प्रतिपदं व्याचष्टे -

ईशेति ।

`ईश' ऐश्वर्ये इत्यस्य धातोः क्विपि लुप्ते कृदन्तं रूपमीट् तस्य तृतीयैकवचनमीशेति । रीशनकर्तृत्वसम्भवात् क्विबन्तशब्दवाच्यता न विरुध्यते निरूपाधिकस्य च लक्ष्यत्वं भविष्यतोत्यर्थः ।

ईशित्रीशितव्यभावेन तर्हि भेदः प्राप्त इत्याशङ्क्याऽऽह -

सर्वजन्तूनामात्मा सन्निति ।

यथाऽऽदर्शादिषु प्रतिबिम्बानामात्मा सन् बिम्बभूतो देवदत्त ईशिता भवति तथा कल्पितभेदेनेशित्रीशितव्यभावसम्भवान्न वास्तवभेदानुमानं सम्भवतीत्यर्थः । `वस' आच्छादने । अस्य रूपं वास्यम् । तत्त्वत ईश्वरात्मकमेव सर्वं भ्रान्त्या यदनीश्वररूपेण गृहीतं तत्सर्वमीश्वर एवाऽऽत्मैवेति ज्ञानेनाऽऽच्छादनीयम् । सर्वात्मक ईश्वरोऽस्मीति ज्ञातव्यमेष तत्त्वोपदेश्छान्दोग्ये तत्त्वमसीतिवदित्यर्थः । 'ब्रह्मैव सर्वमात्मैव सत्प्रकाशाविशेषतः । हेयोपादेयभावोऽयं न सन्स्वप्नवदीर्यते ॥' उक्तं च - `न बन्धोऽस्ति न मोक्षोऽस्ति न विकल्पोऽस्ति तत्त्वतः । नित्यप्रकाश एवास्ति विश्वाकारो महेश्वरः ॥' इति ।

यस्यौपदेशिकज्ञानमात्रेणानृतदृष्टिर्न तिरस्क्रियते तस्य विचारादिप्रयत्नेन तत्त्वप्रकाशे सत्यानृतदृष्टिस्तिरस्क्रियेतेत्यभिप्रेत्य दृष्टान्तमाह -

यथेति ।

चन्दनागर्वादेरुदकादिसम्बन्धादार्द्रीभावादिना जातं यद्दौर्गन्ध्यमौपाधिकं मिथ्या तद्यथा तत्स्वरूपनिधर्षणाभिव्यक्तेन स्वाभाविकेन गन्धेनाऽऽच्छाद्यते तद्वद्विचारादेः स्वरूपसद्भावान्मिथ्याबुद्धेर्बाधकत्वं सम्भवतीत्याह -

तद्वदेव हीति ।

स्वभावोऽनादिरविद्या तत्कार्यं स्वाभाविकमित्यादिबाधयोग्यत्वप्रदर्शनार्थं विशेषणम् । एवं विचारादिप्रयत्नवतोऽनृतदृष्टितिरस्कारसम्भावनामुक्त्वा युक्त्यनभिज्ञस्य सर्वमिदमहं चेश्वर एवेति भावनायामधिकृतस्य युक्तिकुशलस्य च विचारेऽधिकृतस्य सर्वकर्मसंन्यास एवाधिकार इह मन्त्रे विवक्षितस्तेनत्यक्तेनेत्यत्रत्यागपरामर्शात् ।

``त्यजतैव हितज्ज्ञेयंत्यक्तुः प्रत्यक्परं पदमि''त्यन्यत्राप्युक्तत्वात्पुत्राद्येषणायाश्चित्तविक्षेपहेतुत्वेन प्रसिद्धत्वाच्चेत्यभिप्रेत्याऽऽह -

एवमीश्वरात्मेति ।

चिकीर्षितं संन्यासं स्तौति -

तेन त्यक्तेनेति ।

त्यागेनाऽऽत्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः ।

संन्यासिनः शरीरसंधारणोपयुक्तकौपीनाच्छादनभिक्षाशनादिव्यतिरिक्तेऽपि कथञ्चिद्द्रव्यपरिग्रहे रागश्चेत्प्राप्नोति तन्निरोधे यत्नः कर्तव्यः । तस्य प्रधानविरोधत्वादित्यभिप्रेत्य नियमविधिमाह -

एवं त्यक्तैषण इति ।

स्विदिति निपातस्य सामान्याथंत्वेऽपि कस्यस्विदिति वितर्कार्थत्वमन्यत्र प्रसिद्धं तदिह न गृह्यत इत्यनर्थकमित्युक्तम् । व्यवहारदृष्ट्याऽप्यात्मन एवेदं सर्वं शेषभूतं जडस्य चित्परतन्त्रत्वादतोऽप्राप्ते विषये नाऽऽङ्क्षा कर्तव्या । परमार्थतस्त्वात्मैव सर्वमित्याकाङ्क्षाविषय एव नास्तीत्यर्थः ॥ १ ॥

आद्यमन्त्रस्य पूर्वार्धेन तत्त्वोपदेशः कृतस्तृतीयपादेनापरिपक्वज्ञानस्य संन्यासविधिरुक्तश्चतुर्थपादेन संन्यासिनो नियमविधिरुक्त इति प्रतिपदं व्याख्याय संक्षिप्यार्थमनुवदत्युत्तरस्य सम्बन्धाभिधित्सया -

एवमात्मविद इत्यादिना ।

पूर्वमन्त्रेण ज्ञानं विहितं यस्य तस्यैवोत्तरमन्त्रेण कर्म विहितं ततः समुच्चयानुष्ठाने तात्पर्यं मन्त्रद्वयस्येत्येकदेशिशङ्कामुद्भावयति -

कथं पुनरिति ।

शुद्धब्रह्मज्ञानकर्मणी नैकाधिकारे विरुद्धत्वादृतुगमनत्रिदण्डिधर्मवत् । अस्त्येव तत्रापि क्रमेणैककर्तृकत्वमिति चेन्न । विशिष्टरूपभेदाद्भिन्नाधिकारत्वात् । यच्चोक्तं ज्ञानकर्मणोर्वेदविहितत्वेन शुद्धिसाम्याद्विरोधोऽसिद्ध इति तदसत् । ऋतुगमनत्रिदण्डिधर्मयोरप्यविरोधप्रसङ्गात् । तदुभयं नैकस्य विहितमिति चेतुल्यमेतत् । प्रतिषेधात्तत्र न समुच्चय इति चेदिहापि `न कर्मणा न प्रजया' `नानुध्यायाद्वहूञ्छब्दानि' त्यादिप्रतिषेधस्तुल्यः ।

केवलकर्मविषयो निषेध इति न च वाच्यं केवलपदव्यवच्छेद्याभावात्समुच्चयविधेरद्याप्यनिश्चितत्वात्तस्मान्न समच्चये तात्पर्यं मन्त्रद्वयस्येत्याह -

ज्ञानकर्मणोर्विरोधमिति ।

कर्तृत्वाद्यध्यासाश्रयं कर्म शुद्धत्वाकर्तृत्वादिज्ञानेनोपमृद्यत इति सम्बन्धग्रन्थे यथोक्तं सहानवस्थानलक्षणं विरोधं किं न स्मरसि येनैकाधिकारत्वं तयोः कल्पयसीत्यर्थः ।

मन्त्रलिङ्गादपि तयोर्भिन्नाधिकारत्वं प्रतीयत इत्याह -

इहाप्युक्तमिति ।

जिजीविषो रागिणः कर्म विहितं सर्वमीश्वर एवेति ज्ञानवतस्त्यागो विहितः । किञ्च धनसम्पन्नस्यैव कर्मण्यधिकारः । प्रथममन्त्रार्थाधिकारिणश्च धनाकाङ्क्षानिषेधेन कर्माधिकारनिषेधः प्रतीयत इत्यर्थः ।

जिजीविषा हि कर्माधिकारिण एव न ज्ञानाधिकारिण इत्यत्र प्रमाणमाह -

न जीवित इति ।

अरण्यं स्त्रीजनासङ्कीर्णमाश्रममियाद्गच्छेदिति पदं वेदशास्त्रस्थितिस्ततोऽरण्यवासोपलक्षितात्संन्यासान्न पुनरियात्कर्मश्रद्धया न प्रत्यावृत्तिं कुर्यादिति जिजीविषादिरहितस्य संन्यासविधानादित्यर्थः ।

इतश्च नैकफलकामस्य ज्ञानकर्मणोरधिकारः प्रतिपत्तव्य इत्याह -

उभयोरिति ।

को मोहः कः शोक एकत्वमनुपश्यत इति सनिदानानर्थप्रहाणं ज्ञानफलं वक्ष्यति । संसारमण्डलान्तर्गतमेव च देशान्तरप्राप्त्यायत्तं हिरण्यगर्भपदप्राप्त्यादिलक्षणं कर्मफलं वक्ष्यति । अग्ने नय सुपथेत्यन्तेनेत्यर्थः ।

नारायणोपनिषद्वाक्यमपि भिन्नाधिकारित्वे प्रमाणयति -

इमौ द्वावेवेति ।

पुरस्तात्सृष्टिकालेऽनुनिष्क्रान्ततरौ भूतसृष्टिमनुप्रवृत्तौ भिन्नाधिकारित्वादुभयोः संन्यास एवातिरिक्तः श्रेष्ठो भवति परमपुरुषार्थाव्यवधानादित्यर्तः ।

व्यासवाक्यमपि सम्वादकमाह -

द्वाविमाविति ॥ २ ॥

आद्यमन्त्रार्थं प्रपञ्चयितुं प्रथममविद्वन्निन्दा क्रियत इत्याह -

अथेति ।

ते लोका इति तच्छब्दो यच्छब्दार्थे ।

यथाश्रुतमिति ।

येन यादृशं प्रतिषिद्धं विहितं वा देवतादिज्ञानमनुष्ठितं स तदनुरूपामेव योनिमाप्नोतीत्यर्थः ।

आत्महन्तृत्वस्योदरभेदिनि प्रसिद्धेः कथमविद्वांस आत्महन इत्याह -

कथं त इति ।

उदरभेदिनोऽध्यात्माधिकारे प्रसङ्गाभावादशुद्धत्वाध्यासेन तिरस्कार एवाऽऽत्महन्तृत्वमित्याह -

अविद्यादोषेणेति ।

यथा कस्यचिच्छुद्धस्य मिथ्याभिशापोऽशस्त्रवध उच्यते तद्वदात्मनि पापित्वाद्यध्यासोऽपि हिंसैवेत्यर्थः ।

अजरामरत्वादिलक्षणोऽहमिति सम्वेदनमभिधानं च यत्कार्य तद्धतस्येव न दृश्यत इति हननमुपचर्यत इत्याह -

विद्यमानस्येति ।

अस्याऽऽत्मघातस्य प्रायश्चितविधानादर्शनात्संसरणमेव फलमित्याह -

तेन हीति ॥ ३ ॥

उत्तरमन्त्रमवतारयति -

यस्याऽऽत्मन इत्यादिना ।

अविक्रियमेकं चेदात्मतत्त्वं कथं तर्हि केचन स्वर्गगामिनः केचन नरकगामिन इति सांसारिकव्यवस्था स्यादिति चेन्मनउपाधिनिबन्धनेत्यभिप्रेत्याऽह -

मनस इत्यादिना ।

उपाधेरनुवर्तनात् विक्रियादिव्यवहाराश्रयत्वमिति शेषः ।

ननु मनसो देहान्तःस्थात्वद्बहिर्गमनायोग्यत्वात्कथं वेगवत्त्वमित्याशङ्क्याह -

देहस्थस्येति ।

जवीयस्त्वादश्वादिवत्तर्हि चक्षुरादिग्राह्यत्वं प्राप्तमित्याशङ्क्याऽऽह -

नैनद्दैवा इति ।

चक्षुरादिप्रवृत्तेर्मनोव्यापारपूर्वकत्वात्तदविषयत्वे चक्षुरादिविषयत्वमप्यात्मतो न सम्भवतीत्यर्थः ।

मनसो वा कथं न विषय आत्मेत्यत आह -

यस्मादिति ।

यथा मनःस्थं परिमाणं मनसो न विषयोऽत्यन्ताव्यवधानातथाऽऽत्माऽप्यन्ताव्यवधानान्मनसो न विषयस्तद्वयापकत्वाच्चेत्यर्थः ।

उक्तात्मसम्भावनायोपपत्तिमाह -

तस्मिन्नात्मतत्त्वे सतीति ।

श्रौतानि कर्माणि सोमाज्यपयः प्रभृतिभिरिद्भिः सम्पाद्यन्त इति सम्बन्धाल्लाक्षणिकोऽप्शब्दः कर्मसु प्राणचेष्टायाश्चाब्निमितत्वप्रसिद्धेः; कारणवाचकः शब्दः कार्ये लक्षणया प्रयुक्ता इत्यर्थः ।

ईश्वरस्यापि हिरण्यगर्भस्य नियतप्रवृत्त्यन्यथानुपपत्त्याऽधिष्ठाता परमेश्वरः सम्भाव्यत इत्युक्तामिदानीं मातरिश्वग्रहणमुपलक्षणार्थमादाय तात्पर्यमाह -

सर्वा हीति ॥ ४ ॥

जामिता - आलस्यम् । व्यापित्वाद्बाह्यतोऽस्ति निरतिशयसूक्ष्मत्वादन्तश्चेदस्ति तर्हि निरन्तरमेकरसं न स्यान्मानाभावादित्याशङ्क्याऽऽह -

प्रज्ञानघन एवेति ॥ ५ ॥

उक्तात्मज्ञानस्य फलं विधिनिषेधातीतजीवन्मुक्तस्वरूपेणावस्थानमित्याह -

यस्त्विति ॥ ६ ॥

निरतिशयानन्दस्वरूपमत एव दुःखास्पृष्टमात्मानमजानतः शोको भवति हा हतोऽहं न मे पुत्रोऽस्ति न मे क्षेत्रमिति । ततः पुत्रादीन्कामयते तदर्थं देवताराधनादि चिकीर्षति न त्वात्मैकत्वं पश्यतस्ततोऽन्वयव्यतिरेकाभ्यां शोकादेरविद्याकार्यत्वावधारणान्मूलाविद्यानिवृत्त्यैव शोकादेरात्यन्तिकी निवृत्तिर्विद्याफलत्वेन विवक्षिता लयमात्रस्य सुषुप्तेऽपि भावादित्याह -

शोकश्च मोहश्चेत्यादिना ॥ ७ ॥

योऽयमिति ।

`स्नु' प्रक्षरणे धातुः । स्नावयन्ति शरीरमिति स्नावाः शिराः । क्रान्तमतिक्रान्तं नष्टमित्युपलक्षणं भूतभविष्यद्वर्तमानदर्शी ॥ ८ ॥

प्रकरणविभागं दिदर्शयिषुर्वृत्तमनुवदति -

अत्राऽऽद्येनेति ।

यदुक्तं भास्करेण सर्वाऽप्युपनिषदेकं ब्रह्मविद्याप्रकरणं ततः प्रकरणभेदकरणमनुचिमिति । तदसत् । प्राणाद्युपासनविधानस्याप्युपनिषत्सु दर्शनात् । न च तदपि ब्रह्मज्ञानाङ्गमिति वाच्यम् । पृथक्फलश्रवणात् । तेनापि व्याकृताव्याकृतोपासनसमुच्चयविधानस्य प्रकरणभेदेनैवेष्टत्वाद्व्याकृताव्याकृतोपासनस्य प्रकारान्तरत्वात्तस्माद्यथा कर्मकाण्डेऽग्निहोत्रादिप्रकरणं भिन्नमेवेष्यते भिन्नाधिकारत्वात्तत्तत्कर्मणस्तथोपनिषत्स्वपि भिन्नाधिकारत्वात्कर्माविरुद्धतद्धिरुद्धविद्याप्रकरणभेदो न विरुध्यते ।

मन्त्रार्थे ब्राह्मणसम्मतिं दर्शयितुमुपक्रमते -

अनयोश्चेत्यादिना ।

तत्र वाक्ये कथमज्ञत्वमवगम्यत इत्याशङ्क्याऽऽह -

मन एवेति ।

`जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीये'ति कामयमानस्य सर्वथैव बाह्यो जायादिर्यदा न सम्पद्यते तदाऽध्यात्मं जायादिसम्पर्त्ति दर्शयति । एतच्चाज्ञत्वलिङ्गं मन आदिष्वात्मत्वाद्यभिमानस्याज्ञानकार्यत्वात् । यथा च बाह्यकामिन्यलाभे सुप्तो मनोविजृम्भितकामिनीमुपभुञ्जानोऽज्ञः प्रसिद्धस्तद्वदयमपीत्यर्थः ।

तेषां च कर्मणां फलं संसाराप्तिरेवेत्यपि तत्रैव दर्शितमित्याह -

तथा चेति ।

एकं साधारणमन्नं यदिदमद्यते द्वे देवानां हुतप्रहुते दर्शपूर्णमासौ वा; त्रीण्यस्य भोगसाधनानि मनोवाक्प्राणलक्षणानि; पश्वर्थमेकं तत्पय इति सप्तान्नसर्गोदर्शितः श्रुत्या यत्सप्तान्नानि मेधया तपसाऽजनयत्पितेत्यादिना । अत्रैकैको यजमान एव विहितप्रतिषिद्धज्ञानकर्मानुष्ठानात्सर्वस्य संसारस्य साक्षात्पारम्पर्याभ्यां जनकत्वात्पितोच्यते । तेषु च सृष्टेष्वन्नेषु तस्य पितुरहमिदं ममेदमित्यात्मत्वाध्यासेन मनआदिष्वितरेषु च सम्बन्धाध्यासेनावस्थानं संसारः प्रसिद्ध इत्यर्थः ।

एवं मन्त्रप्रदर्शिते निष्ठाद्वये ब्राह्मणसम्मतिं दर्शयित्वा प्रकरणविभागं दर्शयति -

ये तु ज्ञाननिष्ठा इत्याविना ।

अत्याश्रमिभ्य इति ।

उत्तमाश्रमिभ्य इत्यर्थः । साध्यसाधनभेदोपमर्देन यदात्मैकत्वविज्ञानं यस्मिन्सर्वाणि भूतान्यात्मैवाभूदित्यवधारणेनोक्तं पूर्वार्धेन, उत्तरार्धेन च संसारनिवृत्तिफलकमुक्तं तन्न श्रौतेन स्मार्तेन वा कर्मणा केनचिदमूढः समुच्चिचीषति । अन्धं तम इत्यादौ तु समुच्चिचीषयाऽविद्वदादिनिन्दा दृश्यते ।

ततः किमित्यत आह -

तत्र च यस्येति ।

कस्य तर्हि ज्ञानस्य कर्मसमुच्चयः समभ्वतीत्यत आह -

यद्दैवं वित्तमिति ।

यच्चोक्तं भास्करेणेशा वास्यमिति मन्त्रे ब्रह्मविद्यायाः प्रक्रान्तत्वात्तस्या एव समुच्चिचीषया निन्दोच्यत इति । तदसत् । न हि प्रकृतमित्येतावता सम्बध्यते किं चु सम्बन्धयोग्यम् । शुद्धब्रह्मात्मैकत्वविद्यायास्तु कर्तृत्वाद्यध्यासोपमर्दकत्वान्नास्ति कर्मसम्बन्धयोग्यता । किञ्च यस्मिन्निष्पन्नेऽपि फलस्य व्यवधानं सम्भाव्यते तस्यैव सहकारिसमुच्चय इष्यते दर्शादेः, इह त्वेकत्वमनुपश्यतः को मोहः कः शोक इत्येकत्वदर्शनसमकालमेव मोहादिनिवृत्त्यभिधानान्न कालान्तरीयफलम् । ततो न सहकारिसमुच्चिचीषा । किञ्चास्या मन्त्रोपनिषदो ब्राह्मणे ``ब्राह्मणाविविदिषन्ति यज्ञेने'' त्यादौ तृतीयाश्रुत्या यज्ञादेरिष्यमाणवेदने क्ररणत्वेन सम्बन्धः प्रतीयते । तत्कथं दुर्बलेन प्रकरणेन सहकारितया सम्बन्धः प्रकल्प्यते । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यनपेक्षेतिसूत्रविरोधश्च । प्रधानस्य च विद्यायाः सहकारिसम्बन्धविधित्सया निन्देत्यप्ययुक्तम् । अत एव चाग्नीन्धनाद्यनपेेक्षेतिसूूत्रविरोधश्च । समुच्चयश्च परेणापि नेष्यते । विरोधेन च परिजह्रे । तस्मात्कर्माविरुद्धदेवताज्ञानस्यैवात्र समुच्चयो विधित्स्यते ।

ननु देवताज्ञानस्य कर्मफलातिरिक्तफलाभावात्समुच्चयो न सम्भवतीत्यत आह -

विद्ययेति ।

ननु समुच्चिचीषया निन्देति किमिति व्याख्यायते । अध्ययनविधेर्मोक्षादर्वाक्पर्यवसानानुपपत्तेर्देवलोकादिप्राप्तेः फलाभासत्वात्प्रहाणार्थैव निन्दा किं नेष्यते तत्राऽऽह -

तयोर्ज्ञानकर्मणोरिति ।

न फलशब्दो मोक्षे रूढो मोक्षमनिच्छतामपि समीहिते फलव्यवहारदर्शनात्ततो यो देवलोकादिमुकपादित्सते तस्य तदपि फलं भवत्येवेत्यर्थः ॥ १-१०-११ ॥

चित्तन्त्रा माया परमेश्वरस्योपाधिः । ``मायां तु प्रकृतिं विद्यान्मायिनंतुमहेश्वरमि'' त्यादिश्रुत्यन्तरप्रसिद्धाऽत्रासम्भूतिश्ब्देनोच्यते न ब्रह्म । तस्य निर्विकारस्य साक्षात्प्रकृतित्वानुपपत्तेः । भास्कराभिमतस्तु परिणामवादस्तत्त्वालोके२ निरस्त एवास्माभिः । सांसारिकदुःखानुभवाभावेन च सुषुप्तिवत्प्रकृतिलयस्य पुरुषेणार्थ्यमानताऽप्युपपद्यते । फलं च कर्मोपासन इव प्रकृत्युपासनेऽपि परमेश्वर एव दास्यति । ततो जडत्वात्प्रकृतेः फलदातृत्वानुपपत्तेरुपास्यत्वानुपपत्तिरित्यपि कुचोद्यमेव ॥१२-१३-१४ ॥

विस्तरेेणोक्तमर्थजातं संक्षिप्योपसंहरति -

मानुषदैववित्तसाध्यमित्यादिना ।

शरीरपाटवं गोभूहिरण्यादिसाधनसम्पतिश्च मानुषं वित्तम् । दैवं वित्तं देेवताज्ञानम् ।

उत्तरग्रन्थस्य सम्बन्धाभिधित्सयाऽर्थविशेषमनुवदति -

तत्र निषेकादीत्यादिना ।

तदुक्तमिति तं प्रत्युक्तं मन्त्रेण विद्यां चेत्यादिनाऽऽपेक्षिकामृतत्वं फलमित्युक्तमस्माभिरिति ॥ १५ ॥

व्याहृत्यव इति ।

तस्य भूरिति शिरः भुव इति बाहू सुवरिति प्रतिष्ठा पादावित्यर्थः ॥ १६-१७ ॥

मन्त्रान्पदशो व्याख्याय संक्षेपतो विचारमारभते -

अविद्यया मृत्युं तीर्त्वेत्यादिना ।

अमृतत्वं चेति ।

अमृतत्वं च मुख्यमेव कस्मान्न गृह्यत इति सम्बन्धः ।

शास्त्रीययोर्ज्ञानकर्मणोर्विरोधाविरोधी शास्त्रीयावेव ग्राह्यौ न तर्कमात्रेणेति परेणोक्ते सिद्धान्ती शास्त्रसिद्ध एव विरोध इत्याह -

न दूरमेते इति ।

विषूची नानागतौ विद्याविद्ये दूरं विपरीते अतिशयेन विरुद्धे इत्यर्थः ।

सहसम्भवानुपपत्तेरिति ।

काऽनुपपत्तिः? काठते विरोधश्रवणात् तद्गतविद्याविद्ययोर्विरोधोऽस्तु । इह त्वविरोधश्रवणादविरोधो भविष्यतीति न वाच्यम् । विरोधाविरोधयोः सिद्धत्वेन विकल्पासम्भवात् । उदितानुदितहोमयोर्हि पुरुषतन्त्रत्वाद्युक्तो विकल्प इत्युक्तं, तर्ह्यविरोध एवास्तु समुच्चयविधिबलादिति चेन्न । मुख्यब्रह्मविद्याविद्ययोः शुक्तिविद्यायोरिव सहसम्भवानुपपत्तेः `समुच्चयविधिरसिद्धः । सिद्धे समुच्चयविधौ तद्बलादविरोधावगमोऽविरोवावगमाच्च समुच्च्यसिद्धिरित्यन्योन्याश्रयः स्यादित्यर्थः ।

सहसम्भवानुपपत्तावपि क्रमेणैकाश्रये विद्याविद्ये स्यातामिति चेद्यदि पूर्वमविद्या पश्चात्तु विद्येति क्रमस्तर्हीष्यत एव । यदि पश्चात्तर्ह्यसम्भव इत्याह -

न विद्योत्पत्ताविति ।

पूर्वसिद्धाया अविद्यायाः प्रध्वस्तत्वादन्यस्याश्चोत्पत्तौ कारणासम्भवान्मूलाभावेन भ्रमसंशयाग्रहणानामपि विदुषोऽनुपपत्तिरित्यर्थः ।

विद्योत्पत्तौ मा भूदविद्या कर्म तु भविष्यति विदुषोऽपि व्याख्यानभिक्षाटनादिदर्शनादित्याशङ्क्याह -

अविद्याऽसम्भवादिति ।

चोदनाप्रयुक्तानुष्ठानं हि कर्म ज्ञानेन सह तव समुच्चिचीषितं ब्रह्मात्मैकत्वं तु साक्षादनुभवतो न चोदना सम्भवति कामाभावात्कामिनो हि सर्वाश्चोदनाः । `अकामिनः क्रिया काचिद् दृश्यते नेह कस्यचित्'। `यद्यद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टितम्', इति स्मरणात् । विद्वच्छरीरस्थितिहेत्वविद्यालेशाश्रयकर्मशेषनिमित्तं तु विदुषो भिक्षाटनादि न कर्म, चोदनाभावात्किन्तु यावत्प्राणशरीरसंयोगभावि तत्कर्माभासं तच्च विद्वान्न स्वगतं मन्यते कर्माध्यासोपादानाविद्याया असम्भवान्नैव किञ्चित्करोमीति प्रत्ययाच्चेयति भावः ।

यदुक्तममृतशब्देन मुख्यमेवामृतत्वं किं न गृह्यते विद्याशब्देन च परमात्मविद्येति तत्राऽऽह -

अमृतमिति ।

मुख्यामृत्वग्रहणे हिरण्मयादिमन्त्रेण द्वारमार्गयाचनमनुपपन्नं स्यात् । न तस्य प्राण उत्क्रामन्त्यत्र ब्रह्म समश्नुन इत्यादिश्रुतेः । ततो मुख्यार्थबाधाद्गौणार्थग्रहणं युक्तमित्यर्थः । यस्मादर्शान्तरं न सङ्गच्छते तस्मादित्युपसंहारः ॥ १८ ॥

ईशाप्रभृतिभाष्यस्य शाङ्करस्य परात्मनः ।
मन्दोपकृतिसिद्ध्यर्थं प्रणीतं दिप्पणं स्फुटम् ॥

इति श्रीपरमहंसपरिव्राजकाचार्य श्रीशुद्धानन्दमगवत्पूज्यपादशिष्यभगवदानन्दज्ञानकृता वाजसनेयसंहितोपनिषद्भाष्यटीका समाप्ता ॥