आनन्दज्ञानविरचिता

आनन्दगिरिटीका (केन पदभाष्य)

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

यच्छ्रोत्रादेरधिष्ठानं चक्षुर्वागाद्यगोचरम् ।
स्वतोऽध्यक्षं परं ब्रह्म नित्यमुक्तं भवामि तत् ॥ १ ॥

केनेषितमित्यादिकां तलवकारशाखोपनिषदं व्याचिख्यासुर्भगवान्भाष्यकारोऽहंप्रत्ययगोचरस्याऽऽत्मनः संसारित्वादसंसारिब्रह्मभावस्योपनिषत्प्रतिपाद्यस्यासम्भवान्निर्विषयत्वादव्याख्येयत्वमित्याशङ्क्याहङ्कारसाक्षिणः संसारित्वग्राहकप्रमाणाविषयत्वाद्ब्रह्मत्वप्रतिपादने विरोधासम्भवात्सविषयत्वाद्व्याख्येयत्वं प्रतिजानीते –

केनेषितमित्याद्येति ।

कस्तर्हिनवमस्याध्यायस्याष्टाध्याय्या सह नियतपूर्वोत्तरभावानुपपत्तिलभ्यः सम्बन्ध इत्याशङ्क्य हेतुहेतुमद्भावलक्षणसम्बन्धं दर्शयितुं वृत्तमनुवदति –

प्रागेतस्मादित्यादिना ।

कर्माङ्गसाम पाञ्चभक्तिकं साप्तभक्तिकं च तद्विषयाण्युपासनानि पृथिव्यादिदृष्ट्योक्तानि । प्राणदृष्ट्या गायत्रसामोपासनं च ।

शिष्याचार्यसन्तानाविच्छेदो वंशस्तदवसानेन ग्रन्थेन कार्यरूपमेव वस्तूक्तं चेत्तर्हि प्राणाद्युपासनसहितस्य कर्मणः संसारफलत्वाद्ब्रह्मज्ञानानुपयोगात्कथं हेतुहेतुमद्भावः सम्बन्धोऽभिधित्सित इत्याशङ्क्य नित्यकर्मणां तावज्ज्ञानोपयोगित्वं कथयति –

सर्वमेतदिति ।

काम्यानां प्रतिषिद्धानां च फलं तद्दोषदर्शनेन वैराग्यार्थं कथयति –

सकामस्य त्विति ।

एतयोः पथोर्ज्ञानकर्णणोर्मध्ये केनापि मार्गेण ये न प्रवृत्तास्ते प्रतिषिद्धानुष्ठायिन इत्यर्थः ।

जायस्व म्रियस्वेति ।

पुनः पुनर्जायन्ते म्रियन्ते चेत्यर्थः । तिस्रः प्रजा जरायुजाण्डजोद्भिज्जलक्षणाः । पितृयाणदेवयानलक्षणमार्गद्वयगमनमतीत्य कष्टामेव गतिमीयुः प्राप्ता इत्यर्थः ।

एवं कर्मफलमुक्त्वा ततो विरक्तस्य विशुद्धसत्त्वस्य ब्रह्मज्ञानेऽधिकार इति दर्शयन्हेतुहेतुमद्भावमाह –

विशुद्धसत्त्वस्य त्विति ।

साध्यसाधनसम्बन्धाद्विरक्तस्येति सम्बन्धः ।

तत्र निमित्तस्यादृष्टस्यानियत्वमाह –

इह कृतादिति ।

कर्मफलाद्विरक्तस्य ब्रह्मजिज्ञासा भवतीत्यत्रान्यसंवादमाह –

काठके चेति ।

आवृत्तचक्षुरिति ।

साध्यसाधनभावादुपरतकरणग्रामः चक्षुर्ग्रहणस्योपलक्षणार्थत्वात् ।

अन्वयव्यतिरेकसिद्धत्वं चाऽऽह –

एवं हीति ।

नान्यथेति ।

अविरक्तस्य बर्हिर्विषयाक्षिप्तचेतस आत्मजिज्ञासैवानुपपन्ना कथञ्चिज्जाताऽपि न फलावसाना स्याच्छूद्रयागादिवदित्यर्थः ।

यद्यप्येवमुपनिषदः कर्मकाण्डसम्बन्धोऽस्ति तथाऽप्युपनिषज्जन्यज्ञानस्य निष्प्रयोजनत्वान्नोपनिषदो व्याख्यारम्भः सम्भवतीत्याशङ्क्याऽऽह –

एतस्माच्चेति ।

समुच्चयवादिनोऽभिप्रायं शङ्कते –

कर्मसहितादपीति ।

एकाध्ययनविधिगृहीतत्वात्कर्मज्ञानकाण्डयोरेकं फलं वाच्यं ततः कर्मसमुच्चिताज्ज्ञानात्सनिदानसंसारनिवृत्तिलक्षणं फलं सिध्यतीति न कर्मसु विरक्तस्योपनिषदारम्भ इत्यर्थः ।

अध्ययनविधिपरिग्रहमात्रेण कर्मकाण्डस्य न मोक्षफलत्वं कल्पयितुं शक्यं फलान्तरावगमविरोधादित्याह –

न वाजासनेयक इति ।

किञ्च यदि श्रुतेः कर्मसमुच्चितज्ञानं विधित्सितं स्यात्तदा पारिव्राज्यं नोपदिश्येत श्रुत्या हेत्वभिधानेन, ततो न समुच्चयः श्रुत्यर्थ इत्याह –

तत्रैव चेति ।

प्रजाशब्दस्योपलक्षणार्थत्वमादाय हेत्वर्थमाह –

तत्रायमिति ।

किं करिष्यामो न किमप्यात्मकामत्वादेवेति शेषः ।

तत्फलं भुक्त्वा क्रमेण मोक्षसम्भवात्किमिति प्रजादिष्वनादर इत्याशङ्क्याह –

न चेति ।

इष्टोऽप्ययमात्मलोकः कर्मणा विना न लभ्यते फलत्वान्मोक्षस्यान्यथास्वभावमुक्तत्वे बन्धमोक्षावस्थयोरविशेषापातादित्याशङ्क्याऽऽह –

स चेति ।

कर्ममोक्षे कार्यस्योत्पाद्यादेरसम्भवात्सम्यग्ज्ञानादविद्यानिवृत्त्या फलप्रसिद्ध्युपपत्तेर्न कर्मकार्यो मोक्ष इत्यर्थः । ब्रह्मज्ञानस्यानुभवावसानतासिद्धये परोक्षनिश्चयपूर्वकः संन्यासः कर्तव्यः । सिद्धे चानुभाववसाने ब्रह्मात्मज्ञाने स्वभावप्राप्तः संन्यास इति द्रष्टव्यम् ।

इतश्च न कर्मब्रह्मात्मतानिश्चयसमुच्चयः शास्त्रार्थ इत्याह –

कर्मसहभावित्वेति ।

ननु कर्मवद्ब्रह्मज्ञानस्य विधितोऽनुष्ठेयत्वाद्विधेश्च नियोज्यादिभेदापेक्षित्वात्कथं सर्वभेददर्शनप्रत्यस्तमय उच्यते ब्रह्मज्ञाने सतीत्याशङ्क्याऽऽह –

वस्तुप्राधान्ये सतीति ।

विधिजन्यप्रयत्नभाव्यो हि विधिविषय उच्यते ज्ञानं न तथेति तद्विधेरसिद्धिरित्यर्थः ।

यस्मत्प्रत्यगात्मनो ब्रह्मतानिश्चयस्य परोक्षस्यापरोक्षस्य वा कर्मणा समुच्चयो न प्रामाणिकस्तस्मादित्युपसंहरति –

तस्मादिति ।

प्रश्नप्रतिवचनरूपेण प्रतिपादनस्य तात्पर्यमाह –

शिष्याचार्येति ।

आपनेया प्रापणीया हन्तव्या वा न भवतीत्यर्थः । साधिष्ठं शोभनतमं फलं प्रापयतीत्यर्थः ।

इष आभीक्ष्ण्ये गतौ चेति धात्वन्तरसम्भवे कथमिच्छार्थस्यैव व्याख्यानमित्याशङ्क्याऽऽह –

इषेरिति ।

आभीक्षण्यं पौनःपुन्यं तद्विषयताया गतिविषयताया वा मनसोऽनभिप्रेतत्वान्मनःप्रवर्तकविशेषस्यैव बुभुत्सितत्वादित्यर्थः । इट्प्रयोगे सति गुणेन भवितव्यम् । तदैषितमिति स्यात्तदभावाच्छान्दसत्वाभिधानं न तु धातोरनिट्त्वादनुबन्धस्य विकल्पविधानादन्वेषितमन्विष्टं वेति वैकल्पिकप्रयोगादिदर्शनादिति ।

इषितं प्रेषितमिति पदद्वयस्यार्थवत्त्वमाह –

तत्र प्रेषितमित्यादिना ।

इच्छामात्रेणेति ।

प्रयत्नमन्तरेण सन्निधिमात्रेणेति व्याख्यातं नेदं व्याख्यानमपि शोभते अपर्यायशब्दभेदस्यार्थभेदाव्यभिचारादित्याह –

अपि चेति ।

त्वदुक्तोऽयमर्थविशेषो न घटते सङ्घातस्यैवेच्छादिभिः प्रवर्तकत्वसिद्धेः प्रश्नानुपपत्तिप्रसङ्गादित्याह –

न प्रश्नेति ।

मनसः स्वातन्त्र्यात्स्वव्यतिरिक्तप्रवर्तकसम्भावनाभावात्प्रश्नो न घटत इत्याक्षिप्य समाधत्ते –

ननु स्वतन्त्रमित्यादिना ।

अत्युग्रदुःखे चेति ।

अद्यतनीनदुःखे द्यूतादिकार्ये ॥ १ ॥

प्रतिवचनस्य प्रश्नाननुरूपत्वमाशङ्क्य समाधत्ते –

असावेवंविशिष्ट इत्यादिना ।

श्रोत्रादयः स्वविलक्षणशेषाः संहतत्वाद्गृहादिवदित्यनुमानेन श्रोत्रादिशेषी तावदवगम्यते यदि सोऽपि संहतः स्यात्तर्हि गृहादिवदचेतनः स्यात् । ततस्तस्याप्यन्यः शेषी कल्प्यस्तस्याप्यन्य इत्यनवस्थाप्रसङ्गपरिहारायासंहतश्चेतनो गम्यते । अतः सर्वसाक्षिणं लक्षयितुं युक्तमेव प्रतिवचनमित्यर्थः । फलावसानं फलनिष्पत्तिर्लिङ्गं यस्मिन् , अवगत्या हि करणस्य व्यापारो लिङ्ग्यते नित्यावगतिव्यञ्जकत्वाद्वा फलावसानलिङ्गं व्यापारस्तेन तच्छेषी लक्ष्यत इत्यर्थः ।

प्रतिवचनस्य सङ्क्षेपतस्तात्पर्यमाह –

श्रोत्राद्येव सर्वस्येति ।

यस्मादस्ति श्रोत्रस्य श्रोत्रं तस्माछ्रोत्रादावात्मबुद्धिः सन्त्यक्तव्येतिशेषः प्राणचेष्टा चेतनाधिष्ठानपूर्विका अचेतनप्रवृत्तित्वात् रथादिप्रवृत्तिवदित्यभिप्रेत्याह –

न ह्यात्मनाऽनधिष्ठितस्येति ।

ज्ञात्वेति पदाध्याहारे कारणमाह –

प्रष्टुः पृष्टस्यार्थस्येति ।

सामर्थ्यादिति ।

श्रोत्राद्यात्मभावत्यागमन्तरेणामृतत्वासम्भवाज्ज्ञानबलाच्छ्रोत्राद्यात्मभावं त्यक्त्वाऽमृता भवन्तीति सम्बन्धः ।

एतत्स्फुटयति –

श्रोत्रादौ हीत्यादिना ।

मृत्वेति ।

विदेहमुक्तिर्विवक्षिता प्रारब्धभोगक्षये शरीरान्तरोत्पादे कारणाभावादवश्यम्भाविनी विदुषो मुक्तिरित्यर्थः ॥ २ ॥

सर्पाद्यध्यासाधिष्ठानरज्जुवच्छ्रोत्राद्यध्यासाधिष्ठानचैतन्यं श्रोत्रस्य श्रोत्रमित्यादिना लक्षितं तर्हि रज्जुवदधिष्ठानत्वाद्विषयत्वप्रसङ्ग इति शङ्कां निवर्तयति –

यस्माच्छ्रोत्रादेरपीत्यादिना ।

अध्यस्तस्य ह्यधिष्ठानमेव स्वरूपमाद्यन्तमध्येषु तदव्यभिचारात्स्वरूपविषयता च न पदार्थधर्मस्ततोऽप्रयोजकोऽयं हेतुरित्यर्थः ।

अविषयत्वात्तर्हि शास्त्राचार्योपदेश्यत्वमपि न स्यादित्याशङ्क्य नास्त्येव वास्तवमित्याह –

इन्द्रियमनोभ्यां हीति ।

ब्राह्मणोऽयमित्यादि जातितः कृष्णोऽयमित्यादि गुणतः पाचकोऽयमित्यादि क्रियातो राजपुरुष इत्यादि सम्बन्धविशेषत उपदिश्यते । ब्रह्म तु न जात्यादिमत् । “केवलो निर्गुणश्च”(श्वे. उ. ६ । ११) इत्यादिश्रुतेः ।

अज्ञेनाऽऽगमस्य भेदेन प्रतिपन्नत्वात्तद्दृष्ट्याऽऽचार्यस्याप्यविद्यालेशोत्थदृष्ट्या व्यावहारिक उपदेश उपपद्यत आगमतस्तस्यैवाऽऽत्मानं ब्रह्मरूपेण लक्षयितुं योग्यतातिशयवत्त्वादित्यभिप्रेत्याह –

अत्यन्तमेवेति ।

वाक्यस्य पदार्थान्व्याख्याय तात्पर्यं दर्शयितुमुपक्रमते –

यद्विदितं तदल्पमित्यादिना ।

यद्वेदितुरन्यत्तद्विदितमविदितं चेति द्वयी गतिः । ततो विदितत्वाविदितत्वनिषेधेन वेदितुः स्वरूपं ब्रह्मेत्यत्र तात्पर्यमागमस्येत्याह –

न ह्यन्यस्येति ॥ ३ ॥

उक्तवाक्यार्थे लौकिकतार्किकमीमांसकप्रतिपत्तिविरोधमाशङ्क्य परिहरति विदितादन्यत्वप्रपञ्चनाय –

अन्यदेव तद्विदितादित्यादिना ।

अष्टसु स्थानेष्विति ।

“अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥”(वासि़ष्ठशिक्षा)
इत्येतेष्वाकाशप्रदेशेष्वाश्रितमित्यनेनाऽऽकाशोपादानत्वं सूचितम् ।

आग्नेयमिति ।

अग्निदेवताकमित्यर्थः ।

न केवलं करणं वागुच्यते वर्णाश्चोच्यन्त इत्याह –

वर्णाश्चेति ।

तदुक्तम् – “यावन्तो यादृशा ये च यदर्थप्रतिपादकाः ।
वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥”(न्यायमञ्जरी)
गौरिति पदं गकारौकारविसर्जनीया एव क्रमविशेषावच्छिन्ना इति मीमांसकाद्यनुसारेणोक्तम् ।

स्फोटवादिनोऽनुसारेणाऽऽह –

तदभिव्यङ्ग्य इति ।

स्फुट्यते व्यज्यते वर्णैरिति स्फोटः पदादिबुद्धिप्रमाणकः । एकरूपाया बुद्धेरनेकवर्णावलम्बनत्वासम्भवादिति भावः ।

उक्ते वाक्यार्थे श्रुतिसम्मतिमाह –

अकार इति ।

अकारप्रधानोङ्कारोपलक्षिता स्फोटाख्या चिच्छक्तिः सर्वा वाक्सैषा स्पर्शान्तस्थोष्मभिर्व्यज्यमाना । कादयो मावसानाः स्पर्शा, यरलवा अन्तस्थाः, शषसहा ऊष्माणस्तैः क्रमविशेषावच्छिन्नैर्व्यज्यमाना नानारूपा विवर्तते । मितमृगादि पादावसाननियताक्षरत्वात् । अमितं यजुराद्यनियताक्षरपादावसानत्वात् । स्वरः साम । गीतिप्राधान्यात् । सत्यं यथादृष्टार्थवचनम् । अनृतं तद्विपरीतम् । करणं वागिन्द्रियं गुण उपसर्जनं यस्याः सा करणगुणवती पुरुषेषु चेतनेषु या वाक्शक्तिः सा घोषेषु वर्णेषु प्रतिष्ठिता तद्व्यङ्ग्यत्वादित्यर्थः ।

तदेवेत्येवकारस्य कृत्यमाह –

यैर्वागाद्युपाधिभिरिति ।

नियमार्थमिति ।

पक्षेऽनात्मन्यपि ब्रह्मबुद्धौ प्राप्तायामात्मैव ब्रह्मेति बुद्धिं नियन्तुमित्यर्थः । अन्यस्मिन्नुपास्ये या ब्रह्मबुद्धिस्तन्निवृत्त्यर्थं वा पुनरब्रह्मत्वमुच्यत इत्यर्थः । सर्वं स्पष्टमिति न व्याख्यातम् ॥ ५ - ६ – ७ - ८ ॥

इति प्रथमखण्डः ॥

वेदितुः स्वरूपत्वे ब्रह्मणो मा भूद्विषयत्वम् । स्वरूपत्वे मानाभावात् अतिरिक्तस्य विषयत्वे किमनुपपन्नमित्याशङ्क्याऽऽह –

सर्वस्य हीति ।

यदिशब्दप्रयोगे किं कारणमित्यत आह –

कदाचिदिति ।

अक्षिणि शरीरस्य प्रतिच्छाया दृश्यत इति प्रसिद्धवदुपदेशाच्छरीरमात्मेति प्रतिपन्नः । छायाया अव्यभिचारित्वं बुद्ध्वेत्यर्थः ।

सकृदिति ।

“य एषोऽक्षिणि पुरुषो दृश्यते”(छा. उ. १ । ७ । ५) इत्येकवारमुक्तम् , “य एष स्वप्ने महीयमानश्चरति”(छा. उ. ८ । १० । १) इति द्वितीयेनोक्तम् , “तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः”(छा. उ. ८ । ११ । १) इति त्रिरुक्तमप्यात्मानमप्रतिपद्यमान इन्द्रो ब्रह्मचर्येणाधर्मादिदोषक्षयमपेक्ष्य चतुर्थे पर्याये “एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य”(छा. उ. ८ । ३ । ४) इत्यत्र प्रथमपर्यायोक्तमेव ब्रह्म प्रतिपन्नवानित्यर्थः ।

अर्भकाणि चेति ।

अल्पानि ।

न स्वतो रूपमस्ति ब्रह्मण इत्युक्तं तदाक्षिपति –

ननु येनैवेति ।

केन तर्हि विशेषेण ब्रह्मणो निरूपणमित्याकाङ्क्षायां चैतन्यरूपेणेत्याह –

चैतन्यमिति ।

भूतानां समस्तानां व्यस्तानां वा देहाकारपरिणतानां चैतन्यं धर्मो न भवति बहिरनुपलम्भात्तद्धर्मत्वे रूपादिवत्तत्साधकत्वाभावप्रसङ्गाच्च । तथा श्रोत्रादीनामपि भौतिकत्वाविशेषाच्चैतन्यं धर्मो न भवतीति पारिशेष्यात्स्वतन्त्रचैतन्यं ब्रह्मणो रूपम् ।

तत्र श्रुतिसम्मतिमाह –

तथा चोक्तमिति ।

सत्यमेवं चैतन्यं पारमार्थिकं ब्रह्मरूपं श्रुतितात्पर्यगम्यं तथाऽपि यदुक्तं ब्रह्मणो रूपं कथं नास्तीति तदुपाधिद्वारेणैव ब्रह्मणः शब्देन निरूपणं निर्देशनं न स्वत इत्यभिप्रेत्य, अन्तः करणाद्यभिव्यक्तिमुपलभ्य हि यदुपाध्यभिव्यक्तिनिमित्तं चैतन्यं तद्ब्रह्मेति निर्दिश्यत इत्यर्थः ।

ननूपाधिरुपहितसम्बद्धो भवति चैतन्यस्य त्वसङ्गस्य कथं देहादिरूपाधिरित्याशङ्क्याऽऽह –

तदनुकारित्वादित्यादिना ।

यथा जले कम्पमाने सविता कम्पत इव भिद्यमाने भिद्यत इवेति मिथ्यातद्धर्मभागित्वात्सवितुर्जलमुपाधिरित्युच्यते न तु सम्बन्धाद्दूरस्थयोः संयोगाद्ययोगात् । तद्वद्देहादेर्वृद्धिसङ्कोचच्छेदादिषु दाहादिषु नाशेषु चेतन्यस्य मिथ्यादेहधर्मभागित्वाद्देहादेरुपाधित्वमभिधीयते इत्यर्थः ।

ननु न स्वतश्चैतन्यतया निरूप्यते ब्रह्म कथं तर्हि तदनुभव इत्याशङ्क्याऽऽह –

स्वतस्त्विति ।

अविषयतयैव विषयानुपरक्तचित्स्फुरणं ब्रह्मानुभव इत्यर्थः ।

तर्कतश्चेति ।

वेद्यत्वे घटादिवदनात्मत्वादिप्रसङ्गादित्यादितर्कत आत्मनो वेद्यं ब्रह्म न भवत्येवेति निर्धार्याज्ञानसंशयाद्यभावेन स्वानुभवं कृत्वेत्यर्थः ॥ ९ – १ ॥

आचार्यवचनादन्यदेव वचनं शिष्य उवाचेति नाऽऽशङ्कनीयमित्याह –

यदेवान्यदेवेति ।

तथा चेति ।

आचार्यम्बुद्धिसम्वादे सत्यर्थान्तरानभिधाने सतीत्यर्थः ॥ १० - २ ॥

अथवा हेत्वर्थ इति ।

लोेके शुक्त्यादितत्त्वं विजानतां यतोऽध्यस्तं रूप्याद्यविज्ञातं भवति । अजानतामेव त्वध्यस्तं विज्ञातं भवतीति प्रसिद्धम् । तथा ब्रह्मणि ज्ञेयत्वस्याध्यस्तत्वादेव तत्त्वविदो न ज्ञातं ब्रह्म पश्यन्तीयर्थः ॥ ११ - ३ ॥

ज्ञातब्रह्मत्वादर्शने ब्रह्मास्मीति कथं व्यवहरतीति चेत्किमनयेष्टकावाहकानां रत्नपेटकचिन्तया । ज्ञातस्य व्यवहाराङ्गत्वं वदतोऽपि वस्तुप्रकाशस्य व्यवहाराङ्गत्वस्येष्टत्वाद्वास्तवज्ञाततानपेक्षत्वादित्यव्युत्पन्नव्युत्पादनाय चोद्यमुद्भावयति –

अविज्ञातमित्यादिना ।

नीलपीताद्याकाराणां बुद्धिविकाराणां जडानां यच्चैतन्यव्याप्तत्वेनाजडवदवभासस्तं साक्षिणमुपलक्ष्य सोऽहमात्मा ब्रह्मेति महावाक्यादविषयतयैव यो वेत्ति स ब्रह्मविदुच्यते । तेन नाविशेषप्रसङ्गादिचोद्यावकाश इत्याह –

प्रतिबोधविदितमिति ।

प्रत्ययेष्वविशिष्टतयाऽनुगतरूपेणेत्यर्थः ।

येन चित्स्वरूपेणाहमत्र साक्षी तस्य सर्वत्राविशेषान्नैकस्मिन्नेव देहेऽहं साक्षी भेदोत्पत्त्यादीनां च साक्ष्यगतत्वेन साक्षिण एकत्वनित्यत्वादिकमपि सिध्यतीत्याह –

सर्वप्रत्ययदर्शित्वे चेति ।

विदितत्वाविदितत्वयोः साक्ष्यगतत्वेन तदन्यत्वमप्यस्मिन्पक्षे सम्भवतीत्याह –

विदिताविदिताभ्यामन्यदिति ।

एकदेशिव्याख्यानमुद्भाव्य दूषयति –

यदा पुनरित्यादिना ।

अग्निसंयोगाद्घटे लौहित्यवन्मनःसंयोगादसमवायिकारणादात्मंन्यचेतने चैतन्यमुत्पद्यत इत्येतन्न केवलं श्रुतिविरुद्धमसम्भावितं चेत्याह –

आत्मनो निरवयवत्वेनेति ।

प्रदेशवता प्रदेशवतो लोके संयोगो दृष्टः आत्मनो निष्प्रदेशत्वान्मनसा संयोगो न सम्भवतीत्युक्तं तदयुक्तम् , युगपत्सर्वमूर्तसंयोगित्वं सर्वगतत्वमात्मनस्ततो मनसः संयोगोऽपीति चेत्तत्राऽऽह –

नित्येति ।

ग्रहणकालादन्यकाल एव स्मृतीनां क्रमेणैवोत्पत्तिरिति नियमो वैशेषिकस्य नोपपद्यते ग्रहणकालेऽपि स्मृत्युत्पत्तिप्रसङ्गाच्च संस्कारवदात्ममनःसंयोगस्याविशेषादित्यर्थः ।

सर्वगतत्वं च सर्वाव्यवधानमात्रं न तु संयोगित्वं कल्पनीयमित्याह –

संसर्गधर्मित्वं चेति ।

न्यायविरुद्धमित्युक्तं तत्स्फुटयति –

न्यायश्चेति ।

एकदेशिव्याख्यानान्तरमनूद्य दूषयति –

यत्पुनरित्यादिना ।

यद्वेद्यं तद्वेदितुर्वेदनाच्च भिन्नं यथा घटादीति व्याप्तिविरोधात्स्वसंवेद्यत्वं वास्तवं नोपपद्यते ततो बुद्ध्यादावात्मभावमारोप्याऽऽत्मना तस्य वेद्यत्वं वाच्यमिति निरुपाधिकस्वरूपस्थितिर्न स्यादित्याह –

तत्र भवति सोपाधिकत्वमिति ।

काणादस्य स्वसंवेद्यत्वानङ्गीकारबलात्परवेद्यत्वं प्रसज्यत इत्यपि न वाच्यमित्याह –

संवेदनरूपत्वादिति ।

बौद्धेन स्वसंवेद्यं विज्ञानमिष्टं तव किं न स्यादित्यत आह –

बौद्धपक्ष इति ।

प्रत्यक्षस्य वर्तमानावभासकत्वात्क्षणान्तरविशिष्टे स्वात्मनि क्षणान्तरविशिष्टं तदेव विज्ञानं प्रत्यक्षं न सम्भवति । अतः स्वात्मनि स्वयमेव विज्ञानं प्रत्यक्षं चेद्वर्तमानक्षणमात्रं सत्त्वं स्यात् । स्वसंवेद्यत्वेन साक्षिणोऽनङ्गीकारान्निरात्मत्वं च स्यादेव तच्छ्रुतिविरुद्धमित्यर्थः ।

प्रतिबोधवाक्यस्यार्थान्तरं शङ्कते –

यत्पुनरिति ।

ब्रह्माहमस्मीति चिन्तयतो यावच्चेतोव्यापृतिस्तावत्सम्प्रज्ञातसमाधिर्निवृत्ते चेतोव्यापारे य परमानन्दसाक्षात्कारः सौषुप्तानन्दसाक्षात्कारवत्सोऽसम्प्रज्ञातसमाधिः प्रतिबोध उच्यते । तदुक्तं वार्तिककृता – “अपरायत्तबोधो हि निदिध्यासनमुच्यते” इति । अथवाऽक्रियब्रह्मात्मत्वानुभवे सति प्रमातृत्वानुपपत्तौ पुनर्ज्ञानासम्भवात्सद्योमुक्तिकारणं सकृद्विज्ञानं प्रतिबोध उच्यते । “सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् ।
अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥”(बृह.वा. ३.३.७१)

पक्षद्वयेऽप्यरुचिमाह –

निर्निमित्त इति ।

अयमाशयः – न तावदविद्यानिवर्तकस्याऽऽगन्तुकस्य बोधस्य निर्निमित्तत्वं सम्भवति । कार्यस्य सनिमित्तत्वव्याप्तेः । सौषुप्तस्यापि न निर्निमित्तत्वमविद्यायाः पूर्वपूर्वनिरोधावस्थासंस्कारोद्भूततादृशवृत्त्यभिव्यक्तचैतन्यस्य तत्र सुखसाक्षात्कारोपगमात् । अत एव वृत्तिविशिष्टस्य विनाशे स्मरणमुपपद्यते । अत्रापि तर्ह्यावृत्तिसंस्कारप्रचयान्निवृत्तेऽपि चित्ते ब्रह्माभिव्यक्तं स्यादिति चेन्न । तथा सत्यप्रमात्वेन विनष्टपुत्रापरोक्षादिवाविद्यानिवृत्तिर्न स्यात् । शाब्दज्ञानसंवादात्प्रमात्वे परतन्त्रत्वप्रसङ्गः शब्दमूलत्वात्प्रमात्वे न निर्निमित्ततेति । प्रवृत्तफलकर्मप्रतिबन्धाद्वर्तमानप्रमातृत्वाभासानिवृत्तेरसकृद्बोधोऽपि सम्भवतीति पक्षद्बयेऽपि नाऽऽदरः । सर्वथाऽपि परमात्मा प्रतिबोध एव बोधं प्रति बोधं प्रति साक्षितया भातीति ।

लक्ष्यपदार्थविवेचनपूर्वकं महावाक्योत्थं परमात्माऽस्मीति ज्ञानमेव सम्यग्ज्ञानं यस्मात्तत एवामृतत्वं लभत इत्याह –

अमृतत्वमिति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –

बोधस्य हीति ।

बुद्धिपरिणामस्य सर्वस्य भासकं प्रत्यक्चैतन्यं परमात्मा न भवति किन्तु ब्रह्माण्डाद्बहिः स्थितस्तत्प्राप्तिश्च मोक्ष इत्याशङ्क्याह –

न हीति ।

अनात्मप्राप्तेः कर्मफलवदनित्यत्वेनामृतत्वप्रसिद्धिर्न स्यादित्यर्थः ।

यद्युक्तदोषपरिहारायौपाधिकभेदेन भिन्नत्वं ब्रह्मणः स्वतस्त्वात्मत्वमेवेति मन्यसे तत्राऽऽह –

आत्मत्वादिति ।

ब्रह्मण आत्मत्वादेवाऽऽत्मनोऽमृतत्वं स्वभावत एव सिद्धम् ।

तर्हि विद्याया आनर्थक्यं प्राप्तमित्याशङ्क्याऽऽह –

एवं मर्त्यत्वमिति ।

अविद्यया देहाद्यात्मत्वप्रतिपत्तिरिति यत्तदात्मनो मर्त्यत्वं तन्निवृत्तिर्विद्याफलमित्यर्थः । वीर्यं विद्याकृतमुक्तं मुक्तत्वे दार्ढ्यं तच्च स्वाभाविकमेव मुक्तत्वं वास्तवं सर्वशरीराद्यसंसर्गित्वान्नभोवन्निरवयवत्वादेव । ततश्च नित्यमुक्त एवाहमित्यवष्टम्भो विद्याकृतं बलमित्यर्थः ॥ १२ - ४ ॥

उत्तरवाक्यस्यापेक्षितमर्थमाह –

कष्टा खल्विति ।

लौकिकमपि सत्यम् । चिरं जीवनं धनवत्त्वम् । सद्भावः साधुभावः ख्यातिः । एतदपि सर्वं ब्रह्मविदो भवतीति स्तुत्यर्थमुच्यते । परमार्थतो ब्रह्मरूपस्थितिस्तु फलमवश्यं भवतीत्यर्थः ॥ १३ - ५ ॥

इति द्वितीयखण्डः॥

उत्तरग्रन्थस्य प्रतीकमादाय तात्पर्यमाह –

ब्रह्मेत्यादिना ।

अभिप्रेतं तात्पर्यमाह –

वक्ष्यमाणेति ।

उत्तमाधिकारिगोचरमविषयब्रह्मात्मताज्ञानं पूर्वत्रोक्तमुत्तरत्र तु मन्दाधिकारिगोचरं सगुणब्रह्मोपासनं वक्ष्यते । तत्परं वक्ष्यमाणं सर्ववाक्यजातं, स्पष्टविधिदर्शनात् । अतोऽत्रैव तात्पर्यमर्थान्तरतात्पर्यप्रदर्शनं तु सम्भावनामात्रेणेति द्रष्टव्यम् । ईश्वरस्य सेतवो मर्यादा वर्णाश्रमादिधर्मास्तद्भेदकान् । जगतः स्थेम्ने स्थैर्याय । स्वयोगमाहात्म्यनिर्मितेन सत्त्वरजस्तमसां त्रयाणां गुणानां योगो युक्तिर्घटनं माया तन्माहात्म्येन निर्मितं तेनेत्यर्थः ॥ १४ - १ ॥ १५ - २ ॥ तृतीतखण्डशेषभाष्यं स्पष्टमतो न विवृतमिति ॥ १६ - ३ ॥ १७ - ४ ॥ १८ - ५ ॥ १९ - ६ ॥ २० - ७ ॥ २१ - ८ ॥ २२ - ९ ॥ २३ - १० ॥ २४ - ११ ॥ २५ - १२ ॥ २६ - १ ॥ २७ - २ ॥ २८ - ३ ॥ विद्युतः सकाशाद्विद्योतनं कृतवदित्यनुपपन्नं ब्रह्मणः स्वयञ्ज्योतिष्ट्वात्पराधीनप्रकाशानुपपत्तेर्विद्युत्सम्बन्धि द्योतनं कृतवदित्यनुपपन्नमन्याश्रयस्य विद्योतनस्यान्यकर्तृकत्वानुपपत्तेरतो यथाश्रुतासम्भवादन्यत्र तात्पर्यं वक्तव्यमित्यर्थः ।

इति तृतीयखण्डः ॥

प्रतिनिर्देशार्थ इति ।

परामर्शार्थः । चक्षुषो निमेषणं द्रुतं भवतीति प्रसिद्धं तद्वद्ब्रह्मणि क्षिप्रकारित्वं सृष्ट्यादौ प्रतिबन्धाभावेनाऽऽयासाभावेन च द्रुतकारित्वं धर्मोऽधिदैवतम् । यद्ध्येयं ब्रह्म तद्यथा विद्युतः प्रकाशो युगपद्विश्वव्यापकस्तथा निरतिशयज्योतीरूपं द्रुतं सकलसृष्ट्यादिकारि पारमैश्वर्यसम्पन्नमित्यपमानोपदेेशेनोक्तम् ॥ २९ - ४ ॥

अधुना प्रत्यगात्मतया ब्रह्मणो यथाऽभिव्यक्तिः स्यात्तथोपदिश्यत इत्याह –

अथानन्तरमिति ।

एतत्प्रकृतं ज्योतीरूपं ब्रह्म प्रति मदीयं मनो गच्छद्वर्तत इति चिन्तयेदिति य उपदेशः स आध्यात्मिकोऽभीक्ष्णं पौनःपुन्येन मम मनसः सङ्कल्पो ब्रह्मविषय एवेति ध्यायतः प्रत्यग्भूतब्रह्माभिव्यक्तिः स्यादित्याह –

मनउपाधिकत्वाद्धीति ।

उक्तमर्थं सङ्क्षिप्याऽऽह –

विद्युन्निमेषणवदिति ।

सगुणब्रह्मोपासनमैश्वर्यफलकमुक्तम् ॥ ३० - ५ ॥ ३१ - ६ ॥

तत्र विरक्त उत्तमाधिकारी परमरहस्यं पृच्छतीत्याह –

एवमनुशिष्ट इति ।

परमरहस्यं श्रोत्रस्य श्रोत्रमित्यादिनोक्तमेवोत्तरार्थमित्युत्तरग्रन्थेन विद्याप्राप्त्युपायविधानार्थमुक्ता विद्या निरपेक्षैवेत्यवधारयति ।

अवधारणार्थत्वं प्रतिवचनस्य चोद्यमुखेन स्फोटयति –

परमात्मविषयामित्यादिना ।

किं पूर्वोक्तोपनिषच्छेषतयाऽन्यदपेक्षते । शेषशब्देन फलोपकार्यङ्गं विवक्षितम् । सहकारिशब्देनानुपसर्जनमपि समुच्चयार्हं विवक्षितम् ।

एवं शिष्याभिप्रायमुपवर्ण्य समाधानमाह –

एतदुपपन्नमिति ।

विद्याङ्गत्वहीनैः सह पाठात्तपःप्रभृतीनां विद्याङ्गत्वं नास्तीत्युक्तम् । तत्र योग्यतावशेन शेषशेषिभावः सहपाठस्त्वकिञ्चित्कर इति शङ्कते –

सहपठितानामपीति ।

“अग्निरिदं हविरजुषतावीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्”(श.ब्रा.) इत्यादिनैव सूक्तवाकेन सर्वयागसमाप्तौ देवतानुमन्त्रणं क्रियते । तत्र यद्यप्यस्मिन्सूक्तवाके बह्व्यो देवताः पठ्यन्ते तथाऽपि यस्मिन्यागे या देवताऽऽहूता तस्या एव विसर्जने योग्यतावशादस्य सूक्तवाकस्य यथा विनियोगस्तथा तपःप्रभृतीनामेव विद्याशेषत्वेन विनियोगो भविष्यतीत्यर्थः ।

भवेत्सूक्तवाकस्य विनियोगो योग्यतासम्भवात् । न कर्मणां विद्याविरुद्धत्वेन अयोग्यत्वादित्याह –

नायुक्तेरिति ।

विद्यया विषयपर्यालोचनया फलपर्यालोचनया च नास्ति तत्त्वतः सम्बन्धयोग्यता कर्मणां प्रत्युत अनुपयोगात्कर्मणां त्याग एव मुमुक्षुणा कर्तव्य इत्याह –

सर्वविषयेति ।

सर्वेभ्य उत्पाद्यादिभ्यः कर्मगोचरेभ्यो व्यावृत्तो यः प्रत्यगात्मा स एव ब्रह्मरूपेण विद्याया व्यावर्तको विषयस्तन्निष्ठत्वाद्विद्यायास्तत्फलस्य च कर्मवैलक्षण्यादित्यर्थः ॥ ३२ - ७ ॥

तच्छब्दापेक्षितं यच्छब्दं पूरयति –

यामिमामिति ।

प्राप्तिः सगुणविषया निर्गुणब्रह्मात्मविषया चेत्यर्थः ।

पादरूपककल्पनेति ।

प्रसिद्धपादसामान्यस्य कल्पित्वादितरैरप्यङ्गैः कल्पनारूपैर्भवितव्यमित्यर्थः ।

तस्यै तपो दमः कर्मेत्यत्रत्येतिशब्दस्योपलक्षणार्थत्वात्सत्यमपि सङ्ग्रहीतव्यं कथं पृथगुच्यत इत्याशङ्क्याऽऽह –

तपआदिष्वेवेति ॥ ३३ - ८ ॥

सगुणविद्यायाः क्रममुक्त्यर्थत्वात्क्रमेण प्राप्यं यत्कैवल्यं निर्गुणविद्याफलं तत्पूर्वोक्तमिहोपसंह्रियत इत्याह –

यो वा एतामित्यादिना ॥ ३४ – ९ ॥

इति चतुर्थखण्डः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दपूज्यपादशिष्यश्रीमदानन्दज्ञानकृतः श्रीमच्छाङ्करतलवकारोपनिषदपरपर्यायकेनोपनिषत्पदभाष्यटिप्पणं सम्पूर्णम् ॥