श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीमत्सुरेश्वराचार्यविरचितम्

बृहदारण्यकोपनिषद्भाष्यवार्तिकम्

पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥

change script to

स्वाविद्याविभवप्रसूतविपुलद्वैतप्रपञ्चाहित-
स्पष्टभ्रान्तितिरोहितात्ममतयो यं भागशो मन्वते ।।
निर्भागं सकलभिधानमननव्यापारदूरस्थितं
वन्दे नन्दितविश्चमव्ययमजं भक्त्या तमेकं विभुम् ।। १ ।।
यां काण्वोपनिषच्छलेन सकलाम्नायार्थसंशोधिर्नी
संचक्रुर्गुरवोऽनुवृत्तगुरवो वृत्तिं सतां शान्तये ।।
अर्थाविष्करणं कुतार्किककृताशङ्कासमुच्छित्तये
तस्या न्यायसमाश्रितेन वचसा प्रक्रम्यते लेशतः ।। २ ।।
अत्र षोपनिषच्छब्दो ब्रह्मविद्यैकगोचरः।।
तत्रैव चास्य सद्भावादभिधार्थस्य तत्कुतः।। ३ ।।
उपोपसर्गः सामीप्ये तत्प्रतीचि समाप्यते ।।
त्रिविधस्य सदर्थस्य निशब्दोऽपि विशेषणम् ।। ४ ।।
उपनीयेममात्मानं ब्रह्मापास्तद्वयं यतः।।
निहन्त्यविद्यं तज्जं त तस्मादुपनिषद्भवेत् ।। ५ ।।
निहत्यानर्थमूलं स्वाविद्यां प्रत्यक्तया परम् ।।
गमयत्यस्तसंभेदमतो वोपनिषद्भवेत् ।। ६ ।।
प्रवृत्तिहेतून्निःशेषांस्तन्मूलोच्छेदकत्वतः।।
यतोऽवसादयेद्विद्या तस्मादुपनिषन्मता ।। ७ ।।
यथोक्तविद्याबोधित्वाद्ग्रन्थोऽपि तदभेदतः।।
भवेदुपनिषन्नामा लाङ्गलं जीवनं यथा ।। ८ ।।
अरण्याध्ययनाच्चैतदारण्यकमितीर्यते ।।
बृहत्त्वाद्ग्रन्थतोऽर्थाच्च बृहदारण्यकं मतम् ।। ९ ।।
इत्यादिनामव्युत्पत्तिच्छद्मना प्रकृतोचितम् ।।
सर्वोपनिषदामाह मुक्तिमात्रं प्रयोजनम् ।। १० ।।
मिथोविरोधसिद्ध्यर्थं कर्मज्ञानाधिकारिणोः।।
संसार्रव्याविवृत्सुभ्य इत्युक्तिं भाष्यकृज्जगौ ।। ११ ।।
त्यक्ताशेषक्रियस्यैब संसारं प्रजिहासतः।।
जिज्ञासोरेव चैकात्म्यं त्रय्यन्तेष्वधिकारिता ।। १२ ।।
``एतमेवे''ति च तथा प्रत्यग्याथात्म्यवित्तेये ।।
सर्वकर्मत्यजं प्राह श्रुतिर्विद्याधिकारिणम् ।। १३ ।।
प्रत्यग्विविदिषासिद्ध्यै वेदानुवचनादयः।।
ब्रह्मावाप्त्यै तु तत्त्याग ईप्सन्तीतिश्रुतेर्बलात् ।। १४ ।।
उक्ताधिकारविषयप्रतिपत्त्यर्थमीरितम् ।।
संसारहेत्वितिवचः स्फुटन्यायोपबृंहितम् ।। १५ ।।
ऐकात्म्यविषयान्नान्यो वेदान्तवचसां यतः।।
लभ्यते विषयः कश्चित्तद्धीस्तस्मात्तमोपनुत् ।। १६ ।।
संसारकारणाविद्याध्वंसकृज्ज्ञानलब्धये ।।
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। १७ ।।
प्रत्यग्याथात्म्यधीरेव प्रत्यगज्ञानहानिकृत् ।।
सा चाऽऽत्मोत्पत्तितो नान्यद्ध्वान्तध्वस्तावपेक्षते ।। १८ ।।
साधनं चाधिकारी च कर्मविज्ञानकाण्डयोः।।
मिथो विरोधतः सिद्धावधुना तत्र चोद्यते ।। १९ ।।
नन्वभ्युदयवन्मुक्तिं गृह्णीमो विधेलक्षणाम् ।।
कार्यं विना नाधिकारी नापीज्याफलसंगमः।।
लभ्यते लौकिकोऽपीह, किमङ्गाऽऽगमसंश्रयः ।। २० ।।
विधिलक्षणसिद्ध्यर्थं सन्ति वाक्यानि च श्रुतौ ।। २१ ।।
कुर्वाीत क्रतुमित्यादिर्विधिरभ्युदये यथा ।।
उपासीतेति च तथा मुक्तावपि समीक्ष्यते ।। २२ ।।
नाभ्युदयस्य मुक्तेश्च साध्यासोध्ये ध्रुवाध्रुवे ।।
वैलक्षण्यान्न युक्तेयं तुल्यसाधनता तयोः ।। २३ ।।
अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सीनीतः।।
तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाद्य उ प्रेयो वृणीते ।। २४ ।।
परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ।। २५ ।।
नन्वभ्युदयवत्साध्या मुक्तिरप्राप्तरूपतः।।
मैवं, साध्याऽपि नो मुक्तिर्न त्वभ्युदयवद्यतः ।। २६ ।।
स्वतोमुक्तान्तरायस्य तमसो विद्यया हतेः।।
तत्कैवल्यमतः साध्यमुपचारात्प्रचक्षते ।। २७ ।।
चिकित्सयेव संप्राप्यं स्वास्थ्यं रोगार्दितस्य तु ।।
आत्माविद्याहतेर्बोधात्तत्कैवल्यमवाप्यते ।। २८ ।।
ब्रह्म वा इदमित्यादिर्ब्रह्मैवेति तथा श्रुतिः।।
सुषुप्तनरवच्छ्रुत्या बोध्योऽतोऽयं न कार्यते ।। २९ ।।
किमत्र विधिना कार्यमनृतत्रत्वहेतुतः।।
श्रुतोऽप्यनर्थकोऽत्र स्याद्विध्यर्थासंभवत्वतः।। ३० ।।
यच्चास्यासति कर्तव्ये नाधिकारो निरूप्यते ।।
तदप्यशेषतश्चोद्यमूर्ध्वमुन्मूलयिष्यते ।। ३१ ।।
पर आहाऽऽत्मनः स्वास्थ्यं श्रेयो यद्यभिवाञ्छसि ।।
कर्मभ्य एव तत्सिध्येच्छ्रुतत्वात्कर्मणः श्रुतौ ।। ३२ ।।
श्रुतौ स्मृतौ च विहितं कर्मैव श्रूयते यतः।।
न च कर्मातिरेकेण मुक्त्यभ्युदयसाधनम् ।। ३३ ।।
यत्नतो न्यायतः किंचित्पश्यामो वेदचक्षुषा।।
निषेधविधिमात्रत्वाद्वेदार्थस्येह सेर्वतः ।। ३४ ।।
ननु श्रुतौ पुरोक्तानि वाक्यानि बहुशो मया ।।
अविधायित्वतस्तेषां न न्याय्यं भवतोदितम् ।। ३५ ।।
आम्नायस्य क्रियार्थत्वाद्विधिनेति च सूत्रणात् ।।
विधिशेषतया तेषामेकवाक्यत्वसंभवे ।।३६ ।।
वचसामक्रियार्थानां वाक्यभेदप्रकल्पना ।।
गुर्वी स्यान्ननु कैवल्यं फलं नित्यमिहेष्यते ।। ३७ ।।
कथं नित्यं भवेत्तन्नो यदि स्यात्कर्मणः फलम् ।।
कर्मोत्थं न यतः किंचिद्ध्रुवं जगति वीक्ष्यते ।। ३८ ।।
तत्साधनेन चावश्यं भवितव्यमतो भवेत् ।।
पारिशेष्यादिह ज्ञानं वेदान्ते तत्प्रसिद्धितः ।। ३९ ।।
नैवं क्रियाभ्य एवास्या मुक्तेः सिद्धत्वहेतुतः।।
कुतः क्रियाभ्यः सिद्धिश्चेच्छृणु तद्भण्यते यतः ।। ४० ।।
निषिद्धकाम्ययोस्त्यागात्कर्मणोर्नित्यकर्मणः ।।
करणा, त्प्रत्यवायस्य हते,र्भोगेन च क्षयात् ।। ४१ ।।
शरीरारम्भकस्यै,वं मुक्तिः सिद्धाऽन्तरात्मनः ।।
विनाऽप्यैकात्म्यसंबोधात्कर्मणैवोक्तवर्त्मना ।। ४२ ।।
ननु चाऽऽत्मावबोधस्य ``निचाय्यो''ति फलं श्रुतम् ।।
``ब्रह्म वेदे''ति च तथानैवं तस्यार्थवादतः ।। ४३ ।।
फलोक्तेरर्थवादत्वं द्रव्यसंस्कारकर्मसु।।
सर्वत्र दर्शनाच्छास्रे पर्णमय्यां फलोक्तिवत् ।। ४४ ।।
आत्मनः कर्मशेषत्वात्तद्धियः कर्मशेषता ।।
विधिं त्वयाऽनिच्छताऽपि ह्यभ्युपेयाऽर्थवादता ।। ४५ ।।
नैवं तद्धेतुतद्रूपविरोधादितरेतरम् ।।
मुक्त्यभ्युदययोस्तस्मान्न सम्यग्भवतोदितम् ।। ४६ ।।
स्वरूपेऽवस्थितिर्मुक्तिरात्मनो भवतोच्यते ।।
काम्यादिवर्जनादिभ्यस्तस्याः सिद्धिश्च वर्ण्यते ।। ४७ ।।
तत्राऽऽत्मा किं स्वरूपे प्राङ्न स्थितो येन तत्स्थितौ ।।
हेतु व्यपेक्षते यत्नात्स्वरूपं हि न तद्भवेत् ।। ४८ ।।
स्वतोऽनवस्थितो यत्र हेतुना स्थाप्यते बलात् ।।
अथावस्थित एवायं किमर्थं हेतुमार्गणम् ।। ४९ ।।
कैवल्पेऽपि च तत्सक्तेरनिर्मोक्षः प्रसज्यते ।।
अतो निषिद्धकाम्यादिवर्जनान्नाऽऽत्ममुक्तता ।। ५० ।।
विषयाभ्यासजास्वास्थ्यनुत्त्यर्थमिति चेन्मतम् ।।
स तु विषयसंपर्कः कस्माद्भवति कारणात् ।। ५१ ।।
अकस्माद्भवतः सक्तेर्मुक्तावप्यनिषेधतः।।
अनिर्मोक्षप्रसक्तिर्वस्तथा सति समापतेत् ।। ५२ ।।
धर्माधर्मनिमित्तश्चेत्किं पुनर्धर्मपातके ।।
अप्यसङ्गस्वभावस्य संपर्कं कुरुतो बलात् ।। ५३ ।।
भल्लातकाङ्कवद्वस्त्रे न हि लोके स्फुरन्नपि ।।
कुशलोऽपि कुलालः सन्नघटादिस्वभावकम् ।। ५४ ।।
मृद्वद्व्योम धटी कुर्यान्मरुद्वाऽग्नेश्च शीतताम् ।।
आत्मा कर्त्रादिरूपश्चेन्मा काङ्क्षीस्तर्हि मुक्तताम् ।। ५५ ।।
न हि स्वभावो भावानां व्यावर्त्येतौष्ण्यवद्रवेः ।।
स्वभावाद्विनिवृत्तोऽर्थो निःस्वभावः खपुष्पवत् ।। ५६ ।।
नाविनश्यन्यतो वह्निर्व्यावर्त्येतौष्ण्यतः क्कचित् ।।
न च कर्त्राद्यनिर्मुक्तौ मुक्तिः संभाव्यतेऽन्यतः ।। ५७ ।।
ननु कर्तृत्वभोक्तृत्वकार्यमेवाऽऽत्मसंसृतिः ।।
न तु तच्छक्तिरित्येवं शक्तिमात्रतया स्थितौ ।। ५८ ।।
सर्वानर्थविनिर्मुक्तेरूपपन्नाऽऽत्ममुक्तता ।।
मैवं भेदे तथाऽभेदे दोषः स्याच्छक्तिकार्ययोः ।। ५९ ।।
शक्तितत्कार्ययोर्यस्माद्व्यतिरेको न विद्यते ।।
नियमासंभवः प्रापद्व्यतिरेकस्तयोर्यदि ।। ६० ।।
कार्यकारणता न स्यात्स्वतो भेदेन सिद्धयोः।।
अभेदे च तयोरैक्यात्कार्यकारणता कुतः ।। ६१ ।।
नाकुर्वत्कारणं दृष्टं कार्यं चाक्रियमाणकम् ।।
अथाभेदस्तयोरिष्टः कार्यध्वस्तौ प्रसज्यते ।। ६२ ।।
तच्छक्तेरपि विध्वंसस्तयोरव्यतिरेकतः।।
शक्तिस्वरूपहाने च शक्तिमद्रूपनिह्नुतिः।। ६३ ।।
तयोरव्यतिरेकत्वात्स एवाऽऽयात्यनीप्सितः।।
निरात्मवादः पूर्वोक्तस्तस्मान्नैवं प्रकल्पयेत् ।। ६४ ।।
मतं कार्यानभिव्यक्तिर्निमित्तासंभवाद्यदि ।।
शक्तेरिति, न तद्युक्तं शक्तितद्धेतुसंभवात् ।। ६५ ।।
शक्तिरूपेण संबन्धो निमित्तानामपीष्यते ।।
नैमित्तिकैरिति ततो वह्न्यौष्ण्यादिसमानता ।। ६६ ।।
कार्यस्य शक्तितत्रत्वे सर्वदा कारणस्थितेः ।।
कार्योत्पत्तिः सदैव स्यान्निदाघे घर्मवद्यतः ।। ६७ ।।
तथैव शक्त्यतत्रत्वेऽप्येष दोषो यतो भवेत् ।।
सदा कार्यं न जायेत कारणासंभवात्सदा ।। ६८ ।।
निदाधे शीतवद्यस्मोदतोऽसम्यगिदं वचः।।
निष्कारणस्य चोद्भूतौ कार्यजन्म सदा भवेत् ।। ६९ ।।
कायर्ता वा कुतोऽस्य स्यान्न चेत्कारणतत्रता ।।
न च शक्यं प्रतिज्ञातुं जन्माऽऽरभ्याऽऽ मृतेर्नृभिः।। ७० ।।
निषिद्धकाम्यकर्मादिवर्जनं निपुणैरपि ।।
सूक्ष्मापराधसंदृष्टेरतियत्नवतामपि ।। ७१ ।।
संशयस्तु भवत्येव पक्षासिद्धिस्तु तावता ।।
अथ चेन्मोक्ष्यते सोऽत्र यस्य संपत्स्यते तथा ।। ७२ ।।
त्वदुक्तं नैतदेवं स्यादवक्तव्यत्वहेतुतः।।
निश्चितं साधनं वाच्यं ज्ञानं निःश्रेयसं प्रति ।। ७३ ।।
न तु यादृच्छिकी सिद्धिर्वक्तव्येह विपश्चिता ।।
दैवगोचर एवैष न तु मानुषगोचरः ।। ७४ ।।
सहकर्त्री भवेच्छक्तिरिति न्यायाद्भवेद्यदि ।।
मनुष्यगोचरोऽपीति नाऽऽख्यातासंभवात्तथा ।। ७५ ।।
मुक्त्यर्थाी न हि काम्यादि वर्जयेदिति चोदना ।।
अस्ति वेदे क्कचिद्येन शक्तेर्विध्येकदेशता ।। ७६ ।।
काम्यादिवर्जनं त्वेतत्स्वमतिप्रभवं यतः।।
नातः शक्तेस्तदंशत्वं कथंचिदपि युज्यते ।। ७७ ।।
नित्यादिकरणान्नापि काम्यादेश्तापि वर्जनात् ।।
श्रेयः संभाव्यते विद्यानिष्फलत्वप्रसङ्गतः ।। ७८ ।।
काम्यात्स्वर्गादिकं मा भूदक्रियायां तदुद्भवम् ।।
अर्थान्तरात्स्वभावाद्वा भवन्न तु निवार्यते ।। ७९ ।।
अन्यतो भवने मानं न चेदस्त्विह संशयः।।
एतावताऽपि पक्षस्ते प्रतिबद्धो न सिध्यति ।। ८० ।।
अथैतयोरिति तथा चोदनार्थातिलङ्घिनाम् ।।
सुखदुःखादिसंदृर्ष्टर्न चाप्यस्तीह संसयः ।। ८१ ।।
नित्यस्याकरणे दोषस्तत्कियायां न यद्यपि ।।
अन्यतोऽसौ स्वाभावाद्वा न तु मानेन वार्यते ।। ८२ ।।
नित्यादेः फलमिष्टं चेदुपात्तदुरितक्षयः ।।
तथाऽप्यागामिदोषेष्वाशङ्का पूर्ववदुद्भवेत् ।। ८३ ।।
अनभीष्टफलानां च दुरितत्वात्क्षयो भवेत् ।।
नत्वाभ्य़ुदयिकानां स्यादभीष्टत्वात्क्षयस्त्व ।। ८४ ।।
सर्वेषां दुष्टता चेत्स्यान्न विधानाददुष्टता ।।
नापि श्येनादितुल्यत्वं फलदोषेण दुष्टता ।। ८५ ।।
ऐकात्म्यज्ञानतश्चेत्स्याद्व्यर्था कर्मप्रधानता ।।
प्रधानत्वं च विद्यायास्तमेतमिति दर्शितम् ।। ८६ ।।
तत उक्तेन मार्गेण कर्तृसंस्कारकारिणाम् ।।
ऐकात्म्यज्ञानतात्पर्यं कर्मणामिति निश्चितम् ।। ८७ ।।
तेन निःसारतां बुद्ध्वा कर्मणां वेदतत्त्ववित् ।।
ऐकात्म्यज्ञानमन्वेति तपोमुषितकल्मषः ।। ८८ ।।
यस्तु जन्मान्तराभ्यासात्क्षपिताशेषकामनः।।
आदावेवाधिकारी स पुनः कर्म न वीक्षते ।। ८९ ।।
विरक्तस्य तु जिज्ञासोर्मानान्नान्यव्यपेक्षणम् ।।
कर्मापेक्षा हि साध्येऽर्थे सिद्धेऽर्थे तदनर्थकम् ।। ९० ।।
वामदेवस्य मैत्रेय्या गार्ग्याश्चैव समञ्जसम् ।।
दर्शनं, ब्रह्मचर्यादेस्तथा प्राव्राज्यशासनात् ।। ९१ ।।
इष्टापूर्तादिहेतूनामानन्त्यात्स्वर्गसिद्धये ।।
हेत्वन्तरासंभवोऽतो दुर्ज्ञानः संभवाद्भवेत् ।। ९२ ।।
एवं निषिद्धवाक्येषु यथोक्तं न्यायमादिशेत् ।।
नित्यकर्मवचःस्वेवं नातो मुक्तिविनिश्चयः ।। ९३ ।।
अनेकजन्मोपात्तस्य पुण्यापुण्यस्य कर्मणः।।
अनन्तदेहहेतोश्च विप्रघातस्य संभावत् ।। ९४ ।।
ततः शेषेण वचनात्तथा तद्य इहेत्यतः।।
अनारब्धफलेहानां गम्येते संस्थितिस्ततः ।। ९५ ।।
फलं नित्यस्य नापीह दुरितक्षयमात्रकम् ।।
फलान्तरश्रुतेः साक्षात्तद्यथाऽऽम्रस्मृतेस्तथा ।। ९६ ।।
आम्रे निमित्त इत्यादि ह्यापस्तम्बस्मृतेर्वचः।।
फलवत्त्वं समाचष्टे नित्यानामपि कर्मणाम् ।। ९७ ।।
उक्तमेव तु संशीतावियं त्वत्र विनिश्चितिः।।
कार्यमारभते शक्तिर्यत्किंचेह व्यवस्थिता ।। ९८ ।।
यस्मादसति कार्येऽसौ शक्तिरेव न सिध्यति ।।
कार्यकारणयोः सिद्धिरन्योन्याव्यतिरेकतः ।। ९९ ।।
कर्तृभोक्तृस्वरूपेऽतो ह्यभ्युपेतेऽन्तरात्मनि ।।
न मुक्त्याशाऽस्ति पूर्वोक्तन्यायमार्गसमाश्रयात् ।। १०० ।।
सापराधत्वतो मुक्तिः संदिग्धैव प्रसज्यते ।।
द्विजातीनां खरादेस्तु त्वदुक्त्या स्यादसंशयात् ।। १०१ ।।
ननूक्तं कर्मशेषत्वमात्मनो यागकर्तृता ।।
नैतदेवं यतो नैतत्कर्माङ्गं ज्ञानमिष्यते ।। १०२ ।।
कर्तृत्वमात्मनः सिद्धं यतोऽन्यत्रापि यागतः ।।
निःशेषकर्मकारित्वात्तस्मादुक्तमपेशलम् ।। १०३ ।।
न ह्यात्मज्ञानविरहात्कर्म कर्तुं न शक्यते ।।
पर्णज्ञानमृते यद्वज्जुहूर्लातुं न शक्यते ।। १०४ ।।
देहान्तराभिसंबन्धी नत्वात्माऽस्तीत्यजानतः।।
विवेकिनो न युक्तेयं प्रवृत्तिः पारलैाकिकी।। १०५ ।।
एवं तर्हि न कर्माङ्गं कर्तुश्चेष्टैकहेतुतः ।।
फलार्थिवन्न च ज्ञानं क्रियाङ्गत्वेन चोदितम् ।। १०६ ।।
नन्वेवमपि सिद्धः स्यात्प्रवेशः सर्वकर्मसु ।।
आत्मज्ञानस्य सामर्थ्यान्न नाम विधिसंश्रयात् ।। १०७ ।।
नैतदेवमविज्ञाततत्त्वस्यैवेह कर्मसु ।।
अनात्मार्थविशिष्टस्य ह्यधिकारित्वहेतुतः।। १०८ ।।
स्वरूपे आत्मनः स्थानमाहुर्निःश्रेयसं बुधाः ।।
ततोऽन्येनाभिसंबन्ध आत्मनोऽज्ञानहेतुकः ।। १०९ ।।
आगनत्वनात्मरूपं तत्स्वसंवित्त्यैव गम्यताम् ।।
नातोऽवाप्तपुर्थस्य स्वरूपावस्थिस्य तु ।। ११० ।।
कर्तृभोक्त्रादिरूपत्वं प्रत्यगज्ञानतोऽन्यतः ।।
कर्म तत्फलभोगश्च बाह्यानि करणानि च ।। १११ ।।
ततोऽपि बाह्यो देहश्च जातिस्तत्समवायिनी ।।
जरामरणजन्मानि देहाधिकरणानि च ।। ११२ ।।
दारपुत्रधनादीनि देहवाह्यानि यानि च ।।
कर्माधिकारहेतूनि स्वतोऽस्यानधिकारिणः ।। ११३ ।।
अभिन्नस्याऽऽत्मनो मोहाद्भेदकानीति मन्वते ।।
विशेषणं स्वरूपं वा नान्योन्यस्य स्वतो यतः ।। ११४ ।।
लोके दृष्टं विनाऽविद्यां मोहादृष्टं तु सर्वतः।।
चोरोऽसौ मामभिप्रैतीत्येवं चोरविशेषणम् ।। ११५ ।।
स्थाणुं संभावयत्यज्ञो न तु दृष्टं तमो विना ।।
नन्वविद्यामृतेऽप्यन्यदृष्टमन्यविशेषणम् ।। ११६ ।।
औपगवो नृपहयस्तथा श्येनचिदादयः ।।
नैतदेवं यतस्तत्र नैवं प्रत्यक्तयेष्यते ।।
अगन्यस्य संबन्धः कृशोऽहमितिवत्क्कचित् ।। ११७ ।।
उपग्वादिर्हि पित्रादिः प्रकृत्यर्थो विशेषणम् ।।
भिन्नस्यौपगवापत्यप्रत्ययार्थस्य गम्यते ।। ११८ ।।
नैवं कर्त्रादिदेहान्ताञ्जात्यादीन्देहगांस्तथा ।।
व्यतिरेकतया कश्चिद्विशिनष्टीह मानवः ।। ११९ ।।
यत आत्मतयैवैतैर्विशिनष्ट्यविशेषणम् ।।
करोम्यन्धो द्विजो बालो दग्धश्छिन्नोऽहमित्यपि ।। १२० ।।
नाविद्यामन्तरेणैषां विशेषणविशेष्यता ।।
इयमेवाऽऽत्मनो ज्ञेया कर्माधिकृतिकारणम् ।। १२१ ।।
अधिक्रियन्ते येनैते बृहस्पतिसवादिषु ।।
अतोऽनवगतैकात्म्यकर्माधिकृतिहेतुतः ।। १२२ ।।
श्रुत्यादिमानप्रमितप्रत्यग्याथात्म्यनिष्ठितम् ।।
सर्वकर्मसमुच्छेदि ज्ञानं वेदान्तमानजम् ।। १२३ ।।
तन्मूलाज्ञानघातित्वाज्ज्ञानस्येह प्रसिद्धितः ।। १२४ ।।
न तु प्रवर्तकं तस्मान्नार्थवादत्वसंभवः ।।
फलोक्तेः पर्णमय्यां तु युज्यते कर्मशेषतः।। १२५ ।।
यत्त्वचोदि त्वयाऽपीयमभ्युपेयाऽर्थवादता।।
अनिच्छताऽपि विध्यर्थमत्र प्रतिविधीयते ।। १२६ ।।
इच्छाम्येवार्थवादत्वं वचसोऽन्यपरत्वतः।।
यथाश्रुतार्थवादित्वान्न त्वभूतार्थवादता ।। १२७ ।।
इज्येते स्वर्गलोकाय दर्शादर्शौ यथा तथा ।।
न त्वभूतार्थवादित्वं पापश्लोकाश्रुतेर्यथा ।। १२८ ।।
कुतः प्राप्तं फलमिति प्रत्यक्षं ह्यात्मधीफलम् ।।
यतोऽवगम्यते तेन ज्ञानं कर्म न ढौकते ।। १२९ ।।
प्रवृत्तेः प्रतिकूलत्वान्मुक्तिं प्रति विरोधतः ।।
मुमुक्षोरधिकारोऽतो निवृत्तौ सर्वकर्मणाम् ।। १३० ।।
प्रवृत्तिहेतुप्रध्वस्तेर्न प्रवृत्तौ कथंचन ।।
नाभिप्रेतपुरप्राप्तिसमर्थं सुगमं शिवम् ।। १३१ ।।
वारिपथ्यदनोपेतं सर्वानर्थविवर्जितम् ।।
प्राप्तं मार्गं समुत्सृज्य तद्विरुद्धेन वर्त्मना ।।
यियासति सुधीः कश्चिद्यथा भ्रान्तोऽध्वगस्तथा ।। १३२ ।।
तथाऽविद्योत्थकर्त्रादिधर्मशून्यमविक्रियम् ।।
अक्रियाकारकं ज्ञात्वा निःशेषपुरुषार्थदम् ।। १३३ ।।
आत्मप्रत्ययमागम्यमात्मानं देवमञ्जसा ।।
तत्स्थितौ च फलेऽभीष्टे नित्ये साधनवर्जिते ।। १३४ ।।
तद्विरूद्धफले बाह्यसाधनेऽनेककारके ।।
कथं कर्मणि सर्वज्ञो मनो दध्याद्धसन्नपि ।। १३५ ।।
सम्यग्धीमृदिताशेषध्वान्तस्य च न पूर्ववत् ।।
अज्ञानादि पुनः कर्तुं शक्यतेऽकारकत्वतः ।। १३६ ।।
श्रुत्यादिमानप्रमितयाथात्म्यज्ञानतत्फलः।।
प्रतिकूलत्वतो विद्वान्यतः कर्मसु नेहते ।। १३७ ।।
अतोऽज्ञस्यैव निःशेषमुमुक्षुप्रजिहासितः ।।
कर्त्राद्यनात्मधर्मस्य कर्माधिकृतिरात्मनः ।। १३८ ।।
विद्यात्ममोहतत्कार्यविरोधाच्च परस्परम् ।।
रोगादिवदनर्थत्वात्कत्रीदिः प्रजिहासितः ।। १३९ ।।
जिहासितुः स्वभावोऽसावित्युक्तिः शिशुवक्तृका ।।
कर्त्रादिश्चेत्स्वभावः स्यात्प्रत्यक्षाकर्तृरूपिणः ।। १४० ।।
प्रत्यक्षादिविरोधः स्यादनिर्मोक्षस्तथैव च ।।
अस्तु काममनिर्मोक्षो विक्रियावत्त्वतो दृशेः।। १४१ ।।
अग्निवत्फलभोक्तृत्वान्नो चेदाकाशकल्पता ।।
इति चेन्नाऽऽत्मनो ध्रौव्याद्विक्रियानुपपत्तितः।। १४२ ।।
मूर्तामू्र्तत्वहीनस्य प्रतीचो विक्रिया कुतः।।
प्रमायोगो हि भोक्तृत्वं प्रमा चैवाऽऽत्मनः सदा ।। १४३ ।।
वाय्वग्निवद्विकारो न प्रागभावाद्यसंभवात् ।।
अग्नयादीनां तु सांशत्वाद्वलवद्भिस्तदिन्धनैः ।। १४४ ।।
अभिभूतस्वरूपाणां काष्ठनिर्मथनादिना ।।
युक्तैवाऽऽबिष्कृतिर्नित्यं तेषां कार्यात्मकत्वतः ।। १४५ ।।
न त्वात्मनो निरंशत्वान्मुख्यै संभवतः क्कचित् ।।
अविर्भावतिरोभावौ स्वतःसिद्धेश्च कारणात् ।। १४६ ।।
अभ्युपेताऽप्यभिव्यक्तिर्नाभिव्यङ्ग्यस्य विक्रिया ।।
यथा तथाऽनभिव्यक्तिः सर्वेषामपि वादिनाम् ।। १४७ ।।
अतोऽनभ्युपगच्छद्भिर्मुक्तौ कर्त्रादिरात्मनः।।
अविद्याकल्पितो ज्ञेयो न ह्यसौ परमार्थतः ।। १४८ ।।
कर्त्राद्यात्मस्वभावस्य प्रात्यक्ष्यान्न तदान्मनि ।। १४९ ।।
मात्रादिबोधकं मानं प्रत्यगात्मनि साक्षिणि ।।
न व्यापारयितुं शक्यं वह्रि दग्धुमिवोल्मुकम् ।। १५० ।।
साक्षिसाक्ष्याभिसंबन्धः प्रमात्रादौ यथा तथा ।।
साक्षिवस्तुनि नैव स्यात्केवलानुभवात्मनि ।। १४१ ।।
परार्थसंहतानात्मभोग्यकर्त्रादिबोधिना ।।
विरोधात्तद्विरुद्धोऽर्थः प्रत्ययेनेक्ष्यते कथम् ।। १५२ ।।
इच्छाद्वेषादिरप्येवं नाऽऽत्मनो धर्म इष्यताम् ।।
कामः संकल्प इत्येवं मनोधर्मत्वसंश्रवात् ।। १५३ ।।
स्वपरोभयहेतुत्वे ह्यनिर्मोक्षप्रसङ्गतः ।।
सम्यग्निरूपणे चैषामविद्याकार्यतैव हि ।। १५४ ।।
इच्छादीनां स्वहेतुत्वेऽनर्थं कुर्यात्कथं स्वयम् ।।
आत्मा जानन्यथा शत्रोरात्मनोऽतो न युज्यते ।। १५५ ।।
तथा परनिमित्तत्वेऽनर्थस्यापरिहारतः ।।
नैकान्तिकफलत्वं स्याद्रोगादिपरिहरवत् ।। १५६ ।।
करणैः संहतिं चर्ते परिहारः कुतो दृशेः।।
तथोभयनिमित्तत्वे नैकान्तिकफलोदयः ।। १५७ ।।
पराभिप्रायानियमान्नैव स्यान्मोक्षनिश्चितिः।
निर्हेत्वविद्याकृप्तौ तु दोषः कश्चिन्न विद्यते ।। १५८ ।।
तद्वर्जनस्य संसिद्धेः प्रसिद्धोपायसंश्रयात् ।।
परागर्थप्रमेयेषु या फलत्वेन संमता ।।
संवित्सैवेह मेयोऽर्थो वेदान्तोक्तिप्रमाणतः।। १५९ ।।
अप्रामाण्यप्रसक्तिश्च स्यादितोऽन्यार्थकल्पने ।।
वेदान्तानामतस्तस्मान्नान्यमर्थं प्रकल्पयेत् ।। १६० ।।
नन्वेवमपि मानत्वव्याघातः स्यात्क्रियाविधेः।।
वेदान्तेष्वप्यनाश्वासस्तथा च प्रसजेद्ध्रुवम् ।। १६१ ।।
नैतदेवं यतोऽशेषमानानामपि मानता ।।
आ परात्मावबोधात्स्यात्तत्र सर्वसमाप्तितः।। १६२ ।।
नातोऽवतारो मानानामैकात्म्येनैव संक्षयात् ।।
श्येनादिविधिबाधः स्यादहिंसाविधिना यथा ।। १६३ ।।
कर्माण्यतो विधीयन्तेऽविद्यावन्तं नरं प्रति ।।
न तु विध्वस्तसकलकर्महेतुं द्विजं प्रति ।। १६४ ।।
सर्वकर्मनिरासेऽतो ह्यधिकारो विवेकिनः।।
यथोक्तन्यायतः सिद्धो न तु कर्मसु कर्हिचित् ।। १६५ ।।
कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते ।।
शुद्धे वस्तुनि सिद्धे च कारकव्यापृतिस्तथा ।। १६६ ।।
कारकाकारकधियोर्नैकदैकत्र वस्तुनि ।।
विरोधात्संभवोऽस्तीह प्रकाशतमसोरिव ।। १६७ ।।
अविरोधः क्रमेण स्यात्स्थिगत्योरिवेति चेत् ।।
नाऽऽत्मज्ञानस्य कूटस्थवस्तुतत्रत्वहेतुतः ।। १६८ ।।
नौष्ण्यात्मको मितो वह्रिः क्रमशोऽक्रमशोऽथ वा ।।
वस्तुतः शीततामेति, कर्तृतत्रं तथा भवेत् ।। १६९ ।।
भेदाभेदात्मकात्वाच्चेदेकस्यापीह वस्तुनः।।
अविरोधो, न तन्न्याय्यं त्वदुक्तार्थविरोधतः।। १७० ।।
नानेकस्यैकता न्याय्या तथैकस्याप्यनेकता ।।
वस्तुतत्रत्वतो बुद्धेर्न चेदेवं मृषा मतिः ।। १७१ ।।
यथा चास्य विरुद्धत्वं तथोदर्के प्रवक्ष्यते ।।
ऐकात्म्यस्यैव मेयत्वं तस्यैवाप्रतिबोधतः ।। १७२ ।।
वस्तूनीह प्रमीयन्ते व्यावृत्तानि परस्परम् ।।
अभावेन प्रमाणेन तेनोक्तं ते विरुध्यते ।। १७३ ।।
भेदे वा यदि वाऽभेदे संसृतेर्ब्रह्मणा सह ।।
ब्रह्मणोऽब्रह्मता तद्वद्विद्यानर्थक्यसंशते ।। १७४ ।।
ब्रह्माविद्यावदिष्टं चेन्ननु दोषो महानयम् ।।
निरविद्ये च, विद्याया आनर्थक्यं प्रसज्यते ।। १७५ ।।
नाविद्याऽस्येत्यविद्यायामेवाऽऽसित्वा प्रकल्प्यते ।।
ब्रह्मटृष्ट्या त्वविद्येयं न कथंचन युज्यते ।। १७६ ।।
यतोऽनुभवतोऽविद्या ब्रह्मास्मीत्यनुभूतिवत् ।।
अतो मानोत्थविज्ञानध्वस्ता साऽप्येत्यथाऽऽत्मताम् ।। १७७ ।।
ब्रह्मण्यविदिते वोधान्नाविद्येत्युपपद्यते ।।
नितरां चापि विज्ञाते मृषाधीर्नास्त्यबाधिता ।। १७८ ।।
अविद्यावानविद्यां तां न निरूपयितुं क्षमः।।
वस्तुवृत्तमतोऽपेक्ष्य नाविद्येति निरूप्यते ।। १७९ ।।
वस्तुनोऽन्यत्र मानानां व्यापृतिर्न हि युज्यते ।।
अविद्या च न वस्त्वष्टं मानाघातासहिष्णुतः ।। १८० ।।
अविद्याया अविद्यात्व इदमेव तु लक्षणम् ।।
मानाघातासहिष्णुत्वमसाधारणमिष्यते ।। १८१ ।।
त्वत्पक्षे बहु कल्प्यं स्यात्सर्वं मानविरोधि च ।।
कल्प्याऽविद्यैव मत्पक्षे सा चानुभवसंश्रया ।। १८२ ।।
तत्त्वमस्यादिवाक्योत्थसम्यग्धीजन्ममात्रतः।।
अविद्या सह कार्येण नाऽऽसीदस्ति भविष्यति ।। १८३ ।।
अतः प्रमाणतोऽशक्याऽविद्याऽस्येति निरीक्षितुम् ।।
कीद्दशी वा कुतो वाऽसावनुभूत्येकरूपतः ।। १८४ ।।
देवताद्रव्यकर्त्रादि ननु वस्त्वस्तु नाद्वयम् ।।
सर्वलोकप्रसिद्धत्वादद्वयस्याप्यसिद्धितः ।। १८५ ।।
नैतत्साधु, प्रमाणानां सर्वलोकाभिधं न हि ।।
प्रमाणमस्ति यत्प्राणाद्भवानेवं प्रभाषते ।। १८६ ।।
अभिमानश्च यत्रायं सर्वलोकास्य गम्यते ।।
प्रत्यक्षोऽर्थोऽयमित्येवं मिथ्यात्वं तस्य चोदितम् ।। १८७ ।।
प्रत्यक्षं च यथाऽऽसन्नं परोक्षाद्वस्तुनो मतम् ।।
सर्वप्रत्यक्तमस्तद्वद्बोधो वाक्योत्थ आत्मनि ।। १८८ ।।
आत्मानुभवमाश्रित्य प्रत्यक्षादि प्रसिध्यति ।।
अनुभूतेः स्वतः सिद्धेः काऽपेक्षा ह्यात्मसिद्धये ।। १८९ ।।
आत्मानुभवपूर्वत्वात्प्रत्यक्षत्वस्य न स्वतः।।
आत्मैकगम्यमैकात्म्यं वेदान्तेष्ववगम्यते ।। १९० ।।
यच्चाप्युक्तं श्रुतिस्मृत्योः क्रियाया एव सिद्धितः ।।
अतः क्रियातिरेकेण नास्त्यन्यन्मुक्तिसाधनम् ।। १९१ ।।
केन चोक्तं क्रिया मुक्तेः साधनत्वं न गच्छति ।।
तमेतामिति नाश्रौषीः संस्कारा इति च स्मृतिम् ।। १९२ ।।
यद्यप्यैकात्म्यधीः साक्षाच्छ्रुतिस्मृत्योर्न चोद्यते ।।
तथाऽप्यसौ न तद्बाह्या ताभ्यामेवाऽऽत्मबोधनात् ।। १९३ ।।
यच्च न ज्ञाप्यते वेदे वस्त्वित्येतदचूचुदः।।
तच्चापहस्तितं चोद्यं वक्ष्यते च निराकृतिः।। १९४ ।।
विधावसति वाक्यस्य यच्चावोचोऽप्रमाणताम् ।।
स्फृटन्यायोक्तिभिस्तच्च यत्नात्परिहरिष्यति ।। १९५ ।।
यच्चोक्तं न पुमर्थोऽस्ति वस्तुमात्रावबोधनात् ।।
आख्यानप्रचुरा यस्मात्रय्यन्ता इह लक्षिताः ।। १९६ ।।
रामो राजा बभूवेति न ह्येतावत्प्रबोधतः।।
संभाव्यते पुमर्थोऽतो विध्यर्थविरहात्कचित् ।। १९७ ।।
परार्थतैव सर्वत्र ज्ञानस्येहोपलक्ष्यते ।।
ज्ञात्वाऽनुष्टानवचनाद्विद्वान्यजत इत्यपि ।। १९८ ।।
उक्तोऽत्र परिहारः प्रागूर्ध्वं चापि प्रवक्ष्यते ।।
विद्याफलस्य प्रात्यक्ष्यादितिहेतुसमाश्रयात् ।। १९९ ।।
ननु निर्धूतशोकादि फलं यच्छ्रूयते श्रुतौ ।।
आत्मस्तुतिरसौ तस्मात्त्वन्मनोरथकल्पितम् ।। २०० ।।
अत्रोच्यते ह्यभिप्रेतं गम्यमानं प्रमाणतः ।। २०१ ।।
फलं तत्संपरित्यज्य कस्माल्लक्षणया स्तुतिम् ।।
अश्रुतामनभिप्रेतां कल्पयस्यबुधो यथा ।। २०२ ।।
न चास्त्येकविपयत्वं प्रत्यक्षवचसोर्यतः ।।
श्रुत्यैव परिहारोक्तेः स्वप्नादिस्थानसंचरात् ।। २०३ ।।
वहुशोऽसङ्गवचसा निःसङ्गत्वं ब्रुवाणया ।।
मनोराज्यसमं मन्ये सर्वमेतत्त्वयोदितम् ।। २०४ ।।
न प्रत्येमि यतः साक्षात्प्रत्यक्षं ज्ञानतः फलम् ।।
श्रुतादपि न चेद्वाक्याज्जायेत फलवन्मतिः।।
आशङ्क्येत तदैवैतद्यदेतद्भवतोदितम् ।। २०५ ।।
नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः ।।
वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ।। २०६ ।।
अन्वयव्यतिरेकाभ्यां पदार्थः स्मर्यते ध्रुवम् ।।
एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ।। २०७ ।।
सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् ।।
दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ।। २०८ ।।
अमात्वाशङ्कासद्भावान्मान्तरैश्चाविरोधतः ।।
वक्ष्यत्येतच्च यत्नेन लोकसिद्धोपपत्तिभिः ।। २०९ ।।
चतुष्पान्मानिरासेन साक्षाज्ज्ञानफलं ततः ।। २१० ।।
नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा ।।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ।। २११ ।।
अपविद्धद्वयोऽप्येवं तत्त्वमित्यादिना विना ।।
वेत्ति नैकलमात्मानं प्रत्यड्भोहाप्रबोधतः।। २१२ ।।
वुभुत्सोच्छेदिनैवास्य सदसीत्यादिना टृढा ।।
प्रतीचि प्रतिपत्तिः स्यात्प्रत्यगज्ञानबाधया ।। २१३ ।।
निःशेषकर्मसंन्यासो वाक्यर्थज्ञानजन्मने ।।
तस्याऽऽरादुपकारित्वात्सहायत्वाय केल्प्यते ।। २१४ ।।
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। २१५ ।।
शान्तो दान्त इति तथा सर्वत्यागपुरःसरम् ।।
उपायमात्मविज्ञाने श्रुतिरेवाब्रवीत्स्वयम् ।। २१६ ।।
प्रवृत्तिलक्षणो योगो ज्ञानं संन्यासलक्षणम् ।।
तस्माज्ज्ञानं पुरस्कृत्य संन्यसेदिह बुद्धिमान् ।। २१७ ।।
मुक्तेश्च विभ्यतो देवा मोहेनापिदधुर्नरान् ।।
ततस्ते कर्मसूद्युक्ताः प्रावर्तन्ताविचक्षणाः ।। २१८ ।।
अतः संन्यस्य कर्माणि सर्वाण्यात्मावबोधतः ।।
हत्वाऽविद्यां धियैवेयात्तद्विष्णोः परमं पदम् ।। २१९ ।।
इति भाल्लविशाखायां श्रुतिवाक्यमधीयते ।।
सर्वकर्मनिरासेन तस्मादात्मधियो जनिः ।। २२० ।।
सत्यानृते इति तथा सर्वसंन्यासपूर्वकम् ।।
आत्मनोऽन्वेषणं साक्षादापस्तम्बोऽब्रवीन्मुनिः ।। २२१ ।।
``नाविरतो दुश्चरितान्नाशान्तो नासमाहितः ।।
नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् '' ।। २२२ ।।
वेदानुवचनादीनां विनियोगोक्तियत्नतः।।
भिन्नाधिकारितालिङ्गं कर्मविज्ञानकाण्डयोः ।। २२३ ।।
ज्ञानोत्पत्त्यादिकाल्लिङ्गाद्यतस्तद्धेतुमात्रकम् ।।
गम्यते न विशेषोऽतः कर्मैवेति न गम्यते ।। २२४ ।।
मुण्डोऽपरिग्रहोऽसङ्गो बहिरन्तःशुचिः सदा ।।
ब्रह्मभूयाय भवति परिव्राडिति च श्रुतिः ।। २२५ ।।
इत्यादिश्रुतिवाक्यानि स्मृतिभिः सह कोटिशः ।।
ज्ञानाय विदधत्युच्चैः संन्यासं सर्वकर्मणाम् ।। २२६ ।।
यच्चाभाणि विना कार्यं नाधिकारो निरूप्यते ।।
दोषोऽयमपि नैव स्याज्ज्ञानोपाये यथोदिते ।। २२७ ।।
विधिमार्गेऽधिकारस्य परीक्षा वेर्तते यतः ।।
फलभूते तु विज्ञाने नाधिकारो निरूप्यते ।। २२८ ।।
अधिकारविचारो हि नृतन्त्रे वस्तुनीष्यते ।।
वस्तुतन्त्रे न युक्तोऽसौ स्वयं चैव पुमर्थतः ।। २२९ ।।
अनात्मनि प्रमेयेऽर्थे या फलत्वेन संमता ।।
प्रमेया सैव वेदान्तेष्वनुभूतिरिहाऽऽत्मनः ।। २३० ।।
विज्ञानमानन्दमिति ह्यात्मैवेति श्रुतेस्तथा ।।
पुमर्थस्यैव मेयत्वं मातृत्वाद्यनपेक्षिणः ।। २३१ ।।
तज्ज्ञानं यस्य संजातं जातमेवास्य नान्यथा ।।
कुक्षिस्थस्यापि हि सतो वामदेवस्य तद्यथा ।। २३२ ।।
तच्चाविद्यानिरास्येव व्याधभावनयाऽञ्जितः ।।
राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते ।। २३३ ।।
यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः ।।
लब्धैकात्म्यस्मृतेर्व्येति सर्वाऽविद्या सकार्यका ।। २३४ ।।
यत एवमतो नात्र विधिः कल्प्यः कथंचन ।।
अनर्थकः कल्पितोऽपि तस्येहानुपयोगतः ।। २३५ ।।
उत्पत्तिराप्तिः संस्कारो विकारश्च विधेः फलम् ।।
मुक्तिर्विलक्षणैतेभ्यस्तेनेहानर्थको विधिः ।। २३६ ।।
अनन्यायत्तसंसिद्धेर्निरविद्यात्मवस्तुनः ।।
न क्रियात्वं फलत्वं वा नापि कारकरूपता ।। २३७ ।।
अतोऽत्र विध्यभावोऽयं न कथंचन दूषणम् ।।
अलंकृतिरियं साध्वी वेदान्तेषु प्रशस्यते ।। २३८ ।।
चोदनाभिर्नियुक्तोऽहं तथा ब्रह्महमित्यपि ।।
परस्परविरुद्धत्वादेकदैकत्र न द्वयम् ।। २३९ ।।
स्वामी सन्न हि भृत्येन स्वामिनेव नियुज्यते ।।
संबोधनीय एवासौ सुप्तो राजेव बन्दिभिः ।। २४० ।।
चोदनालक्षणत्वादि धर्मं प्रत्येव गृह्यताम् ।।
धर्मस्यैव प्रतिज्ञोक्तेर्न तु ब्रह्म प्रतीष्यते ।। २४१ ।।
अथातो धर्मइत्युक्तेश्चोदनालक्षणोक्तितः ।।
तद्भूतानां क्रियार्थेन ह्याम्नायस्य क्रियार्थतः ।। २४२ ।।
भावार्थाः कर्मशब्दा ये प्रतीयेत क्रिया ततः ।।
इत्येवं नरतन्त्रेऽर्थे ज्ञेया द्वादशलक्षणी ।। २४३ ।।
वेदान्तार्थापवादाय नालं साऽतत्प्रमाणतः ।।
मानं नालं निराकर्तुं वस्तु यन्मान्तरैर्मितम् ।। २४४ ।।
स्वमेयमात्रशूरत्वान्मितेर्नान्यत्र मानता ।।
अथातो ब्रह्मजिज्ञासा इत्याद्युक्तं नयान्वितम् ।। २४५ ।।
मीमांसान्यायवत्त्वाभ्यां धर्ममीमांसनोक्तिवत् ।।
एवं सत्यनुकूलार्थं तत्त्वमित्यादिकं वचः ।। २४६ ।।
सर्ववेदान्तविषयमन्यथा तद्विरुध्यते ।। २४७ ।।
न तत्र करणापेक्षा नेतिकर्तव्यता तथा ।।
यत्र यत्राऽऽत्मभावेन श्रुत्या ब्रह्मावबोध्यते ।। २४८ ।।
इतिकर्तव्यतादानं करणादानमेव च ।।
तत्र तत्र विधिः स्थाने प्रहितस्य फलेच्छया ।। २४९ ।।
आप्ताशेषपुमर्थत्वात्त्यक्तानर्थस्य च स्वतः ।।
अनात्मनीव नेच्छेयं कथंचित्स्यादिहाऽऽत्मनि ।।
तन्निवृत्तौ निवर्तेते इतिकर्तव्यसाधने ।। २५० ।।
निरन्तरायतोऽशेषपुमर्थस्याऽऽत्मरूपतः ।।
न चांशत्रयशून्येह भावनेष्टा परीक्षकैः ।। २५१ ।।
भावनातो न चान्यत्र विधिरभ्युपगम्यते ।।
मोहमात्रान्तरायायां मुक्तावस्तु यथोदितम् ।। २५२ ।।
एकदेशो विकारो वा संसारी त्वात्मनो यदा ।।
किं तदाऽप्युक्तमार्गेण मुक्तिः किंवा क्रियाश्रयात् ।। २५३ ।।
निवृत्तावेव निःशेपसंसारस्य तदाऽपि तु।।
आगन्तोरधिकारः स्यान्न प्रवृत्तौ कथंचन ।। २५४ ।।
आत्माज्ञाननिमित्तस्य ह्यन्यत्वानुपपत्तितः ।।
तदाऽप्यविद्याविध्वस्तावधिकारो न कर्मणि ।। २५५ ।।
कर्तव्याभावतेस्त्वेवं विकारेऽपि न कर्मणि ।।
कारणैकत्वसंपत्तेः स्वतःसिद्धत्वहेतुतः ।। २५६ ।।
मृदापत्तिर्घटस्येव विकारस्याऽऽत्मनो ध्रुवम् ।।
अविकारात्मसंपत्तिः सा च तत्त्वावबोधतः ।। २५७ ।।
कार्यकारणयोर्भित्तौ कार्यकारणता कुतः।।
अभित्तौ च तयोरैक्यात्कार्यकारणता कुतः ।। २५८ ।।
विज्ञानात्मविकारस्य कारणैक्यं विमुक्तता ।। २५९ ।।
स्वतस्तस्य च संसिद्धेः कार्यता नोपपद्यते ।।
कर्मानोऽनर्थकं मुक्तावेकदेशविकारयोः ।। २६० ।।
अप्यनर्थाय कर्म स्यात्क्रियमाणं न मुक्तये ।।
प्रतिकूलं विमुक्तेश्चं क्रियमाणमसंशयम् ।।
कर्माऽऽरभेत तेनैतन्मुक्तौ कर्म निरर्थकम् ।। २६१ ।।
विकारोऽत्यान्तेनिर्भिन्नो यदा तु स्याद्विकारिणः ।।
तदाऽपि विकृतेर्नाशो मुक्तिरित्यभिधीयते ।। २६२ ।।
अत्राप्यनर्थकं कर्म तत्फलासंभवत्वतः ।।
कर्मेण ज्ञानमप्यत्र फलाभावादनर्थकम् ।। २६३ ।।
नैवाविद्याकृतैवासौ वास्तवी यदि संसृतिः ।।
स्वरूपनाशदोषः स्यादेकदेशेऽपि पूर्ववत् ।। २६४ ।।
यदा त्वविद्ययाऽध्यस्तं संसारित्वं न वस्तुतः ।। २६५ ।।
विकारेऽवयवे चैव तदा पूर्वोक्त एव तु ।।
पक्षो निर्वहणीयः स्यादस्माभिरपि संमतः ।। २६६ ।।
सर्ववादाविरोधी च नातो विधिरिहेष्यते ।।
तदा हि कल्पनाः सर्वा विकारावयवादिकाः ।।
तृथैवेमा ह्यविद्यैव सर्वाः संपादयिष्यति ।। २६७ ।।
पूर्णं निःश्रेयसं तस्मात्तदपूर्णमविद्यया ।। २६८ ।।
आभासते मृषैवातो यथाभूतात्मविद्यया ।।
प्रध्वस्तायामविद्यायां पूर्णमेवावशिप्यते ।। २६९ ।।
अनर्थको विधिस्तस्मात्सर्वो निःश्रेयसं प्रति ।।
इत्येतन्न्यायतः सिद्धं यत्तु प्राक्चोदितं त्वया ।।
आम्नायस्य क्रियार्थत्वादित्यत्राप्यभिधीयते ।। २७० ।।
तत्राऽऽम्नायाभिधानस्य ह्याम्नायांशाभिधानतः ।।
विध्युक्तीनां क्रियार्थत्वं सिद्धं हेतुतयोच्यते ।। २७१ ।।
क्रियाप्रकरणस्थानां विधिशेषात्मनां सताम् ।।
वचसामक्रियार्थानामानर्थक्याय तद्वचः ।। २७२ ।।
न तूपनिषदां न्याप्यं पार्थनर्थ्यस्य संभवात् ।।
पूर्वोक्तेनैव न्यायेन नातस्तद्विधिशेषता ।। २७३ ।।
विधिना त्वेकवाक्यत्वादिति यच्चापि चोदितम् ।।
तेषामेव तदप्यस्तु तदानर्थक्यचोदनात् ।। २७४ ।।
न तु वेदान्तवचसां दृष्टार्थत्वेन हेतुना ।।
तद्बुद्धेः पृथगर्थत्वमुक्तमेवातिविस्तरात् ।। २७५ ।।
अन्यार्थानुपपत्तेश्च वेदान्तवचसां तथा ।।
अर्थैकत्वगतौ सत्यां वाक्यभेदप्रकल्पना ।।
न न्याय्या सेति दृष्टत्वाद्देवस्य त्वादिवाक्यवत् ।। २७६ ।।
तथैव पृथगर्थत्वगतौ भिन्नवचस्त्वतः ।।
इषे त्वादिषु दृष्टत्वान्न न्याय्यैकार्थकल्पना ।। २७७ ।।
ज्ञानकाण्डार्थशेषत्वं कर्मकण्डस्य यत्पुनः ।।
विनियोजकहेत्वेतत्तयोर्वाक्यैकवाक्यतः ।। २७८ ।।
न्यायेन वक्ष्यमाणेन भूयोऽप्येतत्प्रवक्ष्यते ।। २७९ ।।
पार्थगर्थ्यमतः सिद्धमपास्तविधिलक्षणम् ।।
सर्वोपनिषदां चाऽऽत्मज्ञानं कैवल्यसाधनम् ।। २८० ।।
निःशेषवाङ्भनःकायप्रवृत्त्युपरमात्मिका ।।
तन्निष्ठा चेह विज्ञेया यथोक्तन्यायवर्त्मना ।। २८१ ।।
अधिकारोऽपि तस्यां च सिद्धोऽशेषक्रियात्यजः।।
जिज्ञासोरेव, कर्तुस्तु न सिषाधयिषोः सदा ।। २८२ ।।
ब्रह्मात्मतत्त्वव्युत्पत्तिमात्रेणाप्यधिकारिता ।।
भवत्येवात्र जिज्ञासोरज्ञस्यापि मुमुक्षुतः ।। २८३ ।।
मैवं प्रक्रमसंहारपर्यालोचनया पुरा ।।
वेदस्यैकार्थ्यतात्पर्यमेकवाक्यतयोदितम् ।। २८४ ।।
तेन निःशेषवेदोक्तकारिणोऽत्राधिकारिता ।।
सिद्धे ह्यनेकवाक्यत्वे कल्प्या भिन्नाधिकारिता ।। २८५ ।।
मैवं भिन्नैकवाक्यत्वे प्रागस्माभिः समर्थिते ।।
ततश्च भवदुक्तस्य चोद्यस्येह न संभवः।। २८६ ।।
नापि निःशेषवेदार्थमनुष्ठातुं क्षमो नरः ।।
पुमायुषाऽपि येन स्यादात्मज्ञानेऽधिकारिता ।। २८७ ।।
संपदां चार्थवादत्वं तेन वेदान्तगोचरे ।।
ज्ञानेऽधिकारिणोऽभावात्प्रामाण्यं क्षिप्यते स्वतः ।। २८८ ।।
किंच मानादविज्ञाता विमुक्तिः काम्यते न च ।।
ज्ञातायां स्वात्मरूपत्वात्सुतरां नास्ति कामना ।। २८९ ।।
न युक्तं कामना मुक्तौ पुंसां नास्तीति भाषितुम् ।।
देशकालानवच्छिन्नसुखाद्यर्थित्वदर्शनात् ।। २९० ।।
किंच ज्ञानमदृष्टार्थमग्निहोत्रादिवद्यदि ।।
ततोऽधिकारिचिन्ता स्यात्कृतेऽप्यफलशङ्क्या ।। २९१ ।।
कामिनाऽप्यग्निहोत्रादि शूद्रेणानधिकारिणा ।।
कृतमप्यफलं तेन यत्नात्तत्र निरूप्यते ।। २९२ ।।
अविद्याघस्मरज्ञानजन्ममात्रावलम्बिनः।।
पुमर्थस्याधिकं शास्त्रात्किंचिदत्र तु नार्थ्यते ।। २९३ ।।
कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् ।।
असावपि च भूतो वा भावी वा वर्ततेऽथवा ।। २९४ ।।
अधीतवेदवेदार्थोऽप्यत एव न मुच्यते ।।
हिरण्यनिधिदृष्टान्तादिदमेव च दर्शितम् ।। २९५ ।।
भिद्यते हृदयग्रन्थिद्रिछद्यन्ते सर्वसंशयाः।।
क्षीयन्ते चास्य कर्मणि तस्मिन्दृष्टे परावरे ।। २९६ ।।
इत्यादिनाऽपि विज्ञानं नादृष्टार्थमितीरितम् ।।
तथा स ब्रह्मणः केन स्याद्येनेति प्रदर्शितम् ।। २९७ ।।
आत्यान्तिकसुरवानर्थप्राप्तिविच्छेकाङ्क्षिणः ।।
प्रीत्युत्कर्षोऽपि लोकेऽस्मिन्दृष्टाः स किं न काम्यते ।। २९८ ।।
दृष्टादृष्टार्थसंवन्धिप्रीत्युत्कर्षाविशेषतः।।
नाऽऽनन्दादन्यतो मुख्यात्पण्डितः पर्यवस्यति ।। २९९ ।।
किंतु साधनसाध्यत्वादनित्यं कर्मजं सुखम् ।।
अभिव्यञ्जकतत्रस्तु मोक्षस्तेनाक्षयो मतः ।। ३०० ।।
संस्कारमात्रकारित्वं सर्वेषामपि कर्मणाम् ।।
ज्ञानकाण्डे प्रवेशो वा तेषां नार्थान्तरं ततः ।। ३०१ ।।
एवमत्रैकवाक्यत्वं नानुष्ठेयसमाप्तितः ।। ३०२ ।।
असारफलसंप्राप्तिः पुमर्थो नेष्यते यतः।।
तृष्णया साधयन्प्रीतिं न प्रीतिलवमिच्छति ।। ३०३ ।।
प्रीतेः श्रुतः प्रकर्षोऽपि स्वर्गस्वाराज्यभेदतः ।।
नापि प्रीतेरियत्तायाः स्वर्गशब्दोऽस्ति वाचकः ।। ३०४ ।।
न चाजानन्स्वसाध्यार्थं विद्वान्कश्चित्प्रवर्तते ।।
प्रीतिर्या काचिदिष्टा चेत्स्वर्गशब्देन भण्यते ।। ३०५ ।।
चित्राग्निष्टोमयागादेः पश्वादिफलसंकरः ।।
विशेषो वाञ्छितश्चेत्स्यात्पुत्रपश्वाद्युपाधितः ।। ३०६ ।।
न तावत्संभवेत्स्वर्गो ज्ञातोपाधिवियोगतः ।।
मुक्तौ काम्यफलेऽभीष्टे सकृत्करण एव च ।।
अनवच्छिन्नरूपायाः प्रीतेराप्तौ कृतार्थता ।। ३०७ ।।
प्लवा ह्येते परीक्ष्येति तथा तद्य इहेति च ।।
कर्मभ्यो निर्वृतिर्नास्तीत्यादिवाक्यैः प्रदर्शितम् ।। ३०८ ।।
प्रत्यक्षश्रुतिविध्यन्तविहितानामकारणात् ।।
त्यागोऽतिसाहसं मन्ये ननु यागादिकर्मणाम् ।। ३०९ ।।
प्रत्यक्षोपनिषद्वाक्यविहितायास्ततोऽपि तु ।।
ऐकात्म्यज्ञाननिष्ठायास्त्यागोऽतीव हि साहसम् ।। ३१० ।।
विचार्यमाणे यत्नेन त्वधिकारे यथाश्रुति ।। ३११ ।।
न किंचित्साहसं त्वत्र प्रत्यक्षश्रुतिवाक्यतः ।।
अधिकारविभागस्य प्रसिद्धेरेव कारणात् ।। ३१२ ।।
तस्मात्सिद्धोऽधिकारोऽत्र ब्रह्मरूपं विविक्षिताम् ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति भाष्यकृत् ।।
प्रतिज्ञायापि संबन्धं कस्मात्तन्नोक्तवान्स्फुटम् ।। ३१३ ।।
अभिधीयत इत्यादिवचसाऽपि स नोच्यते ।।
सिद्धे वस्तुनि वेदस्य मानत्वं तेन भण्यते ।।। ३१४ ।।
वेदान्तोक्तेः प्रमाणत्वे सति संबन्ध उच्यते ।।
प्रामाण्यायैव तेनाऽऽदौ सर्वोऽपीत्यादि भण्यते ।। ३१५ ।।
आक्षिप्यते वा संबन्धः संवन्धो नाभिधीयते ।।
सप्तम्यन्तपदच्छेदात्कथं चेदिति भण्यते ।। ३१६ ।।
भिन्नार्थयोर्न संबन्धो ह्यन्योन्यार्थानपेक्षतः ।।
ऐकार्थ्ये चैकवाक्यत्वात्कर्मविज्ञानकाण्डयोः ।। ३१७ ।।
तथा तयोरमानत्वे संबन्धोक्तिर्न युज्यते ।।
द्वयोरेकस्य वा मात्वे न संबन्धादि शस्यते ।। ३१८ ।।
श्रुत्यैव तस्य चोक्तत्वात्तमेतमिति यत्नतः।।
इति चेतसि संधाय संबन्धं नोक्तवान्गुरुः ।। ३१९ ।।
प्रसाध्य वा प्रमाणत्वं वेदान्तानां प्रयत्नतः ।।
संबन्धं कर्मकाण्डेन पश्चात्सम्यक्प्रवक्ष्यते ।। ३२० ।।
वेदानुवचनादीनामैकात्म्यज्ञानजन्मने ।।
तमेतमिति वाक्येन नित्यानां वक्ष्यते विधिः।। ३२१ ।।
यद्वा विविदिपार्थत्वं सर्वेपामपि कर्मणाम् ।।
तमेतमिति। वाक्येन संयोगस्य पृथक्त्वतः ।। ३२२ ।।
लोकतः सिद्धमादाय पशुव्रीह्यादिसाधनम् ।।
इदं कार्यमिदं नेति कर्मकाण्डश्रुतेर्गतिः ।। ३२३ ।।
मानान्तरेण संप्राप्तां साध्यसाधनसंगतिम् ।।
कर्मशास्रं व्यनक्तीति न तु वस्त्ववबोधकृत् ।। ३२४ ।।
वेदो हि सर्व एवायमैकात्म्यज्ञानसिद्धये ।।
अतो नान्याोऽभिसंबन्धः कर्मविज्ञानकाण्डयोः ।। ३२५ ।।
नित्यनैमित्तिकानीह कर्तृसंस्कारतो यतः।।
नान्यत्र पर्यवस्यन्ति ज्ञानादैकात्म्यगोचरात् ।। ३२६ ।।
``प्लवां ह्येते'' ``परीक्ष्येति'' तथा ``तद्य इहेति'' च ।।
निन्दाश्रुतेर्न काम्यानां कार्यताऽध्यवसीयते ।। ३२७ ।।
विधिनिन्दासमावेशो नैवमप्युपपद्यते ।।
फलाभिसंधिमात्रे तु निन्दायामेव युज्यते ।। ३२८ ।।
उपासनं च यत्किंचिद्विद्याप्रकरणे श्रुतम् ।।
तदप्यैकात्म्यविज्ञानयोग्यत्वायैव कल्प्यते ।। ३२९ ।।
विमुच्यमान इत्युक्तेरर्चिराद्युक्तितस्तथा ।।
स्वार्थमात्रावसायित्वं नोपास्तीनां प्रतीयते ।। ३३० ।।
इत्येवमभिसंबन्धः कर्मकाण्डस्य युज्यते ।।
इतोऽन्यथाऽभिसंबन्धे न किंचिन्मानमीक्ष्यते ।। ३३१ ।।
न चोद्गीथादिविषयज्ञानवत्कर्मसंगतिः ।।
ऐकात्म्यबुद्धेस्तद्वुद्धिद्वारं नैव निरीक्ष्यते ।। ३३२ ।।
श्रुत्या नैकात्म्यविज्ञानं विनियुक्तं श्रुतौ क्कचित् ।।
उपस्थानं यथैन्द्र्या स्यान्नापि लिङ्गेन संगतिः ।।
बर्हिर्देवसदनं दामीत्यादौ च यथा तथा ।।। ३३३ ।।
न चापि वाक्याद्विज्ञानं कर्तृद्वारेण गच्छति ।।
कर्मण्यप्रक्रियास्थं सज्जुहूपर्णमयीत्ववत् ।। ३३४ ।।
डुह्वाद्याकृतिसंपत्तिव्यपेक्षापूरणक्षमम् ।।
विशेत्पर्णमयीत्वादि प्रकृत्युपनयात्क्रतुम् ।। ३३५ ।।
कर्मापेक्षितकर्त्रादिरूपविध्वंसकृन्न तु ।।
ऐकात्म्यज्ञानमन्वेति स्वातन् त्र्येऽप्यर्थत्त्वतः ।। ३३६ ।।
जुह्वाद्यव्यभिचारित्वात्प्रत्युपस्थापयेत्क्रतुम् ।।
कर्ताऽन्यत्रापि सद्भावान्नाऽऽक्षेप्ता व्यभिचारतः ।। ३३७ ।।
अऩारभ्योक्तितश्चापि नेह प्रकरणग्रहः ।। ३३८ ।।
सिद्धे सामान्यतो लिङ्गात्संबन्धे कर्मभिस्ततः ।।
विशेषावगतिर्नाम्नः क्रमाच्चेति व्यवस्थितम् ।। ३३९ ।।
इह त्वैकात्म्यधीयोगः काम्ययाज्येष्टिवन्न हि ।।
तस्मात्कर्माभिसंवन्धो नैवैकात्म्यधियोऽमितेः ।। ३४० ।।
न चाप्यस्यार्थवादत्वं विधिना वाक्यभेदतः ।।
दृष्टार्थत्वाच्च तद्वुद्धेः पाठान्नादृष्टकल्पना ।। ३४१ ।।
तमेतमिति वाक्यात्तु यागादेः प्रत्युताङ्गता ।। ३४२ ।।
अन्ये त्वाहुर्न शक्नोति कामसंदूषिताशयः ।।
द्रष्टुं तत्परमद्वैतं सर्वकामासमाप्तितः ।। ३४३ ।।
द्वैतैकत्वमतीहाभिः सूत्रान्तं फलमाप्यना ।।
प्राजापत्यं पदं भुक्त्वा तदैकात्म्यं प्रपद्यते ।। ३४४ ।।
नैवं, न कामसंप्रप्त्या तन्नाशोऽब्दशतैरपि ।।
तत्सेवातोऽतिवृद्धिः स्यान्निवृत्तिर्दोषदर्शनात् ।। ३४५ ।।
न जातु कामः कामानामुपभोगेन शाम्यति ।।
हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।। ३४६ ।।
निवर्तेतापि कामेभ्यस्तदुपायाप्रसिद्धितः।।
सर्वक्लेशोपशान्त्यात्मज्ञानं चापि समाश्रयेत् ।। ३४७ ।।
अथाऽऽनन्दः श्रुतः साक्षान्मानेनाविषयीकृतः।।
दृष्टानन्दाभिलाषं स न मन्दीकर्तुमप्यलम् ।। ३४८ ।।
कामप्रविलयायातस्तद्विपक्षार्थभावनम् ।।
विधयस्तत्क्रियाणां स्युस्तद्विपर्ययहेतवः ।। ३४९ ।।
द्वारं न नियतं मुक्तेः प्राजापत्यं पदं भवेत् ।।
नह्युपाधिषु तत्त्वस्य विशेषः कश्चिदीक्ष्यते ।। ३५० ।।
नाऽऽकाशस्य विशेषोऽस्ति कुम्भद्रोण्याद्युपाधिषु।।
दूरान्तिकादिभिन्नेषु कल्पिताकल्पितेष्वपि ।। ३५१ ।।
सत्तत्त्वापेक्षयाऽभेदो भावानां नाभ्युपेयते ।।
स्वभावहानादन्योन्यं विशेषो बाह्य एव सः ।। ३५२ ।।
कार्यकारणपक्षेऽपि कार्यं नान्यत्र कारणात् ।।
न च तत्त्वे विशेषोऽस्ति कटकादीव हेमनि ।। ३५३ ।।
अतः प्रजापतौ तत्त्वं कृमौ वा न विशिष्यते ।।
तर्कादागमतश्चापि तद्यो य इति हीदृशात् ।। ३५४ ।।
यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।।
अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।। ३५५ ।।
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा ।।
कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च ।। ३५६ ।।
विज्ञानकर्मणोस्रेधा यधुच्येत समुच्चयः ।।
पूर्वोक्तैकात्म्यतात्पर्याद्वेदस्यासौ न युज्यते ।। ३५७ ।।
एकवाक्यावशीभावात्साध्यैक्यायोगतस्तथा ।।
समुच्चयः कुतो द्रव्यगुणवज्ज्ञानकर्मणोः ।। ३५८ ।।
भेदाभेदाश्रयत्वेन ह्यैकात्म्यज्ञानकर्मणोः ।।
परस्परोपकारित्वहानात्कीदृक्समुच्चयः ।। ३५९ ।।
देवताद्रव्ययाथात्म्यज्ञानं कर्माङ्गतां गतम् ।।
तावदेव हि तत्कर्म नाज्ञातद्रव्यदैवतम् ।। ३६० ।।
तद्विशेषेऽङ्गभूयस्त्वात्फलभूयस्त्वमित्यतः ।।
समुच्चयो न तस्य स्यान्नाङ्गेनाङ्गिसमुच्चयः ।। ३६१ ।।
यच्चाप्यैकात्म्यविज्ञानं तदज्ञानैकघस्मरम् ।।
तस्मिन्सति कुतः कर्म का वाऽपेक्षाऽस्य गोचरे ।। ३६२ ।।
ब्राह्मणत्वादिविज्ञानमग्निहोत्रादिकर्मणाम् ।।
यदृष्टं साध्यसिद्ध्यै तु कर्मानुुगुणमेव तत् ।। ३६३ ।।
ऐकात्म्यवस्तुयाथात्म्यबोधे जात्यदिवाधनात् ।।
न केवलं क्रिया न स्यात्कर्मणां प्रत्युताक्रिया ।। ३६४ ।।
अयथावस्तुसर्पादिज्ञानं हेतुः पलायने ।।
रज्जुज्ञानेऽहिधीध्वस्तौ कृतम्यनुशोचति ।। ३६५ ।।
न कर्मव्यापृतिर्मुक्तावाप्त्यादीनामभावतः ।।
न च श्रुत्यादयस्तत्र तेन स्यान्न समुच्चयः ।। ३६६ ।।
अन्तरङ्गं हि विज्ञानं प्रत्यङ्भात्रैकसंश्रयात् ।।
बहिरङ्गं तु कर्म स्याद्वाह्यद्रव्याश्रयत्वतः ।। ३६७ ।।
सत्यन्तरङ्गे विज्ञाने बहिरङ्गं न सिध्यति ।।
संस्कारकं तु कर्म स्याज्ज्ञानात्त्वज्ञाननिहनुतिः ।। ३६८ ।।
यथावस्त्वात्मविज्ञानं, मोहमात्राश्रयाः क्रियाः।।
सम्यग्ज्ञाने कुतः कर्म कर्महेतूपमर्दनात् ।। ३६९ ।।
नित्यप्राप्तं त विज्ञानं प्रतीचः संनिधेः सदा ।।
कर्मानित्यं पृथग्रपं नित्यं चानित्यबाधकम् ।। ३७० ।।
क्षयी कर्मार्जितो लोकः, स्वराडब्रह्मावबोधतः ।।
लब्धे त्रैलोक्यराज्ये ना भिक्षामाद्रियते तु कः ।। ३७१ ।।
भिन्नप्रकरणं ज्ञानं काङ्क्षितं न च कर्मणा ।।
विरोधाच्च स्वतन्त्रं तद्गुणभूतं न कस्यचित् ।। ३७२ ।।
यतो वस्त्वनुरोध्येतन्न ज्ञातृवशवर्त्यतः ।।
अज्ञानोच्छित्तये ज्ञानं स्वतन्त्रं तेन भण्यते ।। ३७३ ।।
अनावृत्तिश्च कर्मभ्यो न क्वचिच्छ्रूयते स्फुटम् ।।
ज्ञानादेव त्वनावृत्तिः श्रूयते बहुशः श्रुतो ।। ३७४ ।।
एकरूपं च विज्ञानमेकरूपात्ममेयतः ।।
भिन्नरूपाणि कर्माणि बहुकारकसंश्रयात् ।। ३७५ ।।
एकरूपस्य मोक्षस्य भिन्नरूपं न साधनम् ।।
एकरूपस्य मोक्षस्य ह्ये करूपं हि साधनम् ।। ३७६ ।।
तस्मात्कर्मफलं नाना नानाकर्मसमुद्भवम् ।।
देवमानुषतिर्यक्षु कर्तुः शास्त्रैर्निदर्शितम् ।। ३७७ ।।
अन्ये तु मन्वते केचिद्गम्भीरन्यायवादिनः ।।
भेदस्य विलयो वेदे गम्यते कस्यचित्कचित् ।। ३७८ ।।
देहात्मभावविलयः स्वर्गकामपदे यथा ।।
देहाद्भिन्नोऽधिकार्यत्र स्वर्गभोग्यवगम्यते ।। ३७९ ।।
गोदोहनेनेत्यत्रापि विलयोऽन्याधिकारिणः ।।
अधिकृताधिकारित्वान्नान्योऽधिक्रियते यतः।। ३८० ।।
रागाद्युत्थप्रवृत्तीनां निषेधेषु लयोऽञ्जसा ।।
विधिष्वपि लयस्तासां कार्यान्तरनियोगतः ।। ३८१ ।।
लोकेऽपि चानभिप्रेतात्पथः साक्षान्निवारणम् ।।
मार्गान्तरोपदेशाद्वा वेदेऽप्येवं प्रतीयताम् ।। ३८२ ।।
एवं रागादिहेतूत्थप्रवृत्तिलयवर्त्मना ।।
आत्मज्ञानाधिकारार्था निःशेषा विधयः स्थिताः ।। ३८३ ।।
नैतदेवं यतोऽशेषा न कर्मविधयः श्रुतौ ।।
स्ववाक्यावगतात्कार्यादपेक्षन्ते फलनन्तरम् ।। ३८४ ।।
वेदेऽनुष्ठानतात्पर्यान्न लयो गम्यते क्वचित् ।।
फलश्रुतेरभावो हि साध्यः स्यादफलः कथम् ।। ३८५ ।।
वस्तुनोऽवगतिर्नापि लयाद्भवति कुत्रचित् ।।
अभावेऽप्युपपन्नत्वात्सुषुप्ते चाप्यनीक्षणात् ।। ३८६ ।।
स्वाभाविकः प्रपञ्चश्चेत्स निरोद्धुंं न शक्यते ।।
कार्यश्चेत्कारणोच्छेदे कार्योच्छेदः स्वतो न हि ।। ३८७ ।।
कृतस्रप्रपञ्चविलयः कर्तुं शक्यो न केनचित् ।।
स्वेन्द्रियादिलयः स्वापे स्वत एव न शास्रतः ।। ३८८ ।।
उत्थितस्य पुनर्भावादनुच्छेदोऽथ शङ्क्यते ।।
आयातस्तिर्ह्यनाश्वासस्त्वदभ्युपगतावपि ।। ३८९ ।।
प्रपञ्चनाश्नेनाथ नाश्यते भेदकारणम् ।।
नैवं न कार्यनाशेन कारणं नश्यति क्वचित् ।। ३९० ।।
कारणस्याप्यविद्याया वस्तुबोधाद्विनाशतः ।।
यतोऽतोऽविद्यानाशार्थं प्रपञ्चविलयोऽफलः ।। ३९१ ।।
रज्जुज्ञानाद्धि सर्पादिप्रपञ्चविलयो यतः ।।
सर्पाभासलयेऽपीयं रज्जुस्तमसि नेक्ष्यते ।। ३९२ ।।
लयनिष्ठे प्रमाणे नो वस्तुगोचरभेदतः ।।
अथ वस्तुनि तन्मानं न लये स्यान्न च द्वये ।। ३९३ ।।
भाव्युच्छेत्तुमशक्यस्ते, भूतोऽप्युपरतः स्वतः ।।
प्रपञ्चो वर्तमानस्तु कार्यत्वान्नश्यति स्वतः ।। ३९४ ।।
श्रुतेर्विलयतात्पर्ये फलमाकस्मिकं भवेत् ।।
फलार्था चेल्लये न स्यान्नोभयं वाक्यभेदतः ।। ३९५ ।।
प्रपञ्चविलयेनैव सर्वानर्थप्रहाणतः ।।
पुरुषार्थस्य संसिद्धेर्विद्या नैष्फल्यमापतेत् ।। ३९६ ।।
अत ऐकात्म्ययाथात्म्यज्ञानादज्ञानहानतः ।।
सिद्धे पुमर्थे विलयकल्पना निष्प्रयोजना ।। ३९७ ।।
स्वकार्योपक्षयादेव विधीनां च परस्परम् ।।
कुत एकाधिकारत्वमपेक्षाभावतो वद ।। ३९८ ।।
विधीनां चापि सर्वेषां निषेधवचसां तथा ।।
नामादिलयनिष्ठत्ये ह्यभ्युपेतेऽप्रमाणके ।।
अऩिमित्तोऽपवर्गोऽपि शास्रं चैवमनर्थकम् ।। ३९९ ।।
स्वर्गादिकार्यमार्गेण मन्यसे यदि कर्मणाम् ।।
सोपानपङ्लिगत्येव हर्म्यपृष्ठाधिरोहणम् ।।
आत्मज्ञानाधिकारानुप्रवोशित्वं भविष्यति ।। ४०० ।।
यथैव नगराध्वस्थग्रामगत्युपदेशनम् ।।
नगराध्वोपदेशस्य शेषत्वं प्रतिपद्यते ।।। ४०१ ।।
नाकामितत्वाद्ग्रामादिरातेर्युक्तैव शेषता ।।
स्वर्गादेर्न तु शेषत्वं पुरुषार्थत्वहेतुतः ।। ४०२ ।।
अथोपच्छन्दनार्थानि स्वर्गादीनि विमुक्तये ।।
नगराप्तौ तदध्वस्थग्रामादिगुणगीरिव ।। ४०३ ।।
नैवं मान्तरतः सिद्धेर्नृवाक्ये तत्समञ्जसम् ।।
वेदे तु वक्त्रभावत्वादभिप्रायाद्यसंभवः ।। ४०४ ।।
यद्वा तत्रैव तात्पर्यं यत्रोपच्छन्द्य नीयते ।।
नगराप्तौ तु माभावात्प्रयतेत पुमान्कुतः ।। ४०५ ।।
यदाऽपि वस्तुवृत्तेन नगरावाप्तिसाधनम् ।।
ग्रामाप्तिर्नगरप्राप्तिस्तदाऽप्यर्थान्न मानतः ।। ४०६ ।।
अर्थादपि न तात्पर्यं द्रव्यार्जनविधेरिव ।।
शब्दमात्रानुसारेण वेदे तात्पर्यधीर्यतः ।। ४०७ ।।
स्वर्गादौ यदि तात्पर्यं न स्यादैकात्म्यबोधने ।।
मुक्तौ चेन्न भवेत्स्वर्गे वाक्यभेदान्न च द्वये ।। ४०८ ।।
न च स्वर्गादिकार्याणां प्रयाजार्थसमानता ।।
अनुप्रवेशः कल्प्येत येन कार्यान्तरं प्रति ।। ४०९ ।।
वक्तव्यं च कथं त्वेते दृष्टेनैवोपकारिणः ।।
आत्मज्ञानाधिकारस्य यदि तावदिदं मतम् ।। ४१० ।।
रागाद्याक्षिप्तदृष्टार्थप्रवृत्तिप्रतिषेधतः ।।
अस्त्वेवं प्रतिषेधेषु निवृत्तेरूपकारतः ।। ४११ ।।
बिधयस्तु कथं रागं निरून्धन्तीति भण्यताम् ।।
न हि ते परिसंख्यार्था नापि चैते नियामकाः ।। ४१२ ।।
अत्यन्ताप्राप्तमर्थं हि विधयो बोधयन्ति नः ।।
प्रप्तार्थो यो विधिः सोऽन्यनिवृत्तिफल इष्यते ।। ४१३ ।।
सेवासांग्रहणीहावत्तुल्यकार्यतया न च ।।
यतोऽनियतकालीनफला वैधी क्रियेष्यते ।। ४१४ ।।
अदृष्टार्था हि दृष्टार्था रागाद्युत्थाः प्रवृत्तयः ।।
ग्रामोपयेन सेवायाः सांग्रहण्याऽविरुद्धता ।। ४१५ ।।
क्रियातः फलमित्येवं शास्त्रमेतावति प्रमा ।।
क्रमेण युगपद्वाऽतः सेवासांग्रहणीहयोः ।।
नानुष्ठाने विरोधोऽस्ति फलभूमार्थिनः क्वचित् ।। ४१६ ।।
रागाद्युत्थप्रवृत्तीनां कार्त्स्न्येन च विरोधतः ।।
नैयोगिक्योऽपि नैव स्युर्द्रव्याभावात्प्रवृ्त्तयः ।। ४१७ ।।
दृष्टादृष्टप्रवृत्त्योश्च न विशेषोऽस्ति कश्चन ।।
उपायत्वेन काम्यानां रागाद्याक्षिप्रहेतुतः ।। ४१८ ।।
प्रपञ्चाभिनिवेशित्वहेतौ तुल्येऽपि चानयोः ।।
कं विशेषमपेक्ष्यैका चेष्टा मुक्त्यनुरोधिनी ।। ४१९ ।।
कामोपायत्वमेवाथ नेष्टं यदि च कर्मणाम् ।।
उक्तो न्यायः प्रहीयेत फलं चाऽऽकस्मिकं भवेत् ।। ४२० ।।
सर्वकामाशनेनाथ कृत्स्रकामलयाध्वना ।।
यान्ति मुक्त्यानुगुण्यं चेद्विधयो वार्त्तमेव तत् ।। ४२१ ।।
यन्निमित्ता प्रवृत्तिः स्यात्सा कथं तन्निवर्तिका ।।
प्रवृत्तोऽपि निवर्तेत न कामोपायकर्मतः ।। ४२२ ।।
उद्विजेताथवा ज्ञानात्सर्वपुंभोगघस्मरात् ।।
अपि वृन्दावने शून्य इति कामिवचस्तथा ।। ४२३ ।।
उक्तं यदपि वेदेऽस्मिन्कस्यचिद्विलयः क्वचित् ।।
तन्नातत्परतस्तूक्तेर्न देहादिलयस्ततः ।। ४२४ ।।
श्रुतेऽपि स्वर्गतात्पर्ये कल्पना चेल्लयेऽर्थतः ।।
तन्न प्रत्यक्षवचनाद्देहादिलयसिद्धितः ।। ४२५ ।।
साक्षाद्धस्तिनि दृष्टेऽपि नहि हस्तिपदानुमा ।।
अस्थूलादिवचः साक्षाद्देहादिप्रतिषेधकृत् ।। ४२६ ।।
विपर्ययेण येऽप्याहुर्यथोक्तज्ञानकर्मणोः ।।
एकाधिकारितां वाच्यं मानं तैर्ज्ञानसंगतौ ।। ४२७ ।।
न तावत्प्रक्रियेहास्ति व्रूह्यादिप्रोक्षणे यथा ।।
प्रकृतापूर्वसंबन्धलक्षणापरतः स्थितेः ।। ४२८ ।।
व्रीहिशब्दस्य हि व्रीहिस्वरूपे तु निरर्थकम् ।।
प्रकृतापूर्वसंबन्धं बोधयेदिति युज्यते ।। ४२९ ।।
नापि वाक्येन संबन्धो जुहूपर्णमयीत्ववत् ।। ४३० ।।
जुह्वाद्यव्यभिचारित्वकर्मसंगतिकारणात् ।।
विनाऽपि प्रक्रियां तेन कर्मोपस्थापयेद्ध्रुवम् ।। ४३१ ।।
वाक्येनैवाभिसंबन्धस्तत्र तस्येति वर्णितम् ।।
आत्मज्ञानं तु नैवं स्यान्न तत्प्रकरणे श्रुतम् ।। ४३२ ।।
नापि चाव्यभिचारित्वमात्मनः कर्मणेक्ष्यते ।।
तेनास्य कर्मसंबन्धो न मानेनोपपद्यते ।। ४३३ ।।
एवं चाज्ञातपारार्थ्ये नार्थवादः फलश्रुतिः।।
पृथगेवाधिकारोऽतो यथोक्तज्ञानकर्मणोः ।। ४३४ ।।
अर्थाक्षेपोऽपि योग्यस्य कर्तुर्भोक्तुश्च युज्यते ।।
न तु विध्वस्तभेदस्य स्यादौपनिषदस्य सः ।। ४३५ ।।
प्रत्यक्षवेदवचनप्रामाण्याद्याश्रयत्वतः ।।
आदौ संन्याससंसिद्धेर्ऋणानीति ह्यपस्मृतिः ।। ४३६ ।।
न च केवलकर्मभ्यो मुक्तिर्युक्त्योपपद्यते ।।
तथाच वक्ष्यते स्पष्टमतो मुक्तिर्न कर्मतः ।। ४३७ ।।
न चैकात्म्यपरिज्ञानमभ्यासापेक्षमिष्यते ।।
मुक्तये भावनार्थं वा तथा चोर्ध्वं प्रवक्ष्यते ।। ४३८ ।।
स्वतोऽनुभवतः सिद्धेरैकात्म्याख्यस्य वस्तुनः।।
न स्यात्सांपादिकं ज्ञानमित्येतच्चापि वक्ष्यते ।। ४३९ ।।
अन्य आहुः पदार्थत्वात्प्रमाणान्तरगम्यताम् ।।
आत्मनो नाऽऽगमात्सिद्धिर्व्रीह्याद्यन्यपदार्थवत् ।। ४४० ।।
अऩ्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तितः ।।
विविच्यातः स्वमात्मानं प्रत्यभिज्ञानसस्तथा ।।
माव्यापारसमाप्तत्वान्न भूयस्तदपेक्षिता ।। ४४१ ।।
तद्वासनानिरोधेऽतः पुमाञ्श्रुत्या नियुज्यते ।। ४४२ ।।
मनसो वा निरोधेऽसौ न तु वस्त्ववबोधने ।।
मानान्तरेण तत्सिद्धेर्नात्र व्याप्रियते वचः ।। ४४३ ।।
स्वयंज्योतिःस्वभावत्वान्निरूद्धस्वान्तवासनः ।।
प्रमान्तरानपेक्षोऽपि स्वयमात्मा प्रकाशते ।। ४४४ ।।
एवं कार्यमुखेनैव ज्योतिष्टोमादिवाक्यवत् ।।
वेदान्तानां प्रमाणत्वं, नाक्षवद्वस्तुनीष्यते ।। ४४५ ।।
वासनामात्रहेतुत्वादात्मनोऽनर्थसंगतेः।।
अन्योपाये सत्यसति निरोधादेव मुक्तता ।। ४४६ ।।
संभाव्यं नानपेक्षत्वं नियोगविरहात्कचित् ।।
शब्दप्रवृत्तेः सिद्धे च न नियोगस्य संभवः ।। ४४७ ।।
न च वस्तुनि मानत्व उदाहरणमिष्यते ।।
विधर्गुणार्थस्तस्यापि व्यापारविषयत्वतः ।। ४४८ ।।
किंचानुभूयमानस्य ह्यर्थस्य पुरुषार्थता ।।
सर्वत्र गम्यते वेदे नानुभूतेः कथंचन ।। ४४९ ।।
ततश्च प्रतिभामात्रं शब्दादिति न मानतः।।
प्रतीयमान एवातः पुरुषार्थः प्रसिद्धितः ।। ४५० ।।
अप्युपादीयमानं च सिद्धं वस्तु न कर्मणि ।।
पुमर्थं साधयट्ट्टष्टमनिर्ज्ञाताङ्गभावकम् ।। ४५१ ।।
अनुपादीयमानश्च न च ज्ञाताङ्गभावकः।।
आत्मा चेन्नास्य शेषत्वं विधिं प्रत्युपपद्यते ।। ४५२ ।।
उपासीत स्वमात्मानमिति साक्षाद्वचःश्रवात् ।।
तत्राङ्गभाव इति चेन्मत्पन्थानं भवानितः ।। ४५३ ।।
क्रियाविधिपरत्वेन प्रामाण्यं वचसः स्थितम् ।।
इति व्याचक्षते केचिन्नियोगार्थौकरागिणः ।। ४५४ ।।
नैतत्साध्वभ्यधाय्युच्चैर्नियोगविरहादपि ।।
कामितार्थस्य संसिद्धेर्लौकिकादेव मानतः ।। ४५५ ।।
तद्भावभावतो लिङ्गाद्वासनैकसमाश्रयात् ।।
ज्ञातोऽनर्थेन संबन्ध आत्मनो न तु वास्तवः ।। ४५६ ।।
तस्मात्संसारसंबन्धनिदानस्य प्रसिद्धितः ।।
लिङ्गादेव ततस्तस्य ध्वंसेऽनर्थो निवर्तते ।। ४५७ ।।
अन्तरेणापि वचनं बौद्धादेरिव सिद्धितः ।।
मोक्षस्य पुरुषार्थस्य वचोऽतो निष्फलं भवेत् ।। ४५८।।
व्यतीतानेकजन्मोत्थवासनानामनन्ततः।।
तासां निरोधोऽसंभाव्यो जन्मन्येकत्र मानवै ।। ४५९ ।।
साक्षादात्मावबोधेन प्रत्यग्ध्वान्तच्छिदा न चेत् ।।
दुःखादिभावना ध्वस्ता कथं तद्भावना नुदेत् ।। ४६० ।।
नियोगवर्त्मना चेयं यथा मुक्तिर्न सिध्यति ।।
स्पष्टेन न्यायमार्गेण वक्ष्यामोऽवसरे तथा ।। ४६१ ।।
न पदार्थो न वाक्यार्थ आत्माऽयं वस्तुतो यतः ।।
तत्प्रत्याख्यानश्रुत्यैव तद्याथात्म्यावबोधनात् ।। ४६२ ।।
वासनानामभावेऽपि सुषुप्त्यादौ न मुक्तता ।।
मानव्यापारविरहात्प्रथनं वा दृगात्मनः ।। ४६३ ।।
सर्वानर्थाभिसंबन्धे ह्यविद्यैवास्य कारणम् ।।
वासनानामपि युतौ सैव यस्मादपेक्ष्यते ।। ४६४ ।।
संभाव्यतेऽनपेक्षत्वं नियोगविरहादपि ।।
यथा तथा च वक्ष्यामः स्पष्टेन न्यायवर्त्मना ।। ४६५ ।।
स्वानुभूतिबलादेव भवताऽपि विभाव्यते ।।
नियोगादिः प्रमाणार्थो नानुभूतिर्नियोगतः ।। ४६६ ।।
यस्याप्रसिद्धिर्नाज्ञानात्प्रसिद्धिर्नापि मानतः।।
तस्यानुभवतत्त्वस्य कुतः सापेक्षतोच्यते ।। ४६७ ।।
स्वप्रधानात्मबुद्ध्यैव तदन्यस्य प्रसिद्धितः ।।
कार्यबुद्धिव्यपेक्षातो नानुभूत्यात्मवस्तुनः ।। ४६८ ।।
क्व नु प्रतीयमानस्य पुमर्थत्वं समीक्षितम् ।।
मानान्मानफलस्यैव पुमर्थत्वसमन्वयात् ।। ४६९ ।।
प्रतीतेर्माफलत्वाच्च कथं मेयैकनिष्ठता ।।
माक्रियाफलयोगोऽयं यतो मातरि भोक्तरि ।। ४७० ।।
न चाऽऽत्मानुभावदन्यो विषयः किश्चिदिष्यते ।।
अपि सर्वप्रमाणानां, किमु वेदान्तशासने ।। ४७१ ।।
लौकिको वैदिकः सर्वो व्यवहारो जगत्यपि ।।
भोक्त्रर्थ एऴ नान्योऽतः प्रधानं भोक्तुरिष्यते ।। ४७२ ।।
न वा अरे पत्युरिति तदेतत्प्रेय इत्यपि ।।
निखिलेऽपि जगत्यस्मिन्प्रधानं नाऽऽत्मनोऽपरः ।। ४७३ ।।
न प्रमाता प्रमाणं वा क्रियामेयफलानि वा।।
प्राधान्यायेन कल्पन्ते भोक्तुरेव प्रधानतः ।। ४७४ ।।
आत्मनः कर्त्रवस्थाऽपि भोक्त्रर्थमिति निश्चयः ।।
यतोऽतोऽपरमप्येतद्भोक्त्रर्थं विनियुज्यते ।। ४७५ ।।
नापि चाऽऽत्मातिरेकेण वस्त्वन्यन्मानभूभिगम् ।।
संभाव्यते यथा चैतत्तथोदर्के प्रवक्ष्यते ।। ४७६ ।।
अनादृत्य यथोक्तार्थं नियोगार्थैकरागतः ।।
केचित्कार्यैकनिष्ठत्वं वेदान्तानां प्रचक्षते ।। ४७७ ।।
कार्यैकमात्रनिष्ठत्वात्प्रमाणस्याऽऽगमात्मनः ।।
कुत ऐकात्म्यनिष्ठत्वं त्वया यदुदितं पुरा ।। ४७८ ।।
नहि तस्यानपेक्षत्वं सिद्धवस्त्वबोधनात् ।।
यतो मानान्तरमितं सिद्धं वस्त्विति भण्यते ।। ४७९ ।।
शब्दसामर्थ्यनियमो लोकादेवावगम्यते ।।
लोके मान्तरसिद्धोऽर्थः कार्यायैवाभिधीयते ।। ४८० ।।
न प्रवृत्तिनिवृत्तिभ्यां शून्यस्य वचसो यतः ।।
कश्चिदर्थोऽत्र दृष्टोऽतो वस्तुनि स्यान्न मानता ।। ४८१ ।।
संबन्धावगमो नापि शब्दाद्भूतार्थवाचिनः ।।
प्रवर्तकात्प्रवृत्त्याऽर्थे प्रत्ययो ह्यनुमीयते ।। ४८२ ।।
ततः शब्दस्य सामर्थ्यं प्रतीतेरवधार्यते ।।
कार्यैकविषयैवेयं वाक्यस्यातः प्रमाणतः ।। ४८३ ।।
क्रियाकारकसंबन्धो वाक्यार्थो यैरपीष्यते ।।
अनुवादविसंवादात्तेषामुक्तेरमानता ।। ४८४ ।।
मान्तरानुप्रवेशित्वं कार्यस्य तु न शङ्क्यते ।।
शब्दादेव हि कार्यार्थप्रतिपत्तिर्न लोकतः ।। ४८५ ।।
प्रवर्तनां वदञ्शब्दः प्रवर्तनां वदञ्शब्दः प्रवर्तक इतीर्यते ।।
ज्ञापकत्वात्प्रमाणस्य प्रेरयन्कारको भवेत् ।। ४८६ ।।
शब्दात्प्रवर्तनाबुद्धौ रागादिर्न च शङ्क्यते ।।
रागादिः प्रेरणाकारी प्रेरणाज्ञापको ध्वनिः ।। ४८७ ।।
आज्ञापितार्थनिष्पत्तौ कृतिमत्त्वेक्षणात्प्रभोः ।।
रागाद्यर्थस्य चासिद्धौ कर्तृवृत्तिर्न रागतः ।। ४८८ ।।
स्वामिकोपप्रसादादिहृदयाकूतवेदनात् ।।
नापि श्रोतुः प्रवृत्तिः स्याच्छब्दात्कोपाद्यवेदनात् ।। ४८९ ।।
लिङादयो न कोपादेः स्मर्यन्ते प्रतिपादकाः ।।
मानान्तरमिताः सन्तस्ते हि पुंसां प्रवर्तकाः ।। ४९० ।।
धिगङ्गाद्यभिधानैस्तु लिङ्गभूतैरिहेङ्गिताः ।।
रागादयो नियोगस्य सिद्ध्यै विषयसाधनाः ।। ४९१ ।।
अत एव च रागादिसंसृष्टोऽपि विविच्यते ।।
लोडाद्यर्थो व्रजेत्युक्तो याति स्वर्थं विना यतः ।। ४९२ ।।
ननु दानादिसंबद्धमहावाक्यानुमानतः ।।
गच्छेत्याद्येकदेशोक्तौ लोभादेव प्रवर्तते ।। ४९३ ।।
महावाक्यप्रयोगेऽपि पदार्थप्रविवेचने ।।
पुंस्प्रवृत्तिस्तु दृष्टेयं लोडादेरेव नान्यतः ।। ४९४ ।।
लोडादेरेव श्रवणाद्यत्र रागाद्यसंभवः ।।
बालः प्रवर्तते तत्र ज्ञायते प्रेरणार्थता ।। ४९५ ।।
आह मानान्तरेणासौ किल नार्थोऽवगम्यते ।।
शब्दाच्च ज्ञायतेऽज्ञातसंबन्धादिति चित्रता ।। ४९६ ।।
यद्यनिर्ज्ञातसंबन्धोऽप्यर्थं शब्दः प्रबोधयेत् ।।
को द्वेषोऽस्मासु भवतो येनोपालम्भ ईर्यते ।। ४९७ ।।
यदाऽवगम्यते नान्यत्प्रवृत्तेः कारणान्तरम् ।।
शब्दश्च गम्यते स्पष्टस्तदाऽर्थः प्रविविच्यते ।। ४९८ ।।
अन्वयव्यतिरेकौ तु वाक्यार्थज्ञानपूर्वकौ ।।
वाक्यार्थस्तु तदायत्तो नेत्यन्येभ्यो विशिष्टता ।। ४९९ ।।
कर्तव्यताविवक्षैव नृवाक्येभ्योऽपि गम्यते ।।
विवक्षाया न कार्यत्वं शब्दार्थविषया हि सा ।। ५०० ।।
तद्वशान्न तु शब्दार्थः स हि पूर्वं प्रतीयते ।।
अतः प्रैषादिसंसृष्टोऽप्यर्थः सिद्धो विवेकतः ।। ५०१ ।।
शब्दार्थोपाधयो ह्येते पुरुषाशयपातिनः ।।
प्रैषादयो न शब्दार्था न चानेकार्थता मता ।। ५०२ ।।
अभिप्रायवतोऽभावादभिप्रायानुपातिनः ।।
शङ्क्यतेऽपि न वेदे तु कार्यं वाच्यमिति स्थितम् ।। ५०३ ।।
प्रयोगविधिशेषत्वात्तन्मूला एव नाऽऽशयात् ।।
वेदे प्रैषास्तु ये दृष्टा अग्नीदग्नीनितीदृशाः ।। ५०४ ।।
प्रैषादिभ्यो यथैवेयं भिन्ना कर्तव्यतेक्ष्यते ।।
शब्दशक्तिवशात्तद्वत्क्रियादेरपि वीक्ष्यताम् ।। ५०५ ।।
नानिष्पन्नस्वभावोऽपि भावः कर्तव्यता यतः ।।
लडादिश्रवणात्तस्या अप्रतीतिर्लिङादिवत् ।। ५०६ ।।
ननु कालोपबन्धोऽत्र कार्यबुद्धिविघातकृत् ।।
नैतत्संदेह एवात्र विवेकाभावतस्तव ।। ५०७ ।।
कालोपबन्धः किंत्वत्र कार्यबुद्धिविघातकृत् ।।
किं भावात्कार्यता भिन्ना लडादिर्यां न भाषते ।। ५०८ ।।
कर्तव्यः कट इत्यादावव्यापारेऽपि कार्यता ।।
वीक्ष्यतेऽतः पृथग्भावात्फलाच्च प्राक्प्रतीतितः ।। ५०९ ।।
ननु कर्मणि कृत्योऽयं तयोरेवेति शासनात् ।।
मैवं प्रैषादिवद्यस्मादुपाधित्वादवाच्यता ।। ५१० ।।
प्रैषादिष्वपि कृत्यानां तथाच स्मरणं मुनेः ।।
कृत्यानां युक्तितोऽपि स्यान्नैव कर्माभिधायिता ।। ५११ ।।
यथा कटं करोतीति कर्ममात्रावबोधनम् ।।
कर्तव्यः कट इत्यत्र तथैव स्यान्न चेक्ष्यते ।। ५१२ ।।
कर्तव्यत्वादभीष्टत्वसिद्धौ कर्मार्थलाभतः ।।
साक्षादनभिधानेऽपि न द्वितीया प्रसज्यते ।। ५१३ ।।
न चाभीष्टत्वकार्यत्वमभिन्नं व्यतिरेकतः ।।
इच्छेदेष्टव्यमित्येवं तत्रापि प्रत्ययो यतः ।। ५१४ ।।
तस्मात्कर्तव्यतावेशात्क्रिया वा यदि वा फलम् ।।
कारकं वाऽपि कार्यत्वं लभते न स्वतन्त्रतः ।। ५१५ ।।
लोकवन्ननु वेदेऽपि कार्यमात्रं न गम्यते ।।
साधनेहानुबन्धस्य वेदे कार्यस्य बोधनात् ।। ५१६ ।।
ततश्चोऽऽरोग्यकामस्य पथ्यभोजनवाक्यवत् ।।
मानान्तरप्रवेशेन सापेक्षत्वं प्रसज्यते ।। ५१७ ।।
अतः प्रैषादितुल्योऽयं क्रियाफलनिवन्धनः ।।
नियोगस्तदसंवादाच्चित्रादौ ते विहन्यते ।। ५१८ ।।
मैवं मानान्तरावेशाल्लोके प्रैषाद्युपाधिकम् ।।
कार्यं प्रयोजनार्था च प्रवृत्तिरिति युज्यते ।। ५१९ ।।
साध्यसाधनसंबन्धविषयत्वं पुमर्थतः ।।
नियोगस्यात एवात्र कर्तृत्वेन नियुज्यते ।। ५२० ।।
स्वत एव प्रवृत्तत्वात्कर्तुरेवाधिकारिता ।।
पदं चाऽऽरोग्यकामादि भवेत्कर्तृविशेषणम् ।। ५२१ ।।
वेदे तु सकलाक्षादिप्रमाणागोचरत्वतः ।।
साध्यसाधनताज्ञानं नियोगादेव नान्यतः ।। ५२२ ।।
तथा ह्यकारकः कामी स्वर्गकामपदार्पितः।।
नियोगात्कर्मसंबन्धे पश्चाद्यातीह कर्तृताम् ।। ५२३ ।।
कामस्य च प्रधानत्वात्तत्प्राधान्यानपायतः ।।
पुंविशेषणता तस्माद्भोगी कामी न कारकः ।। ५२४ ।।
अप्रवृत्तप्रवृत्तेश्च कारकत्वं न युज्यते ।।
प्रवृत्तस्य णिचोक्तिः स्यात्पचन्तं पाचयेद्यथा ।। ५२५ ।।
अक्रियाकर्तृसंबन्धे ननु षष्ठी प्रसज्जते ।।
नैवं नाम्नोः सदा योगे षष्ठीयं शैषिकी यतः ।। ५२६ ।।
क्रियाकारकयोगे च द्वितीयादिर्लडादि तु ।।
स्यात्प्रातिपदिकार्थस्य भावार्थेनेत्यसंकरः ।। ५२७ ।।
नीलोन्पले तु नामार्थावपहाय परस्परम् ।।
भेदमेकात्मतां याताविति षष्ठी न संमता ।। ५२८ ।।
लिङर्थे युज्यमानस्य कर्मत्वं न च कामिनः ।।
अक्रियात्वान्नियोगस्य द्वितीया चेद्भवेत्तथा ।। ५२९ ।।
तस्मादकारकः कामी स्वनियोगप्रसिद्धये ।।
नियुज्यमान एवेह विषयं साध्यमीक्षते ।। ५३० ।।
राजादिषु प्रसिद्धश्च नियोगः साध्यगोचरः ।।
भावार्थस्य च साध्यत्वमिति तेनापि युज्यते ।। ५३१ ।।
अविवक्षितमप्येवं लिङ्गसंख्यं विवक्ष्यते ।।
पश्चाद्विषयासिद्ध्यर्थं कारकादि च यच्छ्रुतम् ।। ५३२ ।।
ततश्च स्वर्गकामो यः स्वनियोगं स साधयेत् ।।
केन यागादिनिर्वृत्त्येत्येतच्छास्रात्प्रतीयते ।। ५३३ ।।
न चानपनयन्यागः कामिनः स्वर्गकामिताम् ।।
साधनं स्वाधिकारस्य भवतीह कथंचन ।। ५३४ ।।
अनुन्मृदितकामो हि पूर्वावस्थाविशेषतः ।।
निष्पादिताधिकारोऽपि नियोगार्हः पुनर्भवेत् ।। ५३५ ।।
अधिकारः स्वसिद्ध्यर्थमतः कामस्य साध्यताम् ।।
यागेनाऽऽपाद्य संसिध्यन्विषयस्यैति साध्यताम् ।। ५३६ ।।
नानन्तरफलाभावे विसंवादोऽत्र शङ्क्यते ।।
क्रियासाध्ये फले स स्याल्लिङर्थस्त्वक्रियात्मकः ।। ५३७ ।।
प्रत्यर्थिनि च शब्देऽस्मिन्नाभावोऽनुपलब्धितः ।।
मानाभावे ह्यसौ मानमानन्तर्यं त्वचोदितम् ।। ५३८ ।।
अतः कृताधिकारोऽपि यो विद्यादकृतार्थताम् ।।
तस्य शास्त्रानभिज्ञत्वान्नाधिकारोऽत्र वैदिके ।। ५३९ ।।
मत्रार्थवादनाम्नां च कार्यार्थानुप्रवेशतः ।।
प्रामाण्यं न स्वतस्तस्मात्कार्ये वेदस्य मानता ।। ५४० ।।
वेदान्तानामतो वाच्यं कार्यार्थानुप्रवेशनम् ।।
प्रामाण्यं वा निषेद्धव्यमत्र प्रतिविधीयते ।। ५४१ ।।
निःशेषमातृतद्वृत्तिजन्मनां तद्विलक्षण-
स्वतःसिद्धात्मसंबोधव्याप्तिर्वस्त्वनुरोधतः ।। ५४२ ।।
वियद्वस्तु्स्वभावानुरोधादेव न कारकात् ।।
वियत्संपूर्णतोत्पत्तौ कुम्भस्येव दृशा धियाम् ।। ५४३ ।।
घटदुःखादिरूपत्वं धियां धर्मादिहेतुतः ।।
निर्हेतुत्वात्मसंबोधरूपित्वं वस्तुरूपतः ।। ५४४ ।।
बुद्धितद्वृत्तिभावोऽयमभावश्चाप्यनन्यमात् ।।
यतः सिद्धायते सोऽर्थो ज्ञेयः सिद्धः स्वतः सदा ।। ५४५ ।।
ननु प्रमाणविरहात्स्वतःसिद्धो यदीष्यते ।।
वचसो बुद्धबोधित्वादप्रमाण्यं प्रसज्यते ।। ५४६ ।।
मैवमप्रतिपन्नत्वादनुभूत्यैव वस्तुनः ।।
तद्द्वयुत्पत्तेः पुरा साक्षाद्बोधो व्युत्पत्तिमात्रतः ।। ५४७ ।।
बोधाबोधौ यतो दृष्टौ स्वानुभूत्यनुसारतः ।।
दृष्टे चानुपपन्नत्वं किंबलादभिधीयते ।। ५४८ ।।
सुषुप्तादेश्च संसिद्धिर्मात्रादिविरहेऽपि या ।।
साऽपीहान्तरसंबुद्धमेयमात्रव्यपाश्रयात् ।। ५४९ ।।
न चाभावप्रमाणात्सा सति मातर्यभावमा ।।
मात्राद्यभावसंसिद्धिः कथं मात्रादिपूर्विका ।। ५५० ।।
यमप्रमीयमाणानि नानात्मानं प्रमिण्वते ।।
वस्तुवृत्तानुरोधेन कथं तत्राप्रमा वचः ।। ५५१ ।।
अमीमांसक इत्युच्चैरमीमांसक इत्यतः ।।
आक्षिपन्ति यदज्ञानात्तच्छान्त्या उत्तरं वचः ।। ५५२ ।।
सर्वोऽपि वेद इत्यादि यथोक्तपरिहारकृत् ।।
गुरुराह वचः स्पष्टं दृढन्यायोपबृंहितम् ।। ५५३ ।।
मानस्वभावमाश्रित्य सर्वोऽपीत्याद्युदीरणम् ।।
काण्डद्वयसमाख्या हि तत्प्रमेयानुरोधतः ।। ५५४ ।।
मानं हि व्य़ञ्जकं लोके सिद्धे तच्च स्वकारणात् ।।
स्वतः सिद्धेऽथ वा नित्यं मेयमात्रं विशिष्यते ।। ५५५ ।।
अतः सर्वोऽपि वेदोऽयं प्रमाणत्वैकहेतुतः ।।
प्रकाशनपरो ज्ञेयः सिद्धसाध्यात्मवस्तुनः ।। ५५६ ।।
एकवाक्यत्वतो यद्वा सर्वोऽपीत्यादि भण्यते ।।
पुरुषार्थावसायित्वाद्वेदाधीतिविधेरिति ।। ५५७ ।।
निःशेषसुखसंप्राप्तेः सर्वानर्थइनुतेस्तथा ।।
मुक्तेरर्वाक्पुमर्थोऽन्यो नेह कश्चित्समीक्ष्यते ।। ५५८ ।।
असिद्धार्थस्य वा सिद्धिरनुभूत्येकमात्रतः ।।
सर्वोऽपीति वचः सिद्धिः सर्वा ह्यात्मैकसंविदः ।। ५५९ ।।
यद्वाऽनवगतोऽतोन्यः संभाव्यो नाऽऽत्मनस्ततः ।।
सर्वोऽपीति वचः प्राह तथा चोर्ध्वं प्रवक्ष्यते ।। ५६० ।।
यद्धेतुकं प्रमाणत्वं वेदान्तानां समर्थ्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रमाणता ।। ५६१ ।।
वेदान्तानाममानत्वं येन वा हेतुनोच्यते ।।
तेनैव हेतुना कर्मकाण्डस्यापि प्रसज्यते ।। ५६२ ।।
अपि सर्वप्रमाणानि स्वप्रमेयाभिसंगतेः ।।
प्रमामेवेह कुर्वन्ति प्रामाण्यं यान्ति नान्यथा ।। ५६३।।
विधिनैवैकवाक्यत्वं यतो मत्रार्थवादयोः ।।
ततो दर्शननिष्ठत्वं न तयोरुपपद्यते ।। ५६४ ।।
अर्थवादोक्तितो याऽपि प्रतिष्ठाकामिकल्पना ।।
विध्यर्थसंगतावेव साऽपि नैव ततोऽन्यतः ।। ५६५ ।।
विध्यर्थशेषभावश्च ततश्चार्थान्तरोक्तिता ।।
ऐकार्थ्याद्वचसोऽशक्या विरुद्धद्व्यर्थकल्पना ।। ५६६ ।।
विरोधे गुणवादः स्यादनुवादोऽवधारिते ।।
भूतार्थवादस्तद्धानादर्थवादस्रिधा मतः ।। ५६७ ।।
विधिशेषोऽपि यद्यर्थमर्थवादः समर्पयेत् ।।
अद्वैतविधिनाऽऽक्षिप्ता वेदान्ता नेति का मितिः ।। ५६८ ।।
प्रत्यक्षाद्यभिधानेन सर्वमानोपलक्षणम् ।।
मान्तरं नाऽऽगमादन्यद्यदैकात्म्यावबोधकृत् ।। ५६९ ।।
सिद्धेऽनवगते यस्मात्पुरस्ताद्व्यापृतिर्मितेः ।।
मानादज्ञाततासिद्धौ स्यादन्योन्यसमाश्रयः ।। ५७० ।।
तत्त्वमस्यादिक्यस्य विरोधोऽतो न केनचित् ।।
सर्वाश्रयत्वात्संवित्तेस्तथाऽऽत्मन्यप्रवृत्तितः ।। ५७१ ।।
कृत्स्रेष्टार्थस्य संप्राप्तिः कृत्स्रानर्थइनुतिस्तथा ।।
आत्मस्वरूपान्नान्यत्र संभाव्या सा हि मानतः ।।। ५७२ ।।
इत्येवमादिभाष्यार्थः क्रमेणैकात्म्यवस्तुनि ।।
यत्नेन वक्ष्यते न्यायात्पूर्वपक्षनिरासतः ।। ५७३ ।।
वेदान्तवचसां स्वार्थे प्रामाण्यं न विहन्यते ।।
मानलक्षणसद्भावाज्ज्योतिष्टोमादिवाक्यवत् ।। ५७४ ।।
नैव कार्यैकनिष्ठानि व्यवहारे वचांसि हि ।।
नियमेन प्रयुज्यन्त इत्यत्र मितिरस्ति ते ।। ५७५ ।।
दिष्ट्या त्वं वर्धसे भद्र जातः पुत्रस्तवर्धिमान् ।।
इति नेदं प्रवृत्त्यर्थं वचो नापि निवृत्तये ।। ५७६ ।।
सुखाद्युत्पत्तिहेतूनि दृश्यन्तेऽकार्यवन्त्यपि ।।
वचनानि व्रज ग्राममित्यादिनि यथा तथा ।। ५७७ ।।
सुख्येधीति न चानेन प्रवृत्तिरुपदिश्यते ।।
सुखीभवनमस्यार्थान्नोपदेशव्यपेक्षया ।। ५७८ ।।
विशेषोऽस्ति प्रवृत्तेश्चेत्तात्पर्यं वचसोऽपि च ।।
नैवं सुखादिसंभूतावर्थवत्त्वोपपत्तितः ।। ५७९ ।।
आनर्थक्यभयादेव श्रुतादन्यत्र कल्प्यते ।।
तात्पर्यं प्रोक्षणाद्युक्तेर्न स्वतत्रेऽधिकारवत् ।। ५८० ।।
किंचोपायेऽप्रवृत्तः सन्पुरुषोऽयं प्रवर्त्यते ।।
ज्ञातोपायत्वतो यद्वा विधिनोपेयसिद्धये ।। ५८१ ।।
तत्रेह तावन्नोपाये पुत्रजन्मादिलक्षणे ।।
तस्य निष्पन्नरूपत्वान्नाप्युपेये सुखे तथा ।। ५८२ ।।
न व्यापारान्तरं यस्मात्सुखार्थं किंचिदीक्ष्यते ।।
पुत्रजन्मोक्तिमात्रेण पुरुषार्थावसानतः ।। ५८३ ।।
किं चाध्यस्ताहिदृष्टस्य तद्विपव्याप्तचेतसः ।।
स्रगियं न फणीत्युक्ते दृष्टा विषनिराक्रिया ।। ५८४ ।।
मा भैषीरिति चोक्तेऽपि न नियोगः प्रतीयते ।।
स्रगुक्तेरेव निःशेषसाध्वसध्वंसलाभतः ।। ५८५ ।।
न्याय्यो नियोगस्तत्रैव यत्र बुद्धाऽस्य कार्यताम् ।।
अनन्तंर प्रवृ्त्तिः स्याद्विषये तस्य सिद्धये ।। ५८६ ।।
इह त्वैकात्म्यवाक्येषु तत्त्वमात्रावबोधतः ।।
सद्यः पुमर्थसंसिद्धेः कार्यसिद्धिर्न वीक्ष्यते ।। ५८७ ।।
कुतूहलवतां तद्वन्निर्वृत्ताख्यानमात्रतः ।।
दृष्टा नराणां निःशेषकुतूहलनिराक्रिया ।। ५८८ ।।
वस्तुमात्रावसायित्वात्तद्वचांसि न कनिचित् ।।
उपादानाय वाऽलं स्युर्नापि हानाय तद्विदः ।। ५८९ ।।
यत्रापि च प्रतीयेते हानादाने वचःश्रवात ।।
अयं चोराकुलः पन्था देशोऽयं निधिमानिति ।। ५९० ।।
तत्रापि नैव शब्दस्य व्यापारः सिद्धवेदनात् ।।
कृतार्थत्वान्नरस्यापि रागादेव प्रवृत्तितः ।। ५९१ ।।
कामैकपाशाकृष्टः सन्निच्छयैव प्रवर्तते ।।
निवर्तते च तद्दूेषान्न शब्दव्यापृतेर्नरः ।। ५९२ ।।
नन्वप्रयुक्तमप्येतद्वक्त्रा वाक्यं विवक्षितम् ।।
न गन्तव्यं पथाऽनेन, गृहाणेमं निधिं तथा ।। ५९३ ।।
मैवं, न वक्त्रभिप्रायाच्छब्दार्थत्वं प्रकल्पते ।।
शब्दसामर्थ्यतो यस्मात्तादर्थ्यं, नान्यहेतुकम् ।। ५९४ ।।
भवद्भिरपि चैवैतदभ्युपेयं प्रयत्नतः ।।
वक्तृतत्रे हि शब्दार्थे न विश्वासः श्रुतेर्भवेत् ।। ५९५ ।।
नानाविधपुमर्थाप्तिरपि वक्तुः समीहिता ।।
तस्या अपि त्वदुक्त्यैवं शब्दार्थत्वं प्रसज्यते ।। ५९६ ।।
प्रवृत्तिं वा निवृत्तिं वा यदाऽभिप्रेत्य चेतसा ।।
किंचिज्जिज्ञास्यते ज्ञात्रा प्रत्यक्षादिप्रमाणतः ।। ५९७ ।।
अभिप्रेताऽपि न तदा प्रवृत्तिर्यदि वेतरा ।।
प्रत्यक्षादिप्रमेयेति शक्या वक्तुं विपश्चिता ।। ५९८ ।।
इतश्चाभ्युपगन्तव्यमेततुल्येऽपि वस्तुनि ।।
एकस्य हानधीस्तस्मिन्नुपादित्सा परस्य च ।। ५९९ ।।
शब्दार्थत्वे हि सर्वेषामादानायैव धीर्भवेत् ।।
नोपेक्षायां, प्रहाणे वा, न चानेकार्थता मता ।। ६०० ।।
न च प्रवर्तकत्वेऽपि वाक्यस्याङ्गीकृते त्वया ।।
शक्यो विधायिनोऽन्येषां पदानां वक्तुमन्वयः ।। ६०१ ।।
किं स्वार्थमात्रनिष्ठत्वमुत कार्यै कनिष्ठता ।।
पदार्थमात्रसंसर्गपरता किं त्वितीर्यताम् ।। ६०२ ।।
स्वार्थमात्रावसायित्वे वाक्यार्थप्रत्ययः कुतः ।।
वैयर्थ्यं त प्रयोगस्य व्यवहाराक्षमत्वतः ।। ६०३ ।।
पदार्थमात्रसंसर्गे कार्यार्थविरहेऽपि ते ।।
व्यवहारस्य संसिद्धेर्व्यर्था कार्यप्रकल्पना ।। ६०४ ।।
कार्यैकव्यतिषङ्गे च वाक्याद्भूतानुवादकात् ।।
प्रतीतिः स्यान्न वाक्यार्थे स्यादुक्तेर्व्यर्थताऽपि च ।। ६०५ ।।
कार्यान्तरस्य चाभावात्कार्यार्थैकाभिधायिनः ।।
संबन्धो न भवेदन्यैः साधनाद्यभिद्यायिभिः ।। ६०६ ।।
कार्यान्वयित्वे सर्वेषामपि चेह परस्परम् ।।
पदार्थानामसंबन्धोऽनपेक्षत्वाद्भवेद् ध्रुवम् ।। ६०७ ।।
नियोगो न प्रतीयेत विशिष्टविषयस्तथा ।।
तदा चैकपदार्थस्य नियोगः साध्यतामियात् ।। ६०८ ।।
अथ सोमादिसंबद्धे यागादौ विपये मतः ।।
नियोगः कस्ततः पूर्वं संबन्धे हेतुरुच्यताम् ।। ६०९ ।।
सिद्धेऽसति विशिष्टे न विपये कार्यमिष्यते।।
अथ क्रियैव प्राक्कार्यात्सिद्धं नो यत्समीहितम् ।। ६१० ।।
तदेतरत्तदर्थमित्येवं चैतत्समञ्जसम् ।।
विषये यदि कार्यत्वं कार्यावगमपूर्वकम् ।। ६११ ।।
कार्ये कार्यान्तराभावात्कार्यवुद्धिः कुतो भवेत् ।।
तदभावादनुष्ठेयो विषयोऽपि न ते भवेत् ।। ६१२ ।।
कार्यार्थता ततश्चेष्टा हीयेतानुष्ठितिं विना ।।
अथ कार्यान्तराभावेऽप्यस्य कार्यत्वमिष्यते ।। ६१३ ।।
विषयस्यापि कार्यत्वं स्वत एव भवेत्तथा ।।
विषयोऽकार्यरूपत्वात्स्वसिद्ध्यै यद्यपेक्षते ।। ५१४ ।।
कार्यं तदपि विषयमीक्षेतासाध्यरूपतः ।।
कार्येऽपि कार्यतैवं च भवेद्विषयहेतुका ।। ६१५ ।।
अन्योन्याश्रयता च स्यान्न च कार्यप्रधानता ।।
पुंव्यापारव्यपेक्षायं स्वासिद्धौ कार्यमुच्यते ।। ६१६ ।।
यागादिः स च नो कार्यं स्वतःकार्यैकरूपतः ।।
कार्यस्यैव न कार्यत्वमकार्थे कार्यतेष्यते ।। ६१७ ।।
न शौक्ल्ये शुक्लतापत्तिः पटादेः सा विधीयते ।।
घटकार्ययजत्यादि स्वस्वभावतया स्थितम् ।। ६१८ ।।
सिद्धसाध्यादिभेदेन स्वशब्देनाभिधीयते ।।
यदा तदा ध्वनेर्न स्यादज्ञातार्थावबोधने ।।
विशेषः कश्चिदित्येवं न प्रवृत्तिर्विधेर्भवेत् ।। ६१९ ।।
अवबुद्धे तु शब्दार्थे पुरुषार्थनुरोधतः ।।
स्वत एव प्रवृत्तिः स्यान्न शब्दान्नार्थतस्तथा ।। ६२० ।।
साधनादित्रयाद्वाह्यं पुरुषार्थबहिष्कृतम् ।।
क एतत्साधयेेद्धीमान्किं वा रूपमितीर्यताम् ।। ६२१ ।।
न तावत्प्रेरणा कार्यं, कार्यार्थविप्रया हि सा ।।
नाऽऽन्तरोऽपि प्रयत्नः स्यान्मानान्तरगतेस्तथा ।। ६२२ ।।
न क्रिया कर्तृसंबन्धात्फलं नानिष्टरूपतः ।।
कारकं नाप्यसिद्धत्वान्नाप्यन्यदनिरूपणात् ।। ६२३ ।।
न च कालत्रयास्पर्शवाच्यत्वं कार्यलक्षणम् ।।
घटशब्दाद्धटे मा भूत्कालास्पर्शेन कार्यता ।। ६२४ ।।
नियोगोऽपि नियोज्यस्य व्यापारः, स कथं भवेत् ।।
अतीन्द्रियो लिङाद्यर्थः सिद्धिश्चास्य कथं भवेत् ।। ६२५ ।।
सिद्धिर्विषयसिद्धौ चेन्नैवं स्यात्कर्मणा न हि ।।
आप्त्युत्पत्त्यादिकं शक्यमनारोप्यस्वभावतः ।। ६२६ ।।
कार्यं स्वेनाऽऽत्मना सिद्धं पुमर्थं साधयेद्यदि ।।
सर्वदा तस्य तादृक्त्वात्पुमर्थः सर्वदा भवेत् ।। ६२७ ।।
पुंव्यापारप्रसिद्ध्याऽथ सिद्धं स्वार्थकरं मतम् ।।
तस्यानाधेयरूपत्वान्न कदाचित्फलं भवेत् ।।। ६२८ ।।
संभाव्यमानसिद्धेर्हि यागादेः कार्यता मता ।।
व्योमतत्पुष्पयोर्न स्यात्सिद्धात्यन्ताप्रसिद्धयोः ।। ६२९ ।।
कर्तव्यो याग इत्येवं यागाद्भिन्ना यथेक्ष्यते ।।
कर्तव्यं कार्यमित्येवं ततोऽपि व्यतिरिच्यते ।। ६३० ।।
कार्यकर्तव्यता कार्येत्येवमेवातिरिच्यते ।।
तस्मान्न वस्तुधर्मोऽयं शब्दादेव प्रकर्षतः ।। ६३१ ।।
अतो यदेव साध्यार्थसाधनत्वेन गम्यते ।।
वेदात्तदेव साध्यत्वात्कार्यं नान्यत्ततः पृथक् ।। ६३२ ।।
लिङादिः प्रेरणावाची कुतः कार्यमितीर्यताम् ।।
विषयत्वेन नाऽऽक्षेपो भावार्थो विषयो मतः ।। ६३३ ।।
प्रेरणाऽपीह नैव स्यादज्ञातज्ञापनात्पृथक् ।।
समस्तकार्यदोषोक्तिप्रसङ्गान्मित्यभावतः ।। ६३४ ।।
न स्वरूपं लिङादीनां प्रेरणाज्ञापकत्वतः ।।
अन्योन्यरूपभेदेऽपि प्रेरणानुगमात्तथा ।। ६३५ ।।
शक्तेरनभिधेयत्वात्तद्व्यापारोऽपि नेष्यते ।।
प्रेरकाभावतो वेदे तद्व्यापारोऽपि नेरणा ।। ६३६ ।।
अतः समीहितोपायतया वस्त्ववबोधयन् ।।
अबुद्धं प्रेरको वेदो ज्ञापना प्रेरणा मता ।। ६३७ ।।
तथा च वस्तुयाथात्म्यज्ञापनेन प्रमाणता ।।
न प्रेरकतया सा स्यात्प्रत्यक्षादेरनीक्षणात् ।। ६३८ ।।
निष्पादितनियोगस्य वेदप्रामाण्यतो यथा ।।
नियमेन फलं तद्वत्साधनानुष्ठितेर्भवेत् ।। ६३९ ।।
विसंवादोऽपि नाऽऽशङ्क्यो नियोगार्थे यथा तथा ।।
वैदिकत्वादुपायेऽपि नृतत्रे व्यभिचारिता ।। ६४० ।।
नानन्तरफलो यागो दृष्टो लोकेऽपि हि क्वचित् ।।
अतः सामान्यतो दृष्टं क्रियात्वादित्यदूषणम् ।। ६४१ ।।
स्वसामर्थ्याद्यथा कार्यं कालास्पृष्टं प्रभाषते ।।
लिङादिर्यागमप्येवं वक्ष्यतीत्यविशिष्टता ।। ६४२ ।।
साक्षादेवं च संबन्धः साध्यसाधनयोर्भवेत् ।।
नातिरिक्तलिङाद्यर्थव्यवधानविडम्बना ।। ६४३ ।।
साक्षादसति संबन्धे पारंपर्यं, न तु क्वचित् ।।
गतौ सत्यां, तदप्यत्र नान्यत्रेवोपलभ्यते ।। ६४४ ।।
श्रुत्या क्रयाभिसंबन्धो व्यवच्छिद्यैव साधनम् ।।
अरुणः साधको दृष्टो नानपेक्षो वृथा च सः ।। ६४५ ।।
यागः कार्याभिसंबन्धोऽप्यनुत्पाद्य फलं न ते ।।
कथंचित्साधयेत्कार्यं तच्च नास्तीत्यसाधकः ।। ६४६ ।।
नचान्या व्यापृतिस्तस्य कार्यसिद्धौ त्वयेष्यते ।।
फलानुत्पत्तितस्तस्मान्न कार्येणापि संगाति ।। ६४७ ।।
अथ शास्रप्रमाणत्वाददृष्टाऽप्यभ्युपेयते ।।
फलोत्पत्तिर्ममाप्येवं तथा सति भविष्यति ।। ६४८ ।।
मम शास्रप्रमाणत्वात्पश्चादपि भवेत्फलम् ।।
पूर्वं तु भवतो न्याय्यं तदभावे ह्यसाधकम् ।। ३४९ ।।
कार्यसिद्ध्या फलावाप्तावशेषफलसंभवः ।।
सकृत्करण एव स्यात्कार्यस्याभेदतस्तव ।। ६५० ।।
अनुबन्धाभिसंबन्धात्फलं चेत्स्याद्व्यवस्थया ।।
तत एव न कार्यात्स्यात्तदा तद्भावभावतः ।। ६५१ ।।
औपाधिकश्च मिथ्या स्यात्साध्यसाधनलक्षणः ।।
व्यवहारः श्रुतेर्ज्ञातः परमार्थैकवादिनः ।। ६५२ ।।
एवं ते कर्मकाण्डेऽपि कार्यं तावन्न युज्यते ।।
ऐकात्म्ये तु यथा नास्ति विशेषेणोच्यते तथा ।। ६५३ ।।
प्रतिपत्तिविधिस्तावन्नाऽऽत्मा द्रष्टव्य इत्ययम् ।।
तस्य भावार्थनिष्ठत्वाद्वस्तुन्यनुपपत्तितः ।। ६५४ ।।
सिद्धेऽसिद्धेऽथ वैकात्म्ये विधिर्नैवोपपद्यते ।।
नाऽऽकाशे नापि तत्पुष्पे पुंव्यापारानपेक्षता ।। ६५५ ।।
न विधिर्दर्शनेऽपि स्यादन्योन्याश्रयदोषतः ।।
दर्शनाद्विधिसंसिद्धेर्विधेर्दर्शनसिद्धितः ।। ६५६ ।।
न च यूपादिवच्छक्यं वेदेनैव समर्पणम् ।।
ऐकात्म्यस्य स्वतः सिद्धेः साध्यत्वाद्यूपवस्तुनः ।। ६५७ ।।
सिद्धं चेद्दर्शयेद्वेदः प्रसिद्धं दर्शनं तथा ।।
तन्निष्ठं च भवेद्वाक्यं व्यर्थता च विधेस्तदा ।। ६५८ ।।
सर्वमात्मेति वाक्यास्य न च वस्तुन्यसंभवः ।।
येनार्थस्यासमाप्तात्वात्क्रियेताध्याहृतिः पदे ।। ६५९ ।।
आत्मा ब्रह्मेति विज्ञानं विधिं नैव व्यपेक्षतेः ।।
यस्मात्तच्छ्रुतवाक्यस्य स्वयमेवोपजायते ।। ६६० ।।
यजेतेतिविधिज्ञानं न विध्यन्तरमीक्षते ।।
विध्यन्तरेऽनवस्था स्यान्न चायं कर्मणि स्थितेः ।। ६६१ ।।
प्रतिपन्ने विधेयार्थे प्रवृत्तिः फलमिष्यते ।।
प्रवृत्तेश्च विधिज्ञानमेवमन्योसंश्रयः ।। ६६२ ।।
बोधेऽस्मिञ्शब्दतो जाते न प्रवर्त्योऽकलत्वतः ।।
अऩुत्पन्ने च नितरां प्रवृत्तेर्हेत्वसंभवात् ।। ६६३ ।।
अथ निश्चयसिद्ध्यर्थमुत्पन्नेऽपि प्रवर्त्यते ।।
स निश्चयो वः किं शब्दादथान्यस्मादितीर्यताम् ।। ६६४ ।।
शब्दाद्यदि तदेदेदमायातं पूर्वदूषणम् ।।
अन्यस्मिन्निष्यमाणे च सापेक्षत्वं प्रसज्यते ।। ६६५ ।।
अविवक्षितनुत्त्यर्थमथात्र विधिरिष्यते ।।
अयं ज्ञेयोऽर्थ इत्युक्तौ स्याद्विवक्षितधीर्यतः ।। ६६६ ।।
नैवमुत्सर्गतो यस्माच्छब्दानां लोकवेदयोः ।।
विशिष्टार्थैकनिष्ठत्वं स्वतो न विधिहेतुतः ।। ६६७ ।।
अविशिष्टश्च वाक्यार्थस्तथा लौकिकवैदिक -
वाक्ययोर्गम्यते यस्माद्विधिर्नातो विवक्षितः ।। ६६८ ।।
अपि दृष्टार्थतैकात्म्ये कर्मस्विव न भिद्यते ।।
वेदाधीतिविधेस्तस्माद्विधिरत्र निरर्थकः ।। ६६९ ।।
विधेर्विध्यन्तरेऽभीष्टे कृत्स्नोऽर्थोऽप्यविवक्षितः ।।
पूर्वोक्तेनैव न्यायेन नैव कल्प्यो विधिस्ततः ।। ६७० ।।
मतं पुमर्थसिद्ध्यर्थः ज्ञानस्य विधिरिष्यते ।।
फलस्य विध्यधीनत्वादुपेक्षाफलताऽन्यथा ।। ६७१ ।।
ज्ञेयव्याप्त्यतिरेकेण न विज्ञानात्फलान्तरम् ।।
इष्यते कर्मवन्नातस्तदर्थं विधिकल्पना ।। ६७२ ।।
यदाऽपि मातरि फलं तदाऽपि विधिनाऽत्र किम् ।।
मातृमानप्रमेयादौ तत्सिद्धेर्विधिना विना ।। ६७३ ।।
अथापि कार्यविरहात्सिद्धार्थमनुवादकम् ।।
वचो नैव प्रमाणं स्यात्तस्य मान्तरसंगतेः ।। ६७४ ।।
विध्यर्थाङ्गीकृतौ त्वेतदनपेक्षं प्रमाणताम् ।।
अश्नुते मान्तराभावाज्ज्योतिष्टोमादिवाक्यवत् ।। ६७५ ।।
वस्तु मान्तरयोग्यं चेद्विधौ सत्यपि तत्तथा ।।
अथ तन्मान्तरायोग्यं विध्यभावेऽपि तत्तथा ।। ६७६ ।।
किं वाक्यस्यानुवादत्वं सिद्धेऽर्थे मान्तरेण वा ।।
मिते तत्र न पूर्वस्मिन्सिद्धेऽप्यर्थेऽनुवादता ।। ६७७ ।।
मानान्तरानधिगतं सिद्धं वस्त्ववबोधयत् ।।
मानं किं नानपेक्षं स्यात्पुमर्थश्च स्वरूपतः ।। ६७८ ।।
पुंबुद्धिविषयो ह्यर्थो मानान्तरमपेक्षते ।।
अभावात्पुरुषस्येह न तु सिद्धोऽपि वैदिकः ।। ६७९ ।।
न च सिद्धत्वमात्रेण शङ्क्यते मान्तरं क्वचित् ।।
शङ्क्य़मानस्य मानस्य तुल्या सापेक्षता यतः ।। ६८० ।।
न च सापेक्षताऽप्यस्ति मितेर्मानत्वतः क्वचित् ।।
मान्तरानवबुद्धं हि बोधयन्मानमुच्यते ।। ६८१ ।।
मानान्तरानपेक्षं चेन्मानं मेयं ज्ञबोधयेत् ।।
मानमेव तदा तत्स्यान्नातोऽन्यन्मानलक्षणम् ।। ६८२ ।।
अथ मानान्तरापेक्षं तन्मानं मेयबोधकम् ।।
द्वयोरेकक्रियावेशात्तथाऽप्यन्यानपेक्षता ।। ६८३ ।।
अथानधिगताभावादुत्तरस्याप्रमाणता ।।
तत्सद्भावात्तु पूर्वस्य ज्ञानस्यास्तु प्रमाणता ।। ६८४ ।।
मातोऽनधिगतत्वस्य सिद्धिः स्यादथवाऽन्यतः ।।
स्वतो वा ज्ञाततायाश्च कुतः सिद्धिरितीर्यताम् ।। ६८५ ।।
अज्ञातत्वस्य माव्याप्तेः पूर्वमेव प्रसिद्धितः ।।
ततश्च मानतः सिद्धिर्नाज्ञातत्वस्य कुत्रचित् ।। ६८६ ।।
मानव्याप्तिक्षमं चेत्स्यादज्ञातत्वं घटादिवत् ।।
वास्तवं स्यात्तदा रूपमज्ञातं च सदा भवेत् ।। ६८७ ।।
तथा संशयमिथ्यात्वबुद्ध्योरेष यथोदितः ।।
न्यायो वाच्यस्ततः सर्वो व्यवहारो न सिध्यति ।। ६८८ ।।
अज्ञातत्वाविशेषेऽपि मानानां यदि मानता ।।
ज्ञातस्याज्ञाततोऽन्यत्वात्तत्र स्यात्किं न मानता ।। ६८९ ।।
एकार्थोपनिपातित्वात्सापेक्षत्वं यदीष्यते ।।
तथाच सर्वमानानां सापेक्षत्वं प्रसज्यते ।। ६९० ।।
एकस्यामपि सत्तायां सर्वाक्षाणां प्रमाणता ।।
द्रव्ये त्वक्चक्षुषोस्तद्वत्प्रसज्येताप्रमाणता ।। ६९१ ।।
नियोगे लोकिके चाऽपि हरीतक्यादिभक्षणे ।।
मानान्तरासंभवेन प्रसज्येतानपेक्षता ।। ६९२ ।।
नैष दोषो नरज्ञानपूर्विका विनियोगधीः।।
येन लोकेऽस्त्यतोऽपेक्षा वेदे तु स्याद्विपर्ययः ।। ६९३ ।।
नैवं सत्यनपेक्षत्वं वचसः कार्यसंश्रयात् ।।
पुंबुद्धिपूर्वकत्वेन यतः सापेक्षतोच्यते ।। ६९४ ।।
नैवं नियोगनिष्ठत्वाद्वेदे तेनानपेक्षता ।।
सापेक्षत्वं च लोके स्याद्विनियोगप्रधानतः ।। ६९५ ।।
नैवं शब्दार्थयोरैक्यं यदा स्याल्लोकवेदयोः।।
तदा न शक्यते वक्तुं वैलक्षण्यं तयोरिति ।। ६९६ ।।
स्वरूपलाभः सिद्धश्चेत्स्वतो वा यदि वाऽन्यतः ।।
स्वरूपेऽनुपयोगित्वान्न प्रमणव्यपेक्षणम् ।। ६९७ ।।
अभिव्यक्तोऽथ सिद्धोऽयं स्वतो वा यदि वाऽन्यतः ।।
अभिव्यक्तस्य भूयोऽपि निष्फलं मान्तरेक्षणम् ।। ६९८ ।।
तस्मान्न सिद्ध इत्येव संभाव्येत प्रमान्तरम् ।।
नरोक्तौ मान्तरापेक्षा तेन मान्तरसंभवः ।। ६९९ ।।
क्रियां विना न संसर्गः पदार्थानामथोच्यते ।।
क्रियैवापेक्ष्यतां तर्हि किं न सिद्धं विधिं विना ।। ७०० ।।
क्रिया चापेक्ष्यमाणाऽपि न या काचिदपेक्ष्यते ।।
योग्यत्वहेतुतस्तर्हि साऽस्त्येवास्यादिका श्रुतौ ।। ७०१ ।।
अकर्मकत्वादस्यादेर्न तावत्कर्म विद्यते ।।
अभूतभवनं चार्थे नित्यत्वादात्मनश्च न ।। ७०२ ।।
असंसृष्टात्मबोधित्वान्नापि संसर्गधीरतः ।।
स आत्मेत्यभिसंबन्धान्नापि सत्ता सतोच्यते ।। ७०३ ।।
शब्दाद्यगोचरोऽर्थोऽतो लक्षणापाश्रयाच्छ्रुतौ ।।
सदित्यादिपदैरात्मा साक्षान्नः प्रतिपाद्यते ।। ७०४ ।।
यदाऽपि मानयोग्यत्वं सत्त्वं तच्च प्रतीयते ।।
तदाऽपि वस्तुपरता नाऽऽगमस्य विहन्यते ।। ७०५ ।।
मान्तरेणापि संबद्धमर्थं वाक्यं प्रबोधयत् ।।
मानतां न जहात्येव जगत्याप्तवचो यथा ।। ७०६ ।।
ज्ञातः सोऽर्थो मयेत्यत्र नाऽऽप्तवाक्यं विहन्यते ।।
मानान्तरव्यपेक्षत्वाद्विहन्येतार्थनिश्चितौ ।। ७०७ ।।
मायोगेऽपि न मानत्वमनाप्तवचसः क्वचित् ।।
तेनाऽऽप्तवाक्यं मायोगे मानादर्थेऽपि निष्ठितम् ।। ७०८ ।।
एवं च सति वेदान्ता यदि मानमलौकिकम् ।।
प्रबोधयन्ति विध्वस्तनिखिलद्वैतगौचरम् ।। ७०९ ।।
कथं तेषाममानत्वं तदा स्यादाप्तवाक्यवत् ।।
अर्थसिद्धिश्च मासिद्धौ सिद्धैवेति न साध्यते ।। ७१० ।।
किंच सिद्धत्वसंबन्धादैकात्म्ये मान्तरानुमा ।।
यथैवं कार्यतायोगान्नियोगेऽप्यनुमा न किम् ।। ७११ ।।
नियोगस्यापि कार्यत्वं प्रेषणाध्येषणादिभिः ।।
समं तद्वर्त्मनैवास्य संबन्धग्रहणं यतः ।। ७१२ ।।
परायत्तात्मलाभत्वं नियोगस्येह कार्यता ।।
कार्यैर्मान्तरगम्यैः सा न कथंचिद्विशिष्यते ।। ७१३ ।।
यत्त्वसाधारणं तस्य कार्यत्वमिति भण्यते ।।
लौकिकेष्वपि कार्येषु तन्नेैव विनिवार्यते ।। ७१४ ।।
अथासाधारणज्ञानपरिच्छेद्यत्वमिष्यते ।।
तच्च सर्वपदार्थानां न दण्डैर्विनिवार्यते ।। ७१५ ।।
प्रमाणायत्तमेतावत्स्वप्रमेयावभासनम् ।।
कार्यताऽकार्यतावत्स्वप्रमेयावभासनम् ।।
कार्यताऽकार्यता वाऽत्र मेयायत्ता, न मानतः ।। ७१६ ।।
सिद्धत्वहेतुको योऽपि दोष ऐकात्म्य उच्यते ।।
नियोगस्यापि संसिद्धौ स दोषो नापनुद्यते ।। ७१७ ।।
यागादिविषयासिद्ध्या न चासौ न प्रसिध्यति ।।
विध्युक्तेस्तदसंसिद्धौ निष्फलत्वं प्रसज्यते ।। ७१८ ।।
ऐकात्म्यवस्तुयाथात्म्यप्रकाशनपटीयतः ।।
वचसस्त्वतिरेकेण किं मानं तद्धुरं वहेत् ।। ७१९ ।।
मात्रादिसव्यपेक्षं सद्यत्र ज्ञानं प्रजायते ।।
तत्रैव मान्तरापेक्षा न तु विध्वस्तभेदके ।। ७२० ।।
विध्यर्थाधीनसंसर्गाः पदार्था वैदिकोक्तिषु ।।
लोके मान्तरसंसिद्धसंसर्गा रचनाबलात् ।। ७२१ ।।
रचना च पदार्थानां विवक्षापूर्विकैव तु ।।
प्रमाणान्तरगम्येऽर्थे विवक्षा च व्यवस्थिता ।। ७२२ ।।
एवं च सति वेेदान्तवाक्यार्थप्रत्ययो भ्रमः ।।
उत्खातविधिको लोके तोयबुद्धिरिवोषरे ।। ७२३ ।।
इत्युक्ते परिहाराय शृणु यद्भण्यतेऽधुना ।। ७२४ ।।
पदार्थसंगतेः कस्माद्विध्यधीनत्वमादृतम् ।।
पदार्थान्तरतत्रत्वं कस्माद्धेतोर्न कल्प्यते ।। ७२५ ।।
संसर्गश्चेत्पदार्थानां विनाऽपि विधिना भवेत् ।।
अनर्थको भवेदेवं विधिर्निर्विषयत्वतः ।। ७२६ ।।
ननु दोषः समानोऽयं विधेरन्यपदेष्वपि ।।
विशिष्टार्थावगत्यर्थं प्रयुज्यन्तेऽपराण्यपि ।। ७२७ ।।
एवं सति विधिः कस्मान्नानर्थक इतीर्यताम् ।।
योगक्षेमसमानत्वादविध्यर्थपदान्तरैः ।। ७२८ ।।
उच्यते विधिशब्दो हि मान्तराज्ञातगोचरः।।
न तस्य विषयाक्षेपं मुक्त्वाऽन्यत्र कृतार्थता ।। ७२९ ।।
मानान्तरप्रसिद्धार्थवादित्वादनुवादकम् ।।
विधेरन्यपदं यस्मान्नाऽऽक्षेपोऽतः प्रतीयते ।। ७३० ।।
अव्युत्पन्नेऽपि संबन्धे विध्यर्थावगमस्तथा ।।
अथ विज्ञातसंबन्धं सिद्धार्थं स्याद्विधायकम् ।। ७३१ ।।
स्वधर्मं च पदं जह्यात्संबन्धज्ञाननिह्नुतौ।।
तस्माद्विज्ञातसंबन्धं पदं सर्वत्र बोधकम् ।। ७३२ ।।
इतोऽन्यथा कल्प्यमाने सर्वं स्यादसमञ्जसम् ।।
वाक्यवाक्यार्थयोगश्चेद्वाच्यवाचकलक्षणः ।। ७३३ ।।
तद्विशेषैकनिष्ठत्वान्न वः संबन्धधीर्भवेत् ।।
न विशेषान्तरे वृत्तिर्विशेषस्यास्ति गोत्ववत् ।।
नैराकाङक्ष्येण तत्सिद्धेः संबन्धोऽतो न गृह्यते ।। ७३४ ।।
संबन्धं मन्यते योऽपि शाब्दबोधानुसारिणीम् ।। ७३५ ।।
दृष्ट्वेहां श्रोतृगां सोऽपि न सम्यगभिमन्यते ।।
श्रोतृस्थकार्यलिङ्गत्वात्कथं शब्दैकगोचरः ।। ७३६ ।।
तस्यापि शब्दपूर्वत्वादिति चेल्लिङ्गपूर्वतः ।।
कस्मान्न शब्दबोधोऽपि ह्यनुमानपुरःसरः ।। ७३७ ।।
नियोग शब्दतो बुद्ध्वा योऽपि श्रोता प्रवर्तते ।।
तस्याप्यनुमितेरेव शब्दार्थप्रत्ययो भवेत् ।। ७३८ ।।
प्रत्यक्षगम्यकार्येण नियोगस्यानुमेयतः ।।
प्रत्थक्षकार्यवत्तस्य लौकिकत्वं प्रसज्यते ।। ७३९ ।।
न चेत्कार्यं नियोगः स्यात्कोऽर्थो यागादिसिद्धितः ।।
सिद्धवस्त्ववबोधत्वं विधेरपि तदा भवेत् ।। ७४० ।।
प्राथम्यं चात्र दुर्लक्ष्यं बीजतत्कार्ययोरिव ।।
शब्दानुमानयोर्नातः शब्दप्रथमतेष्यते ।। ७४१ ।।
यद्वाऽनुमानमेवात्र शब्दात्पूर्वं हि युज्यते ।।
नावित्तसंगतिः शब्दो गमकोऽतोऽनुवादकः ।। ७४२ ।।
बुध्यते योऽनुमानेन शब्दबुद्धं न वेत्ति सः ।
भिन्ने भिन्नेऽपि मेये धीर्नानुवादोऽन्यबोद्धरि ।। ७४३ ।।
प्रवृत्तिहेतुमात्रं च प्रवृत्त्याऽत्रानुमीयते ।।
लोकिकेनापि तत्सिद्धेर्नास्ति मानमलौकिके ।। ७४४ ।।
कार्यबुद्ध्यैव संव्याप्तिः प्रवृत्तेर्न च गम्यते ।।
सर्पादिवस्तुबोधेऽपि प्रवृत्तिर्वीक्ष्यते यतः ।। ७४५ ।।
पुंस्प्रवृत्तेः फलं कार्यं विध्यर्थश्चापि कारणम् ।।
प्रवृत्तिहेतुर्न फलं भवतैवाभिधीयते ।। ७४६ ।।
अपसर्प्यस्य सर्पादेर्न च कार्यं फलं मतम् ।।
अमर्थाभावमात्रत्वान्नचाभावः फलं क्वचित् ।। ७४७ ।।
नियोगोऽथ प्रमारूपो विधिशब्दप्रकाशितः ।।
मानान्तरानपेक्षः सन्नाक्षेपकतया प्रमा ।। ७४८ ।।
आक्षेप्तृत्वं न शब्दोत्थं न च मानान्तरात्तथा ।।
अव्युत्पन्नप्रवृत्तिश्चेत्युक्तदोषप्रसङ्गतः ।। ७४९ ।।
स्वाभ्युपेतनयस्यैव त्यागः प्राप्नोत्यनीप्सितः ।।
प्रामाण्यं चास्य यत्रेष्टं श्रुतेस्तत्रास्त्वनेन किम् ।। ७५० ।।
क्व चेष्टमस्य मानत्वं न यागादौ स्वशब्दमे ।।
लोकिकोऽपि न संसर्गो विध्यायत्तः स्थितो यतः ।।
विध्यभावे हि संसर्गः श्रोतुरस्त्यविधावपि ।। ७५१ ।।
फलसाधनशक्तिश्चेद्विध्यायत्ता भविष्यति ।।
नैवं तत्रापि शब्दस्य सामर्थ्यं केन वार्यते ।। ७५२ ।।
तस्मादितरतुल्यत्वान्न विध्यर्थनिबन्धनः ।।
संसर्गः स्यात्पदार्थानां सुस्थमेवं विधिं विना ।। ७५३ ।।
तस्मात्सर्वपदार्थानामाकाङ्क्षायोग्यसंनिधेः ।।
परस्पराभिसंबन्धाद्विशिष्टार्थावबोधिता ।। ७५४ ।।
ननूत्पत्तिविधिर्यद्वत्कर्मबोधे व्यवस्थितः ।।
आत्मज्ञानविधिस्तद्वदात्मबोधेऽवतिष्ठताम् ।। ७५५ ।।
कर्माधिकारवच्चात्र प्रवृत्तिरपि सेत्स्यति ।।
अप्रवृत्तप्रवृत्तिश्च तथा बुद्धार्थबोधनम् ।। ७५६ ।।
एवं विधिमिहेच्छन्ति विध्ययोग्येऽपि वस्तुनि ।।
विधिरागवशात्केचित्तान्प्रतीदमथोच्यते ।। ७५७ ।।
कर्मस्वरूपबोधे हि व्यापारो नेष्यते विधेः ।।
किं तूत्पन्नस्य सापेक्ष्यादधिकारेण संगतिः ।। ७५८ ।।
अधिकारप्रवेशित्वं नाऽऽत्मज्ञानस्य युज्यते ।।
यस्याधिकारसंबन्धः स आत्मा न विधीयते ।। ७५९ ।।
व्रीह्यादिविषयं यद्वद्यत्नेनापि निरूपितम् ।।
प्रत्यक्षं नाधिकारानुप्रवेशंं प्रतिपद्यते ।। ७६० ।।
अन्योऽप्यनुभवोपायो मननध्यानलक्षणः ।।
सोपायो विहितोऽस्त्येव प्रतिपत्तिविधिं विना ।। ७६१ ।।
दर्शनस्य विधेयत्वात्तत्संबन्धोपलक्षितः ।।
प्रसंख्यानात्मकोऽत्रापि प्रयत्नोऽनुभवंं प्रति ।। ७६२ ।।
शमाद्यङ्गान्वितः सर्वमात्मेतिस्तुतिभूषणः ।।
मननाद्यर्थवत्त्वाय पश्येदिति विधीयते ।। ७६३ ।।
पश्येदिति प्रयत्नश्चेत्फलं स्याद्दर्शनं तदा ।।
लक्षणं न प्रयत्नस्य लक्षणं चेत्कथं फलम् ।। ७६४ ।।
लोके दर्शनसंबद्धं प्रसंख्यानं समीक्षितम् ।।
वेदेऽपि किं तथा तत्स्यान्न वाऽतस्तद्विधीयते ।। ७६५ ।।
सामान्येनौषधं यद्वज्ज्वरनाशोपलक्षितम् ।।
दृष्टं कष्टज्वरेऽप्येवं विशेषेणोपदिश्यते ।। ७६६ ।।
अप्यज्ञातफलं साक्षान्मान्तरैर्विधिसंश्रयात् ।।
अभावनिश्चयाभावात्प्रसंख्यानं फलाय नः ।। ७६७ ।।
पश्चादावेवमेव स्यात्संदिग्धेऽपि विनिश्चयः ।।
खपुष्पे त्वनुपायत्वान्निश्चयोऽस्ति विपर्यये ।। ७६८ ।।
एवं केचिद्व्यवस्थाप्य प्रसंख्यानविधिं पुनः ।।
ऐकात्म्यज्ञानतात्पर्यं तस्यापीच्छन्ति युक्तिभिः ।। ७६९ ।।
विधिस्वातत्रयपक्षे हि किलैकात्म्यं न सिध्यति ।।
तच्छास्रं विधिनिष्ठत्वान्न स्वरूपेऽर्थवादतः ।। ७७० ।।
अपि शास्रात्प्रपन्नोऽस्मिन्पारोक्ष्यानपहारतः ।।
तत्साक्षात्करणायैव प्रसंख्यानं विधीयते ।। ७७१ ।।
मानेन विषयासिद्धौ तद्दिदृक्षावियोगतः ।।
प्रसंख्यानविधिर्न स्यात्सहापि मननादिभिः ।। ७७२ ।।
श्रुतेर्ज्ञातात्मवृत्तान्तोऽननुभूतमपि स्वकम् ।।
स्थानकं वाञ्छतः शास्रात्प्रसंख्यानं विधीयते ।। ७७३ ।।
स्वव्यापारमुखेनैव शास्रं स्वार्थावबोधकृत् ।।
न तु व्यापारविरहान्नातो द्विकरता श्रुतेः ।। ७७४ ।।
स्वव्यापारतिरोधानं कारकाणां न च स्थितम् ।।
तस्मादैकात्म्यतात्पर्ये प्रसंख्यानादि सुस्थितम् ।। ७७५ ।।
बोधयित्वाऽपि चैकात्म्यं नान्तरा पर्यवस्यति ।।
आ पुमर्थावधेः शास्रमप्रामाण्यभयात्स्फुटम् ।। ७७६ ।।
परोक्षवृत्त्या शब्दो हि वदन्स्वार्थं स्वभावतः ।।
संभावयन्प्रमाणत्वं युक्तिं स्वीकृत्य वर्तते ।। ७७७ ।।
याथात्म्यावगमेऽशक्ता धूमोऽग्नाविव साऽपि च ।।
स्वीकृत्यैव प्रसंख्यानं युक्तिर्वस्तुनि वर्तते ।। ७७८ ।।
इत्यादिवर्त्मना शास्रं साक्षाद्वस्तु प्रसाधयत् ।।
विधिं प्रति प्रधानत्वं स्वीकृत्याभ्येति मानताम् ।। ७७९ ।।
संसर्गकल्पनाशून्यमप्यैकात्म्यं प्रबोधयेत् ।।
अनयैव दिशा शास्त्रं संसृष्टार्थाभिधाय्यपि ।। ७८० ।।
यतो वाचो निवर्तन्त इति श्रुत्यैव दर्शितम् ।।
व्यपास्ताशेषसंसर्गकल्पनं ब्रह्म निर्भयम् ।। ७८१ ।।
शास्त्रेणानभिधाने तु नियोगेऽपि न युज्यते ।।
प्रवेशो विषयत्वेन तुल्यं चोद्यमतो द्वयोः ।। ७८२ ।।
विधिं विना श्रुतैकात्म्यस्तदर्थानुभवादृते ।।
उपायाज्ञतया कुर्यात्तच्छास्रस्यार्थवादताम् ।। ७८३ ।।
विधिनिष्ठेंऽपि शास्रे स्यादसिद्धेर्वस्तुनो मितेः ।।
देवताध्यानवत्कल्प्यं फलमैकात्म्यवेदनम् ।। ७८४ ।।
प्रतिपन्नात्मयाथात्म्यः प्रसंख्यानादि नेक्षते ।।
अज्ञस्तु श्रावितोऽप्यस्माद्विना नाऽऽप्नोति तत्फलम् ।। ७८५ ।।
शास्रेऽस्मिन्वस्तुनिष्ठेऽपि प्रसंख्यानविधिं विना ।।
पुमर्थो लभ्यते नैवेत्यसावपि समाश्रितः ।। ७८६ ।।
नान्वयव्यतिरेकाभ्यामैकात्म्यानुभवो भवेत् ।।
तत्सिद्धावेव तौ स्यातां स च ताभ्यामिति श्रयः ।। ७८७ ।।
यथैव विश्वजिद्यागपदे स्वार्थानुपालनम् ।।
कुर्वती स्वर्गकामेन गच्छतः सह मानताम् ।। ७८८ ।।
तथैव शास्रतद्युक्ती स्वाभिधेयार्थपालनम् ।।
कुर्वत्यै मानतां यातः प्रसंख्यानेन नान्यथा ।। ७८९ ।।
एवमैकात्म्यतात्पर्ये शास्रस्येष्टेऽपि युक्तिभिः ।।
केेचित्कर्यमपीच्छन्ति तदर्थं, तन्न युज्यते ।। ७९० ।।
प्रमात्रादित्रयं यस्मात्संविन्मात्रवपुर्भुतः ।।
सिद्धायतेऽप्रसिद्धं सत्तत्सिद्धौ किमपेक्षते ।। ७९१ ।।
परोक्षमपि सद्वस्तु यत्साक्ष्यात्मस्वरूपतः ।।
साक्षादात्मेव चाऽऽभाति तस्मिन्पारोक्ष्यधीः कथम् ।। ७९२ ।।
अप्यज्ञानादि निःशेषप्रमेयव्यवधानकृत् ।।
स्वतः प्रसिद्धात्संसिध्येत्तदसिद्धिः कुतो भवेत् ।। ७९३ ।।
स्वमहिम्नैव यः सिद्धः सर्वप्रत्यक्तमश्च यः ।।
तत्तमोहतितः कार्यं किमन्यत्तत्प्रमाणजम् ।। ७९४ ।।
मात्रादित्रयहानेऽपि हानसाक्षितयेक्ष्यते ।।
येनासावविलुप्ताक्षस्तत्पारोक्ष्यं कथं भवेत् ।। ७९५ ।।
नियोगपक्षमाश्रित्य विध्यर्थासंभवो यथा ।।
ऐकात्म्यसिद्धौ यत्नेन तथाऽत्र प्रतिपाद्यते ।। ७९७ ।।
ऐकात्म्यस्य स्वतो मुक्तेरज्ञानात्तस्य बद्धता ।।
साध्येऽर्थे साधनापेक्षा सिद्धे तन्न व्यपेक्षते ।। ७९८ ।।
तमोमात्रान्तरायत्वादैकात्म्याख्यस्य वस्तुनः ।।
असाध्यसाधने तस्मिन्काऽपेक्षा भावनां प्रति ।। ७९९ ।।
यदाऽनुभवकामस्य कार्यं साध्यं प्रतीयते ।।
प्रसंख्याने तदैकात्म्यतात्पर्यं कथमुच्यते ।। ८०० ।।
कार्यं चान्यपरं चेति द्वयमेतद्विरुध्यते ।।
साध्यं हि सर्वदा कार्यमन्यत्तस्य प्रसिद्धये ।। ८०१ ।।
विशेषणं नियोज्यस्य भवन्ननुभवः फलम् ।।
विषयः सत्प्रसंख्यानमनुभूतेर्न साधनम् ।। ८०२ ।।
भावार्थविषयं कार्यं प्रसंख्याने कथं भवेत् ।।
आवृत्तिर्हि प्रसंख्यानं शब्दयुक्त्योरिति स्थितम् ।। ८०३ ।।
अथ श्रवणभावार्थविषयं कार्यमिष्यते ।।
तदा श्रवणमेव स्याद्विशिष्टो विषयस्तव ।। ८०४ ।।
दाक्षायणादावावृत्तेर्यत्रापि फलमुच्यते ।।
सगुणात्पैर्णमासादेः फलं तत्रापि नो गुणात् ।। ८०५ ।।
गुणो यत्रापि दध्यादिः कार्यावच्छेदको मतः।।
धात्वर्थावेशतः सोऽपि प्राप्ते चास्मिन्न तु स्वतः ।। ८०६ ।।
श्रवणादेर्न च प्राप्तिर्गुणान्न च फलं श्रुतम् ।।
पश्येदिति हि धात्वर्थः केवलो विषयः श्रुतः।। ८०७ ।।
नापि तल्लक्षितावृत्तिर्विधेया श्रुतहानतः ।।
कार्यं यन्नापि भावार्थात्तदावृत्तिगुणात्कथम् ।। ८०८।।
स्वयं प्रबोधितेऽप्यर्थे यदि युक्त्याद्यपेक्षते ।।
शास्रं सापेक्षमेवं स्यात्स्वतः प्रामाण्यवर्जनात् ।। ८०९ ।।
युक्त्यादि मान्तरं नो चेन्मानांशत्वेन तत्स्थितेः ।।
संभूय पादाः सर्वेऽपि ह्यैकात्म्यं बोधयन्ति नः ।। ८१० ।।
न संभूय यतः पादास्तैलवर्त्यग्नयो यथा ।।
मितेः स्वरूपलाभाय न तु मेयोपलब्धये ।। ८११ ।।
संभूय यदि सर्वाणि फलमेकं प्रतन्वते ।।
प्रत्येकं प्रमितेर्वृद्धिरित्येतस्यात्तदा मृषा ।। ८१२ ।।
संभूय फलकारित्वं क्रियाकारकसंगतेः ।।
स्वरूपलाभतो नान्यदभिव्यक्तावपेक्षते ।। ८१३ ।।
तैलवर्त्यग्नयो यस्मात्प्रदीपोत्पत्तिकारणम् ।।
लब्धात्मलाभो दीपोऽर्थं स्वयमेव प्रकाशयेत् ।। ८१४ ।।
शब्देन ज्ञाप्यते यद्वत्तथैव यदि युक्तिभिः।।
व्यर्थताऽथ विशेषश्चेत्संप्राप्ता भिन्नमानता ।। ८१५ ।।
स्वप्नादियुक्तिभिश्चेत्तल्लौकिकीभिः प्रसाध्यते ।।
अवैदिकं भवेद्वस्तु स्याच्च शास्रानुवादता ।। ८१६ ।।
वैदिकत्वेऽपि युक्तीनामागमार्थप्रबोधतः ।।
अनुवादत्वमेव स्यात्स्याच्च शास्रादभिन्नता ।। ८१७ ।।
आवृत्तिश्च प्रसंख्यानं कुर्यात्सातिशयं कथम् ।।
न ह्यावृत्तौ प्रमाणस्य प्रमेयेऽतिशयो यतः ।। ८१८ ।।
यत्रापि चान्धकारादिदोषात्क्रमविनिश्चयः ।।
तत्रापि भिन्नमेयत्वान्नैव संभूयमानता ।। ८१९ ।।
पूर्वं वस्त्वति विज्ञानं प्राण्ययं मानुषस्तथा ।।
पुरुषोऽयमथ श्यामो डित्थ इत्यर्थभिन्नता ।। ८२० ।।
परिच्छेदफलत्वं हि मानत्वं तच्च भिद्यते ।।
तदभावे तु पूर्वेषामुत्तरस्यैव मानता ।। ८२१ ।।
अथ मेयप्रभेदेऽपि प्रमाणैकत्वमिष्यते ।।
वस्तुग्राहितयाऽक्षादेरैकार्थ्येऽभिन्नमानता ।। ८२२ ।।
साध्यमानं प्रसंख्यानं यागवत्साधयेत्फलम् ।।
कारकं ज्ञापकं शास्रं तयोः स्यादेकता कथम् ।। ८२३ ।।
प्रमाताऽऽत्मा न मानाशो यद्ययं व्यावहारिकः ।।
परश्चेत्स प्रमेयः स्यात्कथं चानुभवः फलम् ।। ८२४ ।।
स्वरूपंं यद्यसाध्यं तस्त्वातन्त्र्येण प्रसिद्धितः ।।
तज्ज्ञानं चेत्प्रमाणं तत्तच्च शास्रान्न कार्यतः ।। ८२५ ।।
शास्रमावर्त्यमानं हि स्वभावं नैव मुञ्चति ।।
परोक्षवृत्तिर्युक्तिश्च कथं ते मितिवर्धने ।। ८२६ ।।
प्रमितेश्च प्रमेयस्य वृद्धौ वृद्धिः स्वतो न हि ।।
तस्य वृद्धिर्मितेर्वृद्धावित्यन्योन्यसमाश्रयः ।। ८२७ ।।
उत्पाद्यापि मितिं शास्रं यदि युक्त्याद्यपेक्षते ।।
स्वर्गादावेवमेव स्यात्सापेक्षं च भवेत्तदा ।। ८२८ ।।
व्यपास्तानर्थसंदर्भमात्मानमवगच्छतः ।।
किमाप्यमधिकं शास्राद्येन युक्त्याद्यपेक्षते ।। ८२९ ।।
का वा युक्तिः प्रदीपस्य सर्पाद्याकम्पनाशनम् ।।
रज्ज्वादितत्वविज्ञानं कुर्वतः स्वेन तेजसा ।। ८३० ।।
गुणप्रधानभावो हि विना नैवैकवाक्यताम् ।।
वस्तुकार्यार्थतात्पर्यभेदान्नापीह सा भवेत् ।। ८३१ ।।
न च प्रयोजनैकत्वलक्षणाऽत्रैकवाक्यता ।।
अङ्गप्रधनावद्येन कल्पेतात्रैकवाक्यता ।। ८३२ ।।
स्वतःसिद्धस्य मोक्षस्य न साध्यमुपकारकम् ।।
न चान्यथाऽङ्गता दृष्टा प्रधानानुपकारिणः ।। ८३३ ।।
आत्मलाभे न शास्रं च नित्यत्वात्कार्यमीक्षते ।।
स्वतोभिधानशक्तत्वान्नापि चैकात्म्यबोधने ।। ८३४ ।।
प्रसंख्याने च शास्रार्थे सकृदेव कृते भवेत् ।।
ऐकात्म्यानुभवो नो चेद्विसंवादादमानता ।। ८३५ ।।
न चात्र चोदितः कालः संख्या वा येन निश्चयः ।।
तद्द्वारेण भवेन्नापि संदिग्धे स्यात्पवर्तनम् ।। ८३६ ।।
आरुह्याप्यथवा दूरं विसंवादपराङ्युखः।।
यत्किंचित्कामतः कुर्यादकृतार्थोऽपवा पतेत् ।। ८३७ ।।
अदृष्टफलता वाऽपि कल्प्याऽग्निष्टोमवद्भवेत् ।।
कर्माङ्गता वा क्ल्प्या स्यादुद्गीथविधिवत्तदा ।। ८३८ ।।
ततश्च प्रातिलोम्येन कार्यं स्याच्छास्रबाधनात् ।।
अश्रद्धा च मुमुक्षूणां कार्यबाधोऽपि च स्थितः ।। ८३९ ।।
वस्तुतत्त्वानपेक्षत्वात्कार्यमात्रप्रधानता ।।
शास्राच्च वस्तुनोऽलाभात्कार्यं किंविषयं भवेत् ।। ८४० ।।
यदि तद्वस्तुयाथात्म्यं शास्रं न प्रतिपादयेत् ।।
वस्त्वसिद्धेस्ततः कार्यप्राधान्यादर्थवादता ।। ८४१ ।।
अथैकात्म्यार्थनिष्ठं सच्छास्रं स्यात्प्रतिपादकम् ।।
आपरोक्ष्यात्तदा कार्यं व्यर्थं पारोक्ष्यहानिकृत् ।। ८४२ ।।
शास्रात्कथं च तत्सिद्धिर्याथात्म्यानवबोधकात् ।।
नानश्वरूपे सिद्धेऽपि गव्यश्वस्य प्रसिद्धता ।। ८४३ ।।
शास्राच्छ्रवणमात्रेण कार्याच्चानुभवो यदि ।।
वस्तुन्यनिश्चिते वार्ता साऽर्थवादेऽपि दृश्यते ।। ८४४ ।।
ततश्च कार्यनिष्ठत्वं मुधैव परिवर्जितम् ।।
संपत्परं भवेच्छास्रं वस्तुतात्पर्यवर्जनात् ।। ८४५ ।।
न चाप्याख्यायिकारूपमनुग्राह्यं श्रुतौ मतम् ।।
आदिमत्त्वादिदुष्टत्वात्पुमर्थत्वेन वर्ण्यते ।। ८४६ ।।
पौनरुक्त्यभयाच्चात्र यद्यर्थान्तरकल्पनम् ।।
ऐकात्म्योक्तौ विधिर्व्यर्थ इति द्वैतप्रकल्पनम् ।। ८४७ ।।
न च मानेन विषये बोधितेऽन्वेषणं पुनः ।।
कार्यमुक्त्योः क्वचिदृष्टं स्वतःप्रामाण्यबाधनात् ।। ८४८ ।।
प्रत्यक्षेण घटे बुद्धे का युक्तिः कार्यमेव वा ।।
अदुष्टकारणत्वं षेत्सिद्धं वेदे नृवर्जनात् ।। ८४९ ।।
प्रत्यक्षादिविरोधश्च कार्यपक्षेऽपि तु स्थितः ।।
ऐकात्म्यानुभवो हि स्यात्कथमक्षादिबाधनात् ।। ८५० ।।
तन्निषेधात्तु या सिद्धिर्न सा कार्यप्रसादतः ।।
प्रमाणादेव शास्रात्सा न मेयात्कार्यतो भवेत् ।। ८५१ ।।
का वा कार्येऽस्ति ते युक्तिः शास्रं चेदुभयोः समम् ।।
अज्ञातज्ञापनादन्यच्छास्रान्नेति पुरोदितम् ।। ८५२ ।।
पुमर्थं प्रतिपाद्यापि प्रकृत्यैव श्रुतिः पुनः ।।
तमेव युक्तिभिः सार्धं वदन्ती स्वार्थमीक्षते ।। ७५३ ।।
नैतावताऽपराधेन युक्तयो मानकारणम् ।।
शब्दमात्रादसंसिद्धेरनपेक्षत्वहानतः ।। ८५४ ।।
न वायोः क्षिप्रकारित्वाच्छ्वेतालम्भो विभूतये ।।
विध्युद्देशात्तु तत्सिद्धेः शैघ्रयं तूक्तं प्रवृत्तये ।। ८५५ ।।
जाग्रत्स्वप्नसुषुप्तेभ्यो यदि नामातिरेकतः ।।
व्यक्तिभ्यो गोत्ववद्दृष्टं ब्रह्मत्वेऽस्य किमागतम् ।। ८५६ ।।
असिद्धं शास्रयुक्तिभ्यामावृत्त्याऽपि न सिध्यति ।।
नैव ह्यावर्तनं हेतुः प्रामाण्येऽन्येष्वनीक्षणात् ।। ८५७ ।।
न चेदृशं प्रमाणत्वं दृष्टमन्यत्र कुत्रचित् ।।
अन्यादृक्षप्रमाणस्य न च नास्त्यत्र संभवः ।। ८५८ ।।
अलौकिकार्थवादित्वादात्मब्रह्मभिधानयोः ।।
संबन्धाग्रहणादात्मा ब्रह्मेति कथमुच्यते ।। ८५९ ।।
ज्ञातार्थसंगतिः शब्दो वाक्यार्थावगमक्षमः ।।
ब्रह्मात्मार्थप्रसिद्धौ च लोकान्मानप्रवेशिता ।। ८६० ।।
नाऽऽत्मन्येवाऽऽत्मशब्दस्य प्रयोगात्स्यादलैकिकः ।।
ब्रह्मार्थेऽपि महत्त्वेन प्रसिद्धो व्यवहारतः ।। ८६१ ।।
एवं पदात्परिज्ञाते पदार्थे लोकमानतः ।।
वाक्यार्थेऽतीन्द्रियो वेदे वाक्यात्केन निवर्त्यते ।। ८६२ ।।
अपूर्वदेवतास्वर्गपदार्थेष्वपि लोकतः ।।
सिद्धेष्वतीन्द्रियोऽप्यर्थो वाक्यादेवावगम्यते ।। ८६३ ।।
नापेक्षापूरणाशक्तेः प्रयोगे समवायिता ।।
पदानां सपदार्थानां वाक्याद्व्यवहृतिर्यतः ।। ८६४ ।।
वाक्यार्थायैव वाक्यं हि सर्वदैव प्रयुज्यते ।।
व्यवहारेषु वुद्धानां संबन्धस्तत्र गृह्यते ।। ८६५ ।।
भागान्तरप्रवेेशेन भागत्यागेन च स्फुटम् ।।
वाक्यवाक्यार्थयोर्भेदे पदार्थानां निमित्तता ।। ८६६ ।।
यद्भागस्याऽऽगमाद्योऽर्थभागः स्यादधिकः क्वचित् ।।
तस्य भागस्य भागोऽसौ निमित्तं स्यान्न तु प्रमा ।। ८६७ ।।
अत एव सभागत्वं वाक्यवाक्यार्थयोर्मतम् ।।
वाचकत्वेऽपि वाक्यस्य संसृष्टार्थाभिधानतः ।। ८६८ ।।
ततश्चैवं समूहस्य वाचकत्वमवस्थितम् ।।
भगवत्त्वं च संसिद्धं वाक्यवाक्यार्थयोरतः ।। ८६९ ।।
एवं च लोकतः सिद्धो वाक्यार्थः स्याच्छ्रुतावपि ।।
लौकिका एव शब्दार्था न्यायेनोक्ताः श्रुतौ यतः ।। ८७० ।।
नृविवक्षाव्यवायेन लोके शङ्का भवेदपि ।।
वेदे त्वपौरुषेयत्वात्साक्षात्स्वार्थे प्रमाणता ।। ८७१ ।।
न च कार्यपरत्वेऽपि पदानां संहतिः स्थिता ।।
अन्यत्रावगमो न स्यात्संबन्धज्ञानवर्जनात् ।। ८७२ ।।
यथा च कार्ये तात्पर्यं कार्यं चापि न विद्यते ।।
पूर्वमेव तथाऽस्माभिर्युक्तिभिः संप्रसाधितम् ।। ८७३ ।।
अनादिवृद्धव्यवहृद्व्युत्पत्त्यैव च तस्त्थितेः ।।
शब्दस्यार्थेन संबन्ध आदिमत्ता न शङ्क्यते ।। ८७४ ।।
प्रथमश्रवणे यत्र न शब्दार्थावधारणम् ।।
तत्राव्युत्पन्नता हेतुः शब्दानां न त्वशक्तिता ।। ८७५ ।।
चक्षुर्द्रष्ट्रपि बाह्यं हि न प्रकाशं विनाऽर्थदृक् ।।
नैतावताऽस्य सामर्थ्यं हन्यतेऽन्यस्य वा भवेत् ।। ८७६ ।।
व्युत्पत्त्या न च संबन्धः क्रियते ह्व्यर्थशब्दयोः ।।
अवस्थिते हि संबन्धे वृद्धेभ्योऽसौ प्रजायते ।। ८७७ ।।
संबन्धकरणाशक्तेस्तत्कर्तुश्चास्मृतेरपि ।।
तद्विना व्यवहाराच्च सिद्धा संबन्धनित्यता ।। ८७८ ।।
जीर्णकूपादिवत्कर्तुर्यदप्यस्मरणं न तत् ।।
अभावगमकं नापि संबन्धेनास्य तुल्यता ।। ८७९ ।।
क्वचिज्ज्ञातेषु दूरादिकारणे संशयोऽपि च ।।
नात्यन्तानुपलब्धेषु त्वभावोऽतोऽस्य निश्चितः ।। ८८० ।।
संनिकृष्टार्थसंसृष्टस्वार्थमात्राभिधानतः ।।
तस्मात्सिद्धोऽन्र वाक्यार्थो लोके वेदे प्रमाणवान् ।। ८८१ ।।
अतोऽवबोधकत्वेन दुष्टकारणवर्जनात् ।।
अबाधाच्च प्रमाणत्वं वस्तुन्यक्षादिवच्छ्रुतेः ।। ८८२ ।।
पुरुषार्थोपदेष्ट्टत्वाद्यद्वत्कार्ये प्रमाणता ।।
तथैकात्म्ये विशेषाद्वा पुमर्थतिशयत्वतः ।। ८८३ ।।
पुमानिष्टस्य संप्राप्तिमनिष्टनस्य च वर्जनम् ।।
इच्छन्नपेक्षते योग्यमुपायमपि तत्परः ।। ८८४ ।।
ग्रामादि किंचिदप्राप्तं प्राप्तुमिष्टमिहेच्छति ।।
हेमादि विस्मृतं किंचित्करस्थमपि लिप्सते ।। ८८५ ।।
परिहार्ये तथाऽनिष्टं कण्टकादि जिहासति ।।
रज्ज्वां सर्पादि किंचिच्च त्यक्तमेव जिहासति ।। ८८६ ।।
नियतोपायसाध्यत्वादवाप्यपरिहार्ययोः ।।
विधितः प्रतिषेधाच्च साधनापेक्षता भवेत् ।। ८८७ ।।
अज्ञानान्तरितत्वेन संप्राप्तत्यक्तयोः पुनः ।।
याथात्म्यज्ञानतो नान्यत्पुरुषार्थाय कल्पते ।। ८८८ ।।
अशेषानर्थविच्छेदं वाञ्छतः श्रुतितः श्रुतेः ।।
त्वं ब्रह्मेति हताशेषक्लेशो मोहप्रहाणतः ।। ८८९।।
वेदस्य सिद्धे प्रामाण्ये ह्यज्ञातार्थावबोधतः ।।
कार्ये यथा प्रमाणत्वमैकात्म्येऽप्येवमिष्यताम् ।। ८९० ।।
कार्याद्यदि तु मानत्वं मानत्वात्कार्यनिष्ठता ।।
अन्योन्याश्रयतैवं स्यादेकस्यासिद्धितोऽन्यतः ।। ८९१ ।।
औदासीन्यान्निषेधेषु न लभ्येत प्रमाणता ।।
औदासीन्यं निवृत्तिर्हि स्वरूपालम्बनं च तत् ।। ८९२ ।।
सोऽरोदीत्यादिवाक्यानां कार्यावेशात्प्रमाणता ।।
अपुमर्थोपदेष्ट्टत्वात्तच्च नात्रेत्यकारणम् ।। ८९३ ।।
न चैकात्म्याभ्युपायस्य मिथ्यात्वमिह शङ्क्यते ।।
उपेयाप्तौ कृतार्थत्वादुपायं प्रत्यनीक्षणात् ।। ८९४ ।।
ऐकात्म्यप्रतिपत्तेः प्राङ्न मिथ्या हेत्वभावतः ।।
पुरुषार्थावसायित्वान्नाप्यूर्ध्वमनपेक्षतः ।। ८९५ ।।
उपेयबोधनं मुक्त्वा मितेर्नान्याऽस्ति सत्यता ।।
सत्यादप्यनुपायत्वाद्धटान्नाग्निर्हि गम्यते ।। ८९६ ।।
धूमाभासात्तु बाष्पादेर्यदग्निर्नावगम्यते ।।
हेतुस्तत्रानुपायत्वमसत्यत्वं पुनर्न तु ।। ८९७ ।।
धूमवत्परमार्थत्वमुपायत्वान्न लभ्यते ।।
वेदान्तानां तथैकात्म्यश्रुतिबाधः स्फुटोभवेत् ।। ८९८ ।।
बाष्पवन्नापि मिथ्यात्वादनुपायत्वमिष्यते ।।
एेकात्म्योबोधबाधेन सिद्धा तूपायसत्यता ।। ८९९ ।।
श्रुतेरैकात्म्यसंवित्तौ चरितार्थत्वतो मितेः ।।
वृथोपायपरीक्षा स्यादुत्तीर्णस्य प्लवे यथा ।। ९०० ।।
बाह्येष्वर्थेष्वनात्मत्वात्पुनः शङ्का भवेदपि ।।
अत्राऽऽत्मत्वादुपेयस्य का शङ्का मानतां प्रति ।। ९०१ ।।
अन्यत्रेव न चाप्यत्र वाक्यार्थो भेदलक्षणः ।।
संसर्गलक्षणो वाऽपि ब्रह्मात्माभेदतो भवेत् ।। ९०२ ।।
ब्रह्मणोऽनात्मतारूपमब्रह्मत्वं तथाऽऽत्मनः ।।
अज्ञानलक्षणं शास्राज्ज्ञानं हन्ति समुत्पतत् ।। ९०३ ।।
नेहान्यत्राऽऽत्मनो ब्रह्म तथाऽऽत्मा ब्रह्मणोऽन्यतः ।।
तादात्म्यमनयोस्तस्मान्नीलोत्पलविलक्षणम् ।। ९०४ ।।
अब्रह्मानात्मने यद्वदत्राज्ञाननिबन्धने ।।
आत्मताब्रह्मते नैवमन्यस्मादित्यतः स्वतः ।। ९०५ ।।
नाम्नोरेवं च संबन्ध ऐकात्म्यात्स्यात्क्रियां विना ।।
षष्ठीं च न क्रियाषष्ठ्योर्विना भेदात्प्रवर्तनम् ।। ९०६ ।।
महत्ता यद्वदाकाशे घटाकाशव्यपेक्षया ।।
पराक्त्वापेक्षया तद्वत्प्रत्यक्ता नाऽऽत्मनीक्ष्यते ।। ९०७ ।।
प्रत्यक्त्वमद्वितीयत्वं बोधवन्नान्यबन्धनम् ।।
अपारार्थ्यान्न बोधो हि स्यादबोधनिरासतः ।। ९०८ ।।
आत्माऽपि सदिदं ब्रह्म मोहात्पारोक्ष्यदूषितम् ।।
ब्रह्मापि संस्तथैवाऽऽत्मा सद्वितीयतयेक्ष्यते ।। ९०९ ।।
आत्मा ब्रह्मेति पारोक्ष्यसद्वितीयत्वबाधनात् ।।
पुमर्ये निष्ठितं शास्रमिति सिद्धं समीहितम् ।। ९१० ।।
ननु भेदाश्रितैर्वाक्यैर्विधायकनिषेधकैः ।।
अक्षादिभिश्च नैकात्म्यं बाधितत्वात्प्रमाणवत् ।। ९११ ।।
न चाप्यैकात्म्यशास्रस्य तैर्वेिकल्पसमुच्चयौ ।।
प्रमाण्यै नापि बाध्यत्वं तेषां तेन कथंचन ।। ९१२ ।।
विरुद्धमानभावेऽपि न हि वस्तु विकल्प्यते ।।
भेदाभेदौ न च स्यातां विरोधाद्युगपत्कचित् ।। ९१३ ।।
भिन्नाभिन्नं न वो वस्तु येन मानाविरोधिता ।।
नेह नानेति भेदानां निषेधात्कनु भेदधीः।। ९१४ ।।
वर्णादिग्रहणोपायो नापीहाक्षादि बाध्यते ।।
संस्काराय च यच्छास्रमात्मज्ञानोपकारकम् ।। ९१५ ।।
उपचारार्थतः शास्रं सावकाशं जपेऽथवा ।।
अक्षादेरकृतार्थत्वात्कथं स्यात्तेन बाधनम् ।। ९१६ ।।
उच्यते, लोरतः सिद्धं भेदमाश्रित्य चोदना ।।
प्रवृत्ता पुरुषार्थाय न तु भेदावबुद्धये ।। ९१७ ।।
भेदस्य चापुमर्थत्वात्तादर्थ्ये स्यादमानता ।।
पुमर्थत्वेन चास्येष्टं प्रामाण्यं वेदवादिभिः ।। ९१८ ।।
वस्तुस्वरूपसंस्पर्शिचक्षुरादिभ्य उत्थितम् ।।
भेदस्पृङ्नाक्षजाद्येवं न तेनैकात्म्यबाधनम् ।। ९१९ ।।
प्रमेयविषयं मानं वस्तुनश्च प्रमेयता ।।
न च भेदस्य वस्तुत्वं वस्तुतत्त्वानपेक्षणात् ।। ९२० ।।
लब्धे हि भूतलेऽलब्धो घटस्तत्र निषिध्यते ।।
मानान्तरेण विज्ञातो नाज्ञातो नाज्ञातः शून्यताप्तितः ।। ९२१ ।।
व्यञ्जकस्य समायोगो वस्तुनो वस्तुनैव हि ।।
नाभावेन निरात्मत्वाद्व्यावृत्त्या वा मितेर्भवेत् ।। ९२२ ।।
नातो वस्तुनि संभेदो वस्तुनोऽभेदरूपतः ।।
न प्रमाणाद्बहिर्वस्तु न मानं वस्तुनो बहिः ।। ९२३ ।।
नाभावयोर्मिथो योगोऽवस्तुत्वाभेदतस्तयोः ।।
अभावभावयोस्तद्वद्भावरूपेषु का भिदा ।। ९२४ ।।
अनित्यत्वस्य धर्मस्य घटादेर्धर्मिणस्तयोः ।।
संयोगः समवायो वा तादात्म्यं वेह संगतिः ।। ९२५ ।।
आधाराधेययोगेषु घटोऽत्रेति यथा मतिः।।
नाभावभावयोगेषु मितेर्धीः कस्यचित्तथा ।। ९२६ ।।
नहि भावातिरेकेण भावाभावः प्रमणभाक् ।।
भावात्मनाऽप्यतो भावो व्यवहाराय कल्पते ।। ९२७ ।।
अथाभावोऽपि वस्त्वेव नास्तीतिमितिजन्मतः ।।
द्वयोर्भावैकरूपत्वात्काऽतिशीतिर्मितेस्तयोः ।। ९२८ ।।
विश्वं सदेव यस्येष्टं तस्याभावः कुतो मितेः ।।
न च भावातिरेकेण भाववत्सिद्धिमश्नुते ।। ९२९ ।।
अभावयोगं भावश्चेत्सहवे नीलयोगवत् ।।
अविरोधादभावेन न भावापह्नुतिर्भवेत् ।। ९३० ।।
योगोऽयं वस्तुनोर्दृष्टः पृथक्सिद्धौ परस्परम् ।।
मेषयोर्मल्लयोर्यद्वन्न भावाभावयोस्तथा ।। ९३१ ।।
न योगोऽभावयोर्दृष्टो वन्ध्यासूनुखपुष्पयोः ।।
न भावाभावयोरेवं विरोधादितरेतरम् ।। ९३२ ।।
क्षितिदेशे घटाभावो घटवन्न प्रमीयते ।।
योगो वा समवायो वा नाभावक्षितिदेशयोः ।। ९३३ ।।
सदात्मतैवं सर्वस्य, नाभावात्मकता सतः ।। ९३४ ।।
अप्यभावात्मकत्वेऽपि सतोऽभावात्मकत्वतः ।।
कुतो भेदावकाशः स्याद्भेदेऽसति कुतो युतिः ।। ९३५ ।।
यावत्किंचिज्जगत्यस्मिन्भेदकं वस्तु लक्ष्यते ।।
अनापन्नादिमध्यान्तं सदेव तदितीष्यते ।। ९३६ ।।
सदेवेदमिति स्पष्टं सन्मूला इति चापरम् ।।
श्रुत्योदाहारि नः साक्षात्सदैकात्म्यावबुद्धये ।। ९३७ ।।
मानाभावस्य मानत्वं मेयाभावस्य मेयता ।।
न्यायं न सहतेऽतीव यथा तदधुनोच्यते ।। ९३८ ।।
बोधकं यदबुद्धस्य तन्मानमिति हि स्थितिः ।।
न च प्रमाणनास्तित्वमीदृक्तस्मान्न युज्यते ।। ९३९ ।।
मेयाभावः प्रमाणानां यद्यभावेन गम्यते ।।
प्रमाणानामभावस्य गमकः को भविष्यति ।। ९४० ।।
नाक्षादिपञ्चकं तस्य बोधकं सत्समन्वयात् ।।
नयतस्तदभावो वा, मेयत्वेनैव तत्स्थितेः ।। ९४१ ।।
नीलादिवदभावस्य यद्यक्षादिविशेषणम् ।।
विशेषणेन तद्व्याप्तेस्तदभावः कुतो मितेः ।। ९४२ ।।
अथाविशेषणोऽभावो भवद्भिरभिधीयते ।।
मेयाभावस्य मानत्वमविशेषात्प्रसज्यते ।। ९४३ ।।
घटाद्यभाव इत्युक्तिर्न सम्यगिति मे मतिः ।।
पदानामसमर्थत्वाद्विरोधाद्वस्तुनोर्मिथः ।। ९४४ ।।
भावाभावाख्यपदयोः सामर्थ्ये चेत्समासता ।।
घटादिनाऽनपेक्षत्वान्न समासः प्रसिध्यति ।। ९४५ ।।
भावस्याभाव इत्यत्र षष्ठ्यर्थः कतमो मतः।।
न कश्चिदपि संबन्धो नीरूपस्यासदात्मनः ।। ९४६ ।।
वस्त्वन्तरमभावश्चेदन्यदन्यद्भवेत्कथम् ।।
अन्योऽपि च्चेद्भवेदन्योऽविरोधो नीलवद्भवेत् ।। ९४७ ।।
संगतावविरोधी चेन्न संबन्धिनिवृत्तिकृत् ।।
न संबन्धिग्रहाभावे संबन्धोऽयं प्रसिध्यति ।। ९४८ ।।
संबन्धिविरहेऽसिद्धौ षष्ठ्यर्थत्वं न सिध्यति ।।
विरोधाद्युगपन्नापि विधानप्रतिषेधनम् ।। ९४९ ।।
क्षणिकत्वाद्धियां नापि स्थायिधर्मः क्रमो भवेत् ।।
अनीलाभावपृष्टेन नापि नीलस्य वेदनम् ।। ९५० ।।
नाह्यदृश्यनिषेधः स्याद्धटादेरिव भूतले ।।
नान्याभावविशिष्टत्वं कृत्स्नाभावगतौ भवेत् ।। ९५१ ।।
अन्याभावस्य भावत्वे स्यादभावः खपुष्पवत् ।।
भावान्तरमभावश्चेत्सिद्धं वस्तु ततः स्वतः ।। ९५२ ।।
तद्ग्राहीणि च मानानि व्यावृत्तिः केन गम्यते ।।
चित्रेऽपि विषये चित्रमेकं वस्त्वेकमानतः ।। ९५३ ।।
प्रत्येकं नीलपीतादिग्रहणे चित्रता कुतः ।।
घस्तुनो भेगरूपत्वे वस्त्वभावः प्रसज्यते ।। ९५४ ।।
अन्यधर्मे त्वभिन्नं स्यात्स्वतो वस्तु प्रमाश्रयम् ।।
भिन्नाभिन्नं विरुद्धत्वान्नैकमानस्य गोचरः ।। ९५५ ।।
वस्त्वात्मनाऽविरोधश्चेद्वस्त्वेव विषयस्ततः ।।
सत्यं वस्तु कथं भिन्द्यात्पुंव्यपेक्षाविनिर्मितः ।।
भेदः, पुत्रादिभावे तु जन्यत्वं वस्तुकल्पितम् ।। ९५६ ।।
दाहपाकप्रकाशादिभेदेऽप्यग्नेरभिन्नता ।।
कार्यतोऽपि न भेदः स्याद्वस्त्वभेदव्यवस्थितेः ।। ९५७ ।।
विभिन्नकार्यकर्त्रीणां शक्तीनां यद्वदाश्रयः ।।
न विरुद्धोऽग्निरेकोऽपि तद्वत्कार्येऽपि किं न ते ।। ९५८ ।।
घटाभावे घटः सिध्येत्पटाभावे पटस्तथा ।।
अन्योन्याभावदृष्टेः स्यादन्योन्याश्रयता तव ।। ९५९ ।।
प्रत्यक्षत्वं पृथक्त्वस्य गुणत्वाद्यैरपीष्यते ।।
तेषामपि गुणे मानं नीलवन्न त्ववस्तुनि ।। ९६० ।।
अथ वस्तु पृथक्त्वेन विशिष्टं गम्यते तदा ।।
शुक्लो शौरितिवन्मानं वस्तुन्येव न भेदगम् ।। ९६१ ।।
अभेदेनैव वर्तेत पृथक्ता यदि वस्तुषु।।
वस्त्वेव तत्ततोऽन्या चेदपृथग्वस्तु तर्हि ते ।। ९६२ ।।
भावाभावपृथक्ताऽपि यद्यभिन्ना ततोऽपृथक् ।।
भावाभावविभिन्ना चेत्पृथक्ता न परस्परम् ।। ९६३ ।।
अन्यापेक्षं पृथक्त्वं चेत्स्वयं तर्ह्यपृथग्घटः ।।
द्विधर्मत्वेऽपि वस्त्वेतदेकं स्यादुत्पलादिवत् ।। ९६४ ।।
धर्मबुद्धिप्रभेदेऽपि धर्म्यभेदः सदेष्यते ।।
अतो गवादेर्भेदेऽपि सन्मात्रमवसीयते ।। ९६५ ।।
गोत्वादिमेयपक्षेऽपि सद्रूपस्यानपायतः ।।
वस्त्वेव मेयं गोत्वादि शाबलेयादिवत्स्फुटम् ।। ९६६ ।।
सद्रूपत्वापरित्यागादवान्तरनिबन्धनाः ।।
व्यवहाराः प्रतीयन्ते सत्तत्त्वं तेष्ववस्थितम् ।। ९६७ ।।
सत्तातोऽपि न भेदः स्याट्ट्रव्यत्वादेः कुतोऽन्यतः ।।
एकाकारा हि संवित्तिः सट्ट्रव्यं सन्गुणस्तथा ।। ९६८ ।।
समवायाच्च संबन्धे नैकरूप्यं विभिन्नयोः ।।
तच्चेत्ततो न विश्वासो, जातावप्येकबुद्धितः ।। ९६९ ।।
संसर्गधर्मता नापि भेदेनानुपलम्भनात् ।।
समवायेन संबन्धे को हेतुरिति नेष्यते ।। ९७० ।।
संयोगश्चेद्वियोगोऽपि समवायेऽनवस्थितिः ।।
स्वतश्चेत्कल्पना व्यर्था द्रव्यस्याप्येकता स्वतः ।। ९७१ ।।
सत्तावगुण्ठिताश्चैते सर्वे भावाः सदैव हि ।।
व्यवहाराय कल्पन्ते भ्रान्तो भेदः सदैव तु ।। ९७२ ।।
येषामपि हि सामान्यभेदवद्वस्तु गृह्यते ।।
तेषामपि कुतो भेदो वस्त्वैक्याद्धर्म्यभेदतः ।। ९७३ ।।
अपि भेदेन या बुद्धिः स्यात्सामान्यविशेषयोः ।।
साऽपि तन्मात्रनिष्ठत्वान्नैव भेदस्पृगिष्यते ।। ९७४ ।।
एकं चेद्भिन्नता नास्ति भेदश्चेदेकता कुतः ।।
चित्रेऽप्यनुगमाभावान्न सामान्यविशेषता ।। ९७५ ।।
स्वरूपपररूपाभ्यां यदा सदसदात्मकम् ।।
वस्त्वेकं मानविषयभावस्ते तदा कुतः ।। ९७६ ।।
प्रत्यक्षादिनिवृत्तिश्चेत्तस्याः किं रूपमुच्यताम् ।।
स्तैमित्यमात्मनश्चेत्स्यात्तद्वस्त्वेवास्मदीहितम् ।। ९७७ ।।
अथ वस्त्वन्तरज्ञानं नितरां तस्य वस्तुता ।।
भावान्तरमभावोऽपि निरूपाख्यः स नेष्यते ।।
तस्माद्वस्त्वेकनिष्ठत्वान्न भेदोऽक्षादिगोचरः ।। ९७८ ।।
घटोऽयमिति संवित्तेर्घटो मेयः प्रतीयते ।।
न व्यावृत्तिः पटादीनामताद्रूप्यात्तथा पटे ।। ९७९ ।।
घटाभावो विरोधित्वान्न घटेऽर्थान्तरेऽपि न ।।
अषष्ठ्यर्थतया तस्माद्विकल्पोऽयं, न वस्तुगः ।। ९८० ।।
घटो हि संविदं कुर्वन्नात्माकारविशेषणम् ।।
आत्मानं लभते तद्वद्व्यावृत्तिं न पटादितः ।। ९८१ ।।
पटसंवेदनेऽप्येवं पटमात्रं विशेषणम् ।।
ईक्षतेऽत्राधिकं नान्यदभावादि यदुच्यते ।। ९८२ ।।
संदिग्धनिश्चयाद्येवं ज्ञानधर्मो विशेषयन् ।।
संविदं भिद्यते मेयात्प्रत्येकं भेदधीर्न तु ।। ९८३ ।।
तथाऽहमेव जानामि माता नान्य इतीदृशाः ।।
मातृधर्माः प्रसिध्यन्ति विशिषन्तः स्वसंविदम् ।। ९८४ ।।
संविदेका स्वतःसिद्धआ प्रत्यग्रूपैकलक्षणा ।।
भावाभावदिरूपाय व्यवहाराय कल्पते ।। ९८५ ।।
अतोऽनुभवमुल्लङ्ध्य न भेदो नाप्यभिन्नता ।।
तत्पृष्ठेन तु मानानि विरोधः किंसमाश्रयः ।। ९८६ ।।
अविज्ञातः प्रमाणानांं विषयो वादिनां मतः ।।
न तस्य मानतः सिद्धिस्तत्सिद्धेः प्राक्प्रमागमात् ।। ९८७ ।।
अमानकं कथं च स्यादज्ञातत्वमिहोच्यताम् ।।
कथं वा तद्विना मानं विषयासंभवाद्भवेत् ।। ९८८ ।।
अज्ञातत्वक्षतिं कुर्वन्मानं मानत्वमश्नुते ।।
मानादज्ञातता चेत्स्यान्न सा तत्फलमिष्यते ।। ९८९ ।।
अतोऽनुभवतो लब्धमज्ञानं ज्ञापयत्सदा ।।
प्रत्यक्षादि प्रमाणं स्यान्न स्वतो नापि चान्यतः ।। ९९० ।।
नाज्ञासिषमहं पूर्वमित्येवं प्रमिते घटे ।।
पूर्वाज्ञातत्वविषयो भूयोऽप्यनुभवो यतः ।। ९९१ ।।
प्रवृत्तं विषये मानमवच्छेदफलं मतम् ।।
ज्ञाताज्ञाते प्रति त्वस्य न व्यापारोऽप्रमाणतः ।। ९९२ ।।
सर्वोऽप्यनुभवात्सिद्धां बालोऽप्यज्ञाततां स्वतः।।
न किंचिज्जान इत्यवं पृष्टो वक्ति प्रमां विना ।। ९९३ ।।
निःशेषकरणग्रामलयेऽप्यनुभवः स्वतः ।।
अलुप्तदृक्सुषुप्तेऽपि जाग्रद्बोधाविशेषतः ।। ९९४ ।।
अत्यन्ताननुभूतेषु हिमवत्पृष्ठवस्तुषु ।।
जाग्रतोऽनुभवोऽप्येवं सुषुप्तान्न विशिष्यते ।। ९९५ ।।
न चात्रानुभवो लुप्तो न जानामीति बोधनात् ।।
अदृष्टमपि दृष्ट्वाऽस्ति बोधो नाज्ञासिषं त्विति ।। ९९६ ।।
पुमान्सुप्तोत्थितोऽप्येवं प्रमात्रादिलयं स्वतः ।।
अनुभूत्यैव संधत्ते नान्तराऽतोऽस्य लुप्तता ।। ९९७ ।।
न चेदानींतनाद्बोधाद्बोधाभावगतिर्भवेत् ।।
सौषुप्ती, नहि बोधस्य कालभेदेन भिन्नता ।। ९९८ ।।
बोधादेव प्रसिध्यन्ति कालावस्थादयो यतः ।।
मातृमानादयश्चापि कुतस्तैरस्य विक्रिया ।। ९९९ ।।
प्रमातृमानतन्मेयेष्वागमापायिषु त्रिषु ।।
अलुप्तानुदितो बोधः प्रथते प्रत्यगेकलः ।। १००० ।।
अभितोऽनुभवाक्रान्ता ज्ञाताज्ञातत्वभूमिषु ।।
नान्यत्रार्थाः प्रसिध्यन्ति लीयन्ते नाप्यनात्मनि ।। १००१ ।।
अतोऽनुभव एवैको विषयोऽज्ञातलक्षणः ।।
अक्षादीनां स्वतःसिद्धो यत्र तेषां प्रमाणता ।। १००२ ।।
तेनानुभवसिद्धानां लोकेऽज्ञानविघातिनाः ।।
मात्वमक्षादयो यान्ति नाज्ञातज्ञाततोऽन्यथा ।। १००३ ।।
घटादयः प्रमासिद्धा मुञ्चन्त्यज्ञाततां न तु ।।
स्वतःसिद्धोऽपि वस्तुत्वान्मुञ्चत्यात्मा प्रमां विना ।। १००४ ।।
प्राग्बाधकागमात्सिद्धिर्लौकिकस्यापि वस्तुनः ।।
वस्तुतत्त्वबलादेव तत्तमोव्यवधानतः ।। १००५ ।।
कृतस्नमात्राद्युपादानतमोबोधस्तु बोधतः ।।
तत्त्वमस्यादिवाक्योत्थात्पूर्णैकात्म्यस्वलक्षणात् ।। १००६ ।।
तेनाऽऽगमस्य तत्र स्यादज्ञातत्वविघातिनः ।।
प्रमाणत्वं पुमर्थश्च स एऴ विदुषां मतः ।। १००७ ।।
ननु दुर्वारसंसारदुःखसंदर्भहानतः ।।
किमन्यत्सुखमिष्टं स्याद्यस्याऽऽप्तेः पुरुषार्थता ।। १००८ ।।
लोकेऽपि व्याधिसंतापविच्छित्तौ सुखितेक्ष्यते ।।
व्यतिरिक्तसुखार्था च न प्रवृत्तिर्विरागिणाम् ।। १००९ ।।
असंवेद्यं सुखं नापि पुमर्थो न च कर्मता ।।
स्वरूपे वेद्यवेत्तृत्वायोगाद्दूैतप्रसङ्गतः ।। १०१० ।।
नैवं भेदेन संसिद्धे सुखदुःखे कथं तयोः ।।
ऐक्यं सुखस्य विच्छेदो दुःखं वा किं न कल्प्यते ।। १०११ ।।
अदुःखिनोऽपि दृश्यन्ते सुखप्राप्तीच्छया यतः ।।
तदुपाये प्रवर्तन्तस्तदभेदे न युज्यते ।। १०१२ ।।
चन्दनादिसुखोपायसंपन्नाः सुखिनोऽप्यलम् ।।
पुत्रजन्मादिवार्ताभिः प्राप्नुवन्ति सुखान्तरम् ।। १०१३ ।।
पुत्राद्यप्राप्तिरूपं च दुःखं तत्र न कल्प्यते ।।
असंवित्तेरवेद्यं हि न दुःखं वैरिदुःखवत् ।। १०१४ ।।
तिर्यञ्चोऽप्यत एवेह कामयन्ते सुखं तथा ।।
अप्रियं विजिहासन्ति न तु जानन्ति साधनम् ।। १०१५ ।।
वेदोऽपि शुद्धमात्मानं सुखं मुख्यं प्रदर्शयन् ।।
अनात्मानं तथा दुःखं पुमर्थत्वेन संमतः ।। १०१६ ।।
तदेतत्प्रेय इत्यादिवाक्येभ्योऽनेकधा श्रुतम् ।।
तथाऽऽत्मनस्तु कामाय तस्मान्नान्यत्सुखं भवेत् ।। १०१७ ।।
पुरुषार्थाभिसंबन्धाद्विरागित्वं यथाऽऽश्रितम् ।।
परानन्दाभिलाषोऽपि तथा चेत्किं निषिध्यते ।। १०१८ ।।
आत्यन्तिकसुखेच्छायां यदि रागित्वमुच्यते ।।
विविक्तदेशसेवादाविच्छायां किं न रागिता ।। १०१९ ।।
अथ ये शतमित्यादिवाक्यैरेतत्प्रपञ्चितम् ।।
एष ह्येवेति च व्यक्तं तैत्तिरीयश्रुतावपि ।। १०२० ।।
स्वानन्दाभिमुखः स्वापे वोध्यमानोऽत एव च ।।
पीड्यते स्त्र्यादिसंपर्कसुखविच्छेदतो यथा ।। १०२१ ।।
आनन्दैकस्वभावत्वाद्वेद्यता तत्र नार्थ्यते ।।
निःसंबोधेऽर्थ्यते सा हि न तु बोधैकलक्षणे ।। १०२२ ।।
अधिकारस्य सौलभ्यप्रतिपत्त्यर्थमीरणम् ।।
सर्वपुंसामिति तथा पूर्वमेव प्रपञ्चितम् ।। १०२३ ।।
स्वर्गादिकाम्यपि यतो मुक्तिं कामयते न तु ।।
मुक्तिं कामयमानोऽन्यत्कटाक्षेणापि वीक्षते ।। १०२४ ।।
सर्वेषामपि च नृणामधिकारोऽनिवारितः ।।
यतोऽतः सर्वतो ऩ़ृणामिति भाष्यकृदब्रवीत् ।। १०२५ ।।
शुक्लां गामानयेत्युक्ते कांचिद्गोकर्मिकां क्रियाम् ।।
कुर्वाणमभिवीक्ष्याज्ञः कुरुते कारणानुमाम् ।। १०२६ ।।
ज्ञातं ध्रुवमनेनैतद्यद्गोकर्मकमीक्ष्यते ।।
प्रागज्ञातस्य निर्वत्तिर्न यतो विक्ष्यते कच्चित् ।। १०२७ ।।
यद्यर्थं कारकाधीनं दृष्ट्वा तत्कारणानुमा ।।
प्रमाणान्तरगम्यत्वाल्लोकिकत्वं तदाऽऽपतेत् ।। १०२८ ।।
न चेत्कारकतन्रोऽर्थो ज्ञातस्यानुष्ठितिः कथम् ।।
न सिद्धो नापि चाभावः कारकापेक्ष ईक्ष्यते ।। १०२९ ।।
आरभ्ये कारकत्वे न बलात्प्रामाण्यमापतेत् ।।
व्यङ्ग्ये तु कार्ये वेदस्य सिद्धेऽर्थे मानता भवेत् ।। १०३० ।।
वाक्यस्य च प्रमाणत्वं नाप्यभावैकगोचरम् ।।
न चेदभावः कार्योऽर्थेः सिद्धेऽर्थे मानता भवेत् ।। १०३१ ।।
अथोभयात्मकं कार्यं सिद्धासिद्धस्वभावकम् ।।
उक्तदोषद्वयासक्तिर्न च वस्तवीदृशं क्वचित् ।। १०३२ ।।
सिद्धस्य व्यञ्जकं मानं न मानं कारकं क्वचित् ।।
चोदना मानकं चेत्तत्कथं कार्यं तदुच्यताम् ।। १०३३ ।।
मतं विषयसंसिद्ध्या कार्यमित्याभिधीयते ।।
यागसिद्धेः पुराऽसिद्धेः कथं चोदनया मितम् ।। १०३४ ।।
प्राक्प्रयोक्त्रभिसंसिद्धौ किं फलं यागसिद्धितः ।।
यागसिद्ध्याऽपि तत्सिद्धौ प्रयोज्यत्वं कुतो यजेः ।। १०३५ ।।
यागाद्यनुष्ठितेरस्य घटादेरिव चेन्मतः ।।
उपकारो नियोगस्य कथं न घटतुल्यता ।। १०३६ ।।
अपुमर्थे नियोगे च तात्पर्यं स्यात्तथा सति ।।
प्रतिर्थिनि पुमर्थे तत्सुधीभिर्गृह्यते कथम् ।। १०३७ ।।
लिङादिश्रवणात्पुंसः कार्यं यत्प्रसमीक्ष्यते ।।
उपकाराद्यपेक्षं तद्वक्तृकर्त्रोः प्रसिध्यति ।। १०३८ ।।
न चेत्संभाव्यते कर्त्रा पुमर्थः कस्यचिद्विधेः ।।
आज्ञोक्तेरेव न तदा कश्चिज्जगति चेष्टते ।। १०३९ ।।
आज्ञार्थमात्रसिद्ध्यर्थं न कश्चित्स्ववशो नरः ।।
दुःखात्मके मनो धत्ते यागादौ चोदनावशात् ।। १०४० ।।
पुमर्थमभिसंधाय यागादावथ चेष्टते ।।
फलं प्रवर्तकं प्रापन्न नियोगस्तथा सति ।। १०४१ ।।
मन्त्रोक्तेरिव लोडादेः प्रवृत्तिरिति चेन्मतम् ।।
प्रायश्चित्ती भवेन्नैव तत्पराधीनवृत्तितः ।। १०४२ ।।
प्रवर्तकत्वं मन्त्रस्य न प्रवर्त्यवशाद्यथा ।।
स्वत एव न यागादेः कार्यासिद्धिस्तथा भवेत् ।। १०४३ ।।
कारकं वा क्रिया वा स्याद्यदि वा स्यात्क्रियाफलम् ।।
तस्य लौकिकमासिद्धेर्लौकिकत्वं प्रसज्यते ।। १०४४ ।।
ऐकात्म्यवस्तुनिष्ठे तु यथोक्तन्यायवर्त्मना ।।
न कश्चिदपि दोषः स्याद्वचस्यस्मिन्मनागपि ।। १०४५ ।।
नेति नेत्यादिवाक्येभ्यो योऽर्थोऽनन्यानुभूतिगः ।।
लौकिकत्वं कथं तस्य सर्वमेयातिलङ्धिनः ।। १०४६ ।।
इत्युक्तमभिसंधाय दृष्टादिवचनं जगौ ।।
लोकिकत्वप्रसिद्धर्यर्थं नियोगस्य घटादिवत् ।। १०४७ ।।
आस्तां वेदान्तमानत्वं त्यक्तं तत्कामतस्तव ।।
वस्तुन्युक्तेर्न चेन्मात्वं कर्मकाण्डेऽपि तद्भवेत् ।। १०४८ ।।
भविष्यद्देहसंबन्धी वाक्यादात्मा न चेन्मितः ।।
मानान्तराच्च कः कुर्याददृष्टार्थाः क्रियाः सुधीः ।। १०४९ ।।
नापि सांख्यप्रमासिद्धमात्मानमवगच्छतः ।।
देहाद्यनभिसंबन्धात्प्रवृत्तिः स्यात्क्रियास्विह ।। १०५० ।।
कर्मकाण्डेऽधिकार्यस्मिन्याट्टक्संभाव्यतेऽञ्चसा ।।
ताट्टक्संप्रतिपत्त्यर्थं न चासतीति भण्यते ।। १०५१ ।।
कर्मभ्यः फलमिच्छद्भिरट्टष्टं ट्टष्टमेव वा ।।
देहावस्थान्तरावेशे प्रमाणं वाच्यमात्मनः ।। १०५२ ।।
कथं च तस्य कर्तृत्वं व्यापित्वान्निष्क्रियत्वतः ।।
न चाकर्तुः फलं गौण्या वृत्या चेत्सुतरां न तत् ।। १०५३ ।।
मुख्यकर्तृत्वपक्षेऽपि ह्यनिर्मोक्षः प्रसज्यते ।।
मानेन नाश्यतेऽज्ञानं, ज्ञापकं हि न कारकम् ।। १०५४ ।।
देहान्तराभिसंबन्धो भावित्वान्नाक्षगोचरः ।।
लिङ्गसाट्टश्यविराहान्नानुमा नोपमा तथा ।। १०५५ ।।
शब्दादात्मनि संसिद्धे पूर्वोक्तन्यायतो न च।।
श्रुतार्थापत्तिरप्यत्र नाभावो मानभावतः ।। १०५६ ।।
न चाहंप्रत्ययात्सिद्धिरात्मनः स्यात्कदाचन ।।
बोधानुभवसंवित्तिवित्तयो ह्यात्मवाचिनः ।। १०५७ ।।
यस्यानुभवसिद्ध्यैव सिद्धिः स्याद्वटसिद्धिवत् ।।
ततोऽहंप्रत्ययात्सिद्धिमीक्षतेऽनुभवः ।। कथम् ।। १०५८ ।।
मानादनुभवः सिद्धो जडः स्याद्धटवन्न चेत् ।।
नैरपेक्ष्यं चिदात्मत्वे,स्याच्चान्योन्यसमाश्रयः ।। १०५९ ।।
आत्मनोऽहंधियः सिद्धिरात्मसिद्धिरहंमते ।।
अन्योन्याश्रयतैवं स्यादहंबुद्ध्यात्मनोर्ध्रुवम् ।। १०६० ।।
अहंधीरात्मनः कार्यं कारणेनाऽऽप्यते सदा ।।
तया तस्य कथं व्याप्तिरव्याप्तौ मेयता कथम् ।। १०६१ ।।
क्रियाकाले गुणीभावात्क्रियासिद्धावसंभवात् ।।
कर्तुः प्रमेयता न स्यादहंबुद्ध्या कथंचन ।। १०६२ ।।
संविद्रूपे प्रमेये च संविदन्या फलं भवेत् ।।
न च संविद्धूयाभासो नानुमेयं फलं क्वचित् ।। १०६३ ।।
घटाद्याकारसंविद्वच्छुद्धायामपि संविदि।।
संविद्विशिष्टा संवित्स्यान्न चासावात्मनीक्ष्यते ।। १०६४ ।।
प्रमातरि च मेये स्यात्फलं कस्येति भण्यताम् ।।
न मातुस्तस्य मेयत्वान्नापि मेये फलं क्वचित् ।। १०६५ ।।
जडत्वात्तत्र मेयस्य फलं मातरि चेन्मतम् ।।
मेयतो जडताऽत्रापि संविच्चेन्न प्रमाणजा ।। १०६६ ।।
धर्मत्वेनाप्यहंबुद्धेर्न भेदो धर्मिणाऽऽत्मना ।।
रूपं द्रव्यात्मनो नान्यट्ट्रसादेस्तद्विभिद्यते ।। १०६७ ।।
द्रव्यादि चाऽऽत्मनो रूपं प्रमेयं यदुदीरितम् ।।
घटवत्तदहंबुद्धेः प्रत्यग्वृत्तेर्न गोचरः ।। १०६८ ।।
अस्मत्प्रत्ययसंभिन्नं प्रत्यक्कर्तरि वेदनम् ।।
ज्ञानस्य यदुपन्यस्तं विशेषस्तत्र नेक्ष्यते ।। १०६९ ।।
ज्ञानबोधेन नैवाऽऽत्मा मितो, नाप्यात्मसंविदा ।।
ज्ञानं, न च द्वयंं, भेदादभेदेऽनुभवः स्वतः ।। १०७० ।।
किं प्रमाणमहंरूपमुताऽऽत्मैवेति कथ्यताम् ।।
प्रत्यक्षत्वान्न तन्मानं नाऽऽत्मा, स्वार्थजडत्वतः ।। १०७१ ।।
न चाप्यात्मन्यविज्ञातेऽहंबुद्धेः सिद्धता तव ।।
येनाऽऽत्मा स्यादहंबुद्धेरनुमेया हि सा स्थिता ।। १०७२ ।।
निरंशस्य न चाप्यंशकल्पनाऽप्युपपद्यते ।।
स्वात्मतन्रे च विषये मानबोधः सदा भवेत् ।। १०७३ ।।
अज्ञातत्वं विना मानं नाहंप्रत्यय आत्मनः ।।
अज्ञातत्वमतो वाच्यमात्मनोऽत्र घटादिवत् ।। १०७४ ।।
तस्याप्यनुभवात्सिद्धिर्यद्युच्येत घटादिवत् ।।
सिद्ध आत्मा पृथङ्यातुर्नो चेन्माता न सिध्यति ।। १०७५ ।।
प्रमाणसंप्लवोऽप्युक्तो दूरादेव निवर्तितः ।।
अन्यत्रापि हि मानानां नैव संप्लवं इष्यते ।। १०७६ ।।
अज्ञातावगमे यद्वत्प्रमातर्यर्पितं फलम् ।।
न मेये पूर्वमानेन तद्वन्मानान्तरैरपि ।। १०७७ ।।
अतोऽनधिगतावेशात्सर्वेषां संप्लवः कुतः ।।
मान्तरैरवबुद्धेऽपि ज्ञातेऽप्यज्ञाततोऽन्यतः ।। १०७८ ।।
अथाप्यवगमो मेये तथाऽपि स्यान्न संप्लवः ।।
पूर्वोऽनधिगते वृत्तः प्रत्ययोऽधिगते परः ।। १०७९ ।।
पूर्वेण निश्चिते चेत्स्यान्नोत्तरस्य प्रमाणता ।।
तथा संदेह एकस्मादन्यस्माद्धि विनिश्चयः ।। १०८० ।।
निःसामान्यविशेषेषु नातः संप्लव इष्यते ।।
यथाऽन्यत्र तथेहापि वेदान्तेष्वभ्युपेयताम् ।। १०८१ ।।
यतो मानानि सिध्यन्ति जाग्रदादित्रयं तथा ।।
भावाभावविभगश्च स ब्रह्मास्मीति बोध्यते ।। १०८२ ।।
यतोऽसिद्धानि सिध्यन्ति, भावाभावौ यदाश्रयौ, ।।
योऽनन्यार्थो यदर्थं च सर्वं, योऽनन्यट्टक्सदा ।। १०८३ ।।
प्रमेयादित्रयं यस्मात्परस्परविलक्षणम् ।।
आत्मानं लभते सत्यः सोऽध्यक्षोत्राभ्युपेयताम् ।। १०८४ ।।
असंकुचितचित्पद्मः प्राज्ञे स्वप्नप्रबोधवत् ।।
तथा प्रफुल्लबोधाब्जः प्राज्ञवत्स्वप्नबोधयोः ।। १०८५ ।।
साक्ष्यसंबन्धतः साक्षी न स्वतः साक्षिताऽऽत्मनः ।।
प्रत्यङ्यात्रैकट्टष्टित्वाद्धियां वाचामगोचरः ।। १०८६ ।।
अस्मत्पक्षे हि कर्तव्यमविद्यामात्रकल्पितम् ।।
तदभावान्न संसारो भूतो भावी न वर्तते ।। १०८७ ।।
स्वाभाविक्यप्यविद्येयमनुभूत्याऽवभासिता ।।
तमः सूर्योदयेनेव ज्ञानेनोत्कृत्य नाश्यते ।। १०८८ ।।
अनादिकालमज्ञानं ज्ञानेनाऽऽदिमता क्षणात् ।।
दृश्यते नाश्यमानं हि न चास्याऽऽवृत्तिरीक्ष्यते ।। १०८९ ।।
एवंभूतोऽप्ययं प्रत्यक्स्वात्मानुभवसंश्रयात् ।।
व्युत्पत्तेः प्रागविज्ञातः सर्वाज्ञानादिसाक्ष्यपि ।। १०९० ।।
तत्त्वमस्यादितस्तस्मादागमादेव नान्यतः ।।
ऐकात्म्यवस्तुनः साक्षाद्व्युत्पत्तिरविचीलिनी ।। १०९१ ।।
तस्यास्य कर्मकाण्डेन संबन्ध इति यः पुरा ।।
प्रश्नस्तन्निर्णयार्थाय सर्वथेत्यादिरुत्तरः ।। १०९२ ।।
ननु सिद्धे यथोक्तार्थे नाऽऽरम्भे हेतुरीक्ष्यते ।।
कृत्स्नप्रयोजनावाप्तेः पूर्वोक्तैरेव कर्मभिः ।। १०९३ ।।
नैतदेवं सुखेप्साया जिहासायाश्च दुःखतः ।।
निदानस्यानिषिद्धत्वात्पूर्वोक्तैः कर्मभिः पुरा ।। १०९४ ।।
निःशेषाहलादसंप्राप्तिः सर्वानर्थनुतिस्तथा ।।
सर्वेषां प्राणिनामेतत्स्वत इष्टं प्रयोजनम् ।। १०९५ ।।
आत्मनस्तचत्त्वमेतच्च सिद्धं चैतन्यवद्यतः ।।
अथैष, यो वै भूमेतिश्रुतिमानानुभूतितः ।। १०९६ ।।
स्वर्गशब्दाभिधश्चायं पुमर्थो यो यथोदितः ।।
स्वर्गमित्यादिभिर्वाक्यैस्रय्यन्तेष्वपि गीयते ।। १०९७ ।।
स्वर्गं पुमर्थमुद्दिश्य सर्वप्राणभृतामियम् ।।
वाङ्यनःकायचेष्टा स्याद्याऽपि तत्साधनोपगा ।। १०९८ ।।
उत्पत्त्याद्यर्थनिष्ठानां सर्वेपामपि कर्मणाम् ।।
स्वर्गे नैवाधिकारोऽस्ति तस्य सिद्धत्वतः स्वतः ।। १०९९ ।।
स्वात्मसाध्यातिरेकेण सर्वमेव हि साधनम् ।।
नालं साध्यान्तरायेह किम्वसाध्यार्थसिद्ध्ये ।। ११०० ।।
यथोक्तपुरुषार्थस्य यद्यप्याप्तस्वभावता ।।
आत्मस्वभावतो नाऽऽप्तिस्तथाऽप्यज्ञानहेतुतः ।। ११०१ ।।
अविद्याव्यवधानस्य नाऽऽत्मज्ञानातिरेकतः ।।
प्रध्वस्तिः कर्मभिः कर्तुं शक्या तेषाममानतः ।। ११०२ ।।
व्यञ्जकं विरहय्यान्यत्साधनं कारकात्मकम् ।।
तदभिव्यक्तये नालं स्वतःसिद्धस्य वस्तुनः ।। ११०३ ।।
कर्मभिर्नापनीतोऽतः प्रत्यङ्भ्योहोऽप्रमाणतः ।। ११०४ ।।
यावच्च सम्यग्विज्ञानवह्निनाऽसौ न दह्यते ।।
न तावत्किं चिदप्याप्तं सुखं दुःखविवर्जितम् ।। ११०५ ।।
नालं विमुक्तये काम्यं यदि नाम तथाऽपि तु ।।
पुंसो वैराग्यहेतुत्वादुपकार्येव तन्मतम् ।। ११०६ ।।
असह्यदुःखफलतः स्वकार्यविनिवृत्तिकृत् ।।
विरक्तिहेतुतः कर्म प्रतिषिद्धं यथा तथा ।। ११०७ ।।
अपि काम्यं कृतं सर्वं दुःखात्मकफलत्वतः ।।
आविरिञ्च्यात्स्वकार्येभ्यः स्यादेव विनिवृत्तये ।। ११०८ ।।
इ्त्युक्तप्रतिपत्त्यर्थमाजगामोत्तरं वचः ।।
एकवाक्यत्वमेवं च वेदस्य स्यादसंशयम् ।। ११०९ ।।
दक्षिणोदगधोगत्या प्रत्यगज्ञानमूढधीः ।।
ब्रम्भ्रमीत्यनिशं दुःखी पुमान्कर्मपुरःसरः ।। १११० ।।
काम्यैर्दक्षिणमन्वेति ज्ञानयुक्तैस्तथोत्तरम् ।।
निषिद्धैश्चाप्यधोजन्म कर्मसंभारसंभृतकः ।। ११११ ।।
धर्माधर्मांशसाम्ये च मनुष्यत्वं प्रपद्यते ।।
ब्रह्माद्या स्थावरान्तैवं प्रत्यगज्ञानहेतुजा ।।
नामरूपेहचित्राऽऽद्या स्वप्नमायेन्द्रजालवत् ।। १११२ ।।
धर्माधर्माद्युपादानसाधना नश्वरी गतिः ।। १११३ ।।
व्याकृतं नामरूपाभ्यां यद्यपीदं श्रुतौ श्रुतम् ।।
आत्मतत्त्वानभिव्यक्तेर्नाभिव्यक्तं तदुच्यते ।। १११४ ।।
अविद्यातिमिरोच्छित्तौ नानाविष्कृतमण्वपि ।।
कार्यकारणवद्वस्तु नानपास्तं तमोऽप्यतः ।। १११५ ।।
यत एवमतः प्रत्यग्याथात्म्यप्रतिपत्तये ।।
प्रारब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। १११६ ।।
यथोक्तफलसिद्ध्यर्थमारब्धोपनिषद्यदि ।।
ब्रह्म वा इदमित्यादि कस्मान्नाऽऽरभ्यतेऽधुना ।। १११७ ।।
येषामनधिकारोऽत्र ह्यश्वमेधक्रतौ भवेत् ।।
इत एव तु विज्ञानातेषां तत्फलकीर्तनम् ।। १११८ ।।
कर्मगोचरतैवात्र विज्ञानस्यापि चेन्मतम् ।।
विकल्पश्रवणान्मैवं कर्मणा विद्ययाऽथवा ।। १११९ ।।
यजते योऽश्वमेधेन यश्चैवं वेद तं क्रतुम् ।।
फलं तुल्यं तयोर्युक्तं कर्मिणो विदुषस्तथा ।। ११२० ।।
उपास्तेरपि कर्मत्वादश्वमेधक्रतोरिव ।।
नातो धियोऽर्थवादत्वं तद्विधेर्नितरां न च ।। ११२१ ।।
एतावदेव चेदत्र भवतैवं विवक्षितम्‌ ।। ११२२ ।।
प्रयोजनं तत्सुकरं विध्युद्देशेऽपि भाषितुम् ।।
विद्याप्रकरणे तस्य त्वाम्नायः किमितीर्यताम् ।। ११२३ ।।
सोऽपि ज्ञानेन संयुक्तो हयमेधो महाक्रतुः ।।
संसारफल एवेति प्रवृत्त्यङ्गतयोच्यते ।। ११२४ ।।
प्रत्यग्बोधातिरेकेण साधनान्तरनिस्पृहाः ।।
निर्ज्ञाताशेषकर्मोत्थफलफल्गुत्वबुद्धयः ।। ११२५ ।।
मुमुक्षवः प्रवर्तेरन्कथं नामाऽऽत्मवेदने ।। ११२६ ।।
संसारफलता काममस्तु काम्यस्य कर्मणः ।।
नित्यानामफलत्वात्तु मुक्तिरेवास्तु तत्फलम् ।। ११२७ ।।
न ह्युत्सर्गेण सर्वेषां फलवत्त्वस्य संश्रवात् ।।
कर्मणा पितृलोकादि नित्यानामेव तत्फलम् ।। ११२८ ।।
फलवत्त्वे हि नित्यानां काम्यत्वमिति चेन्मतम् ।।
नैवं शुद्धिप्रमाणत्वाद्भोगनिष्ठस्य काम्यता ।। ११२९ ।।
काम्येऽपि शुद्धिरस्त्येव भोगसिद्धर्यर्थमेव सा ।।
विड्वराहादिदेहेन न ह्यैन्द्रं भुज्यते फवम् ।। ११३० ।।
नित्येषु शुद्धेः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः ।।
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्ध्यनुरोधतः ।। ११३१ ।।
तमेतमित्यतश्चोच्चैर्वेदानुवचनादिना ।।
विरक्ताः सर्वसंसाराज्जिज्ञासन्ते परं पदम् ।। ११३२ ।।
आरादेवोपकुर्वन्ति नित्यान्यात्मविशुद्धितः ।।
आत्माज्ञानाविरोधित्वात्साक्षान्न त्वात्मबोधवत् ।। ११३३ ।।
त्यक्त्वा कर्माण्यतोऽसङ्गाः प्रत्यक्प्रवणबुद्धयः ।।
अपास्तरागादिमला ईक्षन्ते ज्ञं स्वमात्मनि ।। ११३४ ।।
अतोऽशेषमहानर्थहेत्वात्माज्ञानहानिकृत् ।।
प्रत्यग्याथात्म्यविज्ञानभास्करोदयहेतवे ।।
आरब्धेयं प्रयत्नेन वेदान्तोपनिषत्परा ।। ११३५ ।।
शतानि दश चैकं च चत्वारिंशत्तथाऽष्ट च ।।
श्लोकाः संबन्धभाष्येऽस्मिन्संख्याताः संख्ययाऽखिलाः ।। ११३६ ।।
तत्राश्वविषयं तावदादौ दर्शनमुच्यते ।।
प्राजापत्यत्वहेतोश्चाप्यश्वनामाङ्कितत्वतः ।। १ ।।
अश्वस्य यच्छिरः साक्षात्तदुषा इति चिन्तयेत् ।।
हरेरवयवेष्वेवं योज्या कालादिदृष्टयः ।। २ ।।
संस्कार्यत्वात्पशोरेवं दृष्टीरङ्गेषु योज्येत् ।।
कालादावमरवाङ्गत्वान्नाश्वदृष्टिर्विधित्स्यते ।। ३ ।।
सत्स्वश्वादिषु कालादिदृष्टीरङ्गेषु योजयेत् ।।
असत्स्वात्मानमेवाश्वं कल्पयित्वा नियोजयेत् ।। ४ ।।
कर्तारमश्वमग्निं च चित्यं सर्वं प्रजापतिम् ।।
अश्चमेधफलं चार्कं वेत्ति मृत्युं यथोदितम् ।। ५ ।।
अकर्ताऽप्यश्चमेधस्य ब्राह्मणश्चेह बुद्धिमान् ।।
क्रत्वात्मा मृत्युरस्मीति तादात्म्यं सोऽधिगच्छति ।। ६ ।।
अश्वसंज्ञपनात्पूर्वं तथोर्ध्वं चापि हाटक -
राजतात्मकपात्राभ्यां गृह्येते तत्र यौ ग्रहौ ।।
महिमाख्यौ तयोरेतदहर्वा इति दर्शनम् ।। ७ ।।
व्यत्ययेनाववोद्धव्या प्रथमार्थे च सप्तमी ।। ८ ।।
समुद्र ईश्वरो ज्ञेयो योनिः कारंणमुच्यते ।।
सर्वस्य जगतो यंस्मादीश एवेह कारणम् ।। ९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके प्रथमं ब्राह्मणम्
अथाग्नेरुच्यते जन्म हयमेधोपयोगिनः ।।
तद्दर्शनविधित्सायैस्तुत्यर्थोत्पत्तिरिष्यते ।। १ ।।
नामवद्रूपवच्चेह कारणं यावदीक्ष्यते ।।
नाभूत्तत्प्राक्समुत्पत्तेः प्राणाद्युत्पत्तिसंश्रवात् ।। २ ।।
कार्यमुत्पत्तिमत्त्वाच्चेत्प्रागुत्पत्तेर्निषिध्यते ।।
कारणस्य त्वनुत्पत्तेरनिषेधस्तथा सति ।। ३ ।।
तथा चानुपलब्धेश्च कार्यस्यैवास्तु नास्तिता ।।
कारणस्य न नास्तित्वमुक्तहेत्वोरसंभवात् ।। ४ ।।
सर्वस्यानुपलब्धेस्तु मैवं वोचो यतः श्रुतिः ।।
नैवेह किंचनेत्याह कारणेतरनिहनुतिम् ।। ५ ।।
नैवं यतः श्रुतिः साक्षात्सत्त्वमेवावदत्स्वयम् ।।
कार्यकारणयोः स्पष्टं मृत्युनैवेति सादरा ।। ६ ।।
मृत्युना कारणेनेदं कार्यं सर्वं समावृतम् ।।
इति नावक्ष्यद्यद्येतदुभयं नाभवत्पुरा ।। ७ ।।
प्राणपिण्डादिकार्याणां समुद्रः परमेश्वरः ।।
बन्धुः कारणमात्मोक्तो मृत्युरत्र स एव तु ।। ८ ।।
ज्ञानमात्रसतत्त्वं यह्ब्रह्माज्ञातसतत्त्वकम् ।।
मृत्युर्जनिमतः साक्षात्तत्र कार्याप्ययत्वतः ।। ९ ।।
सद्बीजं सत्प्रतिष्ठं च सदायतनमेव च ।।
प्रत्यक्षमेत्र सत्सिद्धं सदन्यस्याप्रसिद्धितः ।। १० ।।
असत्सदतिरेकेण यदि वाऽव्यतिरेकतः ।।
व्यतिरेके सदेवासदसद्वा तत्किमुच्यते ।। ११ ।।
नेह सद्व्यतिरेकेण स्वमहिम्ना प्रसिध्यति ।।
सर्वस्य सदपेक्षत्वात्सत्तु नान्यदपेक्षते ।। १२ ।।
मतमव्यतिरेकेण सतोऽसत्सत्तदिष्यताम् ।।
कुतोऽदो लभतेऽसत्त्वं यत्सदात्मनि निष्ठितम् ।। १३ ।।
अन्योन्यव्यतिरेकित्वान्नान्योन्यात्मकता तयोः ।।
विरोधित्वाच्च नान्योन्यं संबन्धस्तापशीतवत् ।। १४ ।।
स्फुरताऽपि सतो नान्यदभिधातुं घटादिवत् ।।
शक्यते नाभिधानेन ह्यसद्वस्तु निरुच्यते ।। १५ ।।
वस्तुनोऽतिशयः कश्चिदभाववचसोच्यते ।।
तस्य तेनाभिसंव्याप्तेर्न कथंचिदपहनुतिः ।। १६ ।।
क्रिया वा तत्फलं वा स्यादभावो नाऽऽत्महेतुहा ।।
यो यतो लभते सत्तां निरुणद्धि स तं कथम् ।। १७ ।।
न नाशो हन्ति नष्टारं गन्तारमिव तद्नतिः ।।
यो यतो लिप्सते सिद्धिं स तं हन्ति कथं वद ।। १८ ।।
विज्ञानाव्यतिरेकी चेदभावः स्यात्सहेतुकः ।।
ध्वंसादव्यतिरेकेऽपि धियो नित्यत्वमापतेत् ।। १९ ।।
अतोऽभावत्वसिद्ध्यर्थमभावेनाप्यपेक्ष्यते ।।
स्वहेतुसिद्धिः कार्योऽर्थो न दृष्टः कारणं विना ।। २० ।।
धर्म्यसिद्धिः प्रतिज्ञायां हेतुश्चानाश्रयो भवेत् ।।
न चास्ति कश्चिहृष्टान्तः सर्वशून्यत्ववादिनः ।। २१ ।।
विज्ञानमात्रं यस्यापि जगदेतश्चराचरम् ।।
प्रतिज्ञाहेतुदृष्टान्तैर्ज्ञानं तेनापि दूष्यते ।। २२ ।।
मानाभेदाच्च मेयस्य नाज्ञातार्थः प्रसिध्यति ।।
तादात्म्येऽपि न चेज्ज्ञातो मानात्कोऽतिशयो मतः ।। २३ ।।
अज्ञाताधिगमं कुर्वन्मानं स्यात्सर्ववादिनाम् ।।
न चेच्छुक्तितमोजस्य ज्ञानस्यापि प्रमाणता ।। २४ ।।
विज्ञानाव्यतिरेकित्वादसिद्धादेस्तथैव च ।।
प्रामाण्यवत्प्रसङ्गः स्यादप्रमात्वेऽपि ते ध्रुवम् ।। २५ ।।
अजमेकं स्वतःसिद्धं प्रत्यंग्रूपमनन्यदृक् ।।
वस्त्वेवं चेदिहाभीष्टं किमर्थं साध्यतेऽपरम् ।। २६ ।।
एवंभूतात्मसिद्ध्यर्थं कारणादि प्रसाध्यते ।।
उपायः सोऽवताराय तथा तज्ज्ञैश्च सूत्रितम् ।। २७ ।।
कारणादिनिषेधेन न चाद्वैतमभीप्सितम् ।।
ऐकात्म्यबोधमात्रेण निषेधस्याप्यपहवात् ।। २८ ।।
सतत्त्वकमिदं सर्वमिति संसाध्य यत्नतः ।।
तस्यापि संविन्मात्रेण पूर्णतैवोच्यते सतः ।। २९ ।।
सदेवाऽऽगमतः सर्वं प्रत्यक्षाच्च सदीक्ष्यते ।।
अनुमानाच्च सत्सर्वं यथा तदधुनोच्यते ।। ३० ।।
अनुमेयं च सत्पूर्वं कारणं कार्यमेव च ।।
जगत्प्रसूतेस्तच्चेह प्रयोगेण प्रदर्श्यते ।। ३१ ।।
विवादगोचरापन्नं सत्कारणमिदं भवेत् ।।
कार्यात्मकं मनोऽवादि कार्यत्वात्कटकुम्भवत् ।। ३२ ।।
हेतुमज्जनिमत्सर्वं कार्यत्वात्पटकुम्भवत् ।।
वियदादि च नः कार्यं तदप्येवं प्रतीयताम् ।। ३३ ।।
असत्कारणकं कार्यं तद्विनाश्यास्य जन्मतः ।।
सर्वं स्वहेतुमुन्मूल्य जायतेऽङ्कुरकुम्भवत् ।। ३४ ।।
स्वकारणं चेदुत्साद्य कार्यं सर्वं प्रजायते ।।
तत्कारणविनाशाय तत्सूतेः प्राक्क्व ईर्यताम् ।। ३५ ।।
स्वहेतूच्छित्तयेऽलं चेदजातमपि सद्यदि ।।
द्वयमप्यभ्युपेतं स्यान्न ह्यसद्धन्यतेऽसता ।। ३६ ।।
विनाशस्यापि कार्यत्वात्सोऽपि सत्कारणो मम ।।
न चेत्कार्यो विनाशः स्यान्नाशोऽकार्येण नेष्यते ।। ३७ ।।
स्वकारणविनाशाय सिद्धं घाऽसिद्धमेव वा ।।
अङ्कुरादि मतं कार्यं नोभयत्रापि युज्यते ।। ३८ ।।
सिद्धं चेत्कारणात्सिद्धमुपमर्दे विनैव तु ।।
उत्पन्नेन च तन्नाश उत्पन्नत्वादनर्थकः ।। ३९ ।।
उपमृद्गाति चेत्कार्यमथासिद्धं स्वकारणम् ।।
तत्कारणं कथं तत्स्यान्न चेत्तस्मात्प्रजायते ।। ४० ।।
उपमर्दोऽपि कार्यत्वात्किं न हन्यात्स्वकारणम् ।।
हन्तर्यसति हानोक्तिर्लक्ष्यते शिशुवक्तृका ।। ४१ ।।
नंष्ट्टतत्रो विनाशोऽपि गन्तृतन्त्र गतिर्यथा ।।
नास्तीह कश्चिद्धात्वर्थो यः स्वहेतुं विनाशयेत् ।। ४२ ।।
निर्हेतुनाशसंव्याप्तेर्न स्यात्कुम्भजनिर्मृदः ।।
न वीजादग्निसंव्याप्तादङकुरोद्भूतिरीक्ष्यते ।। ४३ ।।
घटादेः कारणं पिण्ड इति नाभ्युपगम्यते ।।
मृदेव कारणं यस्मात्पिण्डादेरवगम्यते ।। ४४ ।।
यदेव कारणं मानैरिह साक्षाद्विनिश्चितम् ।।
तदेवोत्तरकार्येषु, न कार्यं कारणं मितेः ।। ४५ ।।
विनाशोऽतिशयः कश्चिद्यदि पिण्डादिवन्मतः ।।
प्रत्यक्षात्तद्द्वयं सत्स्यान्नो चेदस्तु ध्रुवो घटः ।। ४६ ।।
क्रिया वा तत्फलं वा स्याद्वस्त्वन्तरमथापि वा ।।
नाशोऽथ वा न किंचित्स्यात्सत्त्वं नैवमपोद्यते ।। ४७ ।।
क्रियाऽप्यस्ति फलं चास्ति तद्वद्वस्त्वन्तरं च सत् ।।
अथ नाशोऽपि नैवास्ति तं विना सदिदं जगत् ।। ४८ ।।
सन्नेव नाशोऽपीष्टश्चेत्सत्सता न विरुध्यते ।।
ऐकात्म्येऽपि विरोधश्चेन्नाशो नाशेऽपि शङ्क्यते ।। ४९ ।।
पिण्डादिना विनाऽपीदं मृदादेः केवलादपि ।।
घटाद्युत्पद्यमानं तु कार्यं दृष्टमतो ध्रुवम् ।। ५० ।।
मृदाद्येव ततो ग्राह्यं कारणं ह्यन्वयान्मृदः ।।
कार्यमेव तु पिण्डादि तस्य कार्येष्वनन्नयात् ।। ५१ ।।
विरुद्धानेककार्याणां युगपज्जन्म नेष्यते ।।
एकस्मात्कारणात्तस्मात्पिण्डाभावे घटोद्बवः ।। ५२ ।।
पिण्डादिव्यतिरेकेण कारणानुपलब्धितः ।।
असत्त्वं चेन्मृदादेः स्यान्न मानानुपपत्तितः ।। ५३ ।।
पिण्डादिव्यतिरेकेण यदि मानं भवेत्ततः ।।
मृदादि कारणं लब्धं न मानं स्यान्मृदा विना ।। ५४ ।।
पिण्डादिव्यतिरेकेण पिण्डादाविव चेत्प्रमा ।।
सिद्धं कारणमेवं स्यान्न मा मेयं विना यतः ।। ५५ ।।
असाधारणरूपेषु व्यावृत्तेष्वितरेतरम् ।।
बहुष्वेकं यदाभाति प्रत्यक्षं कारणं तु तत् ।। ५६ ।।
सादृश्यादन्वयभ्रन्तिस्तन्निवृत्तावपीति चेत् ।।
नैवं पिण्डस्थदृष्टानां घटादावपि दर्शनात् ।। ५७ ।।
प्रत्यभिज्ञायमानेऽर्थे तदेवेदमिति ध्रुवे ।।
लिङ्गमाभासतामेति प्रत्यक्षार्थविरुद्धमित् ।। ५८ ।।
विरुद्धाव्यभिचारित्वं न च प्रत्यक्षलिङ्गयोः ।।
प्रत्यक्षापाश्रयान्नित्यं नानपेक्षं तदक्षवत् ।। ५९ ।।
विरुद्धाव्यभिचारित्वं समानबलयोर्यतः ।।
दृष्टं सर्वत्र लोकेऽस्मिन्न तु सिंहशृगालयोः ।। ६० ।।
क्षणिकत्वे च भावानां प्रत्यभिज्ञाद्यसंभवः ।।
न ह्यन्यदृष्टं वस्त्वन्यैः प्रत्यभिज्ञायते क्वचित् ।। ६१ ।।
क्षणिकं चेदिदं सर्वं प्रत्यभिज्ञाप्रमाणकम् ।।
अन्यतद्बुद्ध्यपेक्षत्वं तद्बुद्धेर्वः प्रसज्यते ।। ६२ ।।
इदं क्षणिकमित्येतत्क्षणिकत्वे न सिध्यति ।।
इदंक्षणिकताबुद्ध्योर्भिन्नाधिकरणत्वतः ।। ६३ ।।
अज्ञातं ज्ञायते यस्य तथाऽजातं च जायते ।।
प्रत्यभिज्ञामृते तस्य प्रतिज्ञार्थो न सिध्यति ।। ६४ ।।
अनवस्था च दुर्वारा ह्यविश्चासश्च जायते ।।
मृपात्वात्सर्वबुद्धीनां न क्वचिन्निश्चितिर्भवेत् ।। ६५ ।।
संबन्धानुपपत्तिश्च तदिदंज्ञानयोर्ध्रुवम् ।।
संबन्धकर्तर्यसति न च सादृश्यसंश्रयात् ।। ६६ ।।
ध्वंसिनोरिव सादृश्यं स्थायिनोरपि नेष्यते ।।
ग्राहकेऽसति तद्भिन्ने बुद्धीनां चैकरूपतः ।। ६७ ।।
नाशभेदविरुद्धार्थप्रमेये च व्यवस्थिते ।।
प्रत्यर्थिनि हि प्रत्यक्षे तद्विरुद्धः कुतोऽमितेः ।। ६८ ।।
अनुत्पन्नोत्पित्सूत्पन्नोऽनष्टो नाशादिकृत्तथा ।।
एवमष्टक्षणावस्थो भावोऽवश्यं त्वयेष्यते ।। ६९ ।।
अन्योन्याविषयत्वे तु कुतः सादृश्यधीरियम् ।।
सदृशार्थे विनैवेयं क्लृप्ता सादृश्यधीर्यदि ।। ७० ।।
मृगाम्बुधीवन्मिथ्यात्वं स्यादेवं तदिदांधियोः ।।
असद्विषयतैवेह सर्वासमपि चेद्धियाम् ।। ७१ ।।
नैवं बुद्धेरपि तथा ह्यसद्विषयता भवेत् ।।
अस्त्वेवं सर्ववुद्धीनां मृषात्वमिति चेन्मतम्स।। ७२ ।।
नैवं स्यात्सर्वबुद्धीनां मृषात्वे मित्यसंभवात् ।।
कारणस्यास्तिता तस्मात्सिद्धा कार्योद्भवात्पुरा ।। ७३ ।।
कार्यस्यापि यथाऽस्तित्वं तथेदानीं प्रपञ्चयते ।।
सत्त्वपूर्वमिदं कार्यं तमोन्तस्थघटादिवत् ।।
तस्याभिव्यक्तिधर्मत्वादन्यथा स्यान्नृशृङ्गवत् ।। ७४ ।।
सत्यामपि च सामग्र्यां वन्ध्यापुत्राद्यसत्त्वतः ।।
विज्ञानालम्वनत्वं नो न कदाचित्प्रपद्यते ।। ७५ ।।
सर्वं सदेव चेदिष्टमुपलभ्येत ते सदा ।।
सामग्र्यां घटवत्सत्यां सर्वं सद्वादिनो ध्रुवम् ।। ७६ ।।
न विद्यमानमात्रेण ह्यभिव्यक्तिरपीष्यते ।।
सदेव वस्त्वभिव्यक्तं तथाऽव्यक्तं च लक्ष्यते ।। ७७ ।।
अङ्गीकर्तव्यमेतच्च भवद्भिरविशङ्कितैः ।।
न चेद्वः सर्वसिद्धान्तो नश्येत्सैकतकूपवत् ।। ७८ ।।
प्रमाणव्यतिरेकेण प्रमेयोऽर्थो भवन्भवेत् ।।
मानादव्यतिरेके हि मानमेयौ न सिध्यतः ।। ७९ ।।
कारणस्यापि नास्तित्वं कार्यासत्त्वे प्रसज्यते ।।
न हि कार्यमनाश्रित्यं कारणं जगतीक्ष्यते ।। ८० ।।
सत्तामात्रेण किं कार्यं समवाय्यादिकारणम् ।।
साधयेद्व्यापृतं वेदं तथाऽपीष्टं न सिध्यति ।। ८१ ।।
सत्तामात्रेण चेत्कुर्यात्कारणत्रितयं तदा ।।
कार्योत्पत्तिस्थितिलयाः प्राप्नुयुर्युगपत्सदा ।। ८२ ।।
अविशेषाच्च सत्तायाः सर्वतः सर्वसंभवः ।।
सर्व एव न संसिध्येद्व्यवहारश्च लौकिकः ।। ८३ ।।
त्रीण्येव कारणानीति निष्फलाऽवधृतिर्भवेत् ।।
यथा त्रयं तथा सर्वं सत्तया किं न कारणम् ।। ८४ ।।
संभूय कार्यं कुर्याच्चेत्कारणत्रितयं तदा ।।
मेलनस्यापि कार्यत्वात्कथं तत्स्यात्रयं विना ।। ८५ ।।
कारणत्रितये नाथ एकैकस्य प्रसिध्यति ।।
तस्य तस्य तथैवेति साऽनवस्था प्रसज्यते ।। ८६ ।।
वस्तुनः सदसत्त्वाय ह्यभिव्यक्त्येकहेतुतः ।।
ऐश्वर्यं न प्रमाणस्य सत्त्वं वस्तुबलाद्यतः ।। ८७ ।।
द्वैविध्यादावृतेः कार्यं नेक्षते तेन संवृतम् ।।
लब्धात्मकस्य कुड्यादि, प्राक्सूतेः कारणावृतिः ।। ८८ ।।
मृदात्मनोपसंश्लिष्टं कार्यं कारणतामितम् ।।
कारणत्वाद्धि तत्स्थं तत्तदृते कराणं कथम् ।। ८९ ।।
यदि कारणसंस्थं सत्तन्निमित्तं च कारणम् ।।
व्यवधानान्तराभावात्किमर्थं नोपलभ्यते ।। ९० ।।
कार्यान्तरेण संस्थानान्मृदादेर्नोपलभ्यते ।।
सदात्मनोपलब्धिस्तु न कदाचन हीयते ।। ९१ ।।
नष्टोत्पन्नसदभावशब्दप्तत्ययभेदधीः ।।
अभिव्यक्तितिरोभूतिद्वैविध्यापेक्षयैव तु ।। ९२ ।।
कुड्याद्यावरणं दृष्टं भिन्नदेशं सदाऽऽवृतात् ।।
कुम्भाद्यभिन्नदेशस्थं पिण्डाद्यावरणं कथम् ।। ९३ ।।
नैवं पयोघृतादीनामेकदेशत्वदर्शनात् ।। ९४ ।।
अनावरणता चेत्स्यात्कपालादेर्घटात्मनि ।।
अन्तर्भावान्न साध्वेतद्विभक्तानां भवेद्यतः ।। ९५ ।।
आवृतत्वमथ मतं भङ्ग एव प्रसज्यते ।।
यत्नो न तु घटोत्पत्तौ नैवमप्युपपद्यते ।। ९६ ।।
न हि लोकेऽस्ति नियसो र्घटाभिव्यक्तिहेतुकः ।।
अनेकसाधना यस्मादभिव्यक्तिरिहेक्ष्यते ।। ९७ ।।
दीपेनान्यो, मथा चान्यस्तथा चक्रादिना परः ।।
अभिव्यक्तिं प्रयात्यर्थः पुरा सन्नेव सर्वदा ।। ९८ ।।
तमोविनाशनायैव प्रदीपोऽपीति चेन्मतम् ।।
नष्टे तमसि कुम्भोऽपि स्वयमेवोपलभ्य़ते ।। ९९ ।।
किमेवं भवतः सिद्धं यदि नाम तमोहनुतिः ।।
सदेव व्यज्यते सर्वमिति नैवापनुद्यते ।। १०० ।।
अज्ञातत्वापमार्ष्ट्यर्थमुपादित्सन्ति मानिनः ।।
मानानि, मानसंबन्धादज्ञातत्वं च नश्यति ।। १०१ ।।
यतः सति क्रियाभेदे किं पूर्वमिति चोदना ।।
क्रियाभेदे न च न्याय्यं ध्वान्तनाशः क्रियाफलम् ।। १०२ ।।
ज्ञातुर्ज्ञानाभिनिष्पत्तिर्निष्पन्नं मेयमेति सत् ।।
मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते ।। १०३ ।।
व्यवधानं तमो यस्माद्धटोऽयमिति संविदः ।।
प्रकाशवद्धटं चर्ते कुतस्तत्तममो हनुतिः ।। १०४ ।।
प्रमाणव्यापृतेर्ज्ञातोऽज्ञातोऽज्ञातत्वहानिकृत् ।।
घटोऽवगत इत्येतत्ततः संपद्यते फलम् ।। १०५ ।।
यद्यावरणभङ्गाय यत्नः स्याद्धटवित्तये ।।
कार्यान्तरं भवेद्भङ्गात्तेनाप्यावृतता घटे ।। १०६ ।।
व्यवधानान्तरं तस्मादन्यदप्यापतेत्तदा ।।
अतो नियत एवात्र व्यापारः फलवान्भवेत् ।। १०७ ।।
अतीतैष्यद्धटज्ञानं सद्धटालम्बनं भवेत् ।।
घटज्ञानत्वतः साक्षादिहत्यघटबोधवत् ।। १०८ ।।
अतीतोऽनागतोऽर्थोऽसन्यदि वाऽभ्युपगम्यते ।।
अतीतानागतज्ञानं मिथ्येशस्य प्रसज्यते ।। १०९ ।।
प्रत्यक्षं नापि चेशस्य केनचित्प्रतिहन्यते ।।
अपविद्धातिशीत्येव तज्ज्ञानं केन हन्यते ।। ११० ।।
घटसत्त्वे पुरोत्पत्तेरनुमा च प्रदर्शिता ।।
तस्मात्सदेव कार्यं स्यात्प्रगुत्पत्तेरपि त्रुवम् ।। १११ ।।
एष्यद्धटनिषेधे च विरोधोऽपि प्रसज्यते ।।
भविप्याति न भाव्यर्थो वर्तमाननिषेधवत् ।। ११२ ।।
गृह्यमाणो घटो नासन्निति यद्वद्विरुध्यते ।।
अतीतैष्यन्मितघटप्रतिषेधस्तथाविधः ।। ११३ ।।
प्रागभावादयोऽभावाः सन्तः स्युरतिरेकिणः ।।
व्यपदेशाद्धटेनैषामन्योन्याभाववद्ध्रुवम् ।। ११४ ।।
एवं च सति संबन्धो न भावाभावयोर्मिथः ।।
विरोधाद्भावयोर्यद्वदेकत्वान्नाप्यभावयोः ।। ११५ ।।
असतश्च न संबन्धोऽकारकत्वात्कथंचन ।।
संबन्धश्च क्रियात्मत्वान्न सिध्येत्कारकं विना ।। ११६ ।।
प्रागभावो घटस्येति घटं एवोच्यते यदि ।।
घट एव घटस्येति व्यपदेशो न युज्यते ।। ११७ ।।
न चासत्त्वं घटस्यैवं, प्रागभावो घटो न च ।।
अवध्यवधिमद्भेदे प्रागभावोऽपि सिध्यति ।। ११८ ।।
अथ प्रकल्प्य संबन्धं घटस्येत्यभिधीयते ।।
क्लृप्तस्यैव ह्यभावस्य व्यपदेशः प्रसज्यते ।। ११९ ।।
अर्थान्तरमभावश्चेदुक्तं संस्मर्तुमर्हसि ।।
शशशृङ्गादिकल्पस्य घटस्य स न युज्यते ।। १२० ।।
स्वहेतुसत्तासंबन्धः संबन्धस्य सदाश्रयात् ।।
अथास्त्वयुतसिद्धानां नासतोऽयुतसिद्धता ।। १२१ ।।
न भावाभावयोर्योगो नापि चायमभावयोः ।।
सतोरेव यतो योगः सिद्ध कार्यमतः सदा ।। १२२ ।।
द्वैतैकत्वात्मकं रूपं वैराजं कार्यमात्मनः ।।
समुद्र एव ह्यस्येति विराट्कारणमब्रवीत् ।। १२३ ।।
संभूय कार्यभूतानि भूतयोनिं यतो विभुम् ।।
जन्मस्थितिलयान्यान्ति समुद्रस्तेन विश्वकृत् ।। १२४ ।।
तत्समुद्रं परं ब्रह्म संविन्मात्रसतत्त्वकम् ।।
अविज्ञातात्मयाथात्म्यं हेतुत्वेनेह शब्द्यते ।। १२५ ।।
इदं जगदुपादानं सर्वशक्त्यजमव्ययम् ।।
स्वात्मैकाज्ञानवृत्तेन ग्रसिष्णु प्रभविष्णु च ।। १२६ ।।
स्वाभासवर्त्मनैवैतत्स्वात्माज्ञानजभूमिषु ।।
इतं बहुत्वमेकं सद्वियद्यद्वद्धटादिषु ।। १२७ ।।
अकारणं सदज्ञानात्कारणत्वं यथैत्यजम् ।।
सर्वकारकतामेवं क्रियातत्फलतामपि ।। १२८ ।।
साध्यसाधनता तस्मादज्ञानैकव्यपाश्रयाम् ।।
उच्चैरनूद्य तत्तत्त्वं वेदान्ताः प्रत्यपीपदन् ।। १२९ ।।
अकारणमकार्ये सत्कार्यकारणतामगात् ।।
मोहादेव ततः शास्रं तदुच्छित्तौ प्रवर्तते ।। १३० ।।
अपीताशेषसंसारं शुद्धसंस्कारसंश्रयम् ।।
अव्याकृतमिदं ब्रह्मह्यन्तर्यामीति चोच्यते ।। १३१ ।।
अज्ञानानुपमर्देन व्याकृतिर्याऽस्य जायते ।।
स्वप्नविज्ञानवन्नासौ सत्यमेयव्यपाश्रया ।। १३२ ।।
सम्यग्ज्ञानसमुत्पत्तौ हेतुत्वं तु निगच्छति ।।
निद्रं हत्वा यतः स्वप्नज्ञानादपि विबुध्यते ।। १३३ ।।
उपेयप्रतिपत्त्यैव प्रमाणानां प्रमाणता ।।
वस्तुस्थित्या न सत्यत्वमिति पूर्वमवादिषम् ।। १३४ ।।
नामरूपादिना येयमविद्या प्रथतेऽसती ।।
माया तस्याः परं सौक्ष्म्वं मृत्युनैवेति भण्यते ।। १३५ ।।
मृत्युर्वै तम इत्येवमाप एवेदमित्यपि ।।
अविद्या प्रथते मौली व्यक्ताव्यक्तात्मनाऽनिशम् ।। १३६ ।।
एतेभ्योऽसौ समुत्थाय स्वाभासानात्मजन्मना ।।
याति क्षेत्रज्ञतामीशः कूटलस्थोऽपि ह्यविद्यया ।। १३७ ।।
आपो ह्यणुतराः सत्यमसृजन्तेति हि श्रुतिः ।।
क्रियाविज्ञानशक्त्यात्मा सोऽपि ब्रह्मासृजत्परः ।। १३८ ।।
विराड्व्रह्माथ ससृजे मनुं देवं प्रजापतिम् ।।
मनुर्देवान्मनुष्यांश्च स्थास्नु कृत्स्नं चरिष्णु च ।। १३९ ।।
साध्यसाधनवत्कृत्स्नकार्यरूपविवक्षया ।।
श्रुतिः प्रववृते सेयं नैवेहेतीह यत्नतः ।। १४० ।।
अशनायापिपासाभ्यां मृत्याो रूपं प्रचक्षते ।।
प्राणस्य तत्र संवर्गाद्वागादध्यात्मदैवयोः ।। १४१ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
स्वं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ।। १४२ ।।
सृष्टिमेतां समुद्दिश्य तन्मनोऽकुरुतेति या ।।
श्रुतिः प्रवृत्ता निर्वक्तुं यावदव्याकृतं परा ।। १४३ ।।
यद्वा विराजमुद्दिश्य संकल्पमकरोन्मनः।।
आत्मन्वी स्यामिति तथा साकूतः सृष्टिकारणः ।। १४४ ।।
स्वविभूतीक्षणं सृष्टौ विभोरर्चनमुच्यते ।।
आपोऽजायन्त इति च सर्वभूतोपलक्षणम् ।। १४५ ।।
विद्योत्पत्तिप्रधानत्वात्सृष्टिर्वा न विवक्ष्यते ।।
तथाच प्रतिवेदान्तं सृष्टिर्नानाविधेक्ष्यते ।। १४६ ।।
अर्चतो मे यतो जज्ञे कमम्भः सुखकृत्ततः ।।
अर्काभिधोऽथ संवृत्तः प्राणो मृत्युः प्रजापतिः ।। १४७ ।।
उपासनमतोऽस्यापि नाग्नेरेवेति निश्चितिः ।।
अर्कनामाभिसंबन्धो नोपासनमृते यतः ।। १४८ ।।
यदि वाऽग्नेरिदं नाम तस्य प्रकरणित्वतः ।।
आपो वा अर्क इति तु चित्यनामार्थमेव तत् ।। १४९ ।।
शर असीदिति गिरा शक्त्यवस्था विवक्ष्यते ।।
सा पृथिव्यभवच्चेति विराजो जन्मशब्दनम् ।। १५० ।।
तपोऽप्सु तप्यमानासु ह्यण्डं जज्ञे हिरण्मयम् ।।
इति श्रुतिर्जगादार्थं यथैवेह प्रपञ्चयते ।। १५१ ।।
एवं व्यष्टिसमष्ट्यात्मा वैराजं देहमात्मनः ।।
प्राचीक्लृपदथेदानीं सृष्टिस्तस्य विवक्ष्यते ।। १५२ ।।
श्रान्तस्येति तु देहस्य कर्मायोग्यत्वमुच्यते ।।
श्रमहेतुरतस्तापस्तप्तस्येत्यभिशब्द्यते ।। १५३ ।।
भास्वज्ज्ञानं भवेत्तेजो रसः प्राणो विवक्षितः ।।
क्रियाविज्ञानशक्तित्वात्प्रकृतस्य प्रजापतेः ।। १५४ ।।
अनवच्छिन्नवपुषः पिण्डावच्छेदहेतुतः ।।
रवस्य कुम्भादिनेवासोर्निरवर्तत शब्दनम् ।। १५५ ।।
नामरूपादिमद्देहसंबन्धात्तद्विधर्मकः ।।
अरूपोऽपि हि सूत्रात्मां लक्ष्यते रूपवानिव ।। १५६ ।।
सूक्ष्मस्थूलशरीराभ्यां चिदाभाभ्यामविद्यया ।।
संवृतः परमेशोऽपि त्रैलोक्यात्माग्निरूच्यते ।। १५७ ।।
अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। १५८ ।।
विराडदेहावनद्धोऽसुरध्यात्माद्याधिगः रववत् ।।
व्यष्टितामेति तद्धीनः समष्टित्वेन तिष्ठति ।। १५९ ।।
उर्व्यामुत्पादितायां तु श्रमात्तापात्प्रजापतेः ।।
निरवर्ततेवास्याऽऽत्सा परिच्छेदाभिमानतः ।। १६० ।।
स्थूलदेहपरिच्छिन्नः स एवाऽऽद्यः प्रजापतिः ।।
अग्निरेष यतस्तस्मादुपास्योऽयं प्रयत्नतः ।। १६१ ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्रे समवर्तत ।। १६२ ।।
अनुपारल्यतनुः सोऽयंं व्यवहारप्रसिद्धये ।।
आत्मानं व्यभजत्स्थूलैस्रिधा वाय्वग्निभानुभिः ।। १६३ ।।
स्वरूपानुपमर्देन स विराड्देवतात्मभिः ।।
उपासनादिसिद्ध्यर्थमात्मानं व्यभजत्स्वयम् ।। १६४ ।।
मूलात्मैव त्रिधाऽऽत्मानमभिनत्स प्रजापतिः ।।
इत्यस्य प्रतिपत्त्यर्थे स एष इति भण्यते ।। १६५ ।।
तस्य प्रथमजस्यागेर्विराजोऽर्कस्य वाजिवत् ।।
दर्शनस्य विधानार्थं तस्य प्राचीति कीर्त्यते ।। १६६ ।।
यस्मात्कारणमुलङ्ध्य कार्यं नान्यत्र वर्तते ।।
अप्सु कारणभूतासु तस्मादग्निः प्रतिष्ठितः ।। १६७ ।।
अप्प्रतिष्ठागुणं देवमुपास्ते योऽनिशं नरः ।।
यत्र क्व चैति तत्रासौ प्रतिष्ठां लभते शूभाम् ।। १६८ ।।
योऽबादिपरिपाठ्यैवं विराजमसृजत्स्वयम् ।।
कीदृग्व्यापारसंयुक्तः सोऽस्राक्षीदिति भण्यते ।। १६९ ।।
अत्तृसर्गोऽथवोक्तः प्रागन्नसर्गोऽधुनोच्यते ।।
अशनायावतो यस्मान्नास्त्यन्नविरहात्स्थितिः ।। १७० ।।
त्रेधा व्यभजदात्मानमित्येतद्वा प्रदर्श्यते ।।
अग्निप्राणौ पुरैवोक्तावथ संवत्सरोद्भवः ।। १७१ ।।
मनसा ज्ञाननिर्देशस्रयी वागिति भण्यते ।।
सर्गक्रमं स वेदोक्तं ज्ञानेनाऽऽलोचयत्प्रभुः ।। १७२ ।।
ज्ञानेनाप्रतिघेनासौ वेदोक्तां सृष्टिपद्धतिम् ।।
समन्वालोचयच्छभुः सिसृक्षुर्विविधं जगत् ।। १७३ ।।
आलोच्यालोचकयोर्हि योगो मिथुनमुच्यते ।।
प्रसिद्धं मिथुनं चात्र न कथंचन युज्यते ।। १७४ ।।
अनन्तराग्निसंबन्धप्रसङ्गविनिवृत्तये ।।
अशनायेति हि प्राह मूलकारणसंगतिम् ।। १७५ ।।
जगतः प्रक्रियाबीजं यदवैषीत्पुरा गृही।।
द्वैतैकत्वात्मकं ज्ञानं कर्म च ज्ञानसंभृतम् ।।
भावना च तयोरेतत्रयं रेतोऽभिधीयते ।। १७६ ।।
सृष्ट्यालोचनहेत्वेतत्सृष्टावाविरभूद्विभोः ।।
तद्भावभाब्यपः सृष्ट्वा रेतोबीजेन स प्रभुः ।। १७७ ।।
सर्वलोकैकबीजेन गर्भ्यर्ण्डन बभूव ह ।।
अप एव ससर्जाऽऽदौ तासु वीर्यमवासृजत् ।। १७८ ।।
तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ।।
इत्येवं मनुनाऽप्युक्तः श्रौतोऽयं सर्गविस्तरः ।। १७९ ।।
आपो ह वा इति तथा ह्ययमेव क्रमः श्रुतौ ।।
ज्ञानकर्मादिवीजस्य गर्भ एवं प्रजापतेः ।। १८० ।।
स संवत्सरोऽभवदिति परिमाणोऽयमुच्यते ।।
अशनायादिमत्त्वात्स स्वभावबलचोदितः ।। १८१ ।।
सृष्ठ्वाऽऽद्यं घस्मरः पुत्र तमभिव्याददात्क्षुधा ।।
भिनत्ति सर्वमर्यादां नान्वयाद्यप्यपेक्षते ।। १८२ ।।
अस्य दग्धोदरस्यार्थे को न कुर्यादसांप्रतम् ।। १८३ ।।
अन्न एव यतो वृत्तिरत्तुरन्नाद एव च ।।
अन्नस्य युक्तमेवातस्तमभिव्याददादिति ।। १८४ ।।
जन्मान्तरसमभ्यस्तविद्याकर्मादिहेतुतः ।।
जन्यकर्मप्रयुक्तः सञ्शिञुर्भाणित्यथाकरोत् ।। १८५ ।।
यथोक्तहेतुवशगः स्वभावप्रहितोऽप्यसुः ।।
कुमारोत्थरवत्रस्तः स्वभावं चिच्छिदे भयात् ।। १८६ ।।
अत्यन्तमपि शूराणां स्वस्वभावैकहेतुतः ।।
तित्तिरादिसमुत्पाते वेपथुर्जायते भयात् ।। १८७ ।।
एवं स शिशुसंरावसंलब्धालोचनक्षणः ।।
ऐक्षतेह न कामार्तः कश्चिदालोचने क्षमः ।। १८८ ।।
मन्यतिश्चाभिपूर्वोऽयं हिसार्थः स्यात्प्रसिद्धितः ।।
यदीममभिहिंसिप्ये कनीयोऽन्नं भवेद्ध्रुवम् ।। १८९ ।।
कारणादल्पमेव स्यात्तद्व्याप्तेरदितिर्यतः ।।
अन्नमल्पं ततोऽप्यल्पात्कनीयोऽन्नं भवेदतः ।। १९० ।।
लोकेऽपीदं सुप्रसिद्धमाङ्गनाबालपण्डितम् ।।
जग्धनिःशेषवीजस्य तत्फलं नाऽऽप्यतेऽण्वणि १९१ ।।
कुमारवक्त्रोद्नतया वाचर्गादीन्ससर्ज सः ।।
पश्वादींश्च कुमारेण ह्यात्मनाऽजीजनज्जमत् ।। १९२ ।।
स्रष्ट्रत्रोः कार्यभक्ष्याभ्यामन्योन्याव्यतिरेकतः।।
स्रष्ट्टत्वात्स सृजत्येव रवाद्यतेऽन्नं सदाऽऽद्यतः।। १९३ ।।
सर्वमत्ति यतः सृष्टं तस्माददितिरुच्यते ।।
नामज्ञस्तमुपासीनः सर्वस्यात्ताऽदितिर्भवेत् ।। १९४ ।।
सर्वात्तृत्वेन सिद्धेऽर्थे सर्वान्नोक्तिः किमीर्यते ।।
अन्नमेव भवेदन्नं नान्नमत्रस्य कुत्रचित् ।। १९५ ।।
प्राणात्माऽत्तैव सोऽवश्यमुपासनवलाद्भवेत् ।।
य एवमभिधानज्ञ उपासीतादितिं सदा ।। १९६ ।।
अश्वाश्वमेधनाम्नोऽथ कारणप्रतिपत्तये ।।
सोऽकामयत इत्यादिः परो ग्रन्थोऽवतार्यते ।। १९७ ।।
यज्ञेन भूयसा यक्ष्य इत्येवं स प्रजापतिः ।।
अश्वमेधो भवेद्भूयान्भूयोदक्षिणको हि सः ।। १९८ ।।
यजेय भूयोऽपीत्येवमकामयत भावितः।।
क्रत्वात्मेत्यभिमानेद्धः पूर्वजन्मन्यभूत्प्रभुः ।। १९९ ।।
पूर्वजन्माभिनिर्वृत्तप्रयोगापेक्षयोच्यते ।।
भूयो यजेयेति वचः सदा तद्भावभावनात् ।। २०० ।।
क्रत्वात्मैवाभिसंपन्नो द्वैतैकत्वात्मकः प्रभुः ।।
इह तत्फलतां यातो भूयोवाग्युज्यते ततः ।। २०१ ।।
कारणप्रवणं सर्वं कार्यं दृष्टं जगत्यपि ।।
प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ।। २०२ ।।
यशोवीर्यैकहेतुत्वात्प्राणा यश इहेष्यताम् ।।
यशः प्रकाशरूपेण वीर्यं तद्बलहेतुतः ।। २०३ ।।
उदक्रामद्यशो वीर्यं विराजः श्रमकर्शितात् ।।
लिङ्गात्मेह यशो वीर्यमुभयं हि तदुद्भवम् ।। २०४ ।।
पूर्वदेेहेऽभिषङ्गोऽभूदपविद्धतनोरपि ।।
सङ्गत्यागो ह्यसंभाव्यो विनैकात्म्याववोधनात् ।। २०५ ।।
जातदेहाभिषङ्गः सस्तादात्म्यप्रतिपित्सया ।।
मेध्यमित्यादिकं कामं सोऽकामयत कामुकः ।। २०६ ।।
अपविद्धयशोवीर्ये शरीरं कवियोगतः ।।
यतोऽश्वयदतोऽश्वोऽसुः संवृत्तः स प्रजापतिः ।। २०७ ।।
व्यपेतसद्यशोवीर्यममेध्यं मेध्यतामगात् ।।
तत्प्रवेशाद्यतोऽतोऽयमश्चमेधोऽभवत्प्रभुः।। २०८ ।।
अश्वाश्वमेधावेवं च प्राजापत्यात्मनाऽञ्जसा ।।
अभिष्टुतौ कथं नाम भवेतामिति भण्यते ।। २०९ ।।
काललोकादिवपुषस्त्वश्चस्याग्नेश्च सांप्रतम् ।।
समस्योपासनं वाच्यमित्यर्थो ग्रन्थ उत्तरः ।। २१० ।।
विधायकपदाभावादसंगानं परस्परम् ।।
पदानामिति मा प्रापदित्यर्थेयं परा श्रुतिः ।। २११ ।।
एष एवं यथातत्त्वमश्वमेधं विवेद यः ।।
वक्ष्यमाणेन रूपेण वेद विद्यादतस्तथा ।। २१२ ।।
आत्मानमश्वं संकल्प्य काललोकादिधर्मिणम् ।।
तथाविधशरीरः सन्सर्वलोकपितामहः ।। २१३ ।।
यजेयमश्वमेधेन भूयोऽपीत्यभ्यमन्यत ।।
भूर्लोकाद्यात्मकं सोऽश्वमात्मानं निरवग्रहम् ।। २१४ ।।
यावदब्द मुमोचाश्वं स्वच्छन्दं मुक्तबन्धनम् ।।
ततः संवत्सरादूर्ध्वं तं चाप्यालभताऽऽत्मने ।। २१५ ।।
स्वात्मावयवभूताभ्यो देवताभ्यो यथायथम् ।।
ग्राम्यारण्यान्पशून्प्रादादन्याभ्यः स प्रजापतिः ।। २१६ ।।
यतोऽकरोद्विराडेवं तस्मादेवेह याज्ञिकाः ।।
प्रोक्षितं सर्वदेवत्यं प्राजापत्यं तुरंगमम् ।। २१७ ।।
आलभन्ते यतस्तस्माद्यथाव्याख्याततत्त्ववित् ।।
कुर्यादेवं यथोक्तार्थं मृत्युत्वप्रतिपित्सया ।। २१८ ।।
कर्मोपासनमुक्त्वाऽथ तत्फलोपदिदिक्षया ।।
एष वा इति यत्नेन ह्याजगामोत्तरा श्रुतिः ।। २१९ ।।
दर्शनाद्यभिनिर्वृत्तो यस्त्वेवं हयसाधनः ।।
प्रत्यक्षं फलरूपेण स एष इति दर्श्यते ।। २२० ।।
अश्वमेधक्रियापूर्वपरिणामैकवर्त्मना ।।
अश्वमेधो रविः साक्षादुषा इत्यादिनोदितः ।। २२१ ।।
तस्य संवत्सर आत्मा तस्याऽऽदित्यैकहेतुतः ।।
तस्य क्रत्वात्मनश्चित्यो योऽङ्गभूतः पुरोदितः ।। २२२ ।।
फलात्मकः स एवैष पार्थिवोऽग्निः प्रदर्श्यते ।।
आत्मान एते तस्यापि त्रयो लोका यथोदिता ।। २२३ ।।
क्रतुतत्साधनात्मानावादित्याग्नाी यथोदितौ ।।
निर्वृत्तात्माधिकारौ तावेकैवासौ भवेदसुः ।। २२४ ।।
अशनायावती योक्ता मृत्युः सर्वान्नघस्मरा ।।
सैवाऽऽत्मा विदुषः साक्षादात्मा स्यादजरोऽमरः ।। २२५ ।।
नैनमाध्यात्मिको मृत्युस्तन्मृत्युत्वादवाप्नुयात् ।।
सकृन्मृत्वाऽसुदेहेन मुच्यते सर्वबन्धनात् ।। २२६ ।।
अग्न्यादिभेदभिन्नानां देवतानामशेषतः ।।
आत्माऽभिन्नो भवत्येष यथोक्तोपासनादुधः ।। २२७ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके द्वितीयमश्वमेधब्राह्मणम्
शास्रोक्तज्ञानयुक्तानां कर्मणां ज्ञानतस्तथा।।
सर्वत्र वेदशास्रेऽस्मिन्मृत्युभावः फलं श्रुतम् ।। १ ।।
आध्यात्मिकपरिच्छेदव्यावृत्तिर्यत्समाश्रयात् ।।
स मृत्युर्मृत्युशब्देन फलभूतोऽत्र भण्यते ।। २ ।।
या त्वश्वमेधगत्युक्तिः सोपलक्षणसिद्धये ।।
कर्मज्ञानान्तराणां स्यान्नाश्चमेधगृहीतये ।। ३ ।।
अल्पीयःफलसंप्राप्तिरल्पीयोज्ञानकर्मतः।।
अल्पत्वमभिभूतेः स्यात्तयोरासुरपाप्मभिः ।। ४ ।।
कुतस्तस्याभिभूतस्य रागाद्यासुरपाप्मभिः ।।
उद्भूतिः कर्मणोऽत्यर्थं ज्ञानस्य च निगद्यताम् ।। ५ ।।
मृत्युं साक्षादवाप्नोति ज्ञानयुक्तेन कर्मणा ।।
इत्येतद्बहुशोऽश्रावि पूर्वग्रन्थेषु चाऽऽगमैः ।। ६ ।।
तज्ज्ञानोत्पत्तिविघ्नाय ध्वस्तिकृज्ज्ञानलब्धये ।।
उद्गीथदेवतावाप्त्यै प्रारब्धेहोत्तरा श्रुतिः ।। ७ ।।
ननु मृत्योरतिक्रान्तेरूद्गीथज्ञानकर्मणोः ।।
फलस्य संश्रवान्नातो मृत्युप्राप्तिस्तयोः फलम् ।। ८ ।।
नाग्न्यादिदेवतात्मत्वतत्फलावगमाच्छ्रुतेः ।।
स्वाभाविकासङ्गमृत्योरतिक्रान्तिः पृथक्फलम् ।। ९ ।।
कोऽसौ स्वाभाविकः पाप्मा तस्योद्भ्यूतिस्तथा कुतः ।।
तस्मान्निवृ्त्तिः केन स्यात्कथं वेत्येतदुच्यते ।। १० ।।
यथोक्तार्थप्रसिद्ध्यर्थं श्रुतिरारव्यायिकात्मिका ।।
द्वया हेत्येवमाद्येयं प्रचक्राम परीक्षितुम् ।। ११ ।।
प्राजापत्यं पदं यो यो ह्यधिकारी परीप्सति ।।
तन्निर्धार्यानया श्रुत्या पदमाप्नोत्युपासनात् ।। १२ ।।
पूर्वजन्मनि यद्वृत्तं वर्तमानप्रजापतेः ।।
तदवद्योतको हेति निपातोऽत्र प्रयुज्यते ।। १३ ।।
भविष्यद्वृत्तिमाश्रित्य यजमानः प्रजापतिः ।।
इहाभीधीयतेऽन्यस्तु न कश्चित्सप्रयोजनः ।। १४ ।।
ज्ञानकर्मोपदेशो हि नरं प्रत्येव सर्वथा ।।
सर्वः श्रौतो यतस्तस्मात्स एवेहाभिधीयते ।। १५ ।।
तत्कर्मज्ञानजत्वाच्च तत्प्राणाः शुद्ध्यशुद्धिजाः ।।
प्राजापत्या इहोच्यन्ते वागाद्युक्तेश्च लिङ्गतः ।। १६ ।।
उद्गीथोपास्तिसंबन्धाद्दूया हेत्यादिकस्य च ।।
उपास्यार्थविशुद्ध्यार्था प्रवृत्ताऽऽख्यायिका ततः ।। १७ ।।
अभ्यारोहजपस्येह प्राण एवास्तु देवता ।।
कस्माद्वागादयो नेति तत्परीक्षाऽत ईर्यते ।। १८ ।।
अन्वयव्यतिरेकाभ्यां प्राणप्राधान्यसिद्धये ।।
प्रवृत्ताऽऽख्यायिका यत्नाद्वागादीन्द्रियनिन्दया ।। १९ ।।
शास्रस्वभावजज्ञानकर्मसंस्कारहेतुतः ।।
देवासुरत्वं प्राणानां निरुद्धोपाधिकारणात् ।। २० ।।
सहस्रादिर्यथा भेदः प्राणस्यैकस्य शब्द्यते ।।
भूयोधिकारभेदेन वागादीनां तथा भिदा ।। २१ ।।
सहजं सर्वभूतानां वृत्तमासुरमिष्यते ।।
यत्नाधेयं यतो दैवं ज्यायांसः स्युस्ततोऽसुराः ।। २२ ।।
इह वागादयः शब्दा देवतार्थाभिधायकाः ।।
मर्त्यत्वान्न तु गृह्यन्ते करणस्थानगोचराः ।। २३ ।।
देवतैकात्म्यमेवेह दैवज्ञानक्रियाफलम् ।।
अध्यात्मादिपरिच्छेद आसुरत्वान्न गृह्यते ।। २४ ।।
हिंसाभिप्रवणं चेतः प्रायेण श्रेयसामपि ।।
भूयांसोऽतोऽसुरा देवाः कनीयांसोऽतियत्नजाः ।। २५ ।।
धर्माधर्मैकसाध्यत्वाह्ब्रह्मादेः स्थावरावधेः।।
अस्पर्धन्त ततोऽन्योन्यं दैतेेयां विबुधैः सह ।। २६ ।।
आसुरेभ्योऽधिकारेभ्यो व्युत्थाप्येह प्रजापतिम् ।।
दैवीर्भूमीर्नयामैनमिति देवचिकीर्पितम् ।। २७ ।।
दैवेभ्य एनमाच्छिद्य कामक्रोधादिसाधनाः ।।
आनयामाऽऽसुरीर्भूमीरिति दैतेयनिश्चितिः ।। २८ ।।
यत्रायत्रसमुत्थाभ्यां वृत्तिभ्यां देवदानवाः ।।
दैव्यासुरीभ्यामन्योन्यमस्पर्धन्त विरोधतः ।। २९ ।।
भूयो बलेन ते देवा आसुरेण निराश्रयाः ।।
अर्द्यमाना न शरणं लेभिरेऽल्पत्वकारणात् ।। ३० ।।
अनीक्षमाणास्ते शर्म संभूयोचुः परस्परम् ।।
क्रियतामविचारेण हन्तेत्यनुमतौ पदम् ।। ३१ ।।
अस्मज्जिगीषूनसुराञ्जित्वोद्गात्रात्मसंश्रयात् ।।
अतिलङ्घ्याऽऽसुरं भावं देवतात्मानमाप्नुमः ।। ३२ ।।
उद्गीथदेवतावाप्तिर्ज्ञानकर्ममुच्चयात् ।।
अभ्यारोहजपः कर्म ज्ञानं त्विह परीक्ष्यते ।। ३३ ।।
विधिशेषार्थवादत्वान्नेदं ज्ञाननिरूपणम् ।।
इति चेन्नैतदेवं स्यादेवं वेदेति तद्विधेः ।। ३४ ।।
उद्गीथविधिशेषश्चेदुद्गीथप्रकृतौ श्रवात् ।।
नातत्प्रकरणान्न्याय्यमितोऽन्यत्र च तद्विधेः ।। ३५ ।।
विद्याप्रकरणत्वाच्च नेहोद्गीथो विधीयते ।।
जपस्य चाप्यनित्यत्वात्स्यादेवांवित्प्रयोज्यता ।। ३६ ।।
उदारफलवद्यस्मादपि ज्ञानमिह श्रुतम् ।।
तद्धैतदित्यतो ज्ञानं फलवत्त्वाद्विधित्सितम् ।। ३७ ।।
शुद्ध्यशुद्धयुक्तितश्चेह प्राणोपासा विवक्षिता ।।
वागादिनिन्दया मुख्यप्राणोपासा न चेदिह ।। ३८ ।।
विधित्सिताऽथ तन्निन्दा स्तुतिश्चानस्य किंफला ।।
अतोऽर्थवादाद्धि विधिर्लिङ्गादत्रानुमीयते ।। ३९ ।।
प्राणस्वरूपापत्तिश्च यतोपासाफलं श्रुतम् ।।
उपासनमतोऽनस्य विधित्सितमितीक्ष्यताम् ।। ४० ।।
उपासनमसोः काममस्तु सूक्तोपपत्तितः ।।
शुद्ध्यादिगुणवत्ता तु न मानादुपपद्यते ।। ४१ ।।
गुणवत्ताऽप्यसोरस्तु यथाऽस्योपासनं तथा ।।
प्रामाणिक्युभयत्रापि प्राप्तिर्यस्मादिहेक्ष्यते ।। ४२ ।।
ननु स्तुत्यर्थतैवास्य शुद्ध्यादेरवगम्यते ।।
उपासाविधिशेषत्वादर्थवादोऽत ईक्ष्यताम् ।। ४३ ।।
प्रामाणिकोऽभिसंबन्धो यस्मात्प्राणस्य गम्यते ।।
किंबलं समुपाश्रित्य शुद्ध्यादेरर्थवादता ।। ४४ ।।
नहि मानं विहायेह साध्यसाधननिश्चितौ ।।
चक्षुरन्यत्प्रपश्यामो यद्बलात्स्यादयं मृषा ।। ४५ ।।
आसन्यत्वादयोऽन्यस्य न च योषाग्निवद्यतः ।।
तेषां प्रत्यक्षतः सिद्धेरतः शुद्ध्यादिमानसुः ।। ४६ ।।
अक्षाद्यविषया ये तु गुणा आगमतो मताः ।।
मानाविरोधात्केनैषां शुद्ध्यादीनां मृषार्थता ।। ४७ ।।
श्रोत्रादिवत्प्रमाणानामसाधारणमेयता ।।
तन्मेयप्रथने मानं न किंचिदनुभूतितः ।। ४८ ।।
परमार्थातिरेकाद्वाऽभेदाद्वा परमार्थतः ।।
वस्तुनः स्यान्मृषात्मत्वं नैवमप्युपपद्यते ।। ४९ ।।
लभते व्यतिरेकं चेत्परमार्थात्ततोऽपरम् ।।
स्वमहिम्नैव तत्सिद्धेः किमिव स्यान्मृषार्थता ।। ५० ।।
परमार्थात्मकत्वे तु न किंचिद्वितथं क्वचित् ।।
असत्यस्याप्यसत्यत्वं परमार्थसादात्मना ।। ५१ ।।
सत्यासत्यविभागोऽयमविभागात्मवस्तुनि।।
प्रत्यगज्ञानहेतूत्थस्तद्वोधादेव तद्धतिः ।। ५२ ।।
स्वाभासफलकारूढस्तदज्ञानजभूमिषु ।।
तत्स्थोऽपि तदसंबद्ध ईश्वराद्यात्मतां गतः ।। ५३ ।।
तदज्ञानं तदुत्थं च जगत्कृत्स्रं तदात्मकम् ।।
यतोऽतस्तदनूद्याऽऽह ह्यात्मैवेति श्रुतिः स्फुटम् ।। ५४ ।।
ऐकात्म्यमेव मानानां सर्वेषां मेयमिष्यते ।।
यथा तथा प्रवक्ष्याम उदर्केऽप्युपपत्तिभिः ।। ५५ ।।
मिथ्येतिप्रत्ययोत्पत्तिस्तथा कारणदोषतः ।।
बाध्यज्ञानस्य हेतुः स्यान्नातोऽन्यद्वाध्यकारणम् ।। ५६ ।।
न चेहोभयमप्यस्ति कुतो मिथ्येति भण्यते ।।
मितेर्मेये समाप्तत्वान्मिथ्यात्वं न मितेर्भवेत् ।। ५७ ।।
तस्मादविपरीतार्थज्ञानाच्छ्रेयो ह्यावाप्यते ।।
विपरीतार्थतायास्तु न हेतुर्जगतीक्ष्यते ।। ५८ ।।
वस्तुनिष्ठैव मा यस्मान्न तदज्ञानजाश्रया ।।
तस्मात्तन्मोहविध्वस्तौ ध्वस्तिः स्यान्मोहजस्य च ।। ५९ ।।
न चैवं सति मानानां द्व्यर्थता स्यात्कथंचन ।।
यथाभूतार्थबोधित्वमेवमेत्र मितेर्भवेत् ।। ६० ।।
ईश्वरादिविकल्पानां प्रत्यग्वस्त्वविकल्पितम् ।।
विषयो, न मृषाबुद्धिः परमार्थे विना यतः ।। ६१ ।।
यावत्किंचिन्मितेः प्राप्तं न तन्मिथ्या मितत्वतः ।।
मिथ्येति ग्राहयच्छास्रमनर्थार्थं यतो भवेत् ।। ६२ ।।
नाम्नि ब्रह्मेति दृष्टं चेन्न भेदप्रतिपत्तितः ।।
प्रतिमावद्धि नामादौ ज्ञाते ब्रह्मेति धीरियम् ।। ६३ ।।
यथा निर्ज्ञातभेदे हि विष्णुधीरुपलान्मनि ।।
विधीयते तथा नाम्नि ब्रह्मबुद्धिविंधीयते ।। ६४ ।।
अज्ञातरज्जुतत्त्वाो हि रज्जुं सर्पधियेक्षते ।।
नामादौ तु यतो नैवं तस्मादसदिदं वचः ।। ६५ ।।
ब्रह्म नैवेह वस्त्वस्ति, दृष्टिरेवेति चेन्मतम् ।।
नर्गादिषु सतामेव सत्सु दृष्टिसमन्वयात् ।। ६६ ।।
गौणस्य मुख्यापेक्षत्वान्मुख्यं ब्रह्म विना न सत् ।।
गौणं ब्रह्म यथा गौणो वह्निर्मुख्याग्निपूर्वकः ।। ६७ ।।
न चासद्विषया काचिद्वुद्धिर्जगति वीक्ष्यते ।।
सर्वार्थव्यभिचारेऽपि संविदव्यभिचारिणी ।। ६८ ।।
न चापीहाऽऽगमाभासोऽचोदनालक्षणत्वतः ।।
क्रियार्थैरविशिष्टत्वाद्विद्यार्थोक्तेः परात्मनि ।। ६९ ।।
ज्योतिष्टोमादिका यद्वद्विशिष्टानेकसाधना ।।
एवंक्रमप्रयुक्ताङ्गा तथा चैवंफला क्रिया ।। ७० ।।
अन्यप्रमाणाविषया वाक्यादेवावगम्यते ।।
यथा तथेहापूर्वादिवस्तूक्तेरेव गम्यते ।। ७१ ।।
न च वाक्याद्विपर्यस्ता यदि वा संशयात्मिका ।।
बुद्धिरुत्पद्यतेऽस्माकं यथाभूतार्थबोधिनः ।। ७२ ।।
कार्याभावादयुक्तं चेन्नोक्तिर्बुद्धेस्तथार्थतः ।।
भावनार्थस्य नैवेह भाव्यर्थत्वात्तथार्थता ।।
किंतु मानार्पितत्वात्सा यथा भूतार्थतेप्यते ।। ७३ ।।
नापि तद्धिषणायाश्च कार्यत्वात्स्यात्तथार्थता ।।
प्रमाणाभिजनादेव यथाभूतार्थता धियः ।। ७४ ।।
अन्योन्याश्रयतादोषः कार्यप्रामाण्यवादिनः ।। ७५ ।।
प्रमाणाधिगतौ सत्यां पुंसो मेयानुरोधतः ।।
अनुष्ठेयोऽननुष्ठेय इति पश्चान्मतिर्भवेत् ।। ७६ ।।
एकरूपं यतो मानं विरुद्धानेकरूपिणाम् ।।
भानुवद्बोधकं दृष्टं नातोऽनुष्ठेयतो मितिः ।। ७७ ।।
नन्ववाक्यप्रमाणत्वमननुष्ठानतो भवेत् ।।
पदानां संहतिर्यस्मान्न दृष्टेह क्रियां विना ।। ७८ ।।
पदार्थत्वे च तत्सिद्धिर्लिङ्गप्रत्यक्षसंश्रयात् ।।
आगमैकप्रमाणत्वान्ना पदार्थत्वमिष्यते ।। ७९ ।।
अस्यस्मीत्यभ्युपेतत्वान्नैवमप्युपपद्यते ।।
अस्ति मेरुर्यथा वर्णचतुष्टयविशेषणः ।। ८० ।।
अकार्येऽपि हि मेर्वादावस्ति मेरुरिति श्रुतेः ।।
सम्यग्धीर्जायते यद्वत्तथा तत्त्वमसीत्यतः ।। ८१ ।।
मेर्वादिज्ञानवच्चेत्स्यान्निष्फलत्वादमानता ।।
नैवं तत्फरलसाक्षात्त्वाज्ज्ञानोद्भूतेरनन्तरम् ।। ८२ ।।
भिद्यते हृदयग्नन्थिर्ब्रह्माप्येतीति च श्रुतेः ।।
न चार्थवादतैतस्यां जुह्रामिव फलश्रुतेः ।। ५३ ।।
निषिद्धानिष्टसंबन्धो वाक्यादेवानगम्यते ।।
न चानुष्ठेयता तस्य मनागप्युपपद्यते ।। ८४ ।।
निषेधसंस्कृतधियो निषिद्धविषये न च ।।
पलाण्ड्वादावकरणादन्या धीर्जायते श्रुतेः ।। ८५ ।।
यथा निषेधवाक्येभ्यो नान्याऽकरणतो मतिः ।।
तत्त्वमस्यादिवाक्येभ्यस्तद्वदेवेति निश्चयः ।। ८६ ।।
मृगतोये प्रवत्तस्य तृडार्तस्योषरेक्षणात् ।।
तमोध्वस्तौ निवृत्तिः स्यात्तथाऽऽत्मज्ञानतोऽपि नः ।। ८७ ।।
तस्मान्निषेधशास्रस्य यथा भूतार्थनिष्ठता ।।
पुंव्यापारस्य गन्धोऽपि न तत्रास्तीति निश्चयः ।। ८८ ।।
आत्मयाथात्म्यविज्ञाननिष्ठता तद्वदीक्ष्यताम् ।।
तत्त्वमस्यादिवाक्यानां नानुष्ठानं मनागपि ।। ८९ ।।
कलञ्जभक्षणस्येव ननु न श्रौतकर्मणः ।।
अज्ञानहेत्वनर्थार्थकारिता गम्यते मितेः ।। ९० ।।
नैवमज्ञानहेतुत्वानर्थार्थत्वेन तुल्यता ।।
कलञ्जभक्षणेनातस्तन्निवृत्तौ निवर्तते ।। ९१ ।।
शास्रमात्रनिमित्तत्वान्नित्यानां नैवमिप्यते ।।
मिथ्याज्ञानादिहेतुत्वं काम्यानामिव चेन्मतम् ।। ९२ ।।
नाविद्यारागद्वेपादिदोषवृष्टस्य तद्विधेः।।
स्वर्गादिकामिनो यद्वदग्निहोत्रविधिस्तथा ।। ९३ ।।
मोहकामादिदुष्टस्य नित्यं कर्म विधीयते ।।
न स्वतः काम्यनित्यत्वविवेकोऽस्तीह कर्मणः ।। ९४ ।।
कर्तृस्थेन हि स्वर्गादिकामदोषेण काम्यता ।।
अतो नान्येन काम्यत्वं कर्मणः स्यात्कथंचन ।। ९५ ।।
आविरिञ्चाद्विरक्तस्य तद्विविक्तात्मकामिनः ।।
मोक्षे पुंसोऽधिकारः स्यान्न कामापहृतात्मनः ।। ९६ ।।
पराचः कामानित्येवं कामानित्यपरं तथा ।।
योऽकाम इति तद्वच्च श्रुतिः कामनिषेधनी ।। ९७ ।।
अविद्याया न चोच्छित्तौ ज्ञानादन्यदपेक्ष्यते ।।
ज्ञानोत्पत्तौ न चैवान्यच्छमादिभ्यो ह्यपेक्ष्यते ।। ९८ ।।
शमाद्युत्पत्तये नान्यद्बुद्धिशुद्धेरपेक्ष्यते ।।
बुद्धिशुद्धौ च नित्यादिकर्मभ्यो नान्यदिष्यते ।। ९९ ।।
आत्माज्ञानैकहेतुत्वाद्वाह्मनः कायकर्मणाम् ।।
आत्मज्ञानेन तद्बाधात्कर्मापेक्षा कुतो भवेत् ।। १०० ।।
यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा कुतो भवेत् ।।
प्रत्यग्ज्ञानोद्भवे तस्मात्समाप्तिः सर्वकर्मणाम् ।। १०१ ।।
न चोच्छिन्नात्ममोहस्य सदैवाऽऽत्मधियः स्थितेः ।।
प्रतीच्यवसरोऽस्तीह वाङ्मनःकायकर्मणाम् ।। १०२ ।।
कर्मणोऽवसरश्चेत्स्यात्त्वद्भिक्षावसरो यथा ।।
नाऽऽत्मवस्तुनिमित्तत्वात्सम्यग्बुद्धेः सदा स्थितेः ।। १०३ ।।
न वस्त्ववसरापेक्षं स्वतःसिद्धत्वकारणात् ।।
क्रियैवावसरापेक्षा तस्याः कारकतन्रतः ।। १०४ ।।
सम्यग्ज्ञानशिरिवप्लुष्टं कुतोऽज्ञानं पुनर्भवेत् ।।
शुद्धदोषोद्भवत्वाच्च न तु कर्मैवमिष्यते ।। १०५ ।।
क्षुधादिदोषहेत्वेव त्वस्मद्भुज्यादि नो मतम् ।।
नियतानेकहेतुत्वान्नातो भुजिसमा क्रिया ।। १०६ ।।
दोषहेतावपि तथा कालादिनियमस्तथा ।।
भवद्भिक्षाटनादौ सादिति चेन्नैतदेव तु ।। १०७ ।।
नैवायं नियमोऽस्माकं परिसंख्या हि सा यतः ।।
क्रियाप्रयोक्त्री नाप्येषा, तस्माद्विषममुच्यते ।। १०८ ।।
नातोऽपवादकृत्सा स्यादैकात्म्यज्ञानजन्मनः ।।
सर्वकर्माधिकाराणां निषेधायाऽऽत्मधीभवः ।। १०९ ।।
निषेधविधिवत्तस्मात्प्रत्यग्याथात्म्यधीविधिः ।।
प्रत्यह्मोहैकहेतुत्वाद्वाड्मनःकायकर्मणाम् ।। ११० ।।
तस्माद्वस्त्वेकनिष्ठस्य प्रामाण्यं वचसो ध्रुवम् ।।
प्रतिषेधविधेर्यद्वदुभयोरविशेषतः ।। १११ ।।
स्वाभाविकैकदोषांत्यां व्यवहार इहाऽऽसुरः ।।
शास्रैकहेतुर्दैवः स्यात्तयोः स्पर्धा विरोधतः ।। ११२ ।।
प्राकृतासङ्गविज्ञानकार्ये ह्यधिकृतिः स्वतः ।।
सुरद्विषां सुराणां तु शास्रोत्थज्ञानदीपितः ।।
कर्मज्ञानाधिकारः स्यात्संग्रामस्तद्विरोधतः ।। ११३ ।।
उत्कर्षो मानुषाद्वर्ध्वं पुंसः केवलधर्मतः ।।
अधोभावस्त्वधर्मात्स्याद्द्वाभ्यां मानुष्यसंभवः ।। ११४ ।।
आग्रजस्थाणुपर्यन्तशरीरग्रहणान्यतः ।।
लोकेष्विति श्रुतिर्वक्ति विरोधस्तन्निबन्धनः ।। ११५ ।।
अधोलोकफलेष्वेव प्राकृतज्ञानकर्मसु ।।
यत्नादासञ्जनीयोऽयं पितेत्यसुरनिश्चयः ।। ११६ ।।
प्राकृतासङ्गतो मुक्त्वा पिताऽयं दैवसाधनैः ।।
उत्कृष्टव्यो यथाशक्ति विबुधानां चिकीर्षितम् ।। ११७ ।।
नरप्रजापतितनावेवं देवासुरा मिथः ।।
स्वस्वभावानुरोधेन तेऽस्पर्धन्त स्ववृत्तिभिः ।। ११८ ।।
यदोद्भवति शास्रोत्था दैवी वृत्तिस्तदाऽऽसुरी।.
व्येति यस्मात्ततोऽशेषं देवानां स जयः स्मृतः ।। ११९ ।।
आसुरी तु यदा सेना कामक्रोधपुरःसरा ।।
जायते ह्यजयस्तेषामसुराणां जयस्तु सः ।। १२० ।।
स्वाभाविकत्वादासुर्या भूयस्या सेनयाऽर्दिताः।।
न शर्म लेभिरे देवाः स्वात्मत्राणासमीक्षणात् ।। १२१ ।।
स्वभूमेश्चाव्यमानानां सुराणामसुरैस्तदा ।।
प्रादुरासीन्मतिः साध्वी दैतेयभयनाशिनी ।। १२२ ।।
उद्गीयं समुपाश्रित्य ज्योतिष्टोमक्रताविह ।।
तिरस्कृत्याऽऽसुरं दैवं भावं यामोऽधुना वयम् ।। १२३ ।।
कर्तृत्वादीह यत्सिद्धं वागादिद्वारमीक्ष्यते ।।
आत्मनस्तदविद्योत्थं निरविद्ये निषेधतः ।। १२४ ।।
लौकिको वैदिकः सर्वो व्यवहारश्च वक्ष्यते ।।
अन्नत्रयाधिकारे हि मनआदावनात्मनि ।। १२५ ।।
भूतेहानुविधायित्वात्क्षेत्रज्ञस्य तमस्विनः ।।
कूटस्थात्मातिरेकेण रूपमन्यन्न लक्ष्यते ।। १२६ ।।
एवं ताः संप्रधार्योचुरुद्गीथं साधनं परम् ।।
तत्परीक्षां प्रयत्नेन चक्रुः संभूय देवताः ।। १२७ ।।
वाचं संभावयामासुरियं ह्युद्गीथकर्मणि ।।
अत्यर्थे व्यापृता दृष्टा वाचमूचुस्ततः सुराः ।। १२८ ।।
त्वं न उद्गीय उद्गानं त्वत्प्रधानं भवत्विदम् ।।
उद्गीथ इति चोद्गानं कर्मैवेहाभिधीयते ।। १२९ ।।
स्तोत्रेणास्याभिसंबन्धाद्भक्तिमात्रं न तु क्वचित् ।।
वागभिमानिनी चेह वाक्शब्देनाग्निरुच्यते ।। १३० ।।
विषयोऽध्येषणाया हि चेतनावान्यतो मतः ।।
उपासिक्रियया योगो देवताया इहेष्यते ।। १३१ ।।
अतोऽपि देवतैवेह वाक्शब्देनाभिधीयते ।।
तद्भूतेः पुरुषार्थत्वाद्देवता हीश्वरा परा ।। १३२ ।।
सैवातः प्रतिपत्तव्या सर्वासु ध्यानभूमिषु ।।
न त्विह प्रतिपत्तव्याः करणस्थानगोचराः ।। १३३ ।।
पारार्थ्याचेतनत्वाभ्यां मर्त्यत्वाच्चापि कारणात् ।। १३४ ।।
एवं वागादयः शब्दा देवतार्थाभिधायिनः ।।
सर्वत्र प्रतिपत्तव्या यत्रोपासा विवक्षिता ।। १३५ ।।
जपमन्राभिधेयेयं वागित्येवं विनिश्चिताः ।।
उपासांचक्रिरे देवा एषैवोद्गीथदेवता ।। १३६ ।।
देवाभ्युदय उद्गानं देवेभ्योऽर्थाय वागियम् ।।
यथाशक्त्युदगायत्तं यो भोगो वाङ्निबन्धनः ।। १३७ ।।
येन भोगेन वाग्देवांश्चक्षुरादीनहर्निशम् ।।
साक्षादवति तं भोगमुदगायदशेषतः ।। १३८ ।।
पवमानेषु सोद्गात्री याजमानं यथाविधि ।।
फलमुद्गाय शेषेषु ह्युदगायदथाऽऽत्मने ।। १३९ ।।
स्तोत्रेषु परिशिष्टेषु वागागायदथाऽऽत्मने ।।
यत्कल्याणं वदत्येषा ह्यात्मने तदचीक्लपत् ।। १४० ।।
यथाशास्रं यथायोगं वर्णदोषविवर्जितम् ।।
वर्णोच्चारणसामर्थ्यं ममैवास्तु तदीदृशम् ।। १४१ ।।
कल्याणवदनोत्थं यत्कृत्स्नं देवेभ्य एव तत् ।।
फलं वदनमात्रं तु वाच एव न दैविकम् ।। १४२ ।।
तमस्युत्सार्यमाणे तु वाचोद्गात्रा सुरद्विषाम् ।।
स्वाधिकाराच्च्याव्यमानास्ते विदुर्देवहृद्गतम् ।। १४३ ।।
अनेन वाचोद्गात्रा नो बलं ध्वान्तं तु देवताः ।।
ज्योतिषा स्वेन निर्जित्य यास्यन्त्यग्न्यादिरूपताम् ।। १४४ ।।
महन्नो भयमायातमिति बुबुधिरेऽसुराः ।।
कर्मण्यनुचिते तेषां प्रहीणमनसां तदा ।।
वदनादावभिष्वङ्ग आत्मसंभावनादभूत् ।। १४५ ।।
यत्कल्याणमिति च्छिद्राद्विदुः सुरचिकीर्षितम् ।।
अनेन वै न उद्गात्रा वाचाऽत्येष्यन्ति स्वं वपुः ।। १४६ ।।
इति ज्ञात्वा ह्यभिद्रुत्य स्वैरासङ्गशरोर्मिभिः ।।
विविधुस्तानथोद्गातृंस्ते विद्धास्तत्यजुः क्रियाः ।। १४७ ।।
नानादन्यस्य सामर्थ्यं विद्यतेऽसुरनाशने ।। १४८ ।।
अनेनाप्रतिरूपेण वचसा कार्यशायिना ।।
पाप्मादिदोषसंपर्कः कारणस्थोऽनुमीयते ।। १४९ ।।
व्युत्थायाऽऽख्यायिकारूपाच्छ्रुतिः स्ववपुषाऽधुना ।।
आचष्टे कारणे वृत्तं कार्यगेणासुरात्मना ।। १५० ।।
दृष्टेनाप्रतिरूपेण कार्यगेणानुमीयते ।।
कारणे पाप्मवेधोऽभूद्यो वाचि प्राक्प्रजापतेः ।। १५१ ।।
स यो वाच्यसुरैः क्षिप्तः पाप्मा कार्ये स दृश्यते ।।
प्रमाविरोधि यद्वाक्यं तत्तत्कार्यसमाश्रयम् ।। १५२ ।।
स एव स इति ह्युक्तिः कार्यकारणसंस्थयोः ।।
प्रजासु साक्षाद्यः पाप्मा यश्च तत्कारणाश्रयः ।। १५३ ।।
घ्राणं चक्षुस्तथा श्रोत्रं मनश्चैवमनुक्रमानु ।।
वत्रुर्देवा यथा वाणीं विद्धाः सर्वे तथाऽसुरैः ।। १५४ ।।
कर्मेन्द्रियाणां सर्वेषां वागेवात्रोपलक्षणम् ।।
चक्षुःश्रोत्रे धीन्द्रियाणां मनो बुद्धेस्तथैव च ।। १५५ ।।
कृत्स्रं जगदनादाय नैकस्यापीष्यते क्रिया ।।
प्राणस्य किमु वक्तव्यं कृत्स्नाध्यात्मेन्द्रियग्रह ।। १५६ ।।
यद्यपीदं जगत्कृत्स्नं गृह्यते संहतत्वतः ।।
तथाऽपि चोदितोऽत्रार्थ उपास्यो नाऽऽगतोऽर्थतः ।। १५७ ।।
कल्याणेतररूपेण परिशिष्टेष्वपीक्ष्यते ।।
विभाग आसुरो वेधस्तेन तेप्वनुमीयते ।। १५८ ।।
अतस्तदर्थमाहेयमेवम्विति पुनः श्रुतिः ।।
यथा वागादयो विद्धास्तद्वज्ज्ञेयास्त्वगादयः ।। १५९ ।।
सिद्धान्वागादिदृष्टान्तान्पुरस्कृत्यात उच्यते ।।
एवम्वित्युक्तशेषाणां पाप्मविद्धत्वसिद्धये ।। १६० ।।
अविध्यन्निति योऽर्थोऽस्य तद्व्याख्यानाय यत्यते ।।
स्वैः स्वैस्तानिन्द्रियासङ्गैः पाप्मभिस्त उपासृजन् ।। १६१ ।।
यत्संसर्गे पुरा चक्रुरविध्यंस्तदिहोच्यते ।।
या विद्धा देवतास्तासां प्रक्रियासंहृतिः पृथक् ।। १६२ ।।
आसङ्गपाप्मभिर्विद्धा यस्माद्वागादयोऽसुरैः ।।
वर्जनीयास्ततस्ताः स्युर्नोपास्याः श्रेय ईप्सुभिः ।। १६३ ।।
एवं निराशाः पूर्वासु देवतास्वसुरार्दनात् ।।
पारिशेष्यादथाऽऽजग्मुर्मध्यमं प्राणमादरात् ।। १६४ ।।
अथेत्यनन्तरोक्तिः स्यात्तथाऽभिनयवृत्तये ।।
इममित्यप्रसिद्धत्वात्प्राणस्येह त्वगादिवत् ।। १६५ ।।
अस्ति यस्मादसुर्नित्यमासन्योऽयमतो मतः ।।
वागादिभ्यो विभागार्थं विशेषणमसोरिदम् ।। १६६ ।।
जपमन्राभिधेयोऽत्र पारिशेष्यात्प्रतीयताम् ।।
उद्गीथदेवता प्राण इत्यभूत्सुरनिश्चयः ।। १६७ ।।
मत्र्रप्रयोगे सर्वेषां संनिधौ तत्प्रकाशितम् ।।
भारमुत्सहते वो़ढुं योऽनो यामस्तमाश्रयम् ।। १६८ ।।
परीक्षमाणास्ते त्राणं यथोक्ताख्यानवर्त्मना ।।
क्रमेणाऽऽसेदुरासन्यं प्राणं पाप्मपराभावत् ।। १६९ ।।
श्रेयोर्थिनां मनुष्याणामुपास्यप्रतिपत्तये ।।
इयमारव्यायिका चक्षुर्नान्यथोपास्यनिश्चितिः ।। १७० ।।
यः प्राणे भोग इति न पूर्ववद्भण्यतेऽत्र किम्‌ ।।
वागादीनामिव यतो नासोर्भोगो विशिष्यते ।। १७१ ।।
अकृत्स्नभोगतो युक्तं वागादिषु विशेषणम् ।।
सर्वस्यैवासुभोगत्वात्किं कुतोऽत्र विशिष्यते ।। १७२ ।।
अभिसंधिरविव्यत्सन्नित्यभूत्सुरविद्विषाम् ।।
अनिष्ठितकि्रयारम्भोऽविव्यत्सन्निति भण्यते ।। १७३ ।।
विव्यत्सोद्देशमात्रेण प्राणो हन्ता सुरद्विषाम् ।।
इत्यर्थप्रतिपत्त्यर्थमीदृग्दृष्टान्त उच्यते ।। १७४ ।।
बिभित्सायै यथा वेगाल्लोष्टः क्षिप्तोऽश्मनोऽन्तिकात् ।।
नश्येत्स्ववेगाच्छतधा ह्यारवणाश्मसमागमात् ।। १७५ ।।
अप्रधृष्यं तथा प्राणमृत्वा नेशुः सहस्रधा ।।
दैत्यास्तन्नाशतो देवा देवा एवाभवन्सदा ।। १७६ ।।
अत एव मनुष्यत्वहेतवोऽप्यसुराः समम् ।।
विनेशुर्विष्वग्गतयो लोष्टः क्षिप्तो यथाऽश्मनि ।। १७७ ।।
प्राणस्वभावसंपत्तेः प्राणवद्देवता अपि ।।
देवा एवाभवन्दैत्यकृत्स्नपाप्मविनाशतः ।। १७८ ।।
वागादीन्द्रियसंघातो यजमानो यथा पुरा ।।
प्राणात्मभावाद्धत्वाऽऽगो वैराजं रूपमाप्तवान् ।। १७९ ।।
तथा यस्तमुपासीत यथोक्तारव्यानवर्त्मना ।।
विराजैवाऽऽत्मना हत्वा पापं भवति सोऽचिरात् ।। १८० ।।
जीवाविष्ट उपास्योऽत्र देवताविग्रहः सदा ।।
प्राणो हिरण्यगर्भात्मा यावत्तदभिमानता ।। १८१ ।।
भावनोपचयाद्धत्वा परिच्छेदं स्वमासुरम् ।।
देवतान्मानमेत्याशु सदा तद्भावभावितः ।। १८२ ।।
तत्तमोमात्रविध्वंसान्नतु प्राणादिराप्यते ।।
कार्यत्वात्कारणं मुक्त्वा न हि तत्कार्यसंभवः ।। १८३ ।।
देवो भूत्वेह देवोऽसौ भावनोपचयाद्भवेत् ।।
पुंव्यापारोद्भवत्वं नः श्रुत्याऽपि प्रतिपादितम् ।। १८४ ।।
ब्रह्मैवाप्येति ब्रह्मैव प्रागप्यासीद्यतोऽद्वयम् ।।
तन्मोहमात्रविध्वंसादित्यपि श्रुतिशासनम् ।। १८५ ।।
स्वतःसिद्धौ तदन्येषां श्रुतिकोपः प्रसज्यते ।।
अतोऽन्यदार्ते तद्वच्चाप्येकमेवेति च श्रुतिः ।। १८६ ।।
नाव्याकृतादेः संसिद्धौ परमात्मातिरेकतः ।।
ब्रह्मवन्मानमस्तीह तथा निर्मोक्षताऽऽपतेत् ।। १८७ ।।
अथाऽऽत्माविद्याऽव्यक्तादिरूपेण प्रथते तदा ।।
तन्निवृत्तौ निवृत्तिः स्यान्निवृत्तिः केवलात्मता ।। १८८ ।।
प्राणस्येव पराभूतो द्विषन्पाप्माऽऽसुरोऽखिलः ।।
उपासीनस्य तं प्राणं कृत्स्नो नश्येत्तथाऽऽसुरः ।।
द्विषंश्चाप्यद्वषञ्छत्रुरासुरादन्य इष्यते ।। १८९ ।।
नित्यविघ्नकृदेवैष प्राणाप्तावासुरो मतः ।।
अतो विशेष्यते श्रुत्या द्विषन्भ्रातृव्यरूपया ।। १९० ।।
उक्तासुरपराभूतौ नान्योऽरिरवशिष्यते ।।
य एवं वेदेति विधिः फलोक्तेरर्थवादतः ।। १९१ ।।
अानुषङ्गिफलोक्त्या वा तदुपासा विमुक्तये ।।
आत्मविद्याधिकारेऽस्मिंस्तदुपासाविधानतः ।। १९२ ।।
आत्मविद्योपकारित्वं तस्माद्वाक्याच्च गम्यते ।। १९३ ।।
अथायास्याङ्गिरोदूर्भिर्विशिष्टमसुकर्मकम् ।।
उपासनं विधास्यामीत्यारब्धैषोत्तरा श्रुतिः ।। १९४ ।।
अनुवादाद्विधिर्ज्यायाननुवादे वृथा श्रमः ।।
पुरुषार्थाभिसंबन्धादतो विधिरिहाऽऽश्रितः ।। १९५ ।।
श्रूयते फलसंवन्धो यासूपासासु तास्विह ।।
दध्नेन्द्रियादिवज्ज्ञेयो विधिर्गुणसमाश्रयः ।। १९६ ।।
प्रधानफलसंबन्धो यत्र तु स्याच्छ्रुतेर्मुखात् ।।
विशिष्टः स विधिर्ज्ञेयो यथाऽऽग्नेयादयस्तथा ।। १९७ ।।
अवाप्ताग्न्यादिरूपास्ते प्राणालिङ्गनसंश्रयात् ।।
कृतोपकारं स्मृत्वोचुः प्राणा वागादयस्तदा ।। १९८ ।।
अनन्ताग्न्यादिभावेन यो नः सञ्जितवानसुः ।।
क्व न्वसौ वर्तते ह्यात्मा योऽस्मच्छत्रुविनाशकृत् ।। १९९ ।।
वितर्कयन्तस्ते प्राणा उक्त्वैवं प्रत्यगात्मसु ।।
कुर्वाणमुपकारं तं ददृशुः प्रागिवाऽऽदरात् ।। २०० ।।
लोकेऽपि हि विचार्यार्थमथ संविदते जनाः ।।
यथा वागादयस्तद्वद्विजव्रुः प्राणमात्मनि ।। २०१ ।।
सामान्योक्तावास्य इति तद्विशेषणमुच्यते ।।
अन्तरित्यन्यथा मा भूत्प्रसङ्गः प्राणनिश्चितौ ।। २०२ ।।
त्वगादयोऽपि सन्त्यास्ये यतोऽतस्तद्विशेषणम् ।।
विशिनष्टि ततः प्राणमास्यान्तर्विलचारिणम् ।। २०३ ।।
आस्यपर्यन्तशायीनि त्वगादीनि न मध्यतः ।।
प्राणस्तु मध्य आस्यस्य तस्मादन्तर्विशेषणम् ।। २०४ ।।
सर्वेन्द्रियाणामथवा प्राण आत्मेति कथ्यते ।।
अयमास्येऽन्तरित्येवमरनाभिनिदर्शनात् ।। २०५ ।।
अयमास्येऽन्तरित्येवं प्राणं दृष्ट्वा यतः पुरा ।।
व्याजहरुरमरास्तस्मात्प्राण आयास्यसंज्ञितः ।। २०६ ।।
अङ्गानां करणानां च रसः सारो यतस्ततः ।।
प्राण आङ्गिरसः प्रोक्तस्तद्विद्भिस्तद्गुणाश्रयात् ।। २०७ ।।
कथमाङ्गिरसः प्राण इत्यस्य प्रतिपत्तये ।।
अन्वयव्यतिरेकाभ्यामुपरिष्टात्प्रवक्ष्यते ।। २०८ ।।
तथाऽन्यांऽपि गुणोऽनस्य दूरिति प्रतिपाद्यते ।।
उदारफलसिद्ध्यर्थं सा वा एषेत्यतः श्रुतिः ।। २०९ ।।
उपास्तिक्रमसिद्ध्यर्थं क्रमभङ्गोऽयमिष्यते ।।
यतोऽतोऽङ्गिरसं त्यक्त्वा दूरित्येवाभिधीयते ।। २१० ।।
विशिष्टोपास्तिरेवेयं प्रधानफलकीर्तनात् ।।
नायं गुणविधिर्ज्ञेयस्तत्फलस्याश्रुतत्वतः ।। २११ ।।
क्रियायां गुणभूतोऽर्थो देवतेत्युपदिश्यते ।।
अस्त्युपासिक्रियायोगो देवताऽतोऽन उच्यते ।। २१२ ।।
दूरमेवंविदः पाप्मा कथमध्यवसीयते ।।
एवंवित्त्वविरोधित्वाद्दूरं पाप्मा भवेदतः ।। २१३ ।।
विषयेन्द्रियसंबन्धजो हि पाप्माऽऽसुरो यतः ।।
श्रौतानन्तादहंमानात्परिच्छिन्नो विरुध्यते ।। २१४ ।।
चक्षुरादिपरिच्छेदः प्राकृतज्ञानहेतुतः ।।
युक्तोऽध्यात्मैकरूपस्य बाधः शास्राभिमानतः ।। २१५ ।।
परिस्पन्दात्मिका वृत्तिः श्रोत्रादिष्वपि विद्यते ।।
प्राणस्याथेन्द्रियाणां तु शब्दाद्यर्थावलेहिनी ।। २१६ ।।
शब्दादिग्राहिणी वृत्तिः स्वैरासङ्गात्मपाप्मभिः ।।
दूषिता न परिस्पन्दो दूरं मृत्युरसोस्ततः ।। २१७ ।।
मृत्युर्दूरं यथा प्राणात्तदात्मत्वात्तथाऽऽसुरः ।।
तद्विदश्च भवेन्मृत्युर्दूरमित्युपदिश्यते ।। २१८ ।।
दिशामन्त इह ग्राह्मो मध्यदेशोपलक्षितः ।।
अनन्ताकाशदेशत्वान्नाञ्जसाऽन्तो दिशां यतः ।। २१९ ।।
श्रुतिस्मृतिसदाचारसंस्कृताशयवज्जनम् ।।
अवधीकृत्यान्तत्वोक्तेर्नतु दोपो मनागपि ।। २२० ।।
मध्यदेशावधिस्तस्माद्दिगन्त इति गृह्यते ।।
प्रात्यन्तिकजनोद्देशः पापीयोजनसंश्रयात् ।।
वर्ज्यतेऽत्रः प्रयत्नेन तद्विद्भिरधुनातनैः ।। २२१ ।।
तेषु प्रत्यन्तदेशेषु तन्निवासिषु चाऽऽसुरान् ।।
यतो विन्यदधात्प्रणस्तस्मात्तद्वर्जयेद्द्वयम् ।। २२२ ।।
जनो विशिष्टो देशेन देशो जनविशेषितः ।।
पाप्मोपस्पृष्टमुभयं शिष्टास्तद्वर्जन्त्यतः ।। २२३ ।।
समाहारोऽथवा भेदो नेदित्येतत्पदं भवेत् ।।
अनीप्सितानिवृत्तिः स्यात्समाहारेऽविवक्षिते ।। २२४ ।।
इत्थं न चेदहं कुर्यां प्रतिषेधश्रुतीरितम् ।।
अन्ववायानि पाप्मानं प्रतिषेधातिलङ्घनात् ।। २२५ ।।
इति भेदविवक्षायां व्यारव्या कार्या पदद्वये ।।
माङर्थस्तु तथाऽभेदे व्याख्येयः प्रतिषेधकृत् ।। २२६ ।।
सामान्यविपयश्चायं निषेधो नानविद्गतः ।।
वलवन्प्रक्रियातो हि वाक्यं सामान्यमात्रगम् ।। २२७ ।।
आसुरेणावरुद्धास्तान्वागादीन्हतपाप्मनः ।।
देवत्वं प्रापयत्प्राणः कथमित्येतदुच्यते ।। २२८ ।।
ज्ञानतोऽज्ञानहानिः स्याद्देवत्वं भावनाबलात् ।।
आनन्तर्ये क्रियाद्वित्वादथशब्दो भवेद्ध्रुवम् ।। २२९ ।।
मृत्युमत्यवहत्प्राणः सामान्योक्तेर्विशेषतः ।।
विशिष्टदेवतावाप्तिर्वागादीनां प्रपञ्च्यते ।। २३० ।।
नेदीयसी यतोऽन्येभ्यो वागेवोद्गीथकर्मणि ।।
प्राणस्य तेन सोद्गातुः प्रथमेत्यभिधीयते ।। २३१ ।।
वागाद्यग्न्याद्यवाप्त्यैवं पाप्मनोऽपास्य सर्वतः ।।
वैराजं पदमेत्येवं यजमानः सुभावितः ।। २३२ ।।
कल्याणासङ्गसंबन्धाद्वागाद्यधर्मकारणम् ।।
त्यक्त्वाऽनं मुख्यमात्मानमाश्रयेन्मृत्युवर्जितम् ।। २३३ ।।
वागाद्यैः पञ्चभिर्युक्तं विराजं साधिभौतिकम् ।।
हित्वाऽध्यात्मपरिच्छेदं ततस्तं प्रतिपद्यते ।। २३४ ।।
साधिभूताधिदैवं च नामरूपक्रियात्मकः ।।
सूत्रं प्राणोऽङ्गिराः सत्यमृक्सामेत्यन उच्यते ।। २३५ ।।
तमेकं सर्वभूतेषु ज्ञानकर्मफलाश्रयम् ।।
आस्वभावात्मविज्ञानादुपास्ते यः स तं व्रजेत् ।। २३६ ।।
उक्तमभ्युदयार्थे यद्वागादीनामथाधुना ।।
आगानमवशिष्टेषु स्तोत्रेषूद्गातुरुच्यते ।। २३७ ।।
सामान्यभोज्यविषयस्त्वन्नशब्दो यतस्ततः ।।
आद्यमित्युच्यते तस्य विशेषणतया वचः ।। २३८ ।।
यत आदाविदं वृ्त्तमन्नागानमनात्मनि ।।
तस्मात्तत्कार्यभूतासु प्रजास्वद्यापि दृश्यते ।। २३९ ।।
यद्धि किंचेति सर्वार्थमेवेत्यत्रावधारणम् ।।
प्राणेनैव तु तत्सर्वं लोकोऽन्नं ह्यत्ति सर्वदा ।। २४० ।।
अन्नोपकारः सर्वेषामविशिष्टः समीक्ष्यते ।। २४१ ।।
अथावधारणं कस्मादनेनैवेति भण्यते ।।
प्राणद्वारक एवैषामुपकारो न तु स्वतः ।। २४२ ।।
कथं तद्दूारकस्तेषामुपकार इतीर्यते ।।
ननु दूरिति हि प्राण उक्तो वागादिवत्कथम् ।।
आत्मार्थान्नाद्यसंगीतेर्विद्धो नाऽऽसुरपाप्मभिः ।। २४३ ।।
स्थितिमात्राभिसंबन्धान्नायं दोष इहेष्यते ।। २४४ ।।
असावन्नं स्थितं यस्माद्देहं प्राणानवत्यतः ।।
यत्नाच्छ्रुतिरतो वक्ति त्विहान्नं प्रतितिष्ठति ।। २४५ ।।
स्थितिमात्रं ह्यसोरन्नं यद्वासङ्गो न शङ्क्यते ।।
भर्ता श्रेष्ठः पुरो गन्ता ह्यन्नादोऽधिपतिस्तथा ।।
इत्यादिगुणविध्यर्थं परो ग्रन्थोऽवतार्यते ।। २४६ ।।
अयं गुणविधिर्ज्ञेयः प्रत्येकं तत्फलश्रुतेः ।। २४७ ।।
जग्धमन्नं यतो देहलिङ्गभावेन याति नः ।।
परिणामं व्रजत्तस्मादेतावदिति भण्यते ।। २४८ ।।
त्वयैषाऽऽत्मार्थमागीते त्वय्येवान्नमतोऽखिलम् ।।
वयं चान्नमृते स्थातुं नालं क्षणमपीश्चर ।। २४९ ।।
सतर्प्यातः स्वमात्मानमन्नेनास्मानपीश्वर ।।
आभाजयस्व क्षुधितांश्छान्दसत्वाण्णिचोऽश्रवः ।। २५० ।।
मामृतेऽन्नं न वः शक्तं पोष्टुं क्षणमपि क्वचित् ।।
अन्नार्थिनोऽतो मां सर्वेऽप्यभिसंविशताऽऽशुवै ।। २५१ ।।
तेनैता देवताः सर्वास्तृप्यन्त्यन्नेन सर्वशः ।।
इत्यर्थस्य कुतः सिद्धिरिति चेदुच्यते यतः ।। २५२ ।।
त्रिधा जग्धं भवत्यन्नं परिणामविशेषतः ।।
स्थवीयान्मध्यमोऽणीयानित्येवं कालतोऽग्नितः ।। २५३ ।।
स्थवीयान्यात्यधोभागो रसादिक्रमशोऽपरः ।।
स्थूलं ह्युपचिनोतीमं कुड्यं मृत्स्नेव सर्वदा ।। २५४ ।।
यस्त्वणीयान्नसः सूक्ष्मः स ऊर्गमृतमुच्यते ।।
नाडीः सूक्ष्माः प्रविश्यासौ देवताः प्रीणयत्यथ ।। २५५ ।।
स्वाम्यर्थ एव चोत्तम्भस्तृप्तिरापूर उच्यते ।।
ततस्तु या सुखोद्भूतिर्विज्ञानात्मन एव मा ।। २५६ ।।
ता एता देवताः सप्तदश ज्ञानक्रियात्मिकाः ।।
सोऽयं सप्तदशग्रामो भोक्तुः करणलक्षणः ।। २५७ ।।
बुद्धीन्द्रियाणि पञ्चैव तथा कर्मेन्द्रियाण्यपि ।।
वायवः पञ्च बुद्धिश्च मनः सप्तदशं विदुः ।। २५८ ।।
अपास्ताध्यात्मरूपाणां देवतानां समाश्रयाः ।।
भूतपञ्चकमेवेदं साधारण्याद्भवेत्सदा ।। २५९ ।।
पयोम्भोवदिदं लिङ्गं नानारूपैः समन्वितम् ।।
आविर्भावतिरोभावैः कारणात्मनि वर्तते ।। २६० ।।
कूटस्थबोधतन्मोहचिदाभासैकमात्रया ।।
जाग्रत्स्वप्नावयं पीत्वा ह्यास्ते प्राणात्मनां प्रभुः ।। २३१ ।।
अपास्ताशेषबाह्यार्थस्तज्जवासनयाऽञ्चितः ।।
अध्वस्तप्रत्यगज्ञानो विरिञ्चः पर उच्यते ।। २६२ ।।
जाग्रत्काले विसेषेण स्थित्वा हृदयसद्मनि।।
द्वासप्ततिसहस्राणि नाडीर्व्याप्यावतिष्ठते ।। २६३ ।।
स एष परमात्मैव स्वात्ममोहसहायवान् ।।
प्राणात्मना करोत्येष पश्यत्यग्न्यात्मना तथा ।। २६४ ।।
इन्द्राग्नी ताविमावुक्तौ प्राण इन्द्रस्तयोर्मतः ।।
प्रकाशकत्वाद्वागग्निरेवमेकः प्रजापतिः ।। २६५ ।।
अत्र्राद्यभेदतो द्वौ वा यदि वाऽध्यर्ध उच्यते ।।
यदि वाऽयं यत्रस्रिशद्द्वासप्ततिरथापि वा ।। २६६ ।।
अनन्तभेदभिन्नो वा एक एवान उच्यते ।।
सर्वोऽप्येष विकल्पश्च पुनरेकैकशस्तथा ।। २६७ ।।
देवासुरादिभेदेन जातिरूपक्रियागुणैः ।।
एकैकोऽनन्ततां याति पुनरेकात्मतामतः ।। २६८ ।।
समस्तव्यस्ततैवेह प्रत्यगज्ञानभूमिका ।।
न त्वपास्तसमस्तान्धअये नेति नेति परात्मनि ।। २३९ ।।
सर्वेणैव विकल्पेन यथोक्तेनावतिष्ठते ।।
यथाधिकारं सर्वत्र परो जगति सर्वथा ।। २७० ।।
न हि कृत्स्नमनादाय जगदेतन्मनागपि ।।
क्रियायै कारकं किंचित्तस्मात्सर्वात्मनेहते ।। २७१ ।।
कारणात्मा जगत्कृत्स्नं श्रौतदर्शनसाधनः ।।
यतः प्रागकरोत्कर्म तत्कार्येऽपि तथा ततः ।। २७२ ।।
एकापूर्वप्रयुक्तत्वात्समस्तव्यस्तरूपिणाम् ।।
सर्वः सर्वमुपादाय सर्वत्रातः प्रवर्तते ।। २७३ ।।
अध्यात्माद्यधिभूताधिदैवतं सर्वदाऽखिलम् ।।
सर्वं सर्वक्रियाः कुर्यादेकापूर्वप्रयुक्तितः ।। २७४ ।।
यतः प्रजापतिः पूर्वमेतस्मिन्दर्शने स्थितः ।।
यज्ञेन कर्मणाऽस्राक्षीज्जगदेतच्चराचरम् ।। २७५ ।।
नाड्योऽस्य रश्मयोऽनन्ता हृदयं मण्डलं रवेः ।।
अहोरात्राणि तावच्च शतसंवत्सरायुषः ।। २७६ ।।
एतया संपदा पूर्वं यजमानेन तद्विदा ।।
अग्नयोऽर्काश्चिता आसन्षद्व त्रिंशत्सहस्रशः ।। २७७ ।।
एकैकस्मिन्परिस्पन्द एवं सर्वाऽपि देवता ।।
एका चानेकरूपा च ह्यध्यात्मादिविभागतः ।। २७८ ।।
विभ्वी सर्वगताऽनन्ता समाप्ता च प्रतिक्रियम् ।।
प्रतिद्रव्यफलं कृत्स्ना खण्डादौ गोत्ववत्स्थिता ।। २७९ ।।
एष प्रजापतेरुक्तो महिमा तद्वदेव तु ।।
यजमानोऽपि तादात्म्यात्तथैव भवति ध्रुवम् ।। २८० ।।
गुणोपास्तिफलोक्त्यर्थमेवं हेति श्रुतिः परा।।
यथोक्तार्थमुपासीनं प्रति प्रववृतेऽधुना ।। २८१ ।।
वागादयोऽभिसंविष्टा जीवनार्थमनं यथा ।।
ज्ञातयोऽभिविशन्त्येवं तद्विदं जीवनार्थिनः ।। २८२ ।।
भर्ता च संनिविष्टानां श्रेष्ठश्च गुणतो भवेत् ।।
यथोक्तगुणवैफल्यं पुर एता न चेद्भवेत् ।। २८३ ।।
सर्वमेतद्वृथैव स्यान्न चेद्दीप्ताग्निमान्भवेत् ।।
अन्नाद इत्यतो वक्ति साफल्यप्रतिपत्तये ।। २८४ ।।
द्विषत्सु स्वेषु च न चेदाधिपत्यं तथाऽपि च ।।
प्रोक्तवैफल्यमाशङ्क्य ह्याहाधिपतितां फलम् ।। २८५ ।।
प्राण आत्मेत्युपासीनो यथोक्तं फलमश्नुते ।।
तज्ज्ञातयोऽपि फलिनो यथा वागादयस्तथा ।। २८६ ।।
प्राणसंस्पर्धिनो यद्वद्विनेशुरसुरास्तथा ।।
प्राणविद्विद्विषः सर्वे नालं भार्येभ्य एव च ।। २८७ ।।
उद्बुभूषति यो द्वेषात्स्वेषु प्राणविदं प्रति ।।
प्रतिस्पर्धी न सोऽलं स्याद्भरणाय कथंचन ।। २८८ ।।
नासौ श्रेष्ठः पुरोगन्ता नान्नादोऽसुरवद्भवेत् ।।
न च ज्ञातिष्वधिपतिः स्पर्धमानोऽनवेदिना ।। २८९ ।।
सोऽग्रास्याङ्गिरसः प्रोक्तस्तत्रायास्यो यथा तथा ।।
निर्णीतः प्रागथेदानीमाङ्गिरस्त्वविनिर्णयः ।। २९० ।।
पूर्वोक्तस्यानुवादोऽयं सोऽयास्येत्याद्युपक्रमः ।।
श्रुत्याऽऽङ्गिरस्त्वसिद्ध्यर्थमुच्यते न्यायपूर्वकम् ।। २९१ ।।
सिद्धोऽङ्गानां रसः प्राणः प्राणोऽङ्गानां रसः कथम् ।।
हीति हेतावतः प्राह तद्व्याख्यानाय चोत्तरः ।। २९२ ।।
यस्मात्कस्माच्चिदङ्गाद्धि प्राण उत्क्रामतीह नुः ।।
नीरसं मत्तदेवाङ्गमाशु शुष्यति तत्र च ।। २९३ ।।
यत एवमिदं दृष्टमन्वयव्यतिरेकः ।।
तस्मादाङ्गिरसः प्राणो ज्ञेय आत्मेति पण्डितैः ।। २९४ ।।
कार्यस्य रूपभूतस्य कर्मणः करणस्य च ।।
न केवलं प्राण आत्मा नाम्नोऽप्यात्मेति भण्यते ।। २९५ ।।
एवं सर्वात्मकत्वेन स्तुवन्प्राणं प्रयत्नतः ।।
आदरं कुरुते शास्रमुपास्यत्वाय देहिनाम् ।। २९६ ।।
बृहस्पत्यादिभिर्धर्मैरसोरन्यदुपासनम् ।।
विशिष्टमभिधित्स्वाह शास्रं पूर्ववदेव च ।। २९७ ।।
वाग्व्यापृततमा दृष्टा यत उद्गीथकर्मणि ।।
देवता सैव न प्राण इत्याशङ्क्येदमुच्यते ।। २९८ ।।
कौष्ठ्याग्निप्रेरितो वायुर्नानास्थानसमाहतः ।।
वर्णतामेति येनातः प्राण एव बृहस्पतिः ।। २९९ ।।
यजुर्ब्रह्मेति श्रवणादन्ते साम्नो ग्रहादपि ।।
ऋग्यजुःसामनिर्देशः क्रमेणेति प्रतीयते ।। ३०० ।।
सेति वाचोऽभिधानं स्यादमः प्राणाभिधा तथा ।।
सामोभयं समुदितं गुणप्राधान्यरूपतः ।। ३०१ ।।
एकार्थवृत्तिता यस्मात्तेनैकवचनं कृतम् ।।
शब्दयोः सामयोस्तस्मात्प्राणः सामाभिधीयते ।। ३०२ ।।
इतरस्यापि सामत्वं प्राणनिर्वर्त्यतो मतम् ।।
प्राण एव ततः साम युक्तो वागुपसर्जनः ।। ३०३ ।।
निःशेषभूतसाम्याद्वा साम प्राणोऽभिधीयते ।।
प्रत्यगज्ञानहेतुत्वात्तज्जस्यऽऽनन्त्यमुच्यते ।। ३०४ ।।
अतिसूक्ष्मशरीरा हि पुत्तिका प्लषिरुच्यते ।।
पुत्तिकादिशरीरेण समः प्राणस्तदाश्रयात् ।। ३०५ ।।
मशकेभविराइदेहैः समः प्राणो यथोदितः ।।
तथा हैरण्यगर्भेण लिङ्गात्मा सम एव तु ।। ३०६ ।।
वाय्वात्मनि समाप्तत्वात्करणानामशेषतः ।।
सर्वदेहसमत्वं स्यात्प्राणिकर्मानुरूपतः ।। ३०७ ।।
प्रतिप्राणिपरिच्छेदो ज्ञानकर्मानुरोधतः ।।
धर्माधर्मानपेक्षः सन्नानन्त्येनावतिष्ठते ।। ३०८ ।।
साम्न आप्नोति सायुज्यमैकात्म्यं प्राणरूपताम् ।।
समानलोकताऽनेन सालोक्यमिति शब्द्यते ।। ३०९ ।।
विकल्पासंश्रवाद्विद्वानश्नुतेऽतः फलद्वयम् ।।
वैचित्र्याद्भावनादेर्वा त्रिविधं फलमुच्यते ।। ३१० ।।
भूयोल्पीयः फलत्वं चेत्तुल्यसाधनयोर्न तत् ।।
योगैश्वर्यात्समा सिद्धिः कालादेरीश्वराद्यतः ।। ३११ ।।
एकमेव जगद्वीजमीशाभिप्रायहेतुतः ।।
भूरिनानाप्रभेदेन प्रत्यात्मं व्यवतिष्ठते ।। ३१२ ।।
कुर्यान्मेरावणुधियमणौ मेरुधियं तथा ।।
सर्वत्राप्रतिधात्येव प्रत्यगज्ञो महेश्वरः ।। ३१३ ।।
अतत्त्वज्ञस्य तमसो रज्ज्वज्ञानोरगादिवत् ।।
अष्टावस्थाप्रभेदेन मिथ्याज्ञानं प्रजायते ।। ३१४ ।।
प्रत्यगज्ञानविध्वस्तौ रज्ज्वज्ञानहताविव ।।
तत्कल्पितनिवृत्तिः स्यादष्टावस्थस्य बोधतः ।। ३१५ ।।
अनात्मवस्तु सकलं प्रत्यगज्ञांनहेतुजम् ।।
यथा तथोत्तरत्रापि युक्तिभिश्चाभिधास्यते ।। ३१६ ।।
औद्गात्रमेव चोद्गीथो भक्तिर्वा काचिदिष्यताम् ।।
प्रसिद्धेरिति चेन्मैवमुद्गीथो ह्यसुरेव तु ।। ३१७ ।।
उपसर्ग उदित्येप स चात्यन्तक्रियाश्रितः ।।
संयोज्य क्रिययाऽतस्तं व्याचष्टे श्रुतिरञ्जसा ।। ३१८ ।।
उत्तब्धं विधृतं यस्मात्प्राणेन जगदित्वरम् ।।
उत्प्राणोऽतः प्रसिद्धस्तु गुणादुद्गीथ उच्यते ।। ३१९ ।।
अनया गीयते यस्माद्गीथा वाक्तेन भण्यते ।।
उच्च गीथा च तद्योगादुद्गीथ इति शब्द्यते ।। ३२० ।।
उद्गाता नैमिषीयाणामयास्योपासनादभूत् ।।
अयास्यनामा सोऽगायद्वाचा प्राणप्रधानया ।। ३२१ ।।
बृहस्पत्यादिभिर्धर्मैरुपास्यानमनो भवेत् ।।
भावनोत्कर्षतोऽतोऽयं विचारस्तं प्रतीष्यते ।। ३२२ ।।
हृदयेनाभिसंबन्धाद्देवताऽत्र प्रजापतिः ।।
Line २ miss ।। ३२३ ।।
वागीश्वरत्वादिन्द्रो वा यदि वा वर्णदेवता ।।
पदवाक्यस्वरस्थाननादादिविषयाऽपि वा ।। ३२४ ।।
एवं विप्रतिपन्नेपु नानावादिषु निश्चितः।।
प्राणप्रधानया वाचा ह्ययास्योऽगायदित्यतः ।।
ब्रह्मदत्तश्चकारोच्चैः शपथं वादिनः प्रति ।। ३२५ ।।
यदितोऽनप्रधानाया वाचो ह्यन्येन केनचित् ।।
देवान्तरेण सोऽगायदयास्यः प्राणविग्रहः ।। ३२६ ।।
सर्वप्रमाणभूतोऽभूदुद्गाता सत्रिणां पुरा ।।
विसंवादस्त्वभूत्तेषामुद्दिश्योद्गीथदेवताम् ।। ३२७ ।।
उद्गाता नैमिषीयाणां मदभ्युपगताद्यदि ।।
प्राणवाग्द्वयतोऽन्येन देवेनासौ प्रयत्नवान् ।। ३२८ ।।
उदगायत्तदा सोमो भक्ष्यमाणः शिरो मम ।।
मिथ्याभिवादिनः साक्षाद्विपातयतु सत्वरः ।। ३२९ ।।
श्रुतिः समर्थयामास वाचेति शपथक्रियाम् ।।
शपथस्यापि मानत्वमस्मादेव तु कारणात् ।। ३३० ।।
वाचः प्राणस्य च यत उद्गीथे व्यापृतिः स्फुटा ।।
प्राधान्येन तदन्येषां न तथा लक्ष्यते सदा ।। ३३१ ।।
आकृत्यर्थाभिसंबन्धादभिधानस्य न श्रुतेः ।।
ब्रह्मदत्ताभिसंबन्धादनित्यत्वं प्रसज्यते ।। ३३२ ।।
उद्गीथदेवतामेवं परीक्ष्याथाधुना श्रुतिः ।।
स्वादिधर्माभिसंबन्धं प्रचक्राम प्रभाषितम् ।। ३३३ ।।
याजमानमिदं ज्ञानं स्वादेः प्राग्यत्समीरितम् ।।
पञ्चमाद्युक्तिदृष्ट्याऽस्य ह्येकवाक्यत्वहेतुतः ।। ३३४ ।।
स्वसुवर्णप्रतिष्ठाधीरुद्गातुरिति गम्यते ।।
ऋत्विङ्नामाभिसंबन्धान्न त्वसौ यजमानगा ।। ३३५ ।।
एष एवंविदुद्गातेत्यमुतो लिङ्गतो भवेत् ।।
उद्गातुरपि विज्ञानं दृष्टार्थत्वाच्च कारणात् ।। ३३६ ।।
कर्त्राश्रितं स्वं विज्ञेयं माधुर्यादीह सामनि ।।
यतस्तद्धनवत्तस्मात्स्वरार्थं यत्नमाचरेत् ।। ३३७ ।।
धनवन्तं यथा यत्नाद्दिदृक्षन्तीह संघशः ।।
तथा यत्नात्समीक्षन्ते स्वरसंपत्समन्वितम् ।। ३३८ ।।
बाह्यवित्तेन संबन्धमुक्त्वाऽथान्तर्धनात्मना ।।
संबन्धं वक्तुकामेयं प्रचक्रामोत्तरा श्रुतिः ।। ३३९ ।।
बाह्योऽस्य धर्मः सौस्वर्यं सौवर्ण्यं त्वान्तरं धनम् ।।
तदन्तरतमोऽनस्य प्रतिष्ठागुण उच्यते ।। ३४० ।।
जिह्वामूलीयकादीनि ह्यष्टौ स्थानानि वागिह ।।
गानप्रतिष्ठाहेतुत्वाद्धीति हेतुवचस्तथा ।। ३४१ ।।
अन्नप्रतिष्ठमागानमेक आहुर्विपाश्चितः ।।
अनिषेधाद्दूयोरेका प्रतिष्ठेहावसीयताम् ।। ३४२ ।।
अन्नस्य परिणामेऽनः स्थितो गीतित्वमेति हि ।।
अनप्रतिष्ठा देहोऽतः श्रुत्येह प्रतिपाद्यते ।। ३४३ ।।
उपासनं विकल्पेन वागन्नास्व्यप्रतिष्ठयोः ।।
वाक्प्रतिष्ठमुपासीत यदि वाऽन्नप्रतिष्ठितम् ।। ३४४ ।।
यदर्थमतियत्नेन महिमाऽनस्य कीर्तितः ।।
अभ्यारोहजपः सोऽथ प्राप्तावसर उच्यते ।। ३४५ ।।
यथोक्तज्ञानवत्तायामिदं कर्म विधित्स्यते ।।
कार्त्स्न्येन तस्य चोक्तत्वादतस्तदभिधीयते ।। ३४६ ।।
एवं विद्वत्प्रयोज्यत्वादत एव न सूत्रितम् ।।
नित्यकर्मेव सूत्रेषु तेन विद्वत्प्रयोज्यता ।। ३४७ ।।
उद्गीथलिङ्गसंयोगाद्गानमात्रेऽस्य शक्तितः ।।
नियमोऽस्यैवकारेण पवमानेषु कथ्यते ।। ३४८ ।।
ततोऽपि कालसंकोचं स वा इत्यादिनाऽनदत् ।।
प्रस्तोता प्रस्तुयाद्यत्र तदैतानि जपेदिति ।। ३४९ ।।
एतानीति च निर्देशाद्यजूंषीत्यवगम्यते ।।
श्रुतावेव च दृष्टत्वात्स्वरः शातपथो जपे ।। ३५० ।।
जपकर्माभिधा चेयमभ्यारोह इतीष्यते ।।
योगिकी चाभिधा ज्ञेया क्रियायोगस्य संभवात् ।। ३५१ ।।
हित्वाऽध्यात्मपरिच्छेदं दैवं वीजमतः परम् ।।
अभ्यारोहत्यनेनातो ह्यभ्यारोहो जपः स्मृतः ।। ३५२ ।।
तिरोहितार्थरूपत्वान्मन्त्राणां न नृधीगतिः ।।
मन्त्रार्थं स्वयमेवातो व्याचष्टे श्रुतिरञ्जसा ।। ३५३ ।।
पूर्वं पदार्थान्व्याख्याय पश्चाद्वाक्यार्थमव्रवीत् ।।
फलं पश्चाद्यथोक्तस्येत्येष व्याख्याक्रमः श्रुतेः ।। ३५४ ।।
यत्स्यात्स्वाभाविकं ज्ञानं यच्च कर्म स्वभावजम् ।।
तदधःपातहेतुत्वान्मन्त्रेऽसदिति भण्यते ।। ३५५ ।।
सद्देवभावहेतुत्वाच्छास्रीये ज्ञानकर्मणी ।।
सत्पदेनाभिधीयेते मन्त्रेऽस्मिन्प्राग्यथोदिते ।। ३५६ ।।
असन्मृत्युस्तयोर्ज्ञेयः पूर्वयोर्मृत्युहेतुतः ।।
अमृतं मृत्युघातित्वाच्छास्रीये ज्ञानकर्मणी ।। ३५७ ।।
आसुरज्ञानकर्मभ्यां मां व्युत्थाप्याथ तज्जितेः ।।
गमयाऽऽशु ततो दैवे शास्रीये ज्ञानकर्मणी ।। ३५८ ।।
मन्त्रार्थे यत्नमाहाथ ह्यमृतं मामिति श्रुतिः ।।
द्वितीयमन्त्रानूक्तिः स्यात्तमसो मेत्युदीरणम् ।। ३५९ ।।
आपेक्षिकत्वान्मृत्युः स्याच्छास्रीये ज्ञानकर्मणी ।।
स्वार्थं फलमपेक्ष्यैते परार्थत्वात्तमो मते ।। ३६० ।।
साधनात्तमसो मां त्वं ज्योतिः साध्यं नायमृतम् ।।
फलाप्त्यैव तमोध्वंसादमृतं मेत्यतोऽवदत् ।। ३६१ ।।
पूर्वयोर्मन्त्रयोर्योऽर्थो विस्तरेणोदितः पुनः ।।
मन्त्रेण स तृतीयेन संक्षेपेणाभिधीयते ।। ३६२ ।।
प्रसङ्गमुत्तरे मन्त्रे पूर्वयोरिव वीक्ष्य हि ।।
तिरोहितार्थतामाह नात्रेत्यादिवचः श्रुतिः ।। ३६३ ।।
यथाप्रार्थितमागाय याजमानं फलं परम् ।।
त्रिष्वेव पवमानेषु यथा वागादिभिः पुरा ।। ३६४ ।।
अथ यानीतराणीति ह्युद्गाताऽन्नाद्यमात्मने ।।
आगायेद्वचनात्कर्तुः कामयोगोऽपि गम्यते ।। ३६५ ।।
कस्मादात्मन आगायेदिति हेतुरिहोच्यते ।।
यस्मात्स एष एवंविदुद्गाताऽतोऽन एव सः ।। ३६६ ।।
अतोऽलमात्मने कामानागातुं स्वामिने तथा ।।
यस्मादीश्वर उद्गाता कामावाप्तावतः शुभम् ।। ३६७ ।।
तस्मात्तेषु वरं कामं यजमानो यथारुचि ।।
नवसूद्गीयमानेषु तं वृणीताविचारयन् ।। ३६८ ।।
प्रयोगानुगमे चैतद्दर्शनं येन चोद्यते ।। ३६९ ।।
तस्मात्स्याद्देवतावाप्तिर्ज्ञानकर्मसमुच्चयात् ।।
तस्मान्न काचिदाशङ्का कर्मिणं प्रति विद्यते ।। ३७० ।।
कर्महीनेऽपि विदुषि स्यान्न वेत्यतिशङ्क्यते ।।
तदाशङ्कापनुत्त्यर्थं तद्धैतदिति हि श्रुतिः ।। ३७१ ।।
इहैव देवभूतत्वादाशङ्का किंनिबन्धना ।।
जपकर्मानवोधाभ्यां लोकप्राप्तौ हि शङ्क्यते ।।
ज्ञानादेव भवेन्नेति तद्धैतदिति हि श्रुतिः ।। ३७२ ।।
जीवतो देवभूतस्य भावनोपचयात्कुतः ।।
देवाराप्तौ भवेच्छङ्का मनुष्यस्य तदाप्तिवत् ।। ३७३ ।।
कर्मिणोऽपि हि देवाप्तिर्ज्ञानादेव न कर्मणः ।।
समुच्चयात्तु तत्प्राप्तावागमादेव निश्चितिः ।। ३७४ ।।
तद्धैतत्प्राणविज्ञानं यथाव्याख्यातरूपकम् ।।
भवेल्लोकजिदेवेह कर्मशून्यमपि ध्रुवम् ।। ३७५ ।।
न हैवालोक्यतायै नुरस्याऽऽशाऽपीह विद्यते ।।
इहैव लोकभूतत्वादप्राप्तेऽर्थे हि शङ्क्यते ।। ३७६ ।।
इहैवाऽऽसुरभावस्य प्राणोऽस्मीत्यभिमानतः ।।
प्रध्वस्तत्वात्कुतः शङ्का तन्मूलासंभवाद्भवेत् ।। ३७७ ।।
इदमत्र विचिन्त्य स्याज्ज्ञानकर्मसमुच्चयात् ।।
देवभावः किमुद्गातुर्यजमानस्य वाऽथ किम् ।। ३७८ ।।
न समुच्चय उद्गातुः कर्माभावादिहेष्यते ।।
परकर्मप्रवेशात्स्यादुद्गाता न स्वकर्मणि ।। ३७९ ।।
क्रियायोगाच्च तन्नाम्नो ज्ञानाभ्यासोऽपि दुर्लभः ।।
साक्षात्कृतिश्च संतत्या संततिश्च न विद्यते ।। ३८० ।।
न च धीजन्ममात्रेण परमात्मप्रबोधवत् ।।
संभाव्यो देवभावोऽस्य देवो भूत्वेति च श्रुतेः ।। ३८१ ।।
उद्गतुर्विदुषो नापि परकीयेन कर्मणा ।।
समुच्चयप्रसिद्धिः स्यात्तयोर्भिन्नाश्रयत्वतः ।। ३८२ ।।
यजमानस्य कर्मास्ति ज्ञानं तूद्गातृसंश्रयम् ।।
समुच्चयोऽतस्तस्यापि भिन्नाधिष्ठानतो न च ।। ३८३ ।।
मतं तद्याजमानं स्याज्ज्ञानं यत्प्रागुदीरितम् ।।
स्वयमेव कृतार्थत्वात्काऽपेक्षाऽस्यर्त्विजं प्रति ।। ३८४ ।।
कर्मण्युद्गात्रपेक्षावज्ज्ञानेऽपीति मतं यदि ।।
उद्गातुरपि तत्तुल्यं नोद्गातर्ते क्रियां यतः ।। ३८५ ।।
याजमानं यथा कर्म ह्याश्रित्य फलवद्भवेत् ।।
अन्नाद्यागानमुद्गातुस्तज्ज्ञानं तद्वदाश्रितम् ।। ३८६ ।।
समुच्चयाच्चेदुभयोरुद्गातृयजमानयोः ।।
देवभावः किमर्थेयं तद्धैतदिति हि श्रुतिः ।। ३८७ ।।
सर्वाश्रमाणां तर्हीदं सामान्येनाभिधीयते ।।
तद्धैतदिति सिद्धत्वादुद्गातृयजमानयोः ।। ३८८ ।।
देवभावेन विज्ञानं संस्करोत्येव तद्धियम् ।।
परार्थमपि सत्कस्मादनपेक्षं न सिद्धये ।। ३८९ ।।
इति श्रीबृहदारण्यकोपनिषद्भाष्यवार्तिके तृतीयं ब्राह्मणम्
ज्ञानकर्मफलं चैतत्कर्मकाण्डप्रचोदितम् ।।
आत्मैवेत्यादिशास्रेण सृष्ट्यादौ कर्तृतोच्यते ।। १ ।।
जगदुत्पत्तिसंहारस्थित्यादौ जगदात्मनः ।।
क्रियाधीफलभूतस्य स्वातन्त्र्यमुपवर्ण्यते ।। २ ।।
स्तुत्याऽनया च वेदोक्तक्रियाज्ञानस्तुतिर्भवेत् ।।
कृता विवक्षितं त्वत्र सर्वमप्येतदीरितम् ।। ३ ।।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मात्मकं पुरा ।।
महानर्थफलायैव न मोक्षायेति निश्चितिः ।। ४ ।।
वैदिकं साधनं सर्वमविद्योत्थत्वकारणात् ।।
तीव्रानर्थफलायेति ब्रह्मविद्याधिकारतः ।।
विवक्षितोऽर्थो यत्नेन तद्वैराग्यविधित्सया ।। ५ ।।
यतोऽविरक्तः संसारान्नाऽऽत्मज्ञानाय कल्पते ।।
तदेतदात्मतत्त्वं हि पदनीयमितीरणात् ।। ६ ।।
पुत्रादिभ्यस्तथा प्रेयानिति वक्ष्यति सादरम् ।। ७ ।।
वेदोक्तं निखिलं पुंसः सत्त्वशुद्धिफलं स्मृतम् ।।
कर्म ध्यानादिकं यत्नाच्छ्रेयोर्थिभिरनुष्ठितम् ।। ८ ।।
सम्यक्संशुद्धधिषणः संसारं वेत्ति तत्त्वतः ।।
दृष्टसंसारतत्त्वश्च वैराग्यं संसृतेर्व्रजेत् ।। ९ ।।
आविरिञ्चाद्विरक्तो हि संसारान्निविवृत्सति ।।
न चोक्तज्ञानकर्मभ्यः सा निवृत्तिः प्रसिध्यति ।। १० ।।
वाह्मनःकायकर्मभ्यस्तत्साध्यकटुकत्वतः ।।
व्युत्थायानर्थनिःसारसाधनान्यनुमार्गति ।। ११ ।।
नित्यान्यपि च कर्माणि तत्संस्कारफलाश्रयात् ।।
परित्यजति सर्वाणि कृत्स्नसंसारदोषदृक् ।। १२ ।।
संसारवह्निजं दुःखं संभावयति ना परम् ।।
भूयो दुःखं किमन्यत्स्यान्नित्यानुष्ठानहानितः ।। १३ ।।
मुक्तेर्बिभ्यत इत्यादि तथाच श्रुतिशासनम् ।।
तन्मूला च स्मृतिः साक्षाद्वेदानित्यादिका स्फुटा ।। १४ ।।
अविज्ञातं परं तत्त्वं जनिमत्कारणं श्रुतौ ।।
आन्त्यात्कार्यात्तदेव स्यात्सर्वकार्यविशेषणम् ।। १५ ।।
तेन तेनाऽऽत्मकार्येण स्वात्माभासतमोवधिः ।।
विशिष्टः समृजे विष्णुस्तेजोबन्नादि मायया ।। १६ ।।
अविद्ययाऽस्य स्रष्ट्वत्वं कूटस्थस्यापि सर्वदा ।।
यथावस्तुधियः सूतेः प्राङ्नित्यं तेन तन्मतम् ।। १७ ।।
ज्ञानकर्मादितन्त्रं सत्सूवं जज्ञे ततो विभोः ।।
ज्ञानक्रियाशक्तिमद्यद्यत्रेदं जगदाहितम् ।। १८ ।।
विराडपि ततो जातस्रैलोक्यात्मकदेहवान् ।।
यथोक्तज्ञानकर्मभ्यां मनोर्जन्म ततोऽपि च ।। १९ ।।
या महाप्रलयात्सृष्टिः सा विरिञ्चस्य वक्ष्यते ।।
आन्तरप्रलयाद्या तु विराजोऽधीयमुच्यते ।। २० ।।
स वै शरीरी प्रथमः स वै पुरुष उच्यते ।।
आदिकर्ता स भूतानां ब्रह्माऽग्ने समवर्तत ।। २१ ।।
प्रत्यग्भूतः परार्थेभ्यो योऽनन्यानुभवं प्रति ।।
प्रथते स इहाऽऽत्मेति जगत्यस्मिन्निगद्यते ।। २२ ।।
आत्माभासैकसंसिद्धेस्तदज्ञानसमुद्भवम् ।।
आत्मैव भण्यते मोहात्तदात्माव्यतिरेकतः ।। २३ ।।
एवेत्यवधृतावेतदात्मीयार्थनिषेधकृत् ।।
मन्वादि जन्मनः पूर्वमात्मैवेदमभूज्जगत् ।। २४ ।।
अध्यात्मादिविभागे स्यादात्मात्मीयादिभेदधीः ।।
तस्मिन्नसति सा न स्यादपेक्षाविरहाद्विभोः ।। २५ ।।
मिथोपास्तव्यपेक्षं हि नामरूपादिमज्जगत् ।।
प्रत्यह्मात्रप्रमाणं स्यात्पराङेवैति चित्रताम् ।। २६ ।।
अपामार्गलतेवायं विरुद्धफलदो भवः ।।
प्रत्यग्दृशां विमोक्षाय संसाराय पराग्दृशाम् ।। २७ ।।
व्याकृताव्याकृतं विश्वं प्रत्यक्प्रत्ययमात्रकम् ।।
मोहोत्थाहमितिज्ञानाद्भयारत्यादिमद्भवेत् ।। २८ ।।
अहंममेतिविज्ञानं विद्यया ध्वंमितं यदा ।।
तदाऽद्वये दृशौ दृष्टे न भयादि तमोहतेः ।। २९ ।।
इदं धीनामगम्यं यच्चित्रं सत्प्रथते हिरुक् ।।
मन्वादि सृष्टेस्तत्पूर्वमात्मैवाभूदिदं जगत् ।। ३० ।।
एतावद्वास्तवं वृत्तं मोहोत्थं भण्यतेऽधुना ।।
कोशपञ्चकतां यातः प्रत्यगज्ञानतो यतः ।। ३१ ।।
स एष परमोऽप्यात्मा कामाविद्याद्युपप्लवात् ।।
संवृत्तः पुरुषाकार इत्यनुक्रोशतीव नः ।। ३२ ।।
आनन्दाद्यन्नपर्यन्तान्कारणेतररूपिणः ।।
पुरुषादिप्रकारांस्तान्प्रत्यक्तत्त्वानलक्षयत् ।।
पुरुषविध इत्युक्त्या ह्यूर्ध्वं चैवं प्रवक्ष्यते ।। ३३ ।।
वाह्मनःप्राणकोशांस्रीन्विराडन्नमयः स्वयम् ।।
तद्धेदमिति चाऽऽनन्दो नैवेहेति तथोच्यते ।। ३४ ।।
अग्निर्मूर्धेति च तथा मन्त्रेणापि प्रकाशितः ।।
सामानाधिकरण्यं च तद्धेदमिति युक्तिमत् ।। ३५ ।।
पृथिव्याद्यक्षरान्तश्च प्रश्नो वाचक्नवस्तथा ।। ३६ ।।
प्रत्यग्दृष्ट्यनुविद्धाहंप्रत्ययैकप्रमाणकः ।।
सोऽनुवीक्ष्याऽऽत्ममोहोत्थदृष्ट्याऽविद्योत्थरूपकम् ।। ३७ ।।
यदभ्यस्तं पुराऽस्याभूदहमेवेदमित्यदः ।।
दर्शनं तदपेक्ष्यायमनुशब्दः प्रयुज्यते ।। ३८ ।।
अहमेवेदमस्मीति दर्शनं यत्सुभावितम् ।।
तत्फलं यत्तदन्वीक्ष्य नाऽऽत्मनोऽन्यद्ददर्श सः ।। ३९ ।।
तस्मादर्थान्तरासूतेरेकपिण्डात्ममात्रतः ।।
नापश्यदपरं किंचित्सोऽहमित्यभ्यधादथ ।। ४० ।।
त्रैलोक्यात्मकदेहात्मा नापश्यदपरं पृथक् ।।
भिन्नार्थानभिसंवन्धात्प्रतीच्येवास्य धीरभूत् ।। ४१ ।।
सशब्दं दर्शनं यादृक्प्रागभ्यस्तं तथैव सः ।।
व्याजहार फलावस्थो ह्यहमित्यात्मवाचकम् ।। ४२ ।।
उपासनार्थं नामास्य तस्योपनिषदित्यतः ।।
अतोऽहमित्यनेनैव ह्यात्मनाऽऽत्मानमभ्यधात् ।। ४३ ।।
अहमित्यभ्यधादग्रे यस्मादात्मानमात्मना ।।
अहंनामाभवत्तस्माद्विराडेष प्रजापतिः ।। ४४ ।।
तत्कार्यगेण लिङ्गेन ज्ञापयन्कारणाभिधाम् ।।
तस्मादपीति वक्त्येतां प्रसिद्धिं लोकसाक्षिकीम् ।। ४५ ।।
यथोक्तमहिमः कस्मात्संवृत्तः पुरुषो विराट् ।।
इतिहेतूपदेशाय स यदित्यादि भण्यते ।। ४६ ।।
मिथो जिगीषतां पुंसां ज्ञानकर्मादिसाधनैः ।।
पुरा देवात्मतां योऽगात्प्लुष्टास्तेनेतरे जिताः ।। ४७ ।।
वैराजपदसंप्रेप्सोर्यजमानमहाजनात् ।।
एनांस्यौषद्यतोऽग्रेऽतः संवृत्तः पुरुषाभिधः ।। ४८ ।।
औषत्स्वान्पाप्मनः पूर्वं ज्ञानाद्यतिशयाग्निना ।।
वैराजपदलिप्सुभ्यस्तेनासौ पुरुषाभिधः ।। ४९ ।।
यथोक्तोपासनफलं वक्ष्यामीत्युत्तरं वचः ।।
ओषतीत्यादिकं ज्ञेयं वेदोपासीत यः सदा ।। ५० ।।
योऽसावतीन्द्रियोऽग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ।।
सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्वभौ ।। ५१ ।।
पुरुषोऽस्मीत्युपास्त्यर्थं पुरुषार्थोऽयमुच्यते ।।
ओषतीत्युक्तितः साक्षाद्गुणोपास्तिफलश्रवात् ।। ५२ ।।
अभिष्टुतं प्रयत्नेन फलं यज्ज्ञानकर्मणोः ।।
एवंमहिममप्येतत्संसारं नात्यवर्तत ।। ५३ ।।
प्रत्यग्याथात्म्यविज्ञानविरहादन्यसाधनः ।।
यावत्किंचित्फलं नादः सर्वानर्थनिवृत्तये ।। ५४ ।।
निरस्तातिशयं कर्म ज्ञानं चाऽऽप्यापि बालवत् ।।
यतोऽबिभेदविद्यावानतोऽसावस्मदादिवत् ।। ५५ ।।
न ह्यविद्यामनादाय वस्तुयाथात्म्यसंश्रयात् ।।
कश्चिद्बिभेत्यबिभेच्च तेनाविद्वान्प्रजापतिः ।। ५६ ।।
प्रत्यग्याथात्म्यविद्यैव निःशेषपुरुषार्थकृत् ।।
इत्येतत्प्रतिपत्त्यर्थं विराट्स्थानस्य कुत्सनम् ।। ५७ ।।
यतोऽविभेद्विराद्पूर्वमेकाक्यस्मीति मूढवत् ।।
तस्मात्तत्कार्यभूतोऽज्ञ एकाक्यद्य बिभेति ना ।। ५८ ।।
एवं भयाभिभूतः स ईक्षांचक्रेऽथ लोकवत् ।।
भयाहेतु यथातत्त्वदर्शनं कृतवान्विभुः ।। ५९ ।।
स्रजीव कल्पिताहिर्ना तत्र्रासादाकुलेन्द्रियः ।।
आलोचयेद्यथातत्त्वं भीध्वस्तौ तद्वदीश्वरः ।। ६० ।।
आलोचयन्यथातत्त्वमपास्तध्वान्ततद्भवम् ।।
अनन्यानुभवं साक्षाद्ददर्शैकात्म्यमात्मनि ।। ६१ ।।
प्रत्यग्याथात्म्यविज्ञानशिखिप्लुष्टमहत्तमाः ।।
आप्ताशेषपुमर्थोऽथ सोऽमन्यत ततो विराट् ।। ६२ ।।
देहेन्द्रियमनोबुद्धिभावाभावादिसाक्षिणम् ।।
प्रत्यञ्चं मदिति प्राह तदृष्ट्या नेक्षते द्वयम् ।। ६३ ।।
प्रतीच्येव यदेहाऽऽत्मा प्रत्यगात्मानमीक्षते ।।
अन्वयव्यतिरेकाभ्यां ब्रह्मस्मीति तदेक्षते ।। ६४ ।।
प्रत्यग्दृष्ट्या तदज्ञानतज्जं नैवेक्षते स्वतः ।।
ब्रह्मप्रतीचोरैकात्म्यात्तदूरीकृत्य गर्जति ।। ६५ ।।
प्रत्यक्तां मदिति प्राह त्वन्यन्नास्तीति चैकताम् ।।
कस्मादिति च हेतूक्तिर्भीत्याचिक्षिप्सया परम् ।। ६६ ।।
प्रत्यक्ता ब्रह्मणो यस्माद्ब्रह्मता चाऽऽत्मनः स्वतः ।।
एवं सति कुतो मे भीरिति विद्वांस्रपायते ।। ६७ ।।
ब्रह्मविद्यामृते नान्यद्भयहेतुविनाशकृत् ।।
संभाव्यमिति नः प्राह तत एवेति च श्रुतिः ।। ६८ ।।
प्रत्यगज्ञानमेवैकं भीतिहेतुर्भवेद्यदि ।।
तत एवेति वचनं तदेवं स्यात्समञ्जसम् ।। ६९ ।।
कस्माद्ध्यभेष्यदिति च पूर्वोक्तार्थसमर्थनम् ।।
श्रुत्याऽकारि कुतो भीतिर्ध्वस्ताज्ञानतदुद्भवे ।। ७० ।।
प्रजापतेराविरभूत्कुत एकत्वदंर्शनम् ।।
शास्राचार्यादितद्धेतोरसत्त्वात्तदसंभवः ।। ७१ ।।
अन्यानपेक्षं तदभूदिति चेन्नैवमिष्यते ।।
अस्मदादेरपि तथा प्रसङ्गः स्यान्न चेक्ष्यते ।। ७२ ।।
मतं जन्मान्तराभ्याससंस्कारोत्थमिदं यदि ।।
नैरर्थक्यप्रसक्तिः स्यात्सम्यग्ज्ञानस्य सर्वतः ।। ७३ ।।
दग्धाशेषान्तरायस्य विराजोऽपि महत्तमः ।।
नाधाक्षीदात्मविद्या नः काऽऽशाऽविद्यापनुत्तये ।। ७४ ।।
अन्त्य एव तमोघाती प्रत्ययश्चेन्मतं यदि ।।
स्यादनैकान्तिको हेतुरन्यान्त्येष्वसमीक्षणात् ।। ७५ ।।
नान्त्योऽविद्यापनुद्बोध इति सर्वत्र गम्यताम् ।।
ऐकात्म्यवस्तुबोधित्वादुपान्त्यप्रत्ययो यथा ।। ७६ ।।
स्याद्वा सत्साधनोत्पत्तेर्लोकवज्ज्ञानमात्मनः ।।
यथेह कार्यकरणैः पुण्यकर्मोद्भवैर्नृणाम् ।। ७७ ।।
प्रज्ञा मेधा स्मृतिः स्थैर्ये ज्ञानादाववसीयते ।।
वैशारद्यं तथैव स्याद्विराजोऽपि महाधियः ।। ७८ ।।
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः ।।
ऐश्वर्यं चैव धर्मश्च सहसिद्धमिति स्मृतिः ।। ७९ ।।
सहैव सिद्धं चेज्ज्ञानं भीतिहेतोरसंभवः ।।
ध्वान्तापध्वंसिरविणा न तमः सह जायते ।। ८० ।।
नैवमन्योपदेशार्थप्रतिषेधपरत्वतः ।।
सहसिद्धगिरस्तस्मान्नैष दोषः प्रसज्यते ।। ८१ ।।
श्रद्धातात्पर्यशुश्रूषाप्रणिपातादि साधनम् ।।
विद्याजन्मैकहेतूनां वैफल्यं चेन्न तद्यतः ।। ८२ ।।
गुणवद्दोषवद्रूपविकल्पितसमुच्चितम् ।।
विद्याजन्मैकहेतुत्वाल्लोकवत्स्यात्समञ्जसम् ।। ८३ ।।
रूपादिज्ञानसंभूतौ तद्धेतूनामनेकधा ।।
विकल्पो दृश्यते लोके तथेहापीति निश्चितिः ।। ८४ ।।
गुणवद्दोषवत्त्वं च तथैव च समुच्चयः ।।
प्रबोधोत्पत्तिहेतूनां दृष्टो बोधादिकार्यकृत् ।। ८५ ।।
वृषदंशादयो रात्रौ नेत्रगोचरसंगति -
मात्रेण रूपं वीक्षन्ते नापेक्षन्ते ततोऽपरम् ।। ८६ ।।
अतीतानागताद्यर्थज्ञानोत्पत्तौ च हेतुताम् ।।
योगिनां मन एव स्यादस्माकं सर्व एव तु ।। ८७ ।।
दोषवद्गुणवत्त्वेन विकल्पोऽनेकधा पुनः ।।
मातृमानप्रमेयाणां गुणावद्दोषवत्त्वतः ।। ८८ ।।
नातिक्रान्तभवे त्वासीह्ब्रह्मविद्या प्रजापतेः ।।
इत्येतद्गम्यतेऽविद्याभयारत्यादिमत्त्वतः ।। ८९ ।।
विद्यायां चेन्न मोक्षोऽभूत्कस्याऽऽशा नो वृथा भवेत् ।।
मोक्षे भयश्रुतेर्नार्थस्तत्र को मोह इत्यतः ।। ९० ।।
एकाकिनो विराजो वाऽविद्यासंवीतचेतसः ।।
पूर्वजन्मोत्थसंस्काराद्भयमाविरभूदिह ।। ९१ ।।
भयप्रध्वंसिनं हेतुमीक्षांचक्रेऽथ जातभीः।।
मत्तो यन्नान्यदस्तीति ह्यथ कस्माद्विभेम्यहम् ।। ९२ ।।
एक एवाहमस्मीह द्वितीयाद्धि भयोत्थितिः ।।
द्वितीयो न मदन्योऽस्ति कस्माद्धोतोयं मम ।। ९३ ।।
तत एव विराडैक्यविज्ञानादेव तद्भयम् ।।
वीयाय न परज्ञानादतोऽरतिरपीष्यते ।। ९४ ।।
एकाक्यस्मीतिविज्ञानात्र्रैलोक्यात्मैकगोचरात् ।।
अगाद्भयं यतोऽतोऽभूदरतिस्तस्य कामिनः ।। ९५ ।।
सम्यग्विज्ञानविध्वस्तावविद्यायाः कुतोऽरतिः ।।
ध्वस्तान्ध्यस्यापि सा चेत्स्यादनिर्मोक्षः प्रसज्यते ।। ९६ ।।
नाविद्याघातिविज्ञानाद्भयध्वस्तिरभूद्विभोः ।।
अरत्युद्भूतिलिङ्गेन ह्ययमर्थोऽवसीयते ।। ९७ ।।
न चेहावसरोऽस्त्यस्य सम्यग्ज्ञानस्य कश्चन ।।
पिण्डसृष्टौ प्रवृत्तायां नाकस्माज्ज्ञानगीः शुभा ।। ९८ ।।
प्रक्रियानुचितं वस्तु सुसाध्वपि समीरितम् ।।
अकालकुसुमानीव नैव प्रीतिकरं सताम् ।। ९९ ।।
मिथुनारतिमोहादेः प्रत्यग्याथात्म्यवेदिनः ।।
आगमैस्तु निषिद्धत्वात्कुतस्तस्येह संभवः ।। १०० ।।
आत्मक्रीड आत्मरतिक्रियावानिति चाऽऽगमः ।।
तथाऽऽत्ममिथुन इति यस्त्वात्मरतिरित्यपि ।। १०१ ।।
कार्यकारणसंबन्धः साविद्यस्यैव युक्तिमान् ।।
अपूर्वानपराद्युक्तेर्न ध्वस्तान्ध्यस्य युज्यते ।। १०२ ।।
अप्युत्पन्नात्मबोधानामधिकारासमाप्तितः ।।
अरत्यादि यथा दृष्टं तथैव स्यात्प्रजापतेः ।। १०३ ।।
अप्रविष्टस्वभावस्य सशब्देन परिग्रहात् ।।
स एष इत्यत्र वाक्ये नैवाऽऽकस्मिकशब्दनम् ।। १०४ ।।
असंतोषाक्षमाहेतोश्चेतसो याऽनवस्थितिः ।।
सा विध्वस्तात्ममोहस्याप्यरतिः संबभूव ह ।। १०५ ।।
यतोऽरतिग्रहग्रस्तधिषणोऽभूत्प्रजापतिः ।।
एकाकी तेन तत्सृष्टावेको न रमते नरः ।। १०६ ।।
श्रौत्वाऽनया प्रसिद्ध्या तु कार्यलिङ्गेश्च कारणम् ।।
सदाऽनुमिन्वते सांख्यास्तथा चान्येऽपि वादिनः ।। १०७ ।।
अरत्यपनुनुत्सुः सन्स द्वितीयं यथारूचि ।।
विराडैच्छदृतेऽविद्यां नेच्छेशस्योपपद्यते ।। १०८ ।।
सोऽरत्यतिग्रहाविष्टस्तदपध्वस्तये विराट् ।।
संसक्तजायापुंमानो यावांस्तावान्वभूव ह ।। १०९ ।।
स्रीपुमांसौ परिष्वक्तौ यावन्मानौ बभूवतुः ।।
स तावत्परिमाणोऽभूद्योगेन परमेश्वरः ।। ११० ।।
इच्छामात्रमरत्युत्थं पुंस्यलब्धस्थिति स्रियम् ।।
प्रयुङ्के योग्यतस्तस्यास्तदलब्ध्वाऽरतिः प्रभोः ।। १११ ।।
उपस्थिते च मनसि तस्य योषिदभूत्क्रतोः ।।
सत्यसंकल्पहेतोः स स्रीसक्त इव चाभवत् ।। ११२ ।।
मिथुनद्वारिका याऽस्य सृष्टिः सैवैधुनोच्यते ।।
यतोऽसाविममेवाथ द्विधाऽऽत्मानमपातयत् ।। ११३ ।।
इममेवेत्यवधृतेर्न विराजो द्विधाऽभिधा ।।
यः स्रीपुंस्परिमाणोऽभूत्स एवातो द्विधाकृतः ।। ११४ ।।
पातनादेव निर्वृत्तेः पतिपत्न्यौ जगत्यपि ।।
योषिद्विदलवद्भाति पुंसः शुक्त्यादिभागवत् ।। ११५ ।।
स्त्याकाङ्क्षो हि तु भागोऽयं पुमाकाशस्ततः स्रिया ।।
सम्यगापूर्यते व्योम शुक्तिसंपुटवद्ध्रुवम् ।। ११६ ।।
विराजममृजद्ब्रह्मा सोऽसृजत्पुरुषं विराट् ।।
पुरुषं तं मनुं विद्धि यस्येयं मानवी प्रजा ।। ११७ ।।
तां स्रियं मैथुनेनाथ मनुः समभवत्तदा ।।
स्वकर्मभिर्नियुक्तः संस्तथा चोत्पाद्य कर्मभिः ।। ११८ ।।
भूरिजात्यभिसंबन्धो जन्यकर्मवशात्स्रियाः ।।
मनोश्चैवं समर्जेदमापिपीलिकमात्मनः ।। ११९ ।।
द्वंद्वयुक्तं जगत्यस्मिन्यावत्किंचित्समीक्ष्यते ।।
तदस्राक्षीन्मनुः सर्वे स्रीपुंद्वंद्वप्रयोगतः ।। १२० ।।
मनोः सशतरूपस्य पिण्डसृष्टिरिहोदिता ।।
सोमाग्नीन्द्रादिका याऽपि साऽप्युक्तवदपेक्ष्यसः ।। १२१ ।।
जगत्सृष्ट्वाऽऽत्मनः साक्षाज्ज्ञानकर्मादिसाधनः ।।
अवेत्सृष्टं जगत्स्रष्टा ह्यहं वावाखिलं जगत् ।। १२२ ।।
अहं वाव जगत्सृष्टं यतोऽसृक्ष्यहमेव तत् ।।
सृष्टिनामा मनुर्जात एतस्मादेव कारणात् ।। १२३ ।।
यथा मनुरिदं सृष्टमहमस्मीत्यबुध्यत ।।
एवमन्योऽपि यो वेद सृष्टिकृत्स्यादसावपि ।। १२४ ।।
मृष्टानामथ भूतानामग्न्यादिप्रमुखा इमाः ।।
अनुग्रहीत्रीर्वक्ष्यामीत्यतः प्रववृते श्रुतिः ।। १२५ ।।
भेदादधिकृतेरेषामग्न्यादीनामनेकधा ।।
भेदो वर्णेष सर्वेष ब्रह्मक्षत्र्रादिलक्षणः ।। १२६ ।।
अनुग्राहकदेवानां सर्गोऽयं प्रस्तुतो महान् ।।
तत्राग्नेरुदितोत्पत्तिर्न त्विन्द्रादेरिहोत्यते ।। १२७ ।।
अविद्याधिकृतौ तेषां सृष्टिरूर्ध्वे प्रवक्ष्यते ।।
कर्माधिकृतिसंबन्धप्रतिपत्त्यर्थमेव तु ।। १२८ ।।
तं सर्गमुक्तवत्सर्वमपेक्ष्येहोपसंहृतिः ।।
अविद्वद्देवताभित्तिप्रतिषेधाय सांप्रतम् ।। १२९ ।।
गुणोत्पत्तिक्रियारूपस्तुतिनामाद्युपाधिभिः ।।
विभित्सन्ति स्वतोऽभिन्नां देवतां मूढदृष्टयः ।। १३० ।।
यदिदं कर्मिणः प्राहु कर्मभूमावमेधसः ।।
अमुमग्निममुं सोमं यजेति यजिसंश्रवात् ।। १३१ ।।
यजेति लिङ्गान्निन्दैषा कार्मिणामेव गम्यते ।।
न तु विध्वस्तमोहानां प्रत्यङ्भात्रैकशायिनाम् ।। १३२ ।।
यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।।
आत्मन्येव च संतुष्टस्तस्य कार्यं न विद्यते ।। १३३ ।।
उत्पन्नैकात्म्ययाथात्म्यभास्वद्विज्ञानभास्कर -
संप्लुष्टाविद्याबहुलतमसां कर्मनिह्नुतिम् ।। १३४ ।।
सर्वकर्माधिकाराणां निषेधं प्रत्यपीपदत् ।।
पुराणः शाश्चतो विष्णुः प्रपन्नाय किरीटिने ।। १३५ ।।
मिथो भिन्नं यदाहुस्त एकैकं देवमध्वरे ।।
तदसत्प्रतिपत्तव्यं यतोऽभिन्नैव देवता ।। १३६ ।।
भेदग्राहि न नो मानं घटादावपि विद्यते ।।
किमु निःशेषभिन्नार्थव्यापिन्यात्मन्यसौ मयि ।। १३७ ।।
नाभावारादिवद्विश्चमध्यात्मादिविभागवत् ।।
ओतप्रोतात्मना तस्थौ विराट्मूत्रादिवस्तुषु ।। १३८ ।।
विविधाऽस्यै व सा सृष्टिरिता हेतुसमीरणम् ।।
कारणं न विहायेह कार्यमन्यत्र वर्तते ।। १३९ ।।
यत एवमतो देवाः सर्वेऽपि स्युः प्रजापतिः ।।
तस्यां तस्यामधिकृतौ तत्तद्रूपं प्रपद्यते ।। १४० ।।
एक एव तु विश्वात्मा मायया मोहयञ्जगत् ।।
एकतां बहुतामेति कुम्भवन्मणिसंश्रय़ात् ।। १४१ ।।
अभिन्न एव भूतात्मा प्रतिभूतसमाप्तितः ।।
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। १४२ ।।
अत्र विप्रतिपद्यन्ते तदन्यात्मनिषेधिनः ।।
हिरण्यगर्भ एवाऽऽत्मा यः परात्मेति गीयते ।। १४३ ।।
संसार्येवेह स इति तथाऽन्येऽपि प्रचक्षते ।।
पक्षयोरनयोः श्रेयान्कः पक्ष इति चिन्त्यते ।। १४४ ।।
विरिञ्च एव तु परो मन्त्रब्राह्मणवाक्यतः ।।
इन्द्रमित्यादिमन्त्रोक्तिरेष ब्रह्मेति च श्रुतिः ।। १४५ ।।
एतमेके वदन्त्यग्निं योऽसावितिस्मृतेरपि ।।
संसार्येव स विज्ञेयः श्रुतिमन्त्रस्मृतीरणात् ।। १४६ ।।
पाप्मदाहारतिभीतिमर्त्यत्वादिश्रुतेर्मितेः ।।
हिरण्यगर्भमिति च स्मार्तान्यपि वचांसि नः ।। १४७ ।।
ब्रह्मा विश्वसृजो धर्म इति कर्मफलात्मता ।।
स्मृत्याऽप्यभाणि बहुशः कस्य संसारिरूपता ।। १४८ ।।
मिथोविरुद्धवादित्वाद्दूयोरागमयोरपि ।।
अप्रामाण्यप्रसक्तिश्चेन्न क्लृप्त्यन्तरसंश्रयात् ।। १४९ ।।
प्रत्यगज्ञानजाऽनेकविविधोपाधिसंगतेः ।।
विरुद्धार्थत्ववचसां स्यादेकत्रापि संभवः ।। १५० ।।
अपास्ताविद्यातज्जत्वादस्थूद्युक्तिगोचरः ।।
स्वाभासाविद्योपाधिः सन्साक्ष्यन्तर्यामितां व्रजेत् ।। १५१ ।।
तथा हिरण्यगर्भत्वं बुद्ध्युपाधिः स एव तु ।।
तमःसत्त्वरजोयोगाद्याति क्षेत्रज्ञतामजः ।। १५२ ।।
अभिन्नबुद्ध्याऽभिन्नत्वं भिन्नधीभिश्च भिन्नताम् ।।
एति चित्स्वतमोहेतोर्म किंचिदपि दुःस्थितम् ।। १५३ ।।
अशनायावदुत्पत्तेरुत्पन्नाः प्राणिनोऽखिलाः ।।
अत्तारोऽतोऽन्नविरहान्नालं स्थानाय संहताः ।। १५४ ।।
तस्मात्सोमान्नसृष्ट्यर्थं परो ग्रन्थोऽवतार्यते ।।
यत्किंचेदं जगत्यस्मिन्नार्द्रं वस्तूपलक्ष्यते ।।
रेतसस्तत्ससर्जेश उत्पन्नस्थितयेऽशनम् ।। १५५ ।।
जगत्कारणरूपिण्य आपो रेतोभिधा इह ।।
सोम एवेत्यवधृतेरग्नीषोमव्यवस्थितिः ।। १५६ ।।
नानाक्रियाभिसंबन्धादग्निः सोमश्च गम्यताम् ।। १५७ ।।
सोम एवेति तं विद्याद्यद्यग्निरपि हूयते ।।
सोमोऽप्यग्निरिति ज्ञेयो यदि तत्रापि हूयते ।। १५८ ।।
द्वेधा भिन्नं जगत्सर्वमन्नमन्नाद एव च ।।
अन्नं चराचरं कृत्स्नमन्नादः प्राण उच्यते ।। १५९ ।।
फलाभिधित्सयेदानीं देवसृष्टिविदः श्रुतिः ।।
प्रवर्ततेऽथ सैषेति तत्स्तुतिस्तावदुच्यते ।। १६० ।।
अनुग्राहकदेवानां या सृष्टिरुदिता पुरा ।।
अतिसृष्टिरनुग्राह्यसृष्टेः सा स्यात्प्रजापतेः ।। १६१ ।।
अश्रेयोभ्योऽनुग्राह्येभ्यः ससर्ज श्रेयसः सुरान् ।।
यतोऽतिसृष्टिस्तेनेयं यैषेहाग्न्यादिरीरिता ।। १६२ ।।
मर्त्यो वा यजमानः सन्नस्राक्षीदमृतान्सुरान् ।।
अतिसृष्टिरतः प्रोक्ता साऽतिसाध्वीति निश्चिता ।। १६३ ।।
प्रजापतिरिवैतस्यां सृष्टौ स्यात्सर्गकृन्नरः ।।
यथोक्तसृष्टिविद्यः स्यात्तस्यैतत्फलमीरितम् ।। १६४ ।।
अविद्यापटसंवीतचक्षुषामियदेव तु ।।
वैदिकं साधनं ज्ञेयं ज्ञानकर्मस्वभावकम् ।। १६५ ।।
कर्त्रादिकारकापेक्षं विरिञ्चान्तफलप्रदम् ।।
व्याकृतं तदशेषेण श्रुत्या व्याख्यायि यत्पुरा ।। १६६ ।।
अथैतस्य यथोक्तस्य साध्यसाधनरूपिणः ।।
जगतो व्याकृतस्याभूद्बीजावस्थाऽविनश्चरी ।।
तन्निर्दिदिक्षया यत्नात्प्रवृत्तैषा परा श्रुतिः ।। १६७ ।।
संसृत्यनर्थस्य यतो निदानं सैव नापरम् ।।
यतो मूलमनर्थानामात्माज्ञानं जगत्यपि ।। १६८ ।।
तद्ध्वंसादेव निःशेषपुमर्थाप्तिरतो भवेत् ।।
जिहासितस्यानर्थस्य हेतुः स्यात्सशरीरता ।। १६९ ।।
न वै सशरीरस्येति श्रुतेरध्यवसीयते ।।
धर्माधर्मौ च देहस्य योनिरित्यागमाश्रयात् ।। १७० ।।
विहितं प्रतिषिद्धं च कर्म मूलं तयोरपि ।।
न ह्यक्रियस्य संबन्धो धर्मोणास्तीतरेण वा ।। १७१ ।।
नाकारकस्य जगति क्रियया संगतिस्तथा ।। १७२ ।।
तद्भावभावहेतुत्वात्कारकत्वस्य कारणम् ।।
रागद्वेषौ, न तौ मुक्त्वा जगत्यन्यत्प्रवर्तकम् ।। १७३ ।।
स यथाकाम इत्युक्त्वा क्रत्वादेः प्रसवं श्रुतिः ।।
कामाभावे च तद्धानिं योऽकामश्चेति चावदत् ।। १७४ ।।
साध्वसाध्विति चाध्यासौ मूलं विद्या तयोरपि ।।
रागद्वेषौ यतो दृष्टौ नैवर्ते साध्वसाधुनी ।। १७५ ।।
अन्तरेण प्रमेयार्थं नापि ते साध्वसाधुनी ।।
साध्वसाध्विति वा ज्ञानं ज्ञातमेयस्य जायते ।। १७६ ।।
प्रमातृत्वादिसंबन्धो नासदात्मकवस्तुनि ।।
नञ्घटाद्यर्थविज्ञानं सत्येव जगतीष्यते ।। १७७ ।।
प्रत्यग्याथात्म्यसंमोहमृते सत्त्वं न कुत्रचित् ।।
प्रत्यग्याथात्म्यसंबुद्धौ न सत्तन्नासदुच्यते ।। १७८ ।।
असाधारणमज्ञानं प्रतीच्येव यतः स्थितम् ।।
एतत्प्रमेयमेवातः प्रमाणं नान्यदिष्यते ।। १७९ ।।
एवं प्रमेयसिद्ध्यर्थं प्रवृत्तैषोत्तरा श्रुतिः ।।
क्रियाकारकरूपेऽस्मिन्व्यवहारे तमोन्वयात् ।।
अक्रियाकारकं वस्तु पारोक्ष्यान्नैव लभ्यते ।। १८० ।।
तद्ध्यदृष्टं सदज्ञानकार्यं स्रगिव पन्नगम् ।।
सर्वं बिभर्त्यसक्तं सदसक्तमिति च स्मृतेः ।। १८१ ।।
अपूर्वाद्यात्मकं वस्तु यत्र साक्षात्प्रसिध्यति ।।
तत्कार्त्स्न्याल्लभ्यते तत्र व्यवहारो न मोहजः ।। १८२ ।।
यथासिद्धानुवादेन पूर्वं नो ह्यभ्यधात्स्फुटम् ।। १८३ ।।
पदानीह तदर्थांश्च प्रसिद्धानेव लोकतः ।।
आदाय कर्मशास्रं तन्निषेधविधिवोधकृत् ।। १८४ ।।
इतः परं वस्तुतत्त्वपरीक्षणकृतक्षणा ।।
श्रुतिः प्रवृत्ताऽतस्तावत्प्रमेयोऽर्थोऽत्र चिन्त्यते ।। १८५ ।।
संसाराख्यमहाव्याधेः किं मूलमिति चिन्त्यते ।।
तद्ध्वस्तये चिकित्सेयं तदा फलवती भवेत् ।। १८६ ।।
ऊर्ध्वमूल इति तथा मन्त्रवर्णोऽपि विद्यते ।।
गीतास्वपि तथैवैतदूर्ध्वमूलमितीरणम् ।। १८७ ।।
अशेषानर्थमूलस्य प्रत्यगज्ञानरूपिणः ।।
ध्वस्तौ ध्वस्तिरनर्थानां पुमर्थश्च समाप्यते ।। १८८ ।।
निरस्तातिशयानन्दरूपता प्रत्यगात्मनः ।।
अथैष यो वै भूमेति श्रुत्यैव प्रतिपाद्यते ।। १८९ ।।
स्वत आनन्दयाथात्म्यात्कुतो दुःखेन संप्लुतिः ।।
तथाऽपि निह्नुते शास्रं न लिप्यत इतीरणात् ।। १९० ।।
अज्ञातात्मैकसंसिद्धबीजावस्थमिदं जगत् ।।
तदित्यनेनाभ्यधायि परोक्षार्थाभिधायिना ।। १९१ ।।
अव्याकृतस्य जगतो भूतकालाभिसंगतेः ।।
सुखावबुद्धये हेति निपातोऽत्र प्रयुज्यते ।। १९२ ।।
नामरूपादिविकृतं पराह्भानैकगोचरः ।।
सहस्रभेदवत्साक्षादिदमा जगदुच्यते ।। १९३ ।।
सामानाधिकरण्यस्य तदिदंपदयोः श्रुतेः ।।
कार्यकारणयोर्नित्यमभेदोऽध्यवसीयते ।। १९४ ।।
न क्रियाकार्यविरहे कारणं सिध्यति क्वचित् ।।
निष्क्रियं कारणं चेत्स्यात्तद्वन्नित्यं फलोत्थितिः ।। १९५ ।।
तयोश्च युगपद्भावे न स्यात्कारणनिश्चितिः ।।
क्रियान्तरप्रसक्तेश्च तत्कार्यत्वेऽनवस्थितिः ।। १९६ ।।
कार्यं चाक्रियमाणं सन्न कार्यत्वं समश्नुते ।।
अकर्तृकं चेत्कार्यं स्यात्कारणं कार्यतां व्रजेत् ।। १९७ ।।
कारणत्वान्सदन्यस्य कार्यत्वाच्च सतस्तथा ।।
अन्योन्याव्यतिरेकाच्च कुतो नाशादिसंभवः ।। १९८ ।।
क्रिया वा तत्फलं वा स्यात्कारकं वा न किंचन ।।
निरन्वयोऽयं नाशः स्यादेषामन्यतमोऽपि न ।। १९९ ।।
क्रियायाः फलरूपेण ध्वस्तिर्नावस्थितेर्भवेत् ।।
तेन तेन विशेषेण कारणं प्रथते सदा ।। २०० ।।
यता जन्मादिकर्तृत्वाद्वीजं नैव विनश्यति ।।
नाशेऽपि तस्य नंष्ट्वत्वान्न नंष्टुः स्याद्विनाशिता ।। २०१ ।।
एवं चेन्न सतो नाशो नोत्पत्तिरसतस्तथा ।।
अव्याकृताभिधानाच्च कार्यस्य स्यात्कदाचन ।। २०२ ।।
तत्त्वबोधातिरेकेण न नाशोऽन्यो यथा तथा ।।
महताऽतिप्रयत्नेन ह्युदर्केऽपि प्रवक्ष्यते ।। २०३ ।।
नामरूपाद्यभिव्यक्तेः प्राक्तनः काल उच्यते ।।
तर्हीति ह्यनभिव्यक्तमव्याकृतगिरोच्यते ।। २०४ ।।
अविद्याकर्मसंस्कारास्तेजोप्क्ष्मासूत्रसंश्रयाः ।।
खे लीनास्त्वस्तितामात्रा अव्यक्ताख्याः सहाऽऽत्मना ।। २०५ ।।
कार्यकारणभेदेन प्रपञ्चो यः पुरोदितः ।।
यश्चोर्ध्वं वक्ष्यते तस्मात्परस्तादेतदुच्यते ।। २०६ ।।
प्रथते वैश्वरूपेण यतोऽविद्यैव सर्वथा ।।
अविद्यामात्रयाथात्म्यादतस्तद्धेदमुच्यते ।। २०७ ।।
मा भूद्व्याकृतधीः पुंसां नामरूपात्मवस्तुनि ।।
ऐकात्म्यव्यक्तितोऽन्यत्र तस्मादेवेति गीरियम् ।। २०८ ।।
सामानाधिकरण्योक्तिर्व्यक्तस्याव्यक्तसिद्धये ।।
न हि कार्त्स्न्यमभिव्यक्तेर्व्यक्तस्याकार्त्स्न्यदर्शनात् ।। २०९ ।।
प्रमात्रादिनिषेधेन श्रुत्याऽव्याकृतमुच्यते ।।
तद्वित्तिसाधनाभावात्कथं तदवगम्यते ।। २१० ।।
विधूताशेषसंबन्धमनन्यानुभवात्मकम् ।।
कूटस्थसंविन्मात्रैकं ब्रह्मास्मीतिस्वभावकम् ।। २११ ।।
अतिरोहितसंवित्कं सदानस्तमितोदितम् ।।
निःसामान्यविशेषं तत्प्रत्यगात्मैकनिष्ठितम् ।। २१२ ।।
स्वतोऽवबुद्धं तद्यस्मान्निरविद्यमतः सदा ।।
संगतिर्निरविद्यस्य नाविद्याहेतुजैर्मलैः ।। २१३ ।।
एवंस्वभावमप्येतदविज्ञातं स्वभावतः ।।
तमोवृत्तमपेक्ष्यैतन्न तु यद्वास्तवं स्वतः ।। २१४ ।।
स्वानुभूत्यनुसारेण यथोक्तोऽर्थोऽवसीयताम् ।।
मानहेत्वतिवर्तित्वान्नेह मात्रादिसंभवः ।। २१५ ।।
तस्मिन्नपहतध्वान्तेऽप्यविद्या स्वानुभूतितः ।।
स्वानुभूतिर्न वेद्मीति प्रागैकात्म्यप्रबोधतः ।। २१६ ।।
ज्ञातात्मतत्त्वो जानाति त्रिकालं तदसंभवम् ।।
अन्यतः संगतिः सेयमविचारितसिद्धिका ।। २१७ ।।
स्वभावव्यतिरेकाभ्यां ध्वान्तसिद्धेरसंभवात् ।।
न चेत्प्रमाणतः सिद्धिरस्याव्याकृतरूपिणः ।।
न चैकात्म्यस्वभावेन कुतस्तन्मानगोचरः ।। २१८ ।।
तद्धेदमित्यनेनोक्तिर्व्याकृताव्याकृतात्मनोः ।।
प्रमाणयोग्यतैवोक्ता न त्वैकात्म्यमितात्मता ।। २१९ ।।
अव्याकृतमविज्ञातं प्रमाणाविषयं मतम् ।।
प्रमाणानभिसंबद्धं प्रमाणाच्चेति साहसम् ।। २२० ।।
अविज्ञातार्थगन्तृणि प्रमाणानीतिवादिनाम् ।।
सर्वेषामभ्युपेतोऽर्थः कुतोऽसाविति चिन्त्यते ।। २२१ ।।
ज्ञातो वाऽर्थोऽथवाऽज्ञात उभयं वा न चोभयम् ।।
प्रमाणानां प्रमेयः स्यात्सर्वमेतद्विचार्यते ।। २२२ ।।
मेयमानत्वसंभित्तौ न पश्यामोऽत्र साधनम् ।।
ज्ञातस्याव्यतिरेकित्वादज्ञातस्याप्यमानतः ।। २२३ ।।
जगत्यर्थो हि यः कश्चिज्ज्ञात एव स बुद्धिवत् ।।
मानादेव स विज्ञात इत्येतत्स्यात्कुतोऽमितेः ।। २२४ ।।
मानातिरेकासंसिद्धेर्मेय एव तथा न किम् ।।
न हि दीपान्तराद्दीपो भारूपत्वं प्रपद्यते ।। २२५ ।।
ज्ञातरूपातिरेकेण नान्यद्रूपं समीक्ष्यते ।।
एवं चेन्मानतो मेयो विज्ञात इति का प्रमा ।। २२६ ।।
न चापर उपायोऽस्ति मेयसद्भावसिद्धिकृत् ।।
मानेभ्यस्तत्फलासूतेरन्धकारप्रनृत्तवत् ।। २२७ ।।
स्वत एव प्रसिद्धश्चेत्प्रमेयोऽर्थस्तथाऽपि न ।।
अनन्यायत्तसंसिद्धेर्मेयत्वं किंनिबन्धनम् ।। २२८ ।।
निःसाधनो न साध्योऽस्ति नासाध्यं साधनं क्वचित् ।।
तुल्यशक्तिमतां नापि मिथोपेक्षाऽस्ति कुत्रचित् ।। २२९ ।।
नासिद्धयोः स्वतोऽपेक्षा सिद्धयोश्चापि नेष्यते ।।
नापेक्ष्यापेक्षकत्वं हि लोकेऽप्यतिशयं विना ।। २३० ।।
नापि सिद्धः स्वतोऽसिद्धं नृशृङ्गवदपेक्षते ।।
तथाऽसिद्धः स्वतः सिद्धं नात्यन्ताभावरूपतः ।। २३१ ।।
अपेक्षते चेत्सिद्धोऽसौ नासिद्धोऽपेक्षितुं क्षमः ।।
येनातोऽज्ञानतः सिद्धिं स्वतःसिद्धोऽप्यपेक्षते ।। २३२ ।।
विश्वेश्वरोऽपि प्राहैतत्प्रपन्नाय किरीटिने ।।
भावाभावत्वमज्ञानादतद्वत्येव कल्पिम् ।। २३३ ।।
नासतो विद्यते भावो नाभावो विद्यते सतः ।।
उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ।। २३४ ।।
ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वाऽमृतमश्नुते ।।
तथा न जायत इति विध्वस्ताशेषकल्पनम् ।। २३५ ।।
वासुदेवः सर्वमिति प्रत्यक्षश्रुतिपूर्वकम् ।।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ।। २३६ ।।
सत्यज्ञानादिरूपस्य प्रत्यगात्मन एव च ।।
कारणत्वं सुविस्पष्टं श्रुतौ हि बहुशः श्रुतम् ।। २३७ ।।
अज्ञातात्मातिरेकेण ब्रुवतः कारणं तथा ।।
सम्यग्ज्ञानान्न मुक्तिः स्यान्न ज्ञानं वस्तुनुत्कचित् ।। २३८ ।।
कर्मभ्योऽपि न मुक्तिः स्यात्कर्मापि न हि वस्तुनुत् ।।
तस्यानित्यफलोत्पत्तौ प्रभविष्णुत्वकारणात् ।। २३९ ।।
कूर्मलोमादिवच्चेत्स्यादबुद्धत्वं तथाऽपि वः ।।
स्वतः सर्वज्ञतैव स्यान्न वस्त्वज्ञातमस्ति हि ।। २४० ।।
न च मानात्प्रसिद्धिः स्यात्कूर्मलोमादिवस्तुनः ।। २४१ ।।
ज्ञातार्थव्यतिरेकेण मानानां मानता यतः ।।
मेयार्थापह्नुतिश्च स्यान्नाज्ञातमिति जल्पतः ।। २४२ ।।
ततश्च वेदसिद्धान्तसंत्यागः कारणादृते ।।
न भिद्यते प्रमेयोऽर्थो मानाद्येषां च वादिनाम् ।।
तेषां दुःशकमत्यन्तमबुद्धार्थावबोधनम् ।। २४३ ।।
ज्ञानमेयप्रभेदेऽपि मानस्य स्वार्थरूपिणः ।।
बोद्धराद्धान्तसक्तिः स्यात्स्वार्थस्य क्षणिकत्वतः ।। २४४ ।।
स्वार्थं प्रत्येव संसिद्धेः परार्थस्येह वस्तुनः ।।
स्वप्नादिवदनात्मार्थो मृषा स्यात्क्षणिकोऽपि वा ।। २४५ ।।
न च सौगतसिद्धान्तस्तत्सिद्धौ मित्यभावतः ।।
मेयमानैकतोऽभावादज्ञातत्वस्य तत्क्षणे ।। २४६ ।।
अथाभ्युपेयतेऽज्ञातः प्रमेयाव्यतिरेकतः ।।
एकत्रापि प्रमाणत्वप्रसिद्ध्यर्थं क्षणात्मनि ।। २४७ ।।
मानात्मकेऽपि मेयेऽर्थे यद्यबुद्धत्वमिष्यते ।।
अज्ञातत्वापनुन्मानात्किमन्यदिति कथ्यताम् ।। २४८ ।।
स्वतो वा परतो वेदमज्ञातत्वं भवद्भवेत् ।।
स्वतश्चेत्तत्तमोवत्स्याज्ज्ञातत्वं रज्जुसर्पवत् ।। २४९ ।।
अथान्यतस्तदज्ञातं किंरूपं वस्त्वितीर्यताम् ।।
मानादवगतं तच्चेन्मैवमव्यतिरेकतः ।। २५० ।।
अन्वयव्यतिरेकाभ्यां यथोक्तोऽर्थः प्रसिध्यति ।।
ताभ्यां विना कुतोऽज्ञायि त्वेवं रूपमितीर्यताम् ।। २५१ ।।
न चेह वास्तवं रूपं तदध्यासेन बाध्यते ।
रज्जुसर्पधिया लोके न रज्जुरितिधीहुतिः ।। २५२ ।।
स्वसंवित्तित्वमात्रे च न तमःसंभवः क्वचित् ।।
तथाऽभ्युपगमे तस्य नापनुत्तिः कुतश्चन ।। २५३ ।।
दुर्वलानां विरुद्धानां बलवद्भिरपाक्रिया ।।
विरुद्धैरेव दृष्टा सा तदैकात्म्ये कथं भवेत् ।। २५४ ।।
बाध्यबाधकयोर्योगः स्वशक्त्यनपहारतः ।।
योऽन्यथा संगतिं ब्रूते चर्मवद्वेष्टयेत्स खम् ।। २५५ ।।
न च जा़ड्यातिरेकेण ह्यविद्या काचिदिष्यते ।।
अविद्यां गमयित्वेति श्रुतितोऽप्यवसीयताम् ।। २५६ ।।
अज्ञातं न यथा मानान्मिथ्याधीसंशयौ तथा ।।
न्यायः पुरोदितः सर्वो यस्मादस्ति तयोरपि ।। २५७ ।।
अपि सर्वप्रमाणानामज्ञातत्वादिसिद्धये ।।
नेक्ष्यतेऽन्यतमं मानं स्वतःसिद्धं न चापि तत् ।। २५८ ।।
न तावदिह संभाव्यं प्रत्यक्षं, तदसंभवात ।।
विषयेन्द्रियसंबन्धविरहात्तदसंभवः ।। २५९ ।।
न च दुःखादिधीवत्स्याज्ज्ञातस्यैवानुभूतितः ।।
प्रत्यक्षार्थवदेवैषा मिथ्याधीरनुभूयते ।। २६० ।।
प्रत्यक्षादिफलं ज्ञानं कथं तस्य प्रमेयता ।।
माफलं न च मेयस्थं क्रियाफलवदिष्यते ।। २६१ ।।
अपि मानाभिसंबन्धो मेयार्थेनैव युक्तिमान् ।।
माफलस्य तु मात्रैव ह्यतोऽन्यत्र वृथा श्रमः ।। २६२ ।।
माफलस्य तु मेयत्वे प्राप्नोतीहानवस्थितिः ।।
प्रमाफलाभिसंबन्धः किंमान इति कथ्यताम् ।। २६३ ।।
इहापि चानवस्थेति नानुमाऽतोऽत्र युज्यते ।।
न च रागादिसंसिद्धौ मानव्यापार ईक्ष्यते ।। २६४ ।।
रागादेर्नापि चाभावो भावात्तदनुभूतितः ।।
न च कश्चित्फले भेदो मेयमानप्रमातृषु ।। २६५ ।।
मानकार्यं फलं चेत्स्यान्न स्यात्तन्मातृमानयोः ।।
तदभावे च माभावात्कुतस्तत्स्यात्प्रमां विना ।। २६६ ।।
प्रमात्रादेरभावे च नाप्यभावः प्रमेष्यते ।।
सुषुप्ते, मातृपूर्वत्वात्सर्वमाव्यापृतेरिह ।। २६७ ।।
न प्रत्यक्षानुमानाभ्यामतोऽर्थापत्तितोऽपि न ।।
न हि दृष्टं श्रुतं वर्ते साऽर्थापत्तिः प्रसिध्यनि ।। २६८ ।।
सादृश्यासंभवाच्चेह नोपमानस्य संभवः ।।
मिथ्याज्ञानादिसंसिद्धौ न चाभावोऽपि शङ्क्यते ।। २६९ ।।
अत्यन्तापूर्वदृष्टेऽर्थे प्राङ्नाद्राक्षमिमं नगम् ।।
प्रत्यभिज्ञायते साक्षादृष्टपूर्वो यथा तथा ।। २७० ।।
न च मात्रादिसद्भावस्तस्यात्यन्तमदृष्टतः ।।
न प्रमाणान्न चाभावात्प्रत्यभिज्ञात इष्यते ।। २७१ ।।
तस्मात्प्रमाप्रमाभासाप्रमाणानामशेषतः ।।
स्वार्थानन्यप्रमाणात्स्यात्प्रसिद्धिस्तमसस्तथा ।। २७२ ।।
आन्तरं मेयमाश्रित्य स्वतःसिद्धमनन्यमम् ।।
भावाभावादिमद्विश्वं सर्वमेतत्प्रसिध्यति ।। २७३ ।।
मेयार्थानभिसंबन्धान्न यथावस्तुधीरियम् ।।
ज्ञातत्वात्तदभावोऽपि, प्रत्यक्ष्यान्नेष्यते स्मृतिः ।। २७४ ।।
इदं रजतमित्येवंरूपं वस्तु न कुत्रचित् ।।
न न्नुक्तौ रजतज्ञानं नेदंता रजतेऽस्ति नः ।। २७५ ।।
तदन्यत्र द्वयाभावात्साक्ष्यादावपि नेष्यते ।।
न चेहार्थावबोधोऽस्ति मिथ्याज्ञानत्वकारणात् ।। २७६ ।।
मिथ्याज्ञानादिसंसिद्धौ क उपाय इतीर्यताम् ।।
सम्यग्धीतोऽथ तत्सिद्धिर्न, तस्या मेयसंगतेः ।। २७७ ।।
मेयप्रमामृते कार्यं मानानां नान्यदिष्यते ।।
न च सत्त्वादिमात्रेण रूप्यादिमितिसंभदः ।। २७८ ।।
तस्यासाधारणात्मोत्थविज्ञानविषयत्वतः ।।
तस्माद्रजतसंस्कारसंस्कृतात्स्वान्ततः स्मृतिः ।। २७९ ।।
प्रथतेऽविकृतात्मैकनित्यदृष्टेः परात्मनः ।। २८० ।।
ज्ञानज्ञात्रतिरेकेण तमस्यपि न विद्यते ।।
मेयं वस्तु ततोऽज्ञानं प्रत्यक्षं सप्रमातृकम् ।। २८१ ।।
न हि संविदनारूढः प्रमात्रादिः प्रसिध्यति ।।
संविन्मात्रैकयाथात्प्रमात्रादेरनात्मनः ।। २८२ ।।
ज्ञातोऽयमर्थोऽज्ञातो वा धीरियं कर्तृसंश्रया ।।
स्मृतिः, सा न यथावस्तु, नेतासावप्रमोदिता ।। २८३ ।।
न हि वस्त्वनुरोध्येतज्ज्ञाताज्ञातत्वलक्षणम् ।।
रूपं वस्त्वपरिज्ञानसमुत्थं ज्ञातृसंश्रयम् ।। २८४ ।।
ज्ञाताज्ञातविभागोऽतः स्वतःसिद्धात्ममातृकः ।।
संविदा ज्ञाततासिद्धिर्मितेरपि न मात्मना ।। २८५ ।।
वस्त्वज्ञातं समुद्धिश्य तत्प्रमित्सन्ति मानिनः ।।
ज्ञातत्वकार्यतश्चातः सिद्धं तत्फलतोऽथवा ।। २८६ ।।
यतोऽज्ञातत्वसंसिद्धर्ज्ञातत्वस्यापि चाञ्जसा ।।
तत एव च मानत्वं संविदर्ते न तत्र्रयम् ।। २८७ ।।
षष्ठगोचरवन्नेदमज्ञातत्वं, समीक्ष्यते ।।
न च प्रत्यक्षवस्तिद्धं, स्वानुभूतिसमाश्रयात् ।। २८८ ।।
प्रमात्रादिविविक्तार्थमनुभूयोत्थितस्ततः ।।
नावेदिपमिति प्राह स्वानुभूत्यनुसारतः ।। २८९ ।।
प्रमात्राद्युत्थितेः पूर्वं चिदन्यानन्वयात्तमो -
विशेषणा चिदेवैका स्वानुभूत्यैव गम्यते ।। २९० ।।
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।।
अप्रतर्क्यमविज्ञेयमित्येतत्स्वानुभूतितः ।। २९१ ।।
प्रथते यः स्वयं साक्षादज्ञातत्वादिभूमिषु ।।
स प्रमेयः स्वयंज्योतिः प्राक्प्रसिद्धेः प्रमातृतः ।। २९२ ।।
एष एवानवगतः स्वतोऽवगततत्त्वकः ।।
एतावन्मात्रसंव्याप्तेरज्ञानादेः पुरा मितेः ।। २९३ ।।
यथेह घटविज्ञाने घटाकारोऽनुभूयते ।।
ज्ञातृतत्साक्षिणौ चैवं नाज्ञाने साक्षिणोऽपरम् ।। २९४ ।।
अज्ञातत्वं न मानेभ्यो ज्ञातत्वं तत्कृतं यतः ।।
तैरप्यज्ञातता चेत्स्यात्काऽतिशीतिर्मितेर्भवेत् ।। २९५ ।।
स्वानुभूत्यैव संसिद्धेर्नाज्ञातः खरशृङ्गवत् ।।
संवित्तेरप्यसंबोधात्स्यात्तन्मानव्यपेक्षिता ।। २९६ ।।
प्रत्यक्षकुम्भवत्साक्षात्सुषुप्तेऽनन्यबोधगम् ।।
आत्मा ह्यात्मानमैकात्म्यादात्मना वेत्त्यकारकः ।। २९७ ।।
पराक्प्रवणया दृष्ट्या धीस्थो ज्ञोऽज्ञानमात्मनि ।।
व्योमकार्ष्ण्यादिवत्तज्जं संभावयति न स्वतः ।। २९८ ।।
नैवाज्ञानं मृषाज्ञानं संशयज्ञानमीक्ष्यते ।।
प्रत्यक्प्रवणया दृष्ट्या जाग्रत्स्वप्नसुषुप्तिषु ।। २९९ ।।
न सुषुप्तगविज्ञानं नाज्ञासिषमिति स्मृतिः ।।
कालाद्यव्यवधानत्वान्न ह्यात्मस्थमतीतभाक् ।। ३०० ।।
न भूतकालस्पृक्प्रत्यङ्न चाऽऽगामिस्पृगीक्ष्यते ।।
स्वार्थदेशः परार्थोऽर्थो विकल्पस्तेन स स्मृतः ।। ३०१ ।।
न हि प्रत्यक्षविज्ञानादतीतत्वं समीक्ष्यते ।।
न चानागतता मेये मिथ्याज्ञानमतो भवेत् ।। ३०२ ।।
यत्तत्त्वकं स्याद्यद्वस्तु न तत्तदतिवर्तते ।।
नाज्ञातरज्जुजः सर्पो रज्जुमुल्लङ्घध्य वर्तते ।। ३०३ ।।
तस्मात्तिसृष्ववस्थासु ह्यागमापायिनीष्वजः ।।
स्वतोऽलुप्तदृशा यस्मादात्माऽऽत्मानं सदेक्षते ।। ३०४ ।।
देहान्तरेष्वपि तथा ह्यन्योन्यव्यभिचारतः ।।
प्रत्यक्प्रत्यय एवैकः सर्वत्राव्यभिचारवान् ।। ३०५ ।।
चैतन्यमात्ररूपं सत्प्रथतेऽज्ञानमात्मनि ।।
प्रत्यक्कूटस्थानिष्ठत्वात्तद्वाध्यं कारणेतरम् ।। ३०६ ।।
नैवं तत्स्यात्स्वकार्येषु, तेषां ताद्रूप्यहेतुतः ।।
जडस्वभावतो नान्यद्रूपं कार्येषु गम्यते ।। ३०७ ।।
एवं चेत्कोऽनयोर्भेदः कार्यकारणयोर्मितेः ।।
अन्वयव्यतिरेकाभ्यां न जाड्यमतिवर्तते ।। ३०८ ।।
कार्यकारणरूपाभ्यामतद्वत्तत्त्विका ततः ।।
आत्माविद्यैव सर्वत्र प्रथते स्वात्मसाक्षिका ।। ३०९ ।।
नैवाऽऽत्मना स्वभावेन स्वात्मानं लभते जडः ।।
यतोऽतः स्वार्थदेशः स स्वार्थश्चानन्यसिद्धिकः ।। ३१० ।।
स्वतोबुद्धे कुतोऽविद्या तामृते संसृतिः कुतः ।।
इतिबुद्धात्मतत्त्वस्य गीरियं न तमस्विनः ।। ३११ ।।
यथोच्छिन्नात्ममोहस्य निह्नोतुरपि निह्नुतिः।।
एवं प्रागात्मसंबोधादद्वयैकात्म्यनिह्रुतिः ।। ३१२ ।।
काकोलूकानिशेवायं संसारोऽज्ञात्मवेदिनोः ।।
या निशा सर्वभूतानामित्यवोचत्स्वयं हरि ।। ३१३ ।।
तस्मान्न वास्तवं रूपं तद्ध्वान्ताद्यपनोदकृत् ।।
तस्मिन्सत्येव मोहादिव्युत्पत्तेः प्रागभूद्यतः ।। ३१४ ।।
प्रमाणारूढमेवैतद्धन्त्यविद्याद्यशेषतः ।।
ब्रह्मविद्भिरतो यत्नात्प्रमाणमिह संश्रितम् ।। ३१५ ।।
उताविद्वानिति तथा प्रश्नपूर्वं स्वयं श्रुतिः ।।
निर्णेनेक्ति स्फुटं वस्तु यथोक्तेनैव वर्त्मना ।। ३१६ ।।
आत्मासाधारणार्थोत्थरूपमात्रसमाश्रयात् ।।
तन्मानमपि मानत्वं लभते, न तु केवलम् ।। ३१७ ।।
तावन्मात्रैकयाथात्म्यप्रत्यगात्मत्वकारणात् ।।
पराक्ष्विव न भेदोऽत्र मात्रादेः प्रत्यगात्मनि ।। ३१८ ।।
वचिदाभासवन्मोहपृष्ठेनैवैति कर्तृताम् ।।
टस्थोऽपि स्वतः प्रत्यङ्नाऽऽत्मवृत्तव्यपेक्षया ।। ३१९ ।।
सर्वधीविक्रियासाक्षिण्येवं सिद्धे स्वतो दृशौ ।।
कार्यं येऽनुभवं प्राहुर्वाच्यं तैः कार्यसाधनम् ।। ३२० ।।
न जायतेऽज इत्यादि विज्ञानघन इत्यपि ।।
कृत्स्नपुंविक्रियोत्सारि वाक्यं कस्मादुपेक्ष्यते ।। ३२१ ।।
प्रमात्राद्युत्थितेः पूर्वं कारकं दुर्लभं मितेः ।।
तदभावात्क्रियाभावस्तामृते कार्यता कुतः ।। ३२२ ।।
एतच्चानुभवादेव भवताऽप्यभ्युपेयते ।।
कारकव्यापृतिस्तत्र निपुणेनापि नेक्ष्यते ।। ३२३ ।।
अकुर्वत्कारणं चेत्स्यात्तद्वत्कार्यं सदा भवेत् ।।
कार्येतरानवसितिः संभूतौ युगपत्तयोः ।। ३२४ ।।
विरुद्धानेककार्याणामेकस्मादेव कारणात् ।।
अकुर्वतः प्रसक्तिः स्यादकुर्वत्त्वाविशेषतः ।। ३२५ ।।
अथ कुर्वदभीष्टं तत्तत्कार्यं तर्हि भण्यताम् ।।
अकार्यं कारकमिति सुप्तोन्मत्तप्रभाषितम् ।। ३२६ ।।
मयाऽध्यक्षेण प्रकृतिः सूयते सचराचरम् ।।
इति श्रीमत्सुरेशस्य वाक्यमेवं समञ्जसम् ।। ३२७ ।।
प्रमेये च क्रियायां च प्रमाणेऽथ प्रमातरि ।।
तच्छक्त्युपाधिहेतुत्वाज्जायमानेव चिद्ध्रुवा ।। ३२८ ।।
यथा सद्व्यतिरेकेण न किंचिद्वस्तु सिध्यति ।।
तद्वदव्यतिरेकेण घटाभावाद्यसंभवात् ।। ३२९ ।।
न हि सद्व्यतिरेकेण त्वसद्वस्त्वपि सिध्यति ।।
तस्यापि सदपेक्षत्वात्किमन्यत्स्यात्सता विना ।। ३३० ।।
यथैवं संविदर्तेऽसन्नैति संभावनामपि ।।
सदप्यभावरूपं वा तद्वदव्यतिरेकतः ।। ३३१ ।।
अविद्या वाऽथ तत्कार्यं नाभेदान्नातिरेकतः ।।
सिद्धायते यतोऽतः स्यादविचारितसिद्धिकम् ।। ३३२ ।।
नीलोत्पलदलाभं खं द्विरेफोदरवत्तमः ।।
अविचारितमिद्ध्येवं तमस्तज्जं च वीक्ष्यताम् ।। ३३३ ।।
स्वमहिम्ना न संसिध्येत्स्वतोऽनवगतात्मकम् ।।
भावाभावौ न वस्त्वेति प्रत्याख्यातं यदात्मना ।। ३३४ ।।
तस्मादजायमानैव जायमानेव लक्ष्यते ।।
अनूभूतिस्तदज्ञानहेतूत्थानात्मजन्मना ।। ३३५ ।।
तद्विनाशेऽषि तत्साक्ष्याद्विनश्यन्तीव लक्ष्यते ।।
यतोऽतः कार्यतां तस्या नेश्वरोऽपि प्रसाधयेत् ।। ३३६ ।।
स्वात्मसाक्षिकतां मुक्त्वा भावाभावात्मवस्तुनः ।।
यतोऽसिद्धिरतः प्रत्यङ्निरस्ताखिलविक्रियः ।। ३३७ ।।
कार्यं सर्वं यतो दृष्टं प्रागभावपुरःसरम् ।।
तस्यापि संवित्साक्षित्वात्प्रागभावो न संविदः ।। ३३८ ।।
प्रमात्राद्यतिरेकेण ह्वसंविदितरूपकम् ।।
मेयं सिद्धमिहैवैतन्न वेदादन्यतः क्वचित् ।। ३३९ ।।
वस्तुवृत्तमपेक्ष्यैतन्न स्वतः परतस्तमः ।।
तज्जं वा तत्तमोऽपेक्ष्य ह्यव्याकृतगिरोच्यते ।। ३४० ।।
चिदाभासं तमो ज्ञेयं, नाज्ञासिषमितीक्षणात् ।।
जगज्जनिस्थितिलया एवंभूते परात्मनि ।। ३४१ ।।
तमःप्रधानः क्षेत्राणां चित्प्रधानश्चिदात्मनाम् ।।
परः कारणतामेति भावनाज्ञानकर्मभिः ।। ३४२ ।।
यावत्कार्यगतं किंचिद्भावनादि समीक्ष्यते ।।
तमसा बीजभूतं तद्व्यज्यते संस्कृतेः पुनः ।। ३४३ ।।
तमो नियामकं यस्मात्स्वकार्याणां तदन्वयात् ।।
ऊर्ध्वं व्यक्तेः पुरा, चैव तदेवातो नियामकम् ।। ३४४ ।।
नियम्यं कार्यमापेक्ष्य नियन्तैष तमोवधिः ।।
तेष्वेव चित्स्वभावः सन्साक्षितां प्रतिपद्यते ।। ३४५ ।।
निगीर्णं सज्जलूकादि दुष्टं देशं यथाऽऽश्रयेत् ।।
भावनाज्ञानकर्माणि तथा यान्ति तमस्विनम् ।। ३४६ ।।
उत्पत्तिस्थितिनाशेषु कारणं नातिवर्तते ।।
कार्यं सर्वं यथा लोके तथेहाप्यवसीयताम् ।। ३४७ ।।
कार्येष्वपि च सर्वेषु कर्तुत्वं यत्समीक्ष्यते ।।
अस्यैव तद्विजानीयादतः सर्वकृदुच्यते ।। ३४८ ।।
तत्तेज ऐक्षत इति तेजोदेहं सदेव तु ।।
उत्तरोत्तरकार्याणां श्रुत्या स्रष्ट्टतयोच्यते ।। ३४९ ।।
तथा संवर्गविद्यायामप्राणः प्राणतां गतः ।।
अध्यात्ममधिदैवं च प्राणवायुतयोदितः ।। ३५० ।।
नामोपक्रममाशान्तमरनाभिनिदर्शनात् ।।
ओतप्रोतं जगत्सर्वं प्राण एवोपदिश्यते ।। ३५१ ।।
तथैवाऽऽकाशशब्देन तत्र तत्रैष एव तु ।।
तदेतत्सत्यमिति च सबीजः पर उच्यते ।। ३५२ ।।
प्राणो ह्येष सर्वभूतैरिति चाऽऽथर्वणे वचः ।।
प्राणबन्धनं सोम्येति सर्वकारणमुच्यते ।। ३५३ ।।
एष स्वकार्यं संश्रित्य नानाभेदान्प्रपद्यते ।।
स्वोत्सृष्टतोयधाराद्यैर्वैश्वरूप्यं रविर्यथा ।। ३५४ ।।
प्राणभूतादिजन्मैव जन्माऽऽत्मन इहोष्यते ।।
वियतोऽजन्मनो जन्म यथा कुम्भादिजन्मना ।। ३५५ ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।।
नाव्याकृतं परादन्यदागमादवगम्यते ।। ३५६ ।।
स्वकार्याण्येव संश्रित्य मृदसाधारणा यथा ।।
सामान्यरूपतामेति स्वकार्यैः कारणं तथा ।। २५७ ।।
तदेतन्नित्यमज्ञानं तज्जकालाद्यनाप्लुतेः ।।
सर्वकालानुवर्त्येव लोके नित्यमितीर्यते ।। ३५८ ।।
नित्यस्यानुच्छित्तिरिति चोद्यस्यापि न संभवः ।।
नित्याज्ञानसमुच्छित्तौ यतः प्रामाण्यमाश्रितम् ।। ३५९ ।।
प्रमान्तरैरविज्ञातं प्रमेयं वस्तु भण्यते ।।
तत्तत्त्वमात्रगं तत्स्थध्वान्तनुन्मानमुच्यते ।। ३६० ।।
आगन्तु चेदिहाज्ञानमनिर्मोक्षः प्रसज्यते ।।
पुरेवानागतं भूयो नैष्यतीत्यत्र का प्रमा ।। ३६१ ।।
कार्यकारणरूपेण द्वयोरव्यतिरेकतः ।।
गुणप्रधानरूपेण कार्यकारणगीरियम् ।। ३६२ ।।
न कारणं विना कार्यं न कार्यं कारणं विना ।।
अन्योन्यापेक्षतः सिद्धेर्विनाऽन्योन्यं न तद्वूयम् ।। ३६३ ।।
भावनाज्ञानकर्मादि कार्योत्पत्तेः प्रयोजकम् ।।
तद्भूतौ तदभिव्यक्तेस्तत्स्वापेऽव्याकृतात्मता ।। ३६४ ।।
स्वकर्तुरुपभोगार्थं कर्माव्याकृतरूपकम् ।।
व्यक्तीभूतं प्रयुङ्के क्ष्माबग्न्यन्तं साधनत्रयम् ।। ३६५ ।।
वाय्वाकाशौ समाश्रित्य पूर्वेषां साधनात्मता ।।
त्रयाणामप्यतस्तानि वाय्वाकाशौ प्रयुञ्जते ।। ३६६ ।।
प्रयोजकप्रयोज्यत्वं कर्मसाधनयोर्भवेत् ।।
स्वस्वामिभोगसिद्ध्यर्थमेवं व्याकृततेष्यते ।। ३६७ ।।
व्यक्तिर्नियतकालैष जगतोऽव्यक्तारूपिणः ।।
अन्तर्यामिकृता चैषा नान्यः संभाव्यते प्रभोः ।। ३६८ ।।
वायोरिव प्रवृत्तिः स्यात्तथा चैवोपसंहृतिः ।।
निर्निमित्तात्तथैवेशाज्जगज्जन्मस्थितिक्षयाः ।। ३६९ ।।
न प्रयोज्यो यदा भोगः स्वाम्यर्थः कर्मणस्तदा।।
हित्वा कर्माखिला व्यक्तीरविशेषात्मतां व्रजेत् ।। ३७० ।।
अस्य द्वैतेन्द्रजालस्य यदुपादानकारणम् ।।
अज्ञानं तदुपाश्रित्य ब्रह्म कारणमुत्यते ।। ३७१ ।।
अज्ञानमात्रोपाधित्वादविद्यामुपितात्मभिः ।।
कौटस्थ्यान्निर्द्वयोऽप्यात्मा साक्षीत्यध्यस्यते जडैः ।। ३७२ ।।
ज्योतिषामपि तज्ज्योतिरसद्धीपरिमोषणात् ।।
तमोरूपामिवाऽऽभाति भानुर्नक्तंदृशामिव ।। ३७३ ।।
मोहतत्कार्यनीडं यत्कूटस्थाभासरूपकम् ।।
ज्ञानं तदविनाभूतः परः साक्षीति भण्यते ।। ३७४ ।।
इदं तत्सर्ववेदेषु यथाभूतार्थवित्तये ।।
सदेवेत्यादिभिर्वाक्यैः कारणं ब्रह्म गीयते ।। ३७५ ।।
सर्वज्ञः सर्वशक्तिश्च सर्वात्मा सर्वगो ध्रुवः ।।
जगज्जनिस्थितिध्वंसहेतुरेष सदेश्चरः ।। ३७६ ।।
यः पृथिव्यामितीशोऽसावन्तर्यामी जगद्गुरुः ।।
हरिर्ब्रह्या पिनाकीति बहुधैकोऽपि गीयते ।। ३७७ ।।
कूटस्थस्य न साक्षित्वं द्वितीयासंगतेर्भवेत् ।।
नाशिनोऽपि न साक्षित्वं नाशेनाव्यतिरेकतः ।। ३७८ ।।
अज्ञानमात्रहेतौ तु सर्वमेतत्समञ्जसम् ।।
कर्तृत्वाद्यन्यथाज्ञानहेतुत्वादात्मरूपिणः ।। ३७९ ।।
प्रत्यग्रूपस्य स्थास्रुत्वाज्ज्ञातुर्मोहेन चान्वयात् ।।
कूटस्थस्यापि साक्षित्वमागमापायिनं प्रति ।। ३८० ।।
आत्मात्मवत्त्वसंबन्ध आत्मात्माज्ञानयोर्मतः ।।
परोऽविवेको भूतानामात्मााविद्येति कथ्यते ।। ३८१ ।।
ईशादिविषयान्तं यत्तदविद्याविजृम्भितम् ।।
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ।।
इति वेदशिरःसूक्तिस्तथा चोद्घुष्यते स्फुटा ।। ३८२ ।।
दैवी ह्येषा गुणमयी मम मायेति च स्मृतिः ।।
वैष्णवी खल्वियं मायेत्यपि लोकेऽपि गीयते ।। ३८३ ।।
मानान्तरानधिगतं मेयं तावन्निरूपितम् ।।
स्वानुभूत्यनुसारेण प्रत्यड्मत्रसतत्त्वकम् ।। ३८४ ।।
एतन्निदानमधुना मिथ्याज्ञानं निरूप्यते ।।
यतो बिभ्यति भूतानि संसारानर्थलक्षणात् ।। ३८५ ।।
यदेव नित्यमज्ञानं मिथ्याज्ञानं तदेव तु ।।
कारणेतररूपेण तयोरव्यभिचारतः ।। ३८६ ।।
हेत्वन्तरानपेक्षं सत्तदव्याकृतरूपकम् ।।
व्यक्ततां स्वयमेवैति, निमित्तं नास्त्यसंहृतम् ।। ३८७ ।।
सुषुप्तादुत्थिती राज्ञः स्वयमेव यथा तथा ।।
जग्धाशेषजगन्मूर्तेरव्यक्ताद्व्याकृतिर्मुहुः ।। ३८८ ।।
अनिश्चिता यथा रज्जुरिति न्यायोपबृंहितम् ।।
स्फुटार्थं गौडपादीयं वचोऽर्थेऽत्रैव गीयते ।। ३८९ ।।
तदिदं नामरूपाभ्यामनामकमरूपकम् ।।
एवं व्याक्रियताज्ञानहेतुमात्रव्यपाश्रयात् ।। ३९० ।।
अभिधानाकृतिर्नामशब्देनेहाभिधीयते ।।
अभिधेयाकृतिस्तद्वद्रूपमित्युपदिश्यते ।। ३९१ ।।
एवं द्वाभ्यां प्रकाराभ्यामीशो व्याकृतजन्मनाम् ।।
व्यवहाराय पर्याप्तो न त्वव्यक्तात्मना यतः ।। ३९२ ।।
नाम्नः सामान्यमात्रस्य त्वसाविति समीरषम् ।।
विशेषनाम्ना संयोज्य देवदत्तादिनोत्यते ।। ३९३ ।।
तदूद्रूपस्य सामान्यं रूपमित्युपदिश्यते ।।
तदुपात्तविशेषं सच्छुक्लकृष्णादिनोच्यते ।। ३९४ ।।
एवेत्यवधृतावेतदात्मवृत्तव्यपेक्षया ।।
आत्माविद्यासमुत्थाभ्यामेव व्याक्रियते परः ।। ३९५ ।।
न तु विध्वस्तनिःशेषप्रत्यगज्ञानतद्भव -
सामान्यभेदैकात्म्याख्यतदनन्यप्रमात्मना ।। ३९६ ।।
आदावव्याकृतं तत्त्वं नामरूपक्रियात्मना ।।
स्वयं तद्व्याकृतिमगाद्यथैतर्हि तथैव तत् ।। ३९७ ।।
नामरूपाभ्यामेवेति न समुच्चयनिश्चितौ ।।
समस्तव्यस्तरूपाभ्यां लोकेऽपि व्याकृतिर्यतः ।। ३९८ ।।
जातितो बधिरस्येह व्यक्तिः स्याद्रूपमात्रजा ।।
जात्यन्धादेश्च नाम्नैव तथा चोभयथाऽप्यसौ ।। ३९९ ।।
अज्ञातात्मैकहेतूनां मिथोपेक्षात्मनां श्रुतौ ।।
नेयत्ताऽस्तीह तत्त्वानामानन्त्यान्न क्रमस्तथा ।। ४०० ।।
प्रक्रियानियमो नापि पुंव्युत्पत्तिप्रधानतः ।।
प्रतिश्रुतिविगीतिश्च प्रक्रियाणां समीक्ष्यते ।। ४०१ ।।
यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि।।
सा सैव प्रक्रियेह स्यात्साध्वी सा चानवस्थिता ।। ४०२ ।।
उद्भूतिस्थितिहानीनां न कचित्संभवो यथा ।।
मुख्यां वृत्तिं समाश्रित्य तथोदर्केऽपि वक्ष्यते ।। ४०३ ।।
न जायते जन्यते वा नापि हन्ति न हन्यते ।।
तमःसंवृतदृष्टीनां पाड्विकारादिवीक्षणम् ।। ४०४ ।।
यदर्थं सर्वशास्राणां प्रवृत्तिरतिविस्तरा ।।
आत्मज्ञानावतारार्थः सर्वशास्रसमुद्यमः ।। ४०५ ।।
विरोधः सर्वशास्राणां स्वाभिधेयव्यपेक्षया ।।
निवृत्त्यर्थेऽविरोधित्वादत एतत्समीरितम् ।। ४०६ ।।
स्वत एव यतः पुंसां प्रवृत्तिः स्वार्थसिद्धये।।
तत्रानुवादि शास्रं स्यान्निवृत्तावेव तन्मिति ।। ४०७ ।।
अपि वात्स्यायनादीनां शास्राणामुक्तहेतुतः ।।
प्रामाण्यमविरुद्धं स्यादैकात्म्यज्ञानजन्मने ।। ४०८ ।।
प्रवर्तमानः पुरुषः शास्रोद्दीपितवर्त्मना ।।
प्रवृत्तिविषयं दुष्टं दृष्ट्वाऽतो विनिवर्तते ।। ४०९ ।।
अनित्यदुःखशून्यत्वं पदार्थानां ब्रुवन्स्फुटम् ।।
बुद्धोऽपि रागापुच्छित्तौ यतते नाऽऽत्मनिहुतौ ।। ४१० ।।
त्याग एव हि सर्वेषां मोक्षसाधनमुत्तमम् ।।
त्यजतैव हि तज्ज्ञेयं त्यक्तुः प्रत्यक्परं पदम् ।। ४११ ।।
एकवाक्यत्वतो यद्वा ऐकात्म्यज्ञानजन्मने ।।
वेदशास्रस्य कृत्स्नस्य तथा पूर्वमवादिषम् ।। ४१२ ।।
प्रमाणानि च शास्राणि तत्प्रामाण्यं न चान्यतः ।।
अज्ञातात्मावबोधित्वात्तथा पूर्वमवादिषम् ।। ४१३।।
यस्मिंश्चाविद्ययाध्यासः संसारानर्थलक्षणः ।।
स्वाभाविक्या कृतो मिथ्या शुक्त्यादौ रजतादिवत् ।। ४१४ ।।
ननु सामान्यविज्ञानविशेषाज्ञानसंश्रयात् ।।
जातरूप्यस्मृतेर्लोके मिथ्याज्ञानं प्रसिध्यति ।। ४१५ ।।
यत्राध्यासो यदध्यस्तं भेदसिद्धौ तयोर्मृषा ।।
ज्ञानं जगति संसिद्धं सा चैकात्म्येऽतिदुर्लभा ।। ४१६ ।।
समस्तव्यस्तमैकात्म्यं येपां चापास्तभेदकम् ।।
चोद्यमेतत्समानं स्यादुभयोरपि पक्षयोः ।। ४१७ ।।
न नः परिहृतेनार्थश्चोद्येनानेन कश्चन ।।
प्रत्यङ्भोहैकहेतुत्वात्सर्वानर्थमृषामतेः ।। ४१८ ।।
अज्ञानमेव वाध्यं नो मानस्येह यतस्ततः ।।
तच्चोद्यपरिहारोऽतः क्रियते नाफलत्वतः ।। ४१९ ।।
मिथ्याज्ञानातिरेकेण नान्यदज्ञानमिष्यते ।।
येषां तान्प्रति चोद्यं स्यान्न त्वज्ञातात्मवादिनाम् ।। ४२० ।।
नन्वज्ञानमवस्तुत्वात्कथं संसारकारणम् ।।
मिथ्याज्ञानस्य वस्तुत्वात्तदेवास्त्विह कारणम् ।। ४२१ ।।
तथाच युक्तिमद्यत्नान्महद्भिरपि भाषितम् ।।
अप्रामाण्यं पुनस्रेधेत्यत एतत्सुसंस्थितम् ।। ४२२ ।।
किं भोः सदपि मानेन वस्तु साक्षान्निरस्यते ।।
तस्मिन्निरस्ते किं शेषं यस्मिन्मानस्य मानता ।। ४२३ ।।
व्यञ्जकत्वात्प्रमाणानां मेयाभिव्यक्तितोऽपरम् ।।
कार्यान्तरं न संभाव्यं नितरां वस्त्वपाक्रिया ।। ४२४ ।।
मिथ्याज्ञानं कथं वस्तु न हि मिथ्येति वस्तु सत् ।।
मिथ्या तद्वस्तु चेत्युक्तिर्महतामेव शोभते ।। ४२५ ।।
स्वतोऽपि यदि सा वस्तु रज्ज्वां सर्पादिका मतिः ।।
रज्ज्वात्मना तथाऽपीयमवस्त्वेवात्र वाध्यते ।। ४२६ ।।
मिथ्याज्ञानस्य कार्यत्वाक्तिं तत्कारणमुच्यताम् ।।
अकारणं सत्कार्यं चेडिम्भकैरपि हस्यते ।। ४२७ ।।
रागादिकारणं चेत्स्यात्कार्यंं सत्कारणं कथम् ।।
अवस्त्वपि च वस्त्वेव वस्तुरूपात्तदन्यतः ।। ४२८ ।।
उपात्तमेयरूपत्वं मानानां सत्यतोच्यते ।।
तद्वलेनैव मेयस्थं घ्नन्ति मोहादि नान्यतः ।। ४२९ ।।
तद्विपर्ययतो मिथ्या सर्वं मोहादि भण्यते ।।
वस्त्वसाधारणं रूपं मोहादेर्न प्रमीयते ।। ४३० ।।
न च वस्तु सतत्त्वं तद्वाधात्तस्य प्रमाणतः ।।
मेयप्रबोधनं मुक्त्वा न मितेः सत्यताऽन्यतः ।। ४३१ ।।
कारकाणां हि सत्यत्वं स्वकार्यापेक्षयेष्यते ।।
इतोऽन्यथा तत्सत्यत्वं निष्फलं न च लभ्यते ।। ४३२ ।।
यद्वस्तु स्वात्मनैवास्ति तत्परार्थं न बोधवत् ।।
पारार्थ्येनैव सद्यच्च तत्परस्माद्धिरुङ्न सत् ।। ४३३ ।।
सर्वमन्यानपेक्षं सदीक्ष्यमाणं स्वमात्रया ।।
स्वात्मरूपात्पृथग्रपं न वस्तूत्प्रेक्ष्यतेऽण्वपि ।। ४३४ ।।
आत्मनैव स्वभावेन वस्त्वात्मानं विभर्ति हि ।।
नाऽऽत्मनो विद्यतेऽपेक्षा वस्तुनोऽन्यसमाश्रया ।। ४३५ ।।
तस्मादविद्यासंभूतं नानात्वं प्रत्यगात्मनि ।।
ब्रह्मास्मीति हि तद्ध्वंसान्न कचिद्भेदधीर्यतः ।। ४३६ ।।
मित्युत्पत्तावनुत्पत्तिर्विरोधाद्बाध्यते यतः ।।
तद्बाधे नाप्यपेक्षाऽस्ति मिथ्याधीबाधनं प्रति ।। ४३७ ।।
मिथ्याधियोऽपि बाध्यत्वमज्ञानैकसमन्वयात् ।।
मूलध्वस्तौ हतं तच्चेन्मिथ्याधीः किं करोति नः ।। ४३८ ।।
मेयरूपानुरोधित्वं मिथ्यासंशययोर्यदि ।।
सम्यग्ज्ञानात्तयोर्भेदो गम्यतां केन हेतुना ।। ४३९ ।।
अज्ञानं संशयत्वान्नो मिथ्याज्ञानात्तथैव च ।।
तयोस्तत्त्वविवक्षायामज्ञानं तत्त्वमुच्यते ।। ४४० ।।
अज्ञात एव यद्यत्र ज्ञाते तस्मिन्न तद्भवेत् ।।
सर्वत्रासिद्धिरूपत्वान्मिथ्याज्ञानमिदं मतम् ।। ४४१ ।।
मिथ्याज्ञानस्य वस्तुत्वं येनैव स्यात्सदात्मना ।।
अज्ञानस्यापि तेनैव सत्यत्वं केन वार्यते ।। ४४२ ।।
रज्जुसर्पो यथा रज्ज्वा सात्मकः प्राग्विवेकतः ।।
अवस्तु सन्नपि ह्येष इति पूज्यैरपीरितम् ।। ४४३ ।।
स्वतस्तु सत्यता साक्षान्नोभयोरपि विद्यते ।।
अविचारितसिद्धित्वान्न स्वतः परतोऽपि ते ।। ४४४ ।।
तदेवानुप्रविश्येति तत्त्वं यत्पारमार्थिकम् ।।
सच्च त्यच्चादिकां भित्तिं मोहात्प्रापदिति श्रुतिः ।। ४४५ ।।
न चापि त्रयसद्भावे मिथ्याज्ञानं जगत्यपि ।।
मोहमात्रप्रयुक्तत्वान्न सामान्यात्स्मृतेश्च तत् ।। ४४६ ।।
सामान्यान्तरनिर्मुक्तं तथाऽसाधारणैरपि ।।
असामान्यत्वमेवैति शौक्ल्यमन्यानपेक्षतः ।। ४४७ ।।
न चेदं स्मरणाज्जातं नापि सामान्यहेतुजम् ।।
शुक्लस्य गृह्यमाणत्वात्पुरोदेशावलम्बिनः ।। ४४८ ।।
एवं प्रत्यक्ष एतस्मिञ्शुक्तिकोदरवर्तिनि ।।
तद्विरुद्धमभूज्ज्ञानं रजताभमबोधजम् ।। ४४९ ।।
अप्रत्यक्षं मतं येषां ज्ञानं तान्प्रति भण्यते ।।
इदं रजतमित्येतज्ज्ञानं शुक्तौ कुतोऽन्वभूत् ।। ४५० ।।
विशिष्टाकृतिदेशेहाकालधर्मं प्रतीयते ।।
शुक्तिकाज्ञानतो नर्ते वस्त्वीदृक्साध्यतेऽन्यतः ।। ४५१ ।।
असाधारणधर्मोत्थो न साधारणकारणः ।।
रजतं शुक्तिकेत्यादिव्यपदेशोऽप्रसिद्धितः ।। ४५२ ।।
न चेह राजता धर्माः कुतो ज्ञानं तदाकृति ।।
न ह्याकारमनालिङ्ग्य ज्ञानमाकारवत्क्वचित् ।। ४५३ ।।
शुक्तिकानुविधायित्वान्नेदं स्मर्तव्यसंश्रयम् ।।
अनालिङ्गितबाह्यार्था बुद्धावेव स्मृतिर्यतः ।। ४५४ ।।
धर्मादिहेतुकं येऽपि परिणामं प्रचक्षते ।।
सम्यग्ज्ञानेऽपि तुल्यत्वादनाश्वासस्तथा सति ।। ४५५ ।।
भूतकालोपलब्धोऽर्थः स्मृतेश्चेद्गोचरो मतः ।।
नासौ भूतात्मनाऽज्ञायि भूतज्ञानमनाश्रयम् ।। ४५६ ।।
स्वोत्पत्तिव्यतिरेकेण ज्ञानकालोऽपि नेष्यते ।।
अगत्वरं सद्विज्ञानं भूतार्थं ढौकते कथम् ।। ४५७ ।।
अविलुप्तार्थविज्ञानो यद्यात्माऽभ्युपगम्यते ।।
सर्वेषां सर्वबिज्ञानात्सर्वज्ञत्वं भवेद्ध्रुवम् ।। ४५८ ।।
आश्रिताश्रयसंबन्धः कार्यकारणयोः स्मृतः ।।
वर्तमानात्मगं ज्ञानमतीतार्थं स्पृशेत्कथम् ।। ४५९ ।।
सम्यग्ज्ञानेऽपि चास्त्येतत्र्रयं यद्भवतेरितम् ।।
प्रत्यभिज्ञाय तदिदमज्ञातं वस्त्ववैति हि ।। ४६० ।।
तथा सति मृषाज्ञानं सर्वत्रैव प्रसज्यते ।।
मुक्त्वैकं प्रत्यगात्मानं, न तत्रास्ति त्रयं यतः ।। ४६१ ।।
यस्मिन्सत्येव यत्कार्यं न भवेदेव चासति ।।
तत्स्वकार्ये स्वतन्त्रत्घादुच्यते कारणं बुधैः ।। ४६२ ।।
स्वत आकारवत्किंचित्परतश्चापि दृश्यते ।।
शुक्तिमृत्स्फटिकाद्येवं ज्ञातं किं नाभ्युपेयते ।। ४६३ ।।
नापि व्यभिचरेज्ज्ञानं यदि स्मर्तव्यपृष्ठगम् ।।
साक्षाद्वस्त्वेकनिष्ठत्वाद्यथेयं शुक्तिकामतिः ।। ४६४ ।।
न च प्रत्यक्षविज्ञानात्स्मृतेर्भेदं लभेमहि ।।
प्रध्वंसात्तस्य चार्थस्य नातोऽर्थस्पर्शिनी स्मृतिः ।। ४६५ ।।
किं त्वेतदिति जिज्ञासोर्निषिद्धेऽप्यन्यथाग्रहे ।।
तावतो व्यवधानत्वाद्गुभुत्सा च न युज्यते ।। ४६६ ।।
शुक्तिकेयमिति ह्युक्ते यथार्थं प्रतिपद्यते ।।
रजताद्यन्यथाज्ञानप्रतिषेधादृतेऽपि हि ।। ४६७ ।।
नीलोत्पलदलाभं खं सामान्येतरवर्जितम् ।।
न पश्येयुस्रयासत्त्वान्न हि तच्चाक्षुषं यतः ।। ४६८ ।।
दिग्विभागादिवद्व्योम प्राग्यानं च रवौ तथा ।।
स्वप्ने नानाप्रपञ्चाढ्यं मिथ्याज्ञानमृते त्रयात् ।। ४६९ ।।
यत एवमतो ग्राह्यं शुक्तिकाज्ञानमेव तु ।।
रजताद्यन्यथाज्ञानकारणं युक्तिगौरवात् ।। ४७० ।।
कर्मज्ञानादिहेतुत्वान्नियमस्य यथा तव ।।
सामान्याद्यविशेषेऽपि नियमोऽप्येवमिष्यताम् ।। ४७१ ।।
भूरिसामान्यविज्ञानाच्छौक्ल्यमेध करोति किम् ।।
सदप्यन्यदुदास्ते किं स्वाश्रयग्रहणं प्रति ।। ४७२ ।।
अनेकार्थाभिसंबन्धाच्छौक्ल्यस्य रजते च कः ।।
पक्षपातो विना हेतुं बलाकाज्ञानकृन्न किम् ।। ४७३ ।।
स्वाकारमात्रनिष्पत्तेर्नालं कार्यान्तराय हि ।।
सामान्यं वा विशेषो वा नातः स्याद्राजती स्मृतिः ।। ४७४ ।।
न ह्यसंनिहितं बोद्धुर्वस्तु बुद्धौ करोति हि ।।
ज्ञानमाकारवल्लोके सर्वाकारपसक्तितः ।। ४७५ ।।
पदार्थान्तरसद्भावमपेक्ष्यान्यस्य वस्तुनः ।।
यस्य सिद्धिर्मृषा तत्स्याद्रज्जुसर्पद्विचन्द्रवत् ।। ४७६ ।।
प्रमात्रादीह यत्किंचित्प्रत्यगज्ञानहेतुजम् ।।
अन्योन्यापेक्षसिद्धित्वान्मिथ्या तदपि पूर्ववत् ।। ४७७ ।।
आत्मन्यध्यासरूपोऽयं संसारः प्रतिपादितः ।।
अध्यासश्च विना हेतुं न लोक उपपद्यते ।। ४७८ ।।
तस्माद्धेतूपदेशाय यः कारणमितीर्यते ।।
यस्मिन्नविद्ययेत्येवं ननु कारणमीरितम् ।। ४७९ ।।
प्रधानवादमाशङ्क्य यस्माद्भूयोऽपि भण्यते ।।
अज्ञात आत्मा जगतः कारणं न गुणत्रयम् ।। ४८० ।।
श्रुतितो युक्तितश्चापि स्वयमेव प्रवक्ष्यति ।।
उदर्क इममेवार्थं नातोऽन्यत्कारणं ततः ।।। ४८१ ।।
यदात्मके नामरूपे इत्यज्ञानात्मता तयोः ।।
भण्यतेऽतोऽप्रमाणत्वं शुक्तिकारजतादिवत् ।। ४८२ ।।
न कारणातिवर्त्यस्ति कार्यं जगति कुत्र चित् ।।
स्वकारणाविशिष्टत्वे सलिलादितिहेतुगीः ।। ४८३ ।।
वस्तुवृत्तं न पर्याप्तं तदज्ञानापनुत्तये ।।
अनुपात्तप्रमाणं सदित्यर्थप्रतिपत्तये ।। ४८४ ।।
स्वतो बुद्धमिदं यस्मादतः शुद्धमसद्दूयम् ।।
द्वितीयसंगतिर्यस्माल्लोकेऽशुद्धेः प्रयोजिका ।। ४८५ ।।
यथोक्ततत्त्वे नाविद्यामृते स्याहूयसंगतिः ।।
अतोऽशुद्घिनिषेधोक्तिस्तदविद्यानिषेधतः ।। ४८६ ।।
ईश्वराव्याकृतप्राणविराङ्भूतेन्द्रियादिकम् ।।
नाविद्योपाश्रयं मुक्त्वा संभाव्यं प्रत्यगात्मनि ।। ४८७ ।।
प्रत्यग्याथात्म्यदृष्ट्या तन्निपुणोऽपि न वीक्षते ।।
न च प्रत्यग्धियं मुक्त्वा पराग्बुद्धिर्मितिर्भवेत् ।। ४८८ ।।
पराञ्चि खानीत्येतच्च साटोपमभिधीयते ।।
प्रत्यड्भानैकमेयत्वं वेदान्तेष्वात्मवस्तुनः ।। ४८९ ।।
इतो विरुद्धमानत्वं स्वतोपास्तद्वयात्मनः ।।
शक्यं वैश्वानरवरात्प्रवक्तुं, न तु मानतः ।। ४९० ।।
नित्यशुद्धश्च बुद्धश्च यस्मादात्मा परः स्वतः ।।
मुक्तश्चातोऽवसेयोऽसौ सद्वेदान्तोक्तिमानिना ।। ४९१ ।।
एवंभूतोऽप्यसंबुद्धस्वात्मतत्त्वो महेश्चरः ।।
आपेदे कारणात्मत्वं नामरूपादिसर्जने ।। ४९२ ।।
स एष इत्यनेनापि सुविरुद्धात्मतां ब्रुवन् ।।
विरुद्धबस्तुसंसृष्टि ब्रूतेऽज्ञानैककारणम् ।। ४९३ ।।
व्याकुर्वन्निति वाक्येन स्वतो ज्ञोऽपि तमोन्वयात् ।।
ब्रह्मादिस्तम्बपर्यन्तं कार्यं प्राविशदुच्यते ।। ४९४ ।।
स्वानुभूत्यनुरोधेन योऽज्ञातार्थः पुरोदितः ।।
प्रकृतार्थावलेहित्वात्सर्वनाम्ना स उच्यते ।। ४९५ ।।
परामृश्य स इत्येवमव्याकृतसतत्त्वकम् ।।
तथारूपः स्वकार्यस्थः प्रात्यक्ष्यादेष उच्यते ।। ४९६ ।।
विरुद्धरूपयोरेवं निर्द्वयद्वयरूषतः ।।
स एष इति निर्देशः कथं स्यात्कृष्णसर्पवत् ।। ४९७ ।।
कारणान्नान्यतः कार्यं तथा कार्याच्च कारणम् ।।
इत्युक्तन्यायहेतुत्वान्न विरोधोऽत्र कश्चन ।। ४९८ ।।
अज्ञातवस्तुतत्त्वस्य दुष्करं नास्ति किंचन ।।
नीलीकृतं नभः पश्येच्चक्षुषा नीलवस्त्रवत् ।। ४९९ ।।
योग्यायोग्यव्यपेक्षेयं मानव्यवहृतौ भवेत् ।।
कल्पनामात्रनिष्पत्तेर्नापेक्षाऽज्ञानभूमिषु ।। ५०० ।।
इत्युक्तप्रतिपत्त्यर्थं हेतुरेषोऽभिधीयते ।।
प्रविष्ट इत्यनेनात्र स्वाभासैकतमोन्वयात् ।। ५०१ ।।
ब्रह्मादावित्यनेनापि जनिमत्सर्वमुच्यते ।।
कृत्स्नसंसारधर्मार्थे देहेष्विति च भण्यते ।। ५०२ ।।
ब्रह्मादिस्तम्बपर्यन्तं देहेष्विति तथोच्यते ।।
क्रियाफलाभिसंबन्धो देहेष्वेवेति नाऽऽत्मनि ।। ५०३ ।।
प्रत्यङ्भोहमरुद्बुद्धिचक्षुर्देहादिरूपिणाम् ।।
प्रविष्टवचसैकात्म्यं गुणप्राधान्यमुच्यते ।। ५०४ ।।
न ढौकते पराचीनं प्रत्यक्त्वासङ्गतः परः ।।
नेहाज्ञानमनादाय ह्यात्माऽनात्मानमीक्षते ।। ५०५ ।।
स्थाण्वज्ञानमनादाय न चोरादीक्षणं यथा ।।
आत्माज्ञानमनादाय तद्वन्नानात्मवीक्षणम् ।। ५०६ ।।
येनान्वितोऽयं संसारी सुषुप्ते कर्मणः क्षयात् ।।
तत्स्वाभाव्यावशेषः स्यात्तत्कार्यत्वाद्धटादिवत् ।। ५०७ ।।
स्वात्माभासप्रवेशो यः प्रत्यड्भोहनिबन्धनः ।।
तज्जेष्वपि स एव स्यान्मरुद्बुद्ध्यादिरूपिषु ।। ५०८ ।।
पयोम्भोवत्सूत्ररूपं क्रियाविज्ञानशक्तिमत् ।।
कर्तृस्थभावकं स्थास्रु चलं कर्मस्थभावकम् ।। ५०९ ।।
बुद्ध्यात्मनोऽभिनिर्वत्तिर्व्यवसायात्मनस्ततः ।।
हिरण्यगर्भं यं प्राहुरुपाद