श्रीमदप्पय्यदीक्षित-विरचितः
पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना ।
आक्षेपोऽथ समाधानं व्याख्यानं षड्विधं मतम् ॥
गुरुभिरुपदिष्टमर्थं विस्मृतमपि तत्र बोधितं प्राज्ञैः ।
अवलम्ब्य शिवमधीयन्यथामति व्याकरोमि कल्पतरुम् ॥ १ ॥
कल्पकतरुमुपकुर्यां कमधिकमाकाङ्क्षितार्थमुपहृत्य ।
तद्दत्तैरेवार्थैर्मम मतिमीहे परिष्कर्तुम् ॥ २ ॥
यावन्तो निविशन्ते विदुषां व्याख्यानचातुरीभेदाः ।
सर्वेषामपि तेषामयमवकाशं ददाति पुष्पकवत् ॥ ३ ॥
इत्थमिहातिगभीरे कियदाशयवर्णनं मया क्रियते ।
तुष्यन्ति ततोऽपि बुधाः कतिपयरत्नग्रहादिवाम्बुनिधेः ॥ ४ ॥
यदिति ।
अत्र
प्रत्यगिति
ब्रह्मविशेषणेन शास्त्रस्य विषयं प्रदर्श्य तत्र सर्वेषां वेदान्तानां समन्वयः प्रथमाध्यायार्थः । श्रुतिशतेत्यादिविशेषणेन दर्शितः । शतशब्द आनन्त्यपरः; 'विश्वं शतं सहस्रं च सर्वमक्षयवाचक'मिति महाभारतवचनात् । ब्राह्मणशतं भोज्यतामित्यत्र भोजनस्येव शिरसां संख्योपसर्जनसंख्येयेनान्वयः । सकलप्रपञ्चाश्रयस्य ब्रह्मणः परिमितकर्तृत्वाद्याश्रयस्य जीवस्य चाभेदमविरोधेनोपपादयितुमुभयत्र विरुद्धधर्माणां मिथ्यावं यदज्ञातमित्यादिविशेषणेन दर्शितम् । जीवैर्यदविज्ञाततत्त्वं सत् बहुविधस्य प्रतिजीवं व्यवस्थितकर्तृत्वादिरूपस्य साधारणस्य घटपटादिरूपस्य च प्रपञ्चविलासस्य धरं धारकम् । कलितम् अहं कर्ताहं भोक्ता सन् घटः सन् पट इत्यादिरूपेणावगतम् । यथा वियत् बालैरविज्ञाततत्त्वं सत् तलमलिनतायोगि कलितमित्यर्थः । एवमव्याख्यायामुपमानोपमेये वैरूप्येण निर्दिष्टे स्यातां, नेयार्थत्वदोषश्च प्रसज्यते । स्फुटं हि वैरूप्यं यद्ब्रह्म जीवैरज्ञातं सत् बहुविधानां जगद्विषयविभ्रमाणां धारकं, यथा वियद्बालैः तलमलिनतायोगित्वेन कलितं भ्रान्त्याऽनुभूतमिति यथाश्रुतयोजनायाम् । अत्र जीवास्तावदुपमेयब्रह्मविषयाज्ञानाश्रयत्वेन निर्दिष्टाः, बालास्तूपमानवियदध्यस्ततलमलिनताविषयविभ्रमाश्रयत्वेनेत्येकं वैरूप्यम् ब्रह्म प्रपञ्चविषयविभ्रमधरत्वेन निर्दिष्टं, वियत्तु तलमलिनतायोगित्वेन । तद्विषयविभ्रमस्तु कलितमिति पश्चात्तदन्वयी निर्दिष्ट इत्यन्यद्वैरूप्यम् । ब्रह्म विभ्रमधरमिति क्रियायां कर्तृत्वेन निर्दिष्टं, वियत्तु कलितमिति तस्यां कर्मत्वेनेत्यपरं वैरूप्यम् । विभ्रमधरशब्दश्च विभ्रमविषये न शक्तः, अप्रसिद्धौ तादृशलक्षणा च नेयार्था । एवं विधमुपमानोपमेययोर्निर्देशवैरूप्यं नेयार्थलक्षणां च काव्यसरणिविदो नानुमन्यन्ते इत्येवमाशङ्कास्पदं दोषचतुष्टयमप्यज्ञातमित्यस्य वियत्यप्यन्वयेन कलितमित्यस्य ब्रह्मण्यप्यन्वयेन जगद्विभ्रमशब्दस्य जगद्रूपकार्यपरत्वेन च परिहृतं भवति । वियदुदाहरणेन विरुद्धधर्माणामध्यस्तत्वविभावनमनैन्द्रियके कथमपरोक्षाध्यास इति शङ्कानिराकरणं च कृतम् । यद्यप्यज्ञातमित्यस्य 'मतिबुद्धिपूजार्थेभ्यश्च' (पा. ३।२।१८८ ) इति वर्तमानार्थविहितक्तप्रत्ययान्तत्वे 'क्तस्य च वर्तमाने' (पा. २।३।६७) इति षष्ठ्या भाव्यं; तथापि भूतार्थतप्रत्ययान्तत्वमिह ग्राह्यम् । नच क्तस्य मत्याद्यर्थेभ्यो विशिष्य वर्तमानार्थे विधानात् तक्रकौण्डिन्यन्यायेन भूतार्थत्वबाधः स्यादिति वाच्यम् ; 'तेन' (पा. ४।२।१।४।३।१०१) इत्यधिकारे 'दृष्टं साम' 'उपज्ञाते' इति सौत्रनिर्देशेन भाष्यादिषु 'कलिना दृष्टं साम कालेयं' 'पाणिनिना उपज्ञातं पाणिनीय'मिति तदुदाहरणदर्शनेन च बुद्ध्यर्थेभ्यो भूतार्थेऽपि क्तप्रत्ययानुमत्यवगमात् । केनचिद्रूपेणावगते रूपान्तरेणानवगते शुक्त्यादावध्यासो दृष्टः, अतो निर्विशेषे स न सम्भवतीत्याशङ्कानिरासायोन्मुद्रेत्यादिविशेषणम् । न केवलं सदेव ब्रह्म किंतु चिदानन्दरूपमपि । यद्यपि तत्र चिदानन्दरूपत्वमपि बाह्याध्यात्मिकसकलविषयसाक्षित्वात् परमप्रेमास्पदत्वाच्च कर्तृत्वाद्यध्यासकालेऽपि भासत एव; तथापि ज्ञानं विषयविशेषानवच्छिन्नं सुखमपरिच्छिन्नं च सत् तदा न भासत इति दर्शयितुमुन्मुद्रत्वप्रततत्वविशेषणे ॥ १ ॥
यद्यपि सकलप्रपञ्चकारणं मायाशबलं सविशेषमीश्वररूपं ब्रह्म नमस्कार्यं, नतु निर्विशेषं निरस्तकर्तृकर्मभावं; तथापि तत्र तत्त्वदृष्ट्या प्रत्यगभेदानुसन्धानं युज्यते । अत एवाहंग्रहोपासनासु सर्वास्वभेदानुसन्धानमिष्यते । चिदानन्दघनस्य ब्रह्मणः प्राप्तौ साधनं 'फलमत उपपत्तेः' (ब्र.अ.३पा.२सू.३८) इति न्यायेनोपासनाप्रसादितं ब्रह्मैवेति दर्शयति -
बोधेति ।
अत्र शङ्करमित्यनेन मुक्तिसुखप्रदत्वं, संसारेत्यादिविशेषणेन मुक्तिसुखाभिव्यक्त्युपपादकं तदावरकानर्थनिवृत्तिहेतुत्वं, निर्मलेत्यादिविशेषणेनोक्तफलार्थं संसारोद्विग्नैर्भजनीयत्वं, दक्षिणामूर्तिमित्यनेनोक्तार्थस्य 'अजात इत्येवं कश्चिद्भीरुः प्रपद्यते' 'रुद्र यत्ते दक्षिणं मुखं तेन मां पाहि नित्य'मिति श्वेताश्वतरोपनिषन्मन्त्रप्रमाणकत्वं च दर्शितम् । उक्तफलं न श्रवणादिकं विनेति तत्संपादकत्वं पूर्वार्धेन दर्शितम् । यथा खल्वमृतांशुस्तत्तद्गगनप्रदेशावच्छिन्नस्वांशरूपैरंशुभिर्गगनगतं तिमिरमपनयन् वारिधिं चोद्वेलयन् प्रति दिनमुदेति, एवं बहुशोऽनेकवेदान्तवाक्यश्रवणजन्यान्तःकरणवृत्त्यवच्छेदककृतभेदस्वांशरूपचित्प्रतिबिम्बैरन्तःकरणगततत्तद्वाक्यार्थाज्ञानमपनयन् ऊहापोहकौशलसाध्यमननचित्तैकाग्र्यसाध्यनिदिध्यासनरूपां प्रज्ञां चाभिवर्धयन्नुमया 'तत्राकाशे स्त्रियमाजगाम उमां हैमवतीं बहु शोभमाना'मिति तलवकारिणामुपनिषदि ब्रह्मविद्याप्रदत्वेन प्रसिद्धया सहितः सन् यः सदोदेति नित्यमेव स्फुरतीति तदर्थः । अत्र सोम इति श्लेषोत्थापितो बोधाभीष्वित्यादिषु रूपकालङ्कारः ॥ २ ॥
अथ कृतश्रवणमनननिदिध्यासनस्य साक्षात्कारोदयेन प्राप्यं फलमपि ब्रह्मैवेति दर्शयति -
माद्यदिति |
माद्यन् प्रपञ्चरूपेणोज्जृम्भमाणो मोह एव महेभः तस्य कुम्भ इव कुम्भः मूलाविद्याभागः; वक्ष्यमाणमौक्तिकद्योतालङ्कार्यकर्तृकदलनविषयत्वसाम्यात् । अत एव महेभत्वरूपणस्य मोहवत्कुम्भत्वरूपणस्याधिष्ठानरूपः कश्चित्तदंशो नोक्त इति न्यूनता न शङ्कनीया; 'मयूखनखरत्रुटत्तिमिरकुम्भिकुम्भस्थलोच्चलत्तरलतारकाकपटकीर्णमुक्तागण' इत्यत्र प्रत्यग्रोदितचन्द्रमयूखसंसृष्टतिमिरपुरोभागस्येवात्र ब्रह्मसाक्षात्कारदलनीयमूलाविद्याभागस्यातिशयोक्त्या कुम्भत्वेनाध्यवसानात् । तस्य दलनं निवर्तकम् प्रोद्भूतं जननं यस्य तथाभूतः सन्नुत्तमो, मौक्तिको मुक्तिप्रयोजनः, द्योतः प्रकाशो वृत्तिसाक्षात्कारः, तेनालङ्कृतमभिव्यक्तं सत्, सुखात्मकं वपुः स्वरूपमस्येति तथोक्तः । मुक्तिः प्रयोजनमस्येत्यर्थे 'प्रयोजनम्' (पा. ५।१।१०९) इति सूत्रेण ठक्प्रत्ययान्तो मौक्तिकशब्दः । यद्वा माद्यन्मोहमहेभकुम्भस्य दलनेन निवर्तनेन, प्रोद्भूतः अभिव्यक्तः, सन्मौक्तिकसदृशः घर्षणनिर्मलीभूत मुक्ताफलसदृशः, द्योतः खरूपसाक्षात्कारः, तेनालङ्कृतं प्रकाशमानं, सत् सुखाद्वयं वपुरस्येति तथोक्तः । सन्मौक्तिकद्योतेत्यत्र शाकपार्थिवादिवन्मध्यमपदलोपिसमासः । द्योतस्य सुखाभेेदेऽपि राहोः शिर इतिवद्भेदव्यपदेशः । माद्यन्मदशाली, मोहयति मदगन्धमात्रेण प्रतिगजादीनिति मोहः । मोहयतेः पचाद्यच् । 'णेरनिटि' (पा. ६।४।५१) इति णिलोपः । तथाभूतस्य महेभस्य कुम्भदलनेन प्रोद्भूतानां निर्गतानां शुद्धमौक्तिकानां नखाग्रलग्नानां प्रकाशेनालङ्कृतं सत् सुखं रिपुसंहरणेन जायमानानन्दमद्वयं शौर्ये द्वितीयरहितं वपुरस्येति तथोक्तः । पूर्ववदलङ्कारः । एवमेभिस्त्रिभिर्नमस्कारश्लोकैः सामान्यतः शास्त्रस्य विषयोऽध्यायानां चार्थः सूचितः ॥ ३ ॥
ललितैरिति ।
अत्र वदनरङ्गादिरूपणस्य शाब्दतया विशिष्य वाच्यत्वेन वर्तमानत्वात् सरस्वत्यां नर्तकीरूपणस्य तद्गम्यत्वाच्चैकदेशविवर्तिरूपकालङ्कारः ॥ ४ ॥
भजमानेति ।
भजमानानां विघ्न एव भित्तिः तस्याः प्रभित्तिः नाशकरणं कुद्दालमिवेति स्वरूपोत्प्रेक्षा । दशभुजस्य महा गणपतेर्वामाधःकरेण स्वविषाणधारणं शुण्डाग्रधृतकलशस्थितरत्नवर्षेण भक्तेभ्यः सकलसंपत्प्रदानं च मन्त्रशास्त्र प्रसिद्धम् । प्रभिद्यते नाश्यतेऽनेनेति प्रभित्तिशब्दोऽत्र नाशकरणवाची, नतु विदारणक्रियावाची । अतो विदारणे भिदान्यत्र भित्तिरिति शाब्दिकमर्यादाया न विरोधः ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥
ग्रन्थेति ।
ग्रन्थग्रन्थय इत्यभिधानमात्रेण भेदः । मुकुला एवैत इत्यनभिव्यक्तत्वसाम्यान्मुकुलत्वाध्यवसानरूपातिशयोक्तिः । यस्योदये स्फुटन्तीत्यनेनास्योदयात्पूर्वं शास्त्रेषु केचन कठिनप्रदेशाः, केनापि नोद्घाटिता; मुद्रिता एव स्थिता इति प्रतीतेरस्यान्येभ्यो व्याख्यातृभ्य उत्कर्षरूपो व्यतिरेकालङ्कारो व्यज्यते ।
व्याकुर्वत्यपीति ।
अनेनास्य शब्दश्रवणतोऽपि तिमिरं शाम्यति, नतु प्रादुर्भावमपेक्षते इति प्रसिद्धचन्द्रादुत्कर्षरूपो व्यतिरेकालङ्कारो व्यज्यते ।
प्रोद्यदिति ।
प्रोद्यन्ती प्रसर्पन्ती तारकेषु प्रणवेषु दिव्यस्य द्युसंबन्धिनः, 'यः पुनरेतं त्रिमात्रेणे'तिश्रुतौ ब्रह्मलोकाख्योक्तद्युलोकप्राप्तिफलकत्वेन श्रुतस्य त्रिमात्रप्रवणस्य, दीप्तिः प्रकाशनशक्तिर्यस्मिंस्तत्तथोक्तम् । यद्वा प्रोद्यन्ती तारकशब्दोपलक्षितानां 'न तत्र सूर्यो भाती'त्यादिश्रुत्युक्तानां सूर्यचन्द्रविद्युन्नक्षत्राणां दिव्या दिवि भवा गगने प्रसृता दीप्तिर्येन तत्तथोक्तम् । 'अथ यदतः परो दिवो ज्योतिर्दीप्यते' इति श्रुतौ हि ब्रह्मणो दिवि प्रसता दीप्तिरुक्ता, तद्विशिष्टब्रह्मोपासनस्य फलं श्रुतं 'चक्षुष्यः श्रुतो भवती'ति । अत इयं दीप्तिरुपासकस्य चक्षुष्यत्वफलप्रदानद्वारा तमवलोकयतां सुन्दरवस्तुदर्शनकौतुकेन चक्षुर्विस्फारणहेतुर्भवतीत्ययमर्थः प्रोद्यत्तारकेति दीप्तिविशेषणेनोक्तः । परमं व्योम 'सैषा भार्गवी वारुणी विद्या परमे व्योमन्प्रतिष्ठिते'ति श्रुतिप्रसिद्धं परं ब्रह्म । चन्द्रपक्षे प्रोद्यन्त्या नक्षत्राणां दिव्यया स्वर्लोकभवया दीप्त्या परा प्रकृष्टा मा शोभा यस्य तथाभूतं व्योमेति योज्यम् । नीराज्यते प्रकाश्यते ॥ १० ॥
रूढ इति ।
वेदस्यैकदेशः काण्डं ब्रह्मकाण्ड एव काण्डः समुद्रसलिलं तस्मात्प्रादुर्भूतः । 'काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु' इति निघण्टुः । वृक्षपक्षे भूरिः शाखासु वीनां पक्षिणां चारोऽस्येत्यर्थः ।
वीन्द्र इति ।
जीवेश्वरयोः प्रधानपक्षित्वोक्त्या वृक्षपक्षे तेन विशेषणेनापौनरुक्त्यम् । कल्पवृक्षः सर्वेषां विबुधानामिवायं ग्रन्थः सर्वेषां वेदान्तानां तात्पर्यविषयस्यार्थस्य प्रतिपादने समर्थ इति कल्पवृक्षत्वाध्यवसानम् ॥ १२ ॥
ईश्वरायेति ।
सर्वज्ञायेत्यपि शक्यं व्याख्यातुम् । 'मेधावी तु विधाता स्याद्वेधाः सर्वज्ञ उच्यते' इति, 'वेधास्त्रिषु स्यात्सर्वज्ञे नरि विष्णुविरिञ्चयो'रिति च नैघण्टुकाः ।
अवतारः प्राप्तिर्यस्मिन्निति ।
ननु ज्ञानशक्त्यवतारायेत्यत्र अवतारशब्दस्य प्राप्त्यर्थत्वमाश्रित्य बहुव्रीहिसमासप्रदर्शनमयुक्तं; 'समानाधिकरणानां बहुव्रीहि'रिति वार्तिककारेण नियमितत्वात् । 'न धातुलोप आर्धधातुके' (पा. ११४) इति पाणिनिसूत्रे धातुलोपशब्दे षष्ठीगर्भव्यधिकरणबहुव्रीह्याश्रयणात् तद्वदिह तदुपपादनेऽपि 'ॠदोरब्' (पा. ३।३।५७) इत्यबन्तस्यावतारशब्दस्येव घनन्तस्यावतारशब्दस्य भावार्थत्वाभावात् , 'अवे तॄस्त्रोर्घज्' (पा. ३।३।१२०) इति सूत्रेणावपूर्वात्तरतेः करणाधिकरणयोरेव घञ्-विधानात् । अतोऽवतार शब्दस्याधिकरणार्थत्वमाश्रित्य ज्ञानशक्तेरवतारायेति षष्ठीतत्पुरुषः प्रदर्शयितुं युक्त इति चेद्, यद्येवं स एवात्राचार्यैः प्रदर्शित इति ब्रूमः । प्राप्तिर्यस्मिन्नित्युभयमप्यवतारपदव्याख्यानार्थं, नतु प्राप्तिपदमात्रं, प्राप्तिर्यस्मिन्सोऽवतार इत्यर्थः ।
अथशब्द इति ।
मङ्गलश्लोके शास्त्रीयविषयप्रयोजनप्रदर्शनेन तथाभूते ब्रह्मणि भाष्यस्य तात्पर्यमिति कृत्स्नं भाष्यं सामान्यतो व्याख्यातम् । इदानीं प्रतिग्रन्थं व्याख्यानं प्रारभ्यते इत्येतदर्थोऽथशब्द इत्यर्थः । यद्यपि प्रारभ्यत इत्यनुक्तेऽपि प्रारम्भादेवेदं प्रारभ्यत इत्यवगन्तुं शक्यं; तथापि श्रोतॄणां श्रद्धेयत्वप्रतिपत्त्यर्थं तदुक्तिः । दृश्यते हि तदर्थमेव लोकेऽप्याप्ता: किंचिदहं वक्ष्यामीत्युक्त्वा हितमुपदिशन्तीति ।
मुमुक्षुणेति ।
ननु हेतुसाध्ययोर्मुमुक्षुविशेषणं किमर्थम् । नच अमुमुक्षोः सर्वप्रपञ्चविषयो येनकेनचित्प्रकारेण सन्देहस्तनिवर्तनार्थं विचारश्च सम्भवतीति कुम्भाहमर्थयोरपि तद्विषयत्वावश्यंभावाद्दृष्टान्ते हेतुसाध्यवैकल्यं, पक्षे हेत्वसिद्धिबाधौ च स्यातामिति तद्वारणार्थं मुमुक्षुविशेषणमिति वाच्यम् ; मुमुक्षोरपि तथाविधसन्देहविचारयोः संभवेन तत उक्तदोषानिवारणात् , नच यस्य मुमुक्षोस्तौ न स्तः सोऽत्र विशेषणमिति वाच्यम् ; ब्रह्मविचारार्थमिदं शास्त्रमारम्भणीयमिति वदतः सिद्धान्तिनो मते, प्रपञ्चः सत्यो मिथ्या वा, सन् असन्वा, जीवः स्वाभाविकचैतन्य आगन्तुकचैतन्यो वेत्यादिसंदेहस्य तत्तदधिकरणनिरूपितन्यायानुसंधाननिवर्तनीयस्यावश्यंभावेन प्रतिवादिनं प्रति पक्षदृष्टान्तयोर्हेत्वसिद्धेरनिवारणात् , मुमुक्षुज्ञातव्येन रूपेणासंदिग्धत्वं हेतुर्विवक्षित इति चेत्, न; स्वाभाविकचैतन्यत्वादेरपि मुमुक्षुज्ञातव्यतायाः सिद्धान्तिना वाच्यत्वात् , अन्यथा तेन मोक्षार्थमारभ्यमाणेऽस्मिञ्शास्त्रे तद्विचारानुपपत्तेः इति चेत्, उच्यते; मोक्षजनकत्वाभिमतज्ञानविषयेण रूपेणासंदिग्धत्वं हेतुः । नचाहंत्वादन्यन्मोक्षजनकत्वाभिमतज्ञानविषय इति सिद्धान्तिना वक्तुं शक्यम् । ब्रह्मज्ञानं मोक्षहेतुरिति वदतः सिद्धान्तिनो मते अहमिति ज्ञानमेव मुक्तिहेतु: स्यादित्यापाद्य पूर्वपक्षप्रवृत्तेः । पक्षदृष्टान्तयोर्बाधसाध्यवैकल्यपरिहारार्थं साध्येऽपि मुमुक्षुविशेषणम् ; अन्यथा सर्वप्रपञ्चविषयसत्यत्वमिथ्यात्वारम्भपरिणामादिविचारं मुमुक्ष्वमुमुक्षुकृतं प्रतिपक्षदृष्टान्तीकृताहमर्थकुम्भव्यक्त्योरपि विषयत्वावश्यंभावाद्बाधसाध्यवैकल्ये स्याताम् । नच मुमुक्षुविशेषणलभ्ये मोक्षजनकत्वाभिमतज्ञानविषयेण रूपेण विचार्यत्वाभावे विवक्षितेऽपि साध्ये दोषतादवस्थ्यम्, पक्षे अहंन्त्वस्य दृष्टान्ते तद्व्यतिरेकस्य च लोकसिद्धत्वेऽप्यनुमित्सया विचारसंभवादिति वाच्यम् ; मोक्षजनकज्ञानप्रकारप्रकारकसंदेहनिवृत्त्यर्थविचारविषयत्वाभावस्य साध्यार्थस्य विवक्षितत्वात् । एवं चाहमिति सदावभासमानं ब्रह्म नाहंत्वप्रकारकसंदेहनिवर्तकविचारविषयः; अहंत्वेन निश्चीयमानत्वाद्, यो यदा येन प्रकारेण निश्चीयते, स तदा न तत्प्रकारकसंदेहनिवर्तकविचारविषयः; यथा समनस्केन्द्रियसंनिकर्षे स्फीतालोकमध्यवर्तितादशायां घट इत्यनुमाननिष्कर्षः । नच प्रतियोग्यप्रसिद्ध्या साध्याप्रसिद्धिर्दोषः, साध्यविशेषप्रसिद्धिं विनापि घटे सामान्यव्याप्तिग्रहोपपत्तेः । विशिष्टवैशिष्ट्यज्ञानरूपायाः प्रतियोगिविशिष्टाभावरूपसाध्यविशिष्टानुमितेः अहंत्वप्रकारकत्वसंदेहनिवर्तकविचारविषयत्वयोर्विशकलितप्रसिद्ध्या विशेष्ये विशेषणं तत्र च विशेषणान्तरमित्युक्तरूपविशिष्टवैशिष्ट्यज्ञानसामग्र्योपपत्तेः । नच प्रतियोग्यप्रसिद्धिरपि; देहेन्द्रियेषु तत्प्रसिद्धेः सुलभत्वात् ।
देहादात्मन इति ।
मम देह इत्यभिज्ञारूपोऽपि भेदग्रहो विवक्षितः ।
परिमाणभेदेऽपीति ।
काष्ठपाषाणादिषु तक्षणादिना शरीरेषु कालमेदेन च परिमाणभेदेऽप्यभेदप्रत्यभिज्ञोदयस्तथाभिमानबीजम् ।
कृत्रिमेति ।
योगमहिम्ना
'हस्वता स्थूलता बाल्यं वार्धकं यौवनं तथा । नानाजातिस्वरूपं च तथा सुरभिगन्धता ॥
पार्थिवांशं विना भूतैश्चतुर्भिर्देहधारणम् । गन्धतन्मात्रतत्त्वोत्थमेतदष्टगुणं महत् ॥'
इत्युक्तरूपपार्थिवैश्वर्याष्टकलाभाल्लीलाद्यर्थं व्याघ्रशरीरं कृत्वा तदभिमन्यमान इत्यर्थः । तद्व्याघ्रशरीरं योगिसंकल्पकरणेन कृत्रिमम् ।
पटः शुक्ल इति ।
गुणशब्दः तद्वति निरूढलक्षणया प्रयुज्यते । रथाङ्गशब्दश्चक्रवाकशब्दैकदेशपर्यायस्तद्वाच्ये सांप्रतिकलक्षणया प्रयुज्यते । एवं चाहमेव त्वमित्यत्रेव भाष्यकारीयेऽपि युष्मत्प्रयोगे सांप्रतिकी गौणी वृत्तिः । सा चात्यन्तमेदावभासद्योतनार्था । इदंकारस्याहंकाराविरोधशङ्कया स्फुटभेदानवभासादिति भावः । 'अयमहमस्मी'ति छन्दोगतैत्तिरीयाणां श्रुतिः ।
अविवेकादिति ।
येषां तु तमःप्रकाशयोर्विवेको भेदग्रहोऽस्ति तेषां तयोरन्योन्यात्मत्वेनास्फुरणं नियतमेवेति भावः ।
नन्वितरेतरभावानुपपत्तिस्तत्प्रतीत्यनुपपत्तिरिति किमर्थमिदं क्लिष्टव्याख्यानम् , अधिष्ठानसामान्यांशाध्यस्यमानविशेषांशयोः क्वचिद्वास्तवतादात्म्ये सत्येव तत्प्रमितिजन्यसंस्कारापेक्ष इदं रजतमित्याद्यध्यासो दृष्टः, तदसंभव इहाध्यासासंभवहेतुत्वेनोच्यत इत्यस्त्वित्याशङ्क्याह -
तन्मात्रानुपपत्तिसाधने इति ।
आत्मानात्मनोर्वास्तवतादात्म्यासंभवस्य सिद्धान्तिनाप्यङ्गीकृतत्वाद्विरोधहेतुना तत्साधनं सिद्धसाधनदूषितमित्यर्थः ।
ननु बुद्धिपूर्विकायां गृहक्षेत्रादिपरिवर्तनायां प्रसिद्धस्य विनिमयशब्दस्य कथमत्र प्रयोग इत्याशङ्क्य व्यत्यासमात्रे लक्षणयेत्याह -
विनिमय इति ।
ननु रूपवत एव प्रतिबिम्ब इति नास्ति नियमः, जानुदघ्ने कूपजले दूरविशालतलमलिनतादियुक्तगगनप्रतिबिम्बदर्शनादित्याशङ्क्याह -
गगनस्येति ।
ननु रूपवत एव प्रतिबिम्ब इति नियममादृत्यालोकप्रतिबिम्बे गगनप्रतिबिम्बत्वविभ्रममात्रं, नतु गगनस्य प्रतिबिम्बोऽस्तीति कल्पने, रूपवत एव चाक्षुषत्वमिति नियममनुरुध्य गगनप्रसृतालोके एव तलमलिनताध्यासः, गगने तलमलिनताध्यास इति विभ्रममात्रमित्यपि कल्प्येत; तथाचाप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्तीति भाष्यविरोधः । यदि रूपवदेव चाक्षुषमिति न नियमः, किंतु रूपवदरूपं वा रूपोपधानेन चाक्षुषमिति नियमः, अतो नीरूपस्यापि गगनस्याध्यस्यमानतलमलिनताद्युपधानेन चाक्षुषत्वमुपपद्यत इत्युच्येत, तर्हीहापि रूपवतः प्रतिबिम्ब इति न नियमः, किंतु रूपोपधानेन प्रतिबिम्बविभ्रम इति; अतोऽध्यस्यमानतलमलिनताद्युपधानेन गगनप्रतिबिम्बविभ्रम उपपादयितुं शक्यः, तथैव देहे चेतनप्रतिबिम्बविभ्रमोऽप्युपपादयितुं शक्यः; चेतनेऽपि देहगतरूपेणैव रूपोपधानसंभवान्मलिनदर्पणादिषूपाधिगतश्यामिकोपधानेनापि प्रतिबिम्बविभ्रमदर्शनात् , इति चेत्, उच्यते; जले गगनप्रतिबिम्बमभ्युपगच्छताप्यालोकप्रतिबिम्बोऽवश्यमभ्युपगन्तव्यः । अन्यथा कूपाधिकपरिमाणरूपस्य प्रतिबिम्बगतविशालत्वस्याचाक्षुषत्वप्रसङ्गात् , यत्र रूपं भासते तत्रैव परिमाणस्य चाक्षुषत्वात् । एवंच गगनालोकयोरुभयोरपि प्रतिबिम्बावङ्गीकृत्यालोकप्रतिबिम्बे भासमानस्य विशालत्वस्य गगनप्रतिबिम्बगतत्वेन विभ्रम इति कल्पनाद्वरमालोकप्रतिबिम्ब एवाधःप्रदेशे तलमलिनताद्यध्यासः । अन्यत्र तदीयरूपविशालताभ्यां सह स्फुरणं तत्रैव गगनप्रतिबिम्बत्व विभ्रम इति कल्पनम् , बहिस्तु नीलं नभः विशालं नभ इत्यादिप्रत्ययस्यालोकविषयत्वं न कल्पनीयम्; जलमध्ये नभःप्रतिबिम्बस्येव बहिर्नभसोऽसंप्रतिपत्त्यभावेन यथाव्यवहारं नभसि नीलिमाध्यासस्य तस्मिन्नेव तत्प्रसृतालोकगतरूपाध्यासेन तदीयविशालतानुभवस्य चाङ्गीकारे बाधकाभावात् । अतो रूपवत एव प्रतिबिम्ब इति नियमे व्यभिचाराभावान्नात्मन: प्रतिबिम्बो घटत इति भावः । गगनप्रतिबिम्बत्वविभ्रमविषयालोकप्रतिबिम्बवदात्मप्रतिबिम्बत्वभ्रमविषये देहादौ रूपवतः कस्यचित्प्रतिबिम्बोऽस्ति चेत्, तस्माच्च प्रतिबिम्बोपाधेर्देहस्य जपाकुसुमप्रतिबिम्बात्स्फटिकस्येव विवेकाग्रहोऽप्यस्ति चेत् , अध्यस्तगगनधर्मस्य नीलिम्नो जलमध्ये भासमानस्यालोकप्रतिबिम्बधर्मत्वेनेवाध्यस्तात्मधर्मस्य चैतन्यादेर्देहमध्ये भासमानस्यात्मप्रतिबिम्बत्वभ्रमविषयान्यप्रतिबिम्बधर्मत्वेन प्रतिभासः संभवेत् ।
एवं प्रतिभासतस्तद्धर्मस्य चैतन्यादेः प्रतिबिम्बग्राहिणि देहादावध्यासश्चोपपद्यते; जपाकुसुमप्रतिबिम्बारुणिम्न इव स्फटिके न तवात्मप्रतिबिम्बत्वभ्रमविषयः कस्यचित्प्रतिबिम्बोऽस्ति देहादावित्याह -
आत्मनस्त्विति ।
नन्वितरेतरभावानुपपत्तिः, इतरेतरभावाप्रतीत्यनुपपत्तिरिति व्याख्यातम् । अतः सैवाध्यासाभाव इति, तेनैव तत्साधने साध्यावैशिष्ट्यमित्याशङ्क्य हेतुसाध्ययोर्भेदं दर्शयति -
अध्यासानुपपत्तिमुक्त्वेति ।
अनुपपत्तिः अन्योन्यानात्मतास्फुरणेन प्रतिबन्धादुत्पत्त्यनर्हत्वं स हेतु: अध्यासाभावस्ततो भिन्नः साध्य इति भावः । अथवा अहं मनुष्य इत्यादिप्रतीतावतस्मिंस्तत्प्रतीतित्वस्याध्यासलक्षणस्याभावे उक्ते लक्ष्याध्यासरूपत्वस्याभावप्रदर्शनार्थमतोऽस्मत्प्रत्ययेत्यादिभाष्यमिति व्याख्यान्तरं केषुचित्कोशेषु दृष्टम् । अस्यां व्याख्यायामतोऽस्मत्प्रत्ययेत्यतः प्राचीनग्रन्थोऽहं मनुष्य इत्यादिप्रतीतावध्यासलक्षणाभावसमर्थने फलतः पर्यवसन्नो द्रष्टव्यः ।
ज्येष्ठस्यापीति ।
अपच्छेदन्यायेन (जै० अ. ६ पा. ५ सू. ५४) पूर्वस्य परेण बाधमाशङ्क्य तदपेक्षस्येति विशेषितम् । तेनोत्तरस्य पूर्वापेक्षायामुपक्रमाधिकरणन्याय एव प्रवर्तत इति सूचितमित्यर्थः । आद्यद्वयं निरस्येति अपौरुषेयतयेत्यादिषष्ठ्यन्तविशेषणद्वयेनेति शेषः ।
एवमप्रामाण्यं निराकृत्येति ।
ननूत्पादकाप्रतिद्वन्दित्वाादित्यप्रामाण्यनिराकरणहेतुनैवोपचरितार्थत्वमपि निराकृतं, किमर्थं पुनस्तन्निराकरणाय प्रागुपपादितमनन्यपरत्वं स्मार्यते, इत्याशङ्क्याह -
पूर्वमिति ।
ननु इह का पुनरप्युपजीव्यविरोधशङ्का, यन्निरासायानन्यपरत्वहेत्वन्वेषणम् ; उत्पादकाप्रतिद्वन्द्विहेतुविवरणग्रन्थ एव हि यदुपजीव्यं न तेन विरोधः, येन विरोधः न तदुपजीव्यमित्युपजीव्यविरोधशङ्का निरस्ता, उच्यते । उपजीव्योपजीवकविरोधोऽत्र द्वेधा समाधातुं शक्यते; उपजीव्यं प्रत्यक्षमौत्सर्गिकात् तत्त्वावेदकप्रमाणभावात् प्रच्याव्य तस्य सांव्यवहारिकविषयसमर्पणेन वा, उपजीवकं वाक्यजातमौत्सर्गिकान्मुख्यार्थात्प्रच्याव्य तस्यौपचारिकविषयसमर्पणेन वा । तत्रोपजीव्योपमर्दादुपजीवकोपमर्दो वरमिति न्यायमवलम्ब्य शङ्कायां तत्समाधानार्थमनन्यपरत्वस्य पुनरनुकीर्तनम् । इत्थं च तत्समाधानप्रकारो विवक्षितः; अस्त्युपजीव्यस्यापि बलवता उपजीवकेनोपमर्दः पूर्वतन्त्रे निर्णीतः । यथा 'विप्रतिषेधे करणसमवायविशेषादितरमन्यस्तेषां यतो विशेषः स्यात्' (जै० अ. ३ पा. ८ सू. २१) इत्यधिकरणे चिन्तितम् , कुण्डपायिनामयने श्रूयते 'यो होता सोऽध्वर्यु'रिति; तत्र होत्रध्वर्युशब्दयोर्भिन्नपुरुषवाचिनोर्मुख्यसामानाधिकरण्यायोगादन्यतरस्य लक्षकत्वे कल्पनीये प्रथमश्रुतस्य होतृशब्दस्य मुख्यवृत्त्या चरमश्रुतस्याध्वर्युशब्दस्याध्वर्युकर्मलक्षकत्वमिति तल्लक्षितेऽध्वर्युकर्मणि कर्तृत्वेन होतुर्विधिः । तेन प्रकृतितः प्राप्तयोरध्वर्युहोत्रोरध्वर्योर्निवृत्तिः, होत्रैवाध्वर्यवमपि कर्तव्यमिति व्यवस्था । तत्र यूपपरिव्याणकाले 'परिवीरसि' 'युवा सुवासा' इत्यनयोः परिव्याणे क्रियमाणानुवादिकरणमन्त्रयोरध्वर्युणा होत्रा च प्रयोज्ययोः परिव्याणासंकल्पप्रभृति तत्समाप्तिपर्यन्तमनुवर्तमानः क्रियमाणानुवादी तन्मध्यपाती परिव्याणारम्भसन्निपाती करणमन्त्र इति कालैक्यमापन्नयोस्तथैव कुण्डपायिनामयनेऽपि प्राप्तावेकेन होत्रा युगपदुभयोः प्रयोक्तुमशक्यतयावश्यमन्यतरबाधे वक्तव्ये, प्रत्यक्षश्रुतिविधीयमानाध्वर्युकर्मबाधायोगादानुमानिकप्रकृतिवच्छब्दप्राप्तहोतृकर्मबाध इति । तत्र होतुः प्रकृतिवच्छन्देन प्राप्तिः प्रत्यक्षवचनस्योपजीव्या; विकृतौ पदार्थप्राप्तिरुपकारमुखेनेति होतृकर्मप्राप्तिरपि होतृप्राप्त्यर्थत्वेनोपजीव्या; सा चोपजीव्यहोतृकर्मप्राप्तिरविशेषप्रवृत्ता 'युवा सुवासा' इति मन्त्रप्रयोगमपि स्पृशति । अध्वर्युशब्दश्चाध्वर्युकर्मणि लक्षयन् 'परिवीरसी'ति मन्त्रप्रयोगमपि स्पृशति; उभयोरप्युदाहृतमन्त्रद्वयप्रयोगातिरिक्तविषयत्वेन सावकाशताप्यस्ति; एवं सत्यप्युपजीवकस्य प्रत्यक्षवचनत्वेन प्राबल्यादुपजीव्यस्यैवोपमर्दः संश्रितः । तथा 'हिरण्यगर्भः पूर्वस्य मन्त्रलिङ्गात्' (जै. अ. १० पा.३ सू. १३) इत्यधिकरणे चिन्तितं वायव्यपशौ श्रूयते, 'हिरण्यगर्भः समवर्तताग्रइत्याघारमाघारयती'ति तत्र किममन्त्रके प्रजापतिदेवताके प्रथमाघारे मन्त्रो विधीयते, उत मत्रवतीन्द्रदैवत्यद्वितीयाघारे प्राकृतमन्त्रापवादकं मन्त्रान्तरं विधीयत इति संशये, हिरण्यगर्भशब्दस्य प्रजापतिनामत्वप्रसिद्धेः 'प्रजापतिर्वै हिरण्यगर्भ' इति वाक्यशेषाच्च विनियोज्यमन्त्रस्वारस्यानुरोधेन प्रथमाघार इति पूर्वः पक्षः; द्वितीयाघारे मन्त्रकार्यनियमादृष्टस्य क्लृप्तवादक्लृप्तत्वाच्च प्रथमाघारे तदकल्पना लाघवानुसारेण द्वितीयाघारे मन्त्रविधिरिति सिद्धान्त इति ॥ अत्राघारमन्त्रविधौ मन्त्र उपजीव्यः; प्रसिद्धं मन्त्रमादाय तद्विनियोगस्य कार्यवात् , आघारे तद्विधिरुपजीवकः । तत्र मन्त्रः कथंचिदिन्द्रे योगकल्पनया सावकाशः, तदुपजीवकविधिगताघारशब्दस्तु द्वितीयाघार इव प्रथमाघारेऽपि प्रसिद्धवृत्त्यैव सावकाशः; एवं सत्यपि लाघवानुगृहीतस्योपजीवकस्य प्राबल्येनोपजीव्यस्य क्लिष्टवृत्तिराश्रिता, एवमिहाप्यद्वैतवाक्यजातस्योपक्रमादितात्पर्यलिङ्गयुक्तत्वेन प्राबल्यात्तदुपजीव्यस्य प्रत्यक्षस्यैव व्यावहारिकविषयसमर्पणेनोपमर्दः कल्पयितुं युक्त इति । एतेन उपजीव्यविरोधे तात्पर्यवत्त्वमेव न सिद्ध्यतीत्यपि शङ्का निरस्ता; तदुपजीव्यविरोधेऽपि तात्पर्यवता वाक्येनोपजीव्योपमर्दस्य दर्शितत्वात् ।
विधायके इति ।
ननु एतदयुक्तम् ; सोमेन यजेतेति विधिवाक्ये सोमवता यागेनेति मत्वर्थलक्षणाङ्गीकारात् । तत्तुल्यमित्येदप्ययुक्तम् ; तत्त्वमसिवाक्ये भागत्यागलक्षणाङ्गीकारादिति चेत्, उच्यते; विधिवाक्यं तत्तुल्यं वा तात्पर्यवद्वाक्यं यत्किंचिदनुग्रहार्थम् अन्यमर्थं नेतुमयुक्तमिति तदभिप्रायः । एवं च विशिष्टविधिपरे सोमवाक्ये सोमद्रव्यतादात्म्यविशिष्टयागविध्यभ्युपगमे तस्य विशिष्टस्य विधेयस्य दध्यादिवल्लोकसिद्धत्वाभावेन विधिवाक्यादेव देवताधिकरणे (ब्र. अ. १ पा. ३ सू. ३३) उदाहरिष्यमाणरेवत्याधारवारवन्तीयविशेषणस्येव विना तात्पर्यं सिद्धिरेष्टव्या । नच तात्पर्यरहितादागमाद्यागसोमलतामेदग्राहिप्रत्यक्षविरुद्धार्थः सिद्ध्यतीति; तत्र तदविरोधाय मत्वर्थलक्षणाश्रयणम् ; अद्वैतश्रुतेस्तु तात्पर्यविषयादन्यत्र नयनमेव नास्तीति न कश्चिद्दोषः ।
ननु प्रत्यक्षज्ञानप्रामाण्यं ज्ञानसमानवित्तिवेद्यतया ज्ञाने प्रकाशमाने विशिष्य नियमेन प्रतीतं नाद्वैतश्रुत्या बाधनमर्हतीत्याशङ्क्य विशिष्य नियमेन प्रतीतस्यापि पूर्वस्य परेण बाधे टीकायामपच्छेदन्यायो(जै. अ. ६ पा. ५ सू. ५४ )दाहारणं कृतम् ; तत्र पूर्वस्य परोपजीव्यत्वं नास्तीति वैषम्याशङ्कानिराकरणपूर्वकं तदवतारयति -
एवं तावदिति ।
किमद्वैतश्रुतेः प्रत्यक्षं प्रमाणं सदुपजीव्यमिति प्रामाण्यस्य प्राबल्यमुच्यते, उतानुपजीव्यत्वेऽपि प्रथमप्रतीतत्वमात्रेण । आद्यपक्षो न शङ्कार्ह इत्याह -
उपजीव्यत्वमिति ।
प्रत्यक्षस्य प्रमाणस्य सत इति शेषः ।
द्वितीयपक्षनिराकरणार्थमुत्तरग्रन्थ इत्याह -
मुख्यत्वमात्रस्येति ।
ज्योतिष्टोमे बहिष्पवमानार्थं हविर्धानान्निर्गच्छतां ऋत्विग्यजमानानामन्वारम्भणं विहितम् । 'अध्वर्युं प्रस्तोताऽन्वारभते प्रस्तोतारमुद्गातोद्गातारं प्रतिहर्ते'त्यादिना । तद्विच्छेदे प्रायश्चित्तमाम्नायते 'यद्युद्गाताऽपच्छिद्येतादक्षिणं तं यज्ञमिष्ट्वा तेन पुनर्यजेत, तत्र तद्दद्याद्यत्पूर्वस्मिन्दास्यन्स्यात् , यदि प्रतिहर्तापच्छिद्येत सर्ववेदसं दद्या'दिति । तत्र पूर्वनिमित्तकर्तव्यताबुद्धिः परनिमित्तकर्तव्यताबुद्ध्या यथा बाध्यते, तथा श्रुतिजन्याद्वैतबुद्ध्या परया पूर्वप्रत्यक्षजन्या कर्तृत्वादिबुद्धिर्बाध्यते । बाधितापि सा तदुचितविषयसमर्पणेन शुक्तिरूप्यादिबुद्धिवदनुग्राह्येति यावद्ब्रह्मज्ञानाऽबाध्यव्यावहारिकविषयाङ्गीकारात् तद्विषयं प्रत्यक्षादि व्यावहारिकप्रमाणमिति व्यपदिश्यते; व्यावहारिकमेव प्रत्यक्षादिसिद्धं तत्तत्कारणस्वरूपं प्रमित्युत्पत्तावपेक्षितमिति तदबाधात् । तद्गततात्त्विकांशबाधेऽपि श(प)रशास्त्रस्य वेद्यास्तरणप्राप्त्यर्थं प्रकृतिवच्छब्दापेक्षस्य तत्प्राप्तकुशांशबाध इव अपरामृष्टप्रकृतिवच्छब्दजन्यबुद्धौ कुशांशप्रामाण्यबाध इव च नोपजीव्यविरोध इत्याशयः । यत्तु एकस्मिन्नपि प्रयोगे क्रमिकाभ्यां निमित्ताभ्यां तत्तन्नैमित्तिककर्तव्यतयोर्बदरफले श्यामरक्तरूपयोरिव क्रमेणोत्पादाद्रूपज्ञानद्वयवत् कर्तव्यताज्ञानद्वयमपि प्रमाणमेवेति न परेण पूर्वज्ञानबाधेऽपच्छेदन्याय उदाहरणम् इति । तन्न; अङ्गस्य सतः कर्तव्यत्वं, नच पश्चाद्भाविप्रतिहर्त्रपच्छेदवति पूर्ववृत्तोद्गात्रपच्छेदप्रायश्चित्तस्याङ्गत्वमस्ति; आहवनीयशास्त्रस्य पदहोमातिरिक्तहोमविषयत्ववत् तदङ्गत्वबोधकशास्त्रस्य पश्चाद्भाविप्रतिहर्त्रपच्छेदरहितक्रतुविषयतायाः सिद्धान्तितत्वात् । उक्तं हि न्यायरत्नमालायां तत्रैवं सति शास्त्रार्थो भवति, पश्चाद्भाव्युद्गात्रपच्छेदविधुरप्रतिहर्त्रपच्छेदवतः क्रतोः सर्ववेदसदानमङ्गमेवमुद्गात्रपच्छेदेऽपि द्रष्टव्यमिति । नच मीमांसकमर्यादामतिक्रम्य परकर्तव्यतानिवर्त्यं पूर्वकर्तव्यत्वं निर्वक्तुमपि शक्यम् ; नहि कृतिसाध्यत्वयोग्यवं तत् ; तस्य पश्चादपि सत्त्वात् । नापि फलमुखकृतिसाध्यत्वम् । तस्य पूर्वमप्यजननात् । नाप्यङ्गत्वम् ; तस्य संनिपत्योपकारकत्वफलोपकारकत्वान्यतररूपकारणताविशेषत्वेन तत्र योग्यत्वफलमुखत्वविकल्पे पूर्वोक्तदोषानतिवृत्तेः । नच कर्तव्यत्वं नाम धर्मान्तरमागमापायि कल्पनीयं मानाभावात् ।
सत्यपि प्रत्यक्षे संनिहिते शराम्नाने कल्प्यातिदेशवाक्यप्रापणीयानां दूरस्थितानां कुशानां ततः प्रागेव ग्रहणे हेतुगर्भं विशेषणम् -
उपकाराकाङ्क्षिण्यामिति ।
अस्यार्थः फलजनकत्वेन कर्माणि बोधयतां प्रधानविधीनां कथमनेन फलं जननीयमित्यनिर्ज्ञातप्रकारतया प्रधानगतफलजननसामर्थ्योद्बोधकाङ्गजन्यदृष्टादृष्टकार्यसमुदायरूपे उपकारे एव प्रथममाकाङ्क्षा भवति, तन्मुखेनोपकारजनकपदार्थरूपेष्वङ्गेष्वाकाङ्क्षा । एवं च प्राकृतप्रधानविधिः प्रथमाकाङ्क्षितमप्युपकारं क्वचिदपि क्लृप्तमपश्यन्नगत्या प्रकरणाम्नातान्पदार्थान्गृहीत्वा तत्पदार्थशक्त्यनुसारेण दृष्टादृष्टकार्यविशेषकल्पनया तत्समुदायरूपमुपकारं लब्ध्वा निवृत्तो भवति । वैकृतविधयस्तु स्वसंनिधौ क्लृप्तमुपकारमपश्यन्तोऽपि प्रकृतौ क्लृप्तं तं पश्यन्तः स्वाकाङ्क्षया दूरस्थितमपि तमेव गृह्णन्तः तन्मुखेन तज्जननशक्तत्वेनावधृतं प्राकृतपदार्थजातमेव प्रथमं गृह्णन्ति । यदाहुः
'क्लृप्तोपकारसाकाङ्क्षाः प्रथमं प्राकृतैः सह । संबध्यन्ते समीपस्थं विकारः प्रोज्झ्य चोदितम् ॥ इति ।
ततश्च वैकृतविधिसंनिध्याम्नातस्य शरादेर्वैशेषिकाङ्गजातस्य पश्चादन्वय इति ।
निरपेक्षैरिति ।
प्रत्यक्षश्रुतत्वेन पुरुषबुद्धिमूलप्रापकप्रमाणकल्पनाऽनपेक्षैरित्यर्थः । यद्वा शरप्राप्तिनिरपेक्षैरित्यर्थः ।
ननु पूर्वनिमित्तवति प्रयोगे तन्निमित्तककर्तव्यताबुद्धेः परनैमित्तिककर्तव्यताबुद्ध्या भ्रमत्वापादनेऽपि पूर्वनैमित्तिकशास्त्रस्य नात्यन्तबाधः; पूर्वनिमित्तमात्रवति प्रयोगान्तरे चारितार्थ्यात्, अहंप्रत्ययस्य कर्तृत्वभोक्तृत्वादिविषयस्यात्मन्यद्वैतवाक्यजातेन बाधे तु तन्मूलस्य प्रमाणस्य न क्वचिदपि चारितार्थ्यम् । नच व्यावहारिकविषयालम्बनतया तत्रैव चारितार्थ्यं स्यादिति वाच्यम् ; व्यावहारिकविषयस्य शुक्तिरूप्यादिवत्कदाचिद्बाध्यत्वाभ्युपगमाद्बाध्यविषये च व्यावहारिकं प्रामाण्यमिति व्यवहारस्याद्वैतपरिभाषामात्रसिद्धत्वादित्याशङ्क्य निर्दोषत्वेन क्लृप्तशास्त्रस्यैव विषयान्तरप्रदर्शनेन चारितार्थ्यमुपपादनीयं, नतु दोषमूलस्याहंप्रत्ययस्य तस्य पश्चाद्भाव्युद्गात्रपच्छेदवत्प्रयोगविषयतदपरामर्शदोषमूलसर्वस्वदानकर्तव्यताबुद्ध्यादिवद्भ्रान्तित्वोपपत्तरिति विवेचनाय तस्य दोषमूलत्वं दर्शयितुं प्रवृत्तमुत्तरग्रन्थमवतारयति -
एवं तावदिति ।
तादर्थ्यप्रकृतिविकारयोरिति।
तादर्थ्यप्रकृतिविकारभावयोरित्यर्थः । पूर्वमीमांसकमते हविषो देवतार्थत्वं हविर्देवतयोर्हिरण्यकुण्डलवत् प्रकृतिविकारभावश्चेत्युभयमपि नास्ति । सिद्धान्ते हविषो देवताभोज्यस्य तादर्थ्यसद्भावेऽपि हविर्देवतयोः प्रकृतिविकारभावो नास्तीत्यर्थः । ननु अत्र पूर्वपक्षिणा अग्नये होत्रमस्मिन्निति बहुव्रीहिसमासः शङ्कितः, नतु बहुव्रीहौ तादर्थ्यप्रकृतिविकारापेक्षास्ति; तत्पुरुषाधिकारे एव 'चतुर्थी तदर्थार्थ (२।१।३६) इत्यादिसूत्रेण तदर्थसमासस्य विहित्वात् , तस्यैव च तदर्थसमासस्य तस्मिन्सूत्रे बलिरक्षितग्रहणेन ज्ञापकेन प्रकृतेस्तादर्थ्यस्य स्फुटत्वेन वार्तिककृद्वचनेन च प्रकृतिविकृतिविषयत्वनियमसिद्धेः, समानाधिकरणानां बहुव्रीहिरिति शाब्दिकनियमादलाक्षणिकश्चतुर्थीगर्भव्यधिकरणबहुव्रीहिरिति चेत्, तर्हि स एव शङ्कितसमासासंभवे हेतुर्वक्तव्यो न तादर्थ्यप्रकृतिविकारभावाभावे इति चेत्, सत्यम्: यदि पूर्वपक्षी चतुर्थीगर्भव्यधिकरणबहुव्रीहिमलाक्षणिकं मन्यमानः सन् प्रत्ययस्य भावार्थतामवलम्ब्याग्नये होत्रं हवनमिति चतुर्थीतत्पुरुषमाश्रयेत, तदा तदसंभवे हेतुराचार्यैरुपन्यस्त इति न विरोधः । ननु सिद्धान्ते प्राप्तदेवतासंबन्धप्रवृत्तिनिमित्तकं यौगिकमग्निहोत्रनामेष्यते, बहुव्रीहिसमासश्च प्रदर्यते, स कथमुपपद्यत इति चेत्, उच्यते; नात्यन्तं व्यधिकरणबहुव्रीहेरसंभवः; 'सप्तमी विशेषणे बहुव्रीहौ' (पा. २।२।३५) इति । सप्तमीग्रहणेन ज्ञापकेन कण्ठेकाल इत्यादौ तस्याभ्युपगमात्, तदेव व्याप्तिन्यायेन विभक्त्यन्तरगर्भव्यधिकरणबहुव्रीहेरपि ज्ञापकमाश्रित्य वामनेन 'आवर्त्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपद' इति 'सच्छास्त्रजन्मा हि विवेकलाभ' इत्यादिप्रामाणिकप्रयोगदृष्टस्य पञ्चम्यादिगर्भव्यधिकरणबहुव्रीहेः साधुत्वप्रतिपादनाच्च, किन्त्वेवं ज्ञापकसिद्धो व्यधिकरणबहुव्रीहिः प्रामाणिकप्रयोगदर्शने सति समर्थनीयो न सर्वत्र; अन्यथा 'शेषो बहुव्रीहि' (पा. रा२।२३) रिति सूत्रे शेषग्रहेणेनाहत्य वार्तिकवचनेन च सिद्धस्य समानाधिकरणानां बहुव्रीहिरित्यौत्सर्गिकनियमस्य निर्हेतुकभङ्गापत्तेः । ततश्च सिद्धान्ते यदग्नये चेत्यादिवाक्यान्तरप्राप्ताग्निदेवतासंबन्धानुवादकं यौगिकमग्निहोत्रनामेति प्रतीतेः तदुपपादनार्थः प्रमाणमूलो युज्यते व्यधिकरणबहुव्रीहिः । गुणविधिरिति पूर्वपक्षे तु यदग्नये चेत्यादि शास्त्रमग्निप्रजापतिरूपानेकगुणविशिष्टहोमान्तरविधायकम् , अग्निर्ज्योतिरिति मन्त्रस्त्वस्यैव होमान्तरस्याङ्गमिति तयोर्विषयान्तरप्रदर्शनेन विधित्सितगुणप्रापकत्वाभावस्य समर्थनीयत्वादग्निदेवताया अप्राप्तेरकस्मादभ्युपगम्यमानो व्यधिकरणबहुव्रीहिर्न प्रमाणमूल इति स न युज्यते । तत्प्रख्यसूत्रे (जै. अ. १ पा. ४ सू. ४) यस्मिन्गुणोपदेश (जै. अ. १ पा. ४ सू. ३) इति पूर्वसूत्राद्यस्मिन्नित्यस्यापि वा, नामधेय(जै. अ. १ पा. ४ सू. २)मिति तत्पूर्वसूत्रान्नामधेयमित्यस्य चानुषङ्गः, तथाच तस्य विधित्सितगुणस्य प्रख्यं प्रख्यापकमन्यत् शास्त्रं यस्मिंस्तदग्निहोत्रादिकं नामधेयमित्यर्थः ।
कुण्डेति ।
कुण्डपायिनामयनाख्ये सत्रे श्रुतं 'यन्मासमग्निहोत्रं जुहोती'ति वाक्यं तत्रेत्यर्थः ।
अस्मिन्वाक्ये श्रुतगुणस्य विधेयत्वसंभवे विशिष्टविधिगौरवपरिहारार्थं विधिशक्तेर्गुणसंक्रान्त्या धात्वर्थविधानात्तद्विधानापेक्षः कर्मभेदो न सिद्ध्येदतो धात्वर्थविधानसिद्ध्यर्थं मासगुणस्य विध्यनर्हत्वमाह -
न तावदिति ।
ननु कालस्याविधेयत्वेऽपि विहितमेव नित्याग्निहोत्रं कालसंबन्धसिद्ध्यर्थं तदुद्देशेन पुनर्विधीयतां, सायं प्रातश्च जुहोतीति वाक्य इवेत्याशा तद्वैषम्यमाह -
नापीति ।
सिद्धार्थबोधिना नाम्नेति ।
'यदा त्वाद्यपरिस्पन्दात्प्रभृत्या फललाभतः । क्रिया पूर्वापरीभूता लक्ष्यते वर्तते तदा ॥' इत्युक्तरीत्या पूर्वापरीभूतेन क्रियारूपेण स्वार्थं धातुरुपस्थापयति, न तेन रूपेण नाम तदर्थमुपस्थापयितुं शक्नोतीति न नाम्ना धात्वर्थप्रत्यभिज्ञा संभवतीत्यर्थः । उक्तं च वार्तिके 'यादृशी भावनाऽऽख्याते धात्वर्थश्चापि यादृशः । नासौ तेनैव रूपेण कथ्यतेऽन्यैः पदैः क्वचित् ॥' इति ।
भावनान्यत्वमिति ।
नित्याग्निहोत्रस्य मासाग्निहोत्रस्य च जुहोतिधात्वर्थस्य भेदो भेदलक्षणद्वितीयाध्यायार्थभावनाभेदोपपादकतया प्रसाधित इति तत्प्रयोजनभूतो भावनाभेदः प्रयोजनान्यत्वमिति सौत्रपदेन विवक्षित इत्यभिप्रेत्यैवं व्याख्यातम् । यद्वा नाम्ना यथा कथं चिन्नित्याग्निहोत्रप्रत्यभिज्ञया धात्वर्थाभेदोपपादनेऽप्यग्निहोत्रहोमस्य नित्यत्वेन प्राधान्ये कुण्डपायिनामयनाङ्गत्वे च भाव्यभेदेन भावनाप्रत्यभिज्ञापकाभावेन च भावनान्यत्वमनिवार्यमित्यभिप्रेत्यैवं व्याख्यातम् । उक्तं च शास्त्रदीपिकायां 'ननु नामधेयेन भवति पूर्वकर्मोपस्थापनम् , भवतु, धात्वर्थस्य भावना तु तेनानुपस्थानाद्भिद्यत एव । धावर्थोऽपि यादृशो धातुनाऽऽख्यातवर्तिना पूर्वापरीभूतो विधेरुपनीयते, न तादृशो नाम्नोपस्थाप्यत इति तस्यापि युक्तो भेदः । तदभेदेऽपि भावना तावद्भिनेति सिद्ध'मिति । धात्वर्थस्य नाम्ना प्रत्यभिज्ञानमाचार्यैरपि वेधाद्यधिकरणे (ब. अ. ३ पा. ३ सू. २५) स्वीकृत्य व्यवहृतम् । तत्रैव तदुपपादनं करिष्यामः ।
तत्र सिद्ध कर्मभेदे इति ।
यदि प्रकरणभेदेन भावनामात्रभेदः, तदा साप्तमिकाधिकरणे (जै.अ.पा.३ सू. १) अग्निहोत्रशब्दस्य मासाग्निहोत्रे गौणत्वाभिधानमेव गौणमित्येतदपि वेधाद्यधिकरण एवोपपादयिष्यामः ।
अभिज्ञारूपेति ।
मम देह इति देहत्वाकारेण विवेकग्रहः परिच्छिन्नत्वाकारेण देहभेदाध्यासेन विरोधी, चैत्रमैत्रयोः संनिहितयोरयमस्माद्भिन्न इति स्वरूपेण भेदग्रहे इव मैत्रचैत्रत्वाकारेण तदभेदाध्यासे । अर्थः विषयः ।
भिन्नाभ्यामिति ।
बालस्थविरशरीरयोः परस्परभिन्नत्वं ताभ्याम् एकस्यात्मनो भेदश्चेत्युभयमप्यनुमानादित्यर्थः । परिमाणमेदे तस्यावयवापचयोपचयसाध्यत्वादवयवापचये समवायिकारणनाशात्पूर्वावयविनाशतः स्थितावयवैः सूक्ष्मावयव्यन्तरोत्पत्तिरवयवोपचये पश्चादापततामवयवानां पूर्वसिद्धेऽवयविनि कारणत्वायोगतः पूर्वसिद्धावयविसहितैरवयवान्तरैर्महावयव्यन्तरोत्पत्तिश्चावश्यंभाविनीति बालस्थविरशरीरयोर्भिन्नत्वं तावदानुमानिकं न प्रत्यक्षम्, प्रत्यक्षेण तु योऽयं मम देहो बाल्ये तथा पुष्ट आसीत् स एवेदानीं वार्धके कृश इत्यभेद एव तयोः प्रतीयते । ततश्च बाल्यस्थाविरदशयोर्भिन्नाभ्यां देहाभ्यां दशाद्वयाभिन्न आत्मा भिन्न इति विरुद्धधर्मलिङ्गकभेदज्ञानमप्यानुमानिकमिति भावः ।
ननु देहयोः परस्परभेदस्यानुमानिकत्वेऽपि ताभ्यामात्मनो भेदकस्यैक्यस्य प्रत्यक्षत्वादात्मनि देहभेदः प्रत्यक्ष एव स्याद् ; भेदकसाक्षात्कारस्य भेदसाक्षात्कारनियतत्वात् , अतो न तत्र परीक्षककृत्यानुमानापेक्षेति चेद्, मैवम्; तथापि प्रथमानुमानापेक्षत्वेन परीक्षककृत्यत्वानपायात् । वस्तुतस्त्वत्र प्रत्यभिज्ञामात्रेण निर्विचिकित्समैक्यं न सिद्ध्यतीति न भेदकसाक्षात्कारशङ्कापीत्याह -
तच्च शास्त्रादृते इति ।
तत्प्रत्यभिज्ञाविषयभूतमप्यात्मैक्यं शास्त्रं विना न सिध्यति; परिमाणभेदेन देहमेदे सत्यपि तदभेदप्रत्यभिज्ञादर्शनेन योऽहं बाल्ये पुष्टः पितरावन्वभूवं स एव स्थाविरे कृशः प्रणप्तॄननुभवामीति परिमाणभेदभिन्नधर्मिगततयैव पितृप्रणप्त्रनुभवविषयाभेदप्रत्यभिज्ञादर्शनेन च तथाभूतप्रत्यभिज्ञामात्रादैक्यासिद्धेरिति भावः । ननु तथापि योऽहं स्वप्ने व्याघ्रदेहः स एवेदानीं मनुष्यदेह इति प्रत्यभिज्ञया स्फुटतरभेदाभ्यां देहाभ्यां तदुभयानुवृत्तस्यात्मनो भेदः प्रत्यक्ष एव स्यात् , तत्र निर्विचिकित्सभेदकसाक्षात्कारसत्त्वादिति चेद, न; भेदकसाक्षात्कारस्य भेदसाक्षात्कारनियतत्वाभावात् । अपीतत्वव्याप्यशङ्खत्वदर्शनेऽपि तत्साक्षात्कारानुदयात् , स्वप्नदृष्टेषु लौकिकानां मिथ्यात्वसंप्रतिपत्त्या योऽयं स्थाणुः पुमानेष इतिवत्तत्र बाधायां सामानाधिकरण्यं न त्वभेद इति भेदकसाक्षात्कारासिद्धेश्च ।
काकतालीयेति ।
यद्यपि 'समासाच्च तद्विषया'(पा. ५।३।१०६)दिति सूत्रणेवार्थविषयात्समासादिवार्थेन छप्रत्ययेन निष्पादितः काकतालीयशब्द उपमाद्वयगर्भः, तथाच काकतालयोरिव यादृच्छिको दस्युदेवदत्तयोः समागम इत्येका समासार्थोपमा, तदानीमेव पतता तालेन काकस्येव दस्युना देवदत्तस्य वधः कृत इत्यन्या तद्धितार्थोपमा चेति, यत्रोपमाद्वयं तत्रैवास्य शब्दस्य संपूर्णार्थता; तथापि यादृच्छिकसमागममात्रेऽप्यस्य प्रचुरः प्रयोगो दृश्यत इत्ययमपि प्रयोगो यादृच्छिकसमागममात्रविषयः ।
नन 'कृशोऽहमन्धोऽह'मित्यादीनामध्यासत्वोक्तिर्न युक्ता; परस्परभिन्नत्वेन निश्चितानां देहेन्द्रियाणां रङ्गरजतादीनां शुक्तिशकले इवैकस्मिन्नात्मन्यध्यासासंभवात् , अतस्तेषां गौणत्वमेव युक्तमित्याशङ्कां निवर्तयति -
विवेकासिद्धाविति ।
गौणत्वे हि न देवदत्तः सिंह इतिवत्, कदाचिदपि नाहं कृशो नाहमन्ध इत्यादिरूपेण विवेको लौकिकसाधारणो दृश्येत, अतोऽध्यास इत्येवाभ्युपेयम् । भेदकसाक्षात्कारेऽपि दोषबलादभेदाध्यासः पीतशङ्खादिस्थले संप्रतिपन्नः । किंच येन रूपेण देहत्वचक्षुष्ट्वादिना देहेन्द्रियभेदनिश्चयः, तेन रूपेणात्मनि तदुभयाध्यासासंभवेऽपि कृशत्वान्धत्वादिरूपान्तरेण तदुभयाभेदाध्यासे न काचिदनुपपत्तिः । नहि कृशादन्धोऽन्य इत्यादिरूपोऽस्ति भेदप्रत्ययः; दृश्यते च देवदत्तसमीपगतयोरधीयानानधीयानयोः पुरुषत्वसामान्येन गृह्यमाणयोश्चैत्रमैत्रयोः परस्परभेदग्रहे ताभ्यां देवदत्ते दृश्यमानेन रूपेण भेदग्रहे च सत्यप्यधीयानोऽयं मैत्रस्तिष्ठतीत्यधीयानत्वमैत्रत्वाकारद्वयेन देवदत्ते तदुभयाध्यासः । ननु तथाप्यन्धो बधिरः काणो मूक इत्यादीनामात्मनि तत्तदिन्द्रियाध्यासरूपत्वं न सिद्ध्यति; अर्शआदिगणसंगृहीताद्विकलाङ्गवाचिनोऽन्धादिशब्दात् 'अर्शआदिभ्योऽच् (पा. ५।२।१२७) इति सूत्रेण मत्वर्थीयस्याचः प्रत्ययस्य विधानादहंशब्दसमानाधिकरणान्धादिव्यवहारस्य मत्वर्थीयप्रत्ययान्तान्धादिपदयुक्तत्वेन विकलचक्षुरादिवैशिष्ट्यपरत्वोपपत्तेः, कृशोऽहमित्यादीनामप्यर्शआदेराकृतिगणत्वेन मत्वर्थीयप्रत्ययान्ततया कृशादिरूपदेहवैशिष्ट्यविषयत्वोपपत्तेर्नाध्यासरूपत्वं कल्पनीयमिति शङ्कानिवर्तनार्थं टीकायामुपन्यस्तं गच्छामीत्येवमादिकमुदाहरणान्तरं कृशोऽहमित्यादीनामित्यादिशब्देन संगृहीतम् । गच्छामि कृश्यामीत्याद्याख्यातप्रयोगे गन्तृकृशादिरूपदेहाभेद एवार्थो वाच्यः; तथा कुणिरहमित्यादिव्यवहारे विकलेन्द्रियाभेद एवार्थो वाच्यः; तादृक्षु प्रयोगेषु मत्वर्थीयप्रत्ययाभावात् , तत्सामान्यादन्धोऽहमित्यादिप्रयोगाणामप्यध्यासमूलत्वमेव युक्तमित्यर्थः । अर्शआद्यज्विधानं 'चित' (पा. ६।१।१६३) इत्यन्तोदात्तस्वरार्थं, नत्वात्मनि प्रयोगनिर्वाहार्थमिति योज्यम् । दृश्यते स्वरविशेषसिद्ध्यौपयिकतयैव तद्विधानार्थं गुणविशेषवाचिनां शुक्लादिशब्दानामप्यर्शआदिगणे संग्रहः । नहि शुक्लादिगुणवैशिष्ट्यप्रतीतिनिर्वाहार्थं तत् ; गुणान्तरवाचिसाधारण्येन गुणवचनेभ्यो मतुपो लुग्विधानेनैव तन्निर्वाहात् । नच शुक्लादिगुणशालिभिः प्रासादैर्विशिष्टे नगरे शुक्लं नगरमित्यादिप्रयोगनिर्वाहार्थं शुक्लादिशब्देभ्यो मतुब्लोपानन्तरमज्विधानमिति वाच्यम् ; संख्यासंनिवेशविशेषविशिष्टानां गृहाणामेव नगरशब्दवाच्यत्वे साक्षादेव नगरे शुकादिगुणवैशिष्ट्यसत्त्वेन, तथाभूतगृहाधिकरणस्थलस्य नगरत्वे तदभेदोपचारसंभवेन च तदर्थमज्विधानानपेक्षणात् । अन्यथा ह्यश्वेतनगरमपुष्प्यद्वनमित्याद्याख्यातप्रयोगे का गतिः । एवमहंप्रत्ययस्य केषुचिदंशेषु दृष्टविसंवादतया दृष्टकौटसाक्ष्यपुरुषवचनवदप्रामाण्यशङ्काकलुषितस्य परिमाणत्वग्रहणप्रतिबन्धक(जै. अ. ६ पा. ५ सू. ४४)दूरत्वदोषसद्भावसमुदिताऽप्रामाण्यशङ्काकलङ्कितचन्द्रप्रादेशिकत्वज्ञानवदागमबाधनाक्षमत्वे सत्यागमेनैव तद्बाध्यते । आगमबाधितस्य च तस्य पूर्वापच्छेदशास्त्रस्येव (जै. अ. ६ पा. ५ सू. ५४) प्रामाण्यसंरक्षणाय न विषयान्तरं गवेषणीयम् ; चन्द्रप्रादेशिकत्वज्ञानवद् दोषजन्यत्वेन सर्वथैवाप्रामाण्योपपत्तेरित्येतावदस्मिन्नधिकरणे शास्त्रारम्भोपयोगिविषयप्रयोजनसमर्थनार्थं सूत्रसूचितं व्युत्पाद्यम् । इत्थं तत्त्वावेदकप्रमाणभावात् प्रच्यावितस्य कर्तृत्वभोक्तृत्वादिप्रत्यक्षस्य प्रवृत्तिनिवृत्त्यादिव्यवहारोपयोगिसांव्यवहारिकं प्रामाण्यं सर्वप्रपञ्चसाधारण्येनारम्भणाधिकरणे (ब्र. अ. २ पा. १ सू. २४) व्युत्पादनीयम् ; श्रोतृबुद्धिसौकर्यार्थं प्रागनूदितमित्यनुसंधेयम् ।
अध्यासाभिधानक्रिययोरिति ।
अध्यासक्रियैव तावन्न संभवति, दुरेऽध्यासाभिधानक्रिययोः पौवोपर्यं; क्रियाया आश्रयाधीनात्मलाभत्वात्, शुद्धाया निर्विकारायाश्चितः क्रियाश्रयत्वायोगाद्, अध्यसनीयबुद्धितादात्म्यापनायाश्च चितोऽध्यासाधीनसिद्धिकत्वादिति प्रथमाशङ्कार्थः ।
इमां शङ्कां स्वयं परिहरति -
पूर्वपूर्वेति ।
ननु मिथ्याज्ञाननिमित्तविशेषणविवरणटीकया द्वितीयशङ्काया इव नैसर्गिकविशेषणविवरणटीकयाऽस्याः प्रथमशङ्कायाः परिहारो लभ्यते । यद्यपि 'अध्यासो वस्तुसतोर्भेदाग्रहाधीनः, नच देहेन्द्रियादिकं त्वया वस्तुसदिष्यत' इत्यध्यासासंभवशङ्कायाम्, प्रातीतिकेनापि सत्त्वेनारोप्याधिष्ठानयुगलसंपादनमुपपद्यते इत्येवं सत्यानृते मिथुनीकृत्येत्यनेन परिहृतायां प्रातीतिकसत्त्वमप्यध्यासाधीनमिति पुनरन्योन्याश्रयशङ्का नैसर्गिकविशेषणेन परिहृतेति योजयता टीकाग्रन्थेन देहेन्द्रियबुद्ध्यादेः स्वरूपमात्रस्य पूर्वपूर्वाध्यासतः सिद्धिरुक्ता, न चितो बुद्धितादात्म्यापत्तेरपि; तथापि तत एव साप्यर्थात्सिद्ध्यति; प्रवाहानादित्वेनोच्यमानस्याध्यासस्य परत्र परतादात्म्यावभासरूपत्वादिति चेत्, उच्यते; नैसर्गिकत्वोक्त्या नोक्तशङ्कायाः परिहारो लभ्यते; सर्गादौ प्रथमाध्यासात् पूर्वमाध्यासिकस्य बुद्धितादात्म्यस्यासिद्धेः । नच तदभावेऽपि पूर्वाध्याससंस्कारसत्त्वात्तदुपधानेन चितः प्रथमाध्यासक्रियाश्रयत्वं स्यादिति वाच्यम्; प्रथमाध्यासेऽध्याससंस्कारोपधानं प्रयोजकं, द्वितीयाद्यध्यासेष्वध्यासपरिनिष्पन्नं बुद्धितादात्म्यं प्रयोजकमित्यननुगमापत्तेः, संस्कारस्य च निराश्रयस्य प्रलये स्थित्यसंभवात् , शुद्धचितस्तदाश्रयत्वायोगाद्, बुद्धीन्द्रियादीनां सर्गादावुत्पत्तिश्रवणेन प्रलयेऽध्याससन्तानविच्छेदेन च तदानीमाध्यासिकबुद्धितादात्म्यापन्नचितोऽपि तदाश्रयतया वक्तुमशक्यत्वादित्येतावत्पर्यन्तं प्रथमशङ्का धावेदित्यालोच्याचार्यैः स्वयं परिहारोऽभिहितः । तत्रायमाशयः प्रलये संस्काराश्रयस्य तावन्नासंभवः, अविद्यायाः सत्त्वात् , सर्वोऽपि हि प्रपञ्चस्तदानीमविद्याचित्रभित्तौ संस्कारमात्रशेषं स्थित्वा पुनरुद्भवतीत्यङ्गीक्रियते । अत एव बीजाङ्कुरप्रवाहानादिताया अपि प्रलये तत्संस्कारसत्त्वेनैव निर्वाहः । नाप्यननुगमः; सर्वेष्वप्यध्यासेषु पूर्वपूर्वभ्रमसंस्कारसचिवाविद्योपधानमेव प्रयोजकं नतु बुद्धितादात्म्यापत्तिरपीत्यभ्युपगमे दोषाभावादिति । प्रतीयमानतैव परमार्थसत्तेति मन्यमानस्य शङ्कावादिनः प्रतीतिमात्रमारोपोपयोगि, न परमार्थसत्तेत्यभ्युपगमो विरुद्ध, इत्याशङ्क्य परमार्थसत्तेत्येतदन्तः सिद्धान्त्युक्तानुवादः, तत्राद्धेत्यनेन सूचितः ।
प्रतीतिमात्रमारोपे उपयुज्यते इति युक्तं प्रतीयमानस्य सत्ता नोपयुज्यत इति तु न युक्तमित्येवंरूपोर्द्धाङ्गीकारः प्रतीतिरेव त्वित्यादिना स्फुटीकृत इति विभज्य तात्पर्यं प्रदर्शयन्नवतारयति -
सत्यानृते मिथुनीकृत्येत्यत्रेति ।
उक्तमिति ।
तदिहाऽनूदितमिति शेषः ।
विवेकाग्रहादिति ।
अनृतस्य प्रतीतिमङ्गीकृत्य भेदग्रहादध्यासाक्षेपः पूर्वं कृतः, इदानीं प्रतीतिविषयस्यानृतत्वमेव न युक्तमित्याक्षेप इति भेद इत्यर्थः ।
प्रकाशमानत्वमितीति ।
प्रतीतिविषयत्वमित्यर्थः । असतः प्रतीतिविषयत्वं पूर्वपक्षी न मन्यते ।
अध्याससामान्यलक्षणकथेति ।
ननु सामान्यलक्षणत्वे गोत्वादिप्रत्यभिज्ञापि द्वैतवस्त्ववभासत्वेन व्यावहारिकाध्यासरूपा तेन संग्राह्येति कथमग्रे तत्रातिव्याप्तिशङ्का । नच सामान्यलक्षणत्वोक्तिरियं संक्षिप्तलक्षणविषया, विस्तृतलक्षणं तु प्रतिभासिकाध्यासमात्रविषयमिति तदतिव्याप्तिकथनं युज्यत इति वाच्यम्; तस्योपव्याख्यानमिति टीकाग्रन्थेन तद्व्याख्यानेन च संक्षिप्तविस्तृतलक्षणयोरेकविषयत्वावगमात्, सन् घट इत्याद्यवभासे सत्यानृततादात्म्यावभासत्वे पर्यवसन्नस्य विस्तृतलक्षणस्य सत्त्वेनातिव्याप्त्यापत्तेश्चेति चेत्, सत्यम्; स्मृतिप्रत्यभिज्ञातिव्याप्तिकथनं तयोरधिष्ठानसद्रूपब्रह्मतादात्म्यापन्नानृतवस्तुविषयतयैवाध्यासरूपत्वं, नतु समानसत्ताकजातिव्यक्तितादात्म्यविषयतयेति तेन रूपेण तयोरलक्ष्यत्वाभिप्रायम् । यदि जातिव्यक्तितादात्म्यविषयत्वांशे सत्यानृतमिथुनीकरणाभावेऽपि बाध्यत्वरूपसंक्षिप्तलक्षणानुगतिसद्भावात् , तत्र विस्तृतलक्षणेनापि भाव्यं, तदा पूर्वदृष्टस्य परत्रावभास इत्येतल्लक्षणं परमते गोत्वादिप्रत्यभिज्ञाया इव प्रमात्वेनाप्युपपद्यत इति तेन स्वाभिमताध्यासरूपत्वसिद्ध्यभावाभिप्रायं योज्यम् । एवमपि हि लक्षणदूषणमाकरग्रन्थेषु दृश्यते । यथा स्वश्चासौ प्रकाशश्चेति स्वप्रकाशनिर्वचनं ज्ञानस्य वेद्यत्वेऽप्युपपद्यते; स्वशब्दार्थस्य ज्ञानस्य परवेद्यत्वेऽपि प्रकाशत्वाक्षतेः । ब्रह्मभिन्नत्वं मिथ्यात्वमिति लक्षणं सत्यत्वेऽप्युपपद्यते; वियदादेः सत्यत्वपक्षेऽपि ब्रह्मभिन्नत्वाक्षतेरित्यादि । अस्मिन् दूषणेऽतिव्याप्तित्वव्यवहारश्च तत्र तत्र दृश्यते । उच्छेदो बाधकज्ञानोदयानन्तरं भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः, स पीतशङ्खविभ्रमादिविषयव्याप्त इति तत्साधारणं पक्षान्तरमुक्तं टीकायां अवमतो वेति ।
तत्रावमानशब्दार्थमाह -
यौक्तिकेति ।
तिरस्कारः इच्छाप्रवृत्त्यादिकार्याक्षमत्वापादनम् ।
ननु संक्षिप्तलक्षणेनैवेतरव्यावृत्तलक्ष्यव्यवहारसिद्धेः किं विस्तृतलक्षणेनेत्याशङ्क्य तत्प्रयोजनमाह -
परत्रेत्यादिपदैरिति ।
परत्रासंनिहितस्यावभास इति लक्षणवाक्यघटकपदैरित्यर्थः ।
लक्षणवाक्यार्थेऽतिव्याप्तिमाहेति ।
एवं लक्षणवाक्यार्थे वर्ण्यमाने प्रत्यभिज्ञायामतिव्याप्तिमाहेत्यर्थः ।
तादात्म्यावभास इति ।
धर्म्यध्यासलक्षणवाक्यार्थमभिप्रेत्यातिव्याप्तिमाहेति पाठो दृष्टश्चेदृजुः स पाठः ।
असंनिधानसिद्धवत्कारेणेति ।
असंनिधानमधिष्ठाने परमार्थतोऽसत्त्वमिति वक्ष्यते, तेनानृतत्वलाभः । एतेन टीकायां परत्रेत्यस्य 'सत्ये' इत्यर्थस्योक्तत्वात् स्मृतिरूपविशेषणरहितस्य सत्ये पूर्वदृष्टस्यावभास इति लक्षणस्य पूर्वं यस्यां गवि गोत्वं दृष्टं तस्यामेव गोत्वज्ञानेऽतिव्याप्तौ शङ्कितुं शक्यायामतिव्याप्त्यर्थं गोव्यक्त्यन्तरे गोत्वज्ञानस्यान्वेषणं व्यर्थमित्यपि शङ्का निरस्ता; आरोप्यानृतत्वसमर्पकस्मृतिरूपपदसमभिव्याहारे हि परशब्दस्य तत्प्रतिद्वन्द्विसत्यार्थकत्वं लभ्यते, तदभावे तु पूर्वदृष्टपदसमभिव्याहारात् परशब्दः पूर्वदृष्टदेशादन्यदेशं बोधयेदित्यतिव्याप्त्यर्थं गोव्यक्त्यन्तरविषयगोत्वप्रत्यभिज्ञान्वेषणं युक्तमेवेति ।
ननु स्मृतावतिव्याप्तिवारणार्थं परत्रेति विशेषणमित्ययुक्तम् ; प्रत्यभिज्ञायामिव स्मृतावप्यतिव्याप्तेरतिव्याप्तिशब्दलक्षितायाः प्रमात्वेनान्यथासिद्धेर्वा स्मृतिरूपविशेषणेनैव वारणात् ; तदर्थस्याधिष्ठाने परमार्थतोऽसत्त्वमिति निरुक्तस्याधिष्ठानसमसत्ताकत्वाभावरूपस्य प्रत्यभिज्ञाविषयगोत्व इव तत्तायामप्यभावाद् , उभयोरपि गोव्यक्त्यन्तरस्मर्यमाणधर्मिरूपाधिष्ठानसमसत्ताकत्वाद्, अधिष्ठानसत्यत्वार्थकेन परत्रेत्यनेन स्मृतिव्यावर्तनासंभवाच्च, तत्राधिष्ठानस्य स्मर्यमाणस्याप्यप्रातिभासिकतया शुक्तिकादेरिव सत्यशब्दार्थत्वादित्याशङ्क्याह -
स्मृतिरूपपदेन चेति ।
यदि यथाश्रुतटीकानुसारात् स्मृतिरूपपदेनासंनिहितविषयत्वमात्रं विवक्षितं, नत्ववाचार्यैर्निर्वक्तव्यमधिष्ठानसमसत्ताकत्वरहितविषयत्वं, तदेयं स्मृतावतिव्याप्तिशङ्का परत्रेयनेन तन्निरासोऽपि भवति । अनृतोपस्थापकपदसमभिव्याहाराभावेन परशब्दस्य पूर्वदृष्टदेशान्यदेशपरत्वस्यासंनिहितसमभिव्याहारात् संनिहितपरत्वस्य वा प्राप्तेरिति भावः । एवंचापसिद्धान्तपरिहारार्थमसंनिहितत्वमधिष्ठाने परमार्थतोऽसत्त्वमित्यवश्यं विवक्षणीयत्वात् , तत एव प्रत्यभिज्ञाया इव स्मृतेरपि व्यावृत्तिसिद्धेः, परत्रेति विशेषणानपेक्षणेन लक्षणे तदनिवेशनसूचनात्, शङ्कान्तरमपि व्यावर्तितं भवति । तन्निवेशने हीत्थं शङ्का स्यात् यदि परशब्दः पूर्वदृष्टसमभिव्याहारात् पूर्वदृष्टदेशान्यदेशपरः, तदाहङ्काराध्यासाव्याप्तिः, तदधिष्ठानस्य साक्षिणः पूर्वदृष्टदेशत्वात् , रजताद्यध्यासाव्याप्तिश्च; तत्राध्यसनीयस्य पूर्वदृष्टत्वाभावात् । पूर्वदृष्टसजातीयत्वविवक्षायां यथा कथंचित्साजात्यस्य सर्वत्र सत्त्वेन पूर्वदृष्टविशेषणस्याव्यावर्तकत्वापत्तिः । यद्धर्मावच्छेदेनावभासविषयत्वं तेन धर्मेण साजात्यविवक्षायां गोव्यक्त्यन्तरे गोत्वस्य किंचिद्धर्मावच्छेदेनानवभासमानतया तत्प्रत्यभिज्ञायामतिव्याप्त्युक्तेरसामञ्जस्यापत्तिः । यदि त्वनृतोपस्थापकपदसमभिव्याहारात् परशब्दः सत्यार्थकः, तदा वियदादिविषयानुमितिशब्दज्ञानरूपव्यावहारिकाध्यासेष्वव्याप्तिः, तेषु प्रत्यक्षेष्वपि सद्रूपाधिष्ठानब्रह्मस्फुरणाभावात् । देहादावनात्मन्यात्माध्यासे चाव्याप्तिः; तत्र स्वरूपतोऽप्यध्यस्तो देहादिः सत्यः, शबलितरूपमात्रेणाध्यस्त आत्मा त्वसत्य, इत्येवं सत्ये अनृतावभास इति लक्षणानुगमस्य कर्तुमयुक्तत्वात् । अध्याससंक्षिप्तलक्षणकोडीकृतेषु विस्तृतलक्षणानुगत्यवश्यंभावश्च इति ॥ तस्मादधिष्ठानासमसत्ताकस्यावभासोऽध्यास इत्येवानुगतं लक्षणम् । यद्गतमवभास्यं तदधिष्ठानम् । तथाच गोत्वादिषु गोव्यक्त्यादिरूपाधिष्ठानसमसत्ताकत्वसद्भावेऽपि ब्रह्मरूपाधिष्ठानसमसत्ताकत्वसद्धावो नास्तीति लक्षणस्य न क्वाप्यध्यासे अननगतिः । एवं परत्रेति विशेषणरहितमसंनिहितस्यावभास इत्येतावदेव लक्षणमित्याचार्यैरसंनिहितपदस्याधिष्ठाने परमार्थतोऽसत्त्वमित्यर्थविवक्षायां पत्रेति विशेषणस्य फलं नास्तीति सूचनेन, अथवाऽसंनिधानेनेति श्लोके असंनिधानावभासाभ्यामेव परत्रेति विशेषणनिरसनीयत्वेन टीकोक्ताया असत्ख्यातेरनभिमतसकलख्यात्यन्तराणां च निरसनेन च सूचितं टीकाकाराभिमतं परत्रेति विशेषणसहितं लक्षणं प्राक् प्रदर्शितम् । इदानीं तद्रहितलक्षणं स्वाभिमतमभिप्रेत्य तदनुप्रविष्टाभ्यामसंनिधानावभासाभ्यामेवानभिमतसकलख्यात्यन्तरनिरसनं क्रियत इति टीकाकारमतात् स्वमतस्य भेदं सूचयितुम् अथवेत्युक्तिः । अथवा असंनिहितस्यावभास इत्येतावदेव लक्षणम् । तत्रासंनिधानेनासत्ख्यातिव्यतिरिक्ताख्यात्यादिसकलसत्ख्यातिवारणम् , अवभासेनासत्ख्यातिवारणमिति श्लोकार्थः । भ्रमविषयरजतादिकं तादात्म्येन वा ताद्धर्म्येण वा यद्गतं तत् अधिष्ठानम् । तथाचाख्यात्यन्यथाख्यातिमतयोर्देशान्तरस्थमधिष्ठानम्, आत्मख्यातिमते ज्ञानम् , सत्ख्यातिमते पुरोवर्ति शुक्त्यादिकम् , अस्मिन्मतचतुष्टयेऽपि सदेव रजतादिकं तत्तदधिष्ठानसमसत्ताकमित्यसंनिधानविशेषणेन चतुर्विधाप्येषा सत्ख्यातिर्वार्यत इत्यर्थः । अवभासाद् इत्यस्यापरोक्षावभासादित्यर्थः ।
अत एवाह -
नृशृङ्गे तददर्शनादिति ।
नृशृङ्गेऽपि हि परोक्षावभासः प्रागाचार्यैरङ्गीकृतः । यद्यप्यापरोक्ष्यं न लक्षणानुप्रविष्टं तथापि रजताध्यासे लक्षणानुगतो क्रियमाणायां तत्र लक्षणस्थमवभासपदं वस्तुतोऽपरोक्षावभासे पर्यवस्यदापरोक्ष्यस्फुरणनियतमिति तल्लाभः । इदं त्ववधेयं शुक्तावसद्रजतं भासत इति सदुपरक्तासत्ख्यातेरपरोक्षावभासेन निरासः, शून्यवाद्यभिमतनिरधिष्ठानासत्ख्यातेस्त्वसंनिधानेनापि निरासः; तदर्थस्य स्वाधिष्ठानेन समसत्ताकत्वाभावस्यासति स्वाधिष्ठानाप्रसिद्धौ निरूपयितुमशक्यत्वात् , एवंच सिद्धान्त्यभिमता शशशृङ्गादिशब्दजन्या असत्प्रतीतिः न शुक्तिरजतादिज्ञानवदध्यासः, नापि घटादिज्ञानवत्प्रमा, किंतूभयविलक्षणं ज्ञानमात्रमिति ॥
पूर्वदृष्टग्रहणं तु न ख्यात्यन्तर निरासार्थं, पूर्वदृष्टिसद्भावप्रतिपादनार्थं वा; रजतविभ्रमादिषु पूर्वदृष्ट्यपेक्षायाः सर्वसंप्रतिपन्नत्वात् , किंतु टीकोक्तप्रयोजनमात्रार्थमित्याह -
असंनिहितस्येति ।
पूर्वप्रमितत्वशब्देन पूर्वप्रमितत्वसहचरिता सत्ता लक्ष्यते, आक्षेपभाष्यटीकानुसारात् ।
स्वप्नज्ञाने इति ।
स्वप्नः प्रातिभासिकविभ्रम इति न तत्रात्माधिष्ठानं, पारमार्थिकाधिष्ठानत्वे वियदादिविभ्रमवद् व्यावहारिकाध्यासत्वापत्तेः, नच रजतविभ्रमादिषु शुक्तिकादिवत् तत्र व्यावहारिकमधिष्ठानमस्तीत्यव्याप्तिशङ्का ।
अनुभूयमाने इति ।
प्रागनुभूयमाने पित्रादौ यत्संनिहितव मनुभूतं, तत्स्वप्ने तात्कालिकत्वेनानुभूयते; अतः पाकरक्ते घटे इदानीं श्याम इति प्रत्ययवत् स्वप्नस्य विभ्रमत्वमिति भावः । नैयायिकमतेनायमव्याप्तिपरिहारः । स्वमते तु स्वप्नदृष्टः पित्रादिः स्वरूपत एव प्रातिभासिकः, तस्यात्माऽधिष्ठानम् । नच तावता व्यावहारिकत्वापत्तिः; अप्रयोजकत्वात् , साक्षिण्यध्यस्तानामविद्यान्तःकरणतद्धर्मादीनां यावत्सत्त्वं प्रतिभासमानानां प्रातिभासिकत्वाभ्युपगमाच्च । तदेतत् , आत्मनि चैवं विचित्राश्च हीति (ब्र. २।१।२८) सूत्रव्याख्यानेन स्फुटं भविष्यतीत्यत्र नोद्घाटितं टीकायाम् । पीतशङ्खविभ्रमादिस्थले संनिकृष्टपित्तपीतिमादिविशिष्टशङ्खादिविषयम् अध्यासरूपमेव ज्ञानं जायते, न तत्रारोप्यस्य पीतिमादेः पूर्वदर्शनमस्ति ।
नच तत्र कनकादिषु पीतिमानुभवरूपं पूर्वदर्शनमस्तीति वाच्यम् ; अननुभूतपीतवर्णस्य पित्तोपहतनयनस्य पुंसः प्रथमं पीतशङ्खविभ्रमात्मके एव जायमाने पीतिमानुभवे तदसंभवादित्याशङ्क्य तत्रापि पूर्वदर्शनसद्भावः समर्थ्यते । इदं किमर्थं तस्य लक्षणाननुप्रविष्टत्वेन तदभावेऽपि लक्षणाव्याप्त्यप्रसक्तेरित्याशङ्क्यावतारयति -
अन्यार्थमिति ।
अध्यासेषु पूर्वदृष्टिमात्रमपेक्ष्यते, नतु सत्तेत्यध्यसनीयसत्तानिराकरणार्थं तेषु पूर्वदृष्टिः सार्वत्रिकी व्यवहृता; तत्सार्वत्रिकत्वाभ्युपगमो न युक्त इत्याशङ्क्य परिहरतीत्यर्थः ।
टीकायां पीतशङ्खविभ्रमस्थले तदानीन्तनं नयनरश्मिगतपित्तपीतिमानुभवरूपं प्राचीनं तपनीयपिण्डादिगतपीतिमानुभवरूपं च पूर्वदर्शनमस्तीति समर्थितम् । तत्राद्यपक्षो न युक्तः; नयनरश्मिभिर्निर्गत्य शङ्खमावृण्वतः पित्तद्रव्यस्य पीतिमाऽनुभूयत इत्यङ्गीकारे कनकलिप्तशङ्ख इव अन्येषामपि पीतशङ्खविभ्रमप्रसङ्गात्, शङ्ख-नयनान्तरालवर्तिरश्मिगतपित्तपीतिमाऽनुभूयत इत्यङ्गीकारेऽन्तरालदेशेऽन्येषामपि तद्ग्रहणप्रसङ्गात् । अतोऽतीन्द्रियनयनरश्मिगतपित्तपीतिम्नो नानुभवः संभवतीत्यस्वारस्यात्प्राचीनानुभवपक्ष उपन्यस्त इत्येतत्सूचयति -
गृह्यमाणविषयत्वेन प्रसिद्धभ्रमेष्विति ।
गृह्यमाणविषयतया तार्किकप्रसिद्धिमात्रं, वस्तुतः पीतशङ्खविभ्रमो न तथेति भावः । नच तस्य गृह्यमाणारोपत्वाभावे स्मर्यमाणारोपत्वं वक्तव्यं, नतु तद्युज्यते स्मरणस्यानियततया कदाचित्पित्तोपहतनयनस्य पीतिमस्मृत्यनुदये श्वेतः शङ्ख इत्यनुभवप्रसङ्गाद्, इति वाच्यम्; अतिधवलसिकतातलप्रवहदच्छनदीजलनैल्याध्यासे नीलिम्न इवात्रापि पीतिम्नः स्मृतिनियमकल्पनोपपत्तेः । पूर्वानुभवजन्यसंस्कारमात्रेण नैल्याध्याससमर्थनेत्विहापि तथास्तु । अननुभूतपीतवर्णस्य पीतशङ्खविभ्रमे तु जन्मान्तरानुभूतपीतिमस्मरणमुपासनीयम् । एतादृशेषु जन्मान्तरानुभूतस्मरणं गतिरिति व्युत्पादयितुमेव पञ्चपादिकायां शिशोः स्तन्ये तिक्तताध्यासो जन्मान्तरानुभूततिक्तरसस्मरणकृत इत्युक्तम् । इत्थं पीतशङ्खविभ्रमो नानुभूयमानारोप इति मतानुसारेण व्याख्यातम् । ये तु नयनरश्मिगतपित्तपीतिम्नोऽनुभवमङ्गीकृत्यानुभूयमानारोपः स इति मन्यन्ते, तन्मते तु पित्तपीतिम्नोऽनुभवोपन्यास आरोपार्थः । तपनीयपिण्डादिगतपीतिमप्राचीनानुभवोपन्यासस्तु पूर्वदृष्टपदयथाश्रुतार्थस्वारस्यलाभार्थ इति योज्यम् । टीकायां सामानाधिकरण्यं पीतिमतादात्म्यमेव, नतु पीतिमसामानाधिकरण्यम् । तदेतत् टीकायां नयनरश्मिगतपित्तपीतिममात्रानुभवस्य शङ्खे पीतिमाऽसंसर्गाग्रहस्य पीतः शङ्ख इति विभ्रमाकारस्य चोपन्यासेन स्पष्टमित्यभिप्रेत्य तथा न व्याख्यातम् । एवंच सति टीकायां पूर्वदृष्टं सामानाधिकरण्यं पीतत्वशङ्खयोरारोप्याहेति युक्ततरः पाठः, नतु पीतत्वशङ्खयोरारोप्याहेति पाठः । यद्वा पीतिमशङ्खत्वयोस्तादात्म्यसंबन्धेन शङ्खवर्तित्वे शङ्खगतैकत्वे च भासमाने तयोः सामानाधिकरण्यमपि संसर्गमर्यादया भासत इत्यभिप्रायस्स पाठः । अतएव पक्षतावच्छेदकसामानाधिकरण्येन साध्यसिद्धिरनुमानफलमिति तार्किका अपि वदन्ति ॥
पीतत्वशङ्खयोरिति ।
अत्र सारूप्यमित्यनेन पीतिमतादात्म्यप्रतीतावन्यत्र संप्रतिपन्नकारणसाम्यमुक्तं, नतु तच्चाकचक्यादिवद् भ्रमहेतुदोषरूपं सादृश्यम् । अयं चासंसर्गाग्रहरूपकारणसद्भावः प्रायिकतयोक्तः । अयं शङ्खः पीतो न भवति शङ्खत्वादितरशङ्खवदित्यानुमानिकपीतिमासंसर्गग्रहे सत्यपि पित्तोपहतिदोषप्राबल्यात् पीतशङ्खविभ्रमोऽवश्यं भवत्येव ।
अव्याप्तिमाशङ्क्याहेति ।
अव्याप्तिरित्याशङ्क्याहेत्यर्थः । आदर्शादिकमधिष्ठानमिति हि पूर्वपक्षिशङ्कामात्रं, सिद्धान्ते तु मुखमेवाधिष्ठानमिति वक्ष्यते ।
अत इत्थं व्याख्या पूर्वदृष्टाभिमुखादर्शोदकदेशतामिति टीकायां पूर्वदृष्टत्वमादर्शोदकदेशताया न विशेषणम्; आदर्शे मुखमिति प्रतीतौ संसर्गविधया प्रतीयमानायास्तस्याः शुक्तिरजततादात्म्यस्येव पूर्वदृष्ट्यनपेक्षणात् । पीतं बिल्वफलमित्यादौ पूर्वदृष्टं सामानाधिकरण्यम्, पीतत्वशङ्खयोरारोप्याहेति टीकायां पीतिमतादात्म्यस्यापि पूर्वदर्शनं संभवमात्रेणोपन्यस्तम् । अत एव पित्तपीतिमानुभवरूपपूर्वदर्शनसमर्थने तन्नोक्तम् । तस्मादधिकरणत्वेन मुखविशेषणतयाऽऽरोप्ययोरादर्शोदकयोरेव तद्विशेषणमित्यभिप्रेत्य विगृह्णाति -
पूर्वदृष्टयोरिति ।
ननु यत्र पूर्वमदृष्टयोरादर्शोदकयोः प्रतिबिम्बविभ्रमः, तत्र कथं पूर्वदृष्टविशेषणं, तत्रापि प्रथमसन्निकृष्टादर्शोदकदर्शने जाते पश्चात् परावर्तितेन चाक्षुषेण तेजसा मुखसन्निकृष्टेन मुखग्रहणे सति तस्मिन् प्रतिबिम्ब विभ्रमो जायत इति तदुपपत्तिः । ननु यदीन्द्रियसंनिकृष्टम् अनुभूयमानादर्शोदकमधिकरणत्वेन मुखे समारोप्यत इतीष्यते, तदाऽन्यथाख्यात्यापत्तिः; रजतवदनिर्वचनीयस्यादर्शान्तरस्य मुखान्तरस्य वोत्पत्त्यनङ्गीकारात् इति चेद, न; तत्रादर्शमुखयोराधाराधेयभावस्यानिर्वचनीयस्योत्पत्त्याऽन्यथाख्यातिवैषम्यात् । अन्यथा अन्येष्वनुभूयमानारोपेषु का गतिः । यद्यपि रक्तः पट इत्याद्यनुभवो महारजनादिसंबन्धात् पटे वर्णान्तरोत्पत्त्यापि समर्थयितुं शक्यः; दृटा हि हरिद्रासंबन्धात् चूर्णे रक्तिम्नः सलिलसंबन्धाद् भूतले नीलिम्नश्चोत्पत्तिः, तत्र हरिद्रासलिलवर्णवैलक्षण्याद्वर्णान्तरोत्पत्तिरिष्यते चेदिहापि तुल्यो न्यायः; रञ्जकद्रव्यसंबन्धे सति तद्वर्णविलक्षणस्यैव रञ्जकद्रव्यबह्वल्पभावनोत्कर्षापकर्षापन्नस्य वर्णस्य पटे दर्शनात् ; तथापि चूर्णलिप्तशुक्लघटादिषु वर्णान्तरोत्पत्त्यभावात् तेषु शुक्लो घट इत्यादिरनुभूयमानचूर्णशुक्लिमाद्यारोपरूप एव वाच्यः । टीकायां देशतामनभिमुखतां च मुखस्याग्राहयदिति क्वचित्संभवमात्रेणोक्तम् । वस्तुतः प्रतिबिम्बविभ्रमे विरोध्यग्रहणं नापेक्षितम् ; तटस्थत्वोर्ध्वाग्रत्वादिना दृश्यमानेऽपि तरौ तटाकजलस्थत्वाधोग्रत्वाद्यारोपदर्शनात् । वंशेषु वंशवणेषु चेति पाठः । वसावर्णेष्विति पाठस्तु चक्षुस्तेजसा सह पित्तद्रव्यवद्वसावयवस्य निर्गमेन कथंचिदुपपादनीयः । पूर्वदृष्टोरगतद्वर्णारोप इति पाठः । तद्वर्णसामानाधिकरण्यारोप इति पाठे तु सामानाधिकरण्यं तादात्म्यम् ।
नासत्ख्यातिरिति शङ्कते इति ।
ननु न प्रकाशमानता सत्ता; मरीचिषु तोयात्मत्वस्यासतः प्रकाशादित्युक्ते कथं तेषु तोयानात्मत्वस्य सद्रूपत्वप्रतिपादनेनासत्ख्यात्यभावशङ्का, सत्यम् ; इदमेव दूषणमत्र ब्रूम इत्यादिटीकया प्रतिपादयिष्यते । ननु स्फुटे वैयधिकरण्यदूषणे कथमनालम्बना शङ्का, व्यधिकरणोत्तरेणैव सत्ख्यातिवादनिर्वाह इत्युपहासार्थं तदीयशङ्कोद्भाविता ।
पूर्वज्ञानाधीनत्वं सत्त्वमिति ।
शून्यवादिमते ज्ञानस्याप्यसत्त्वात् तस्य पूर्वज्ञानाधीनत्वं यदस्ति, तत् परं सत्त्वमिति व्यपदिश्यते; अतोऽग्रिमटीकाग्रन्थे तन्मते ज्ञानविषययोः सदसत्त्वव्यवहारो न विरुद्ध इति भावः ।
सति हि कस्मिंश्चिदिति ।
तेनेति शेषः ।
असत्यप्यायतते ।
असदधीनमपि भवति । असतीति विषयसप्तमी । क्वचिदायतत इत्येतदनन्तरमायातीति पदान्तरं दृष्टं तत्प्रामादिकम् । आयतत इत्यस्य आगमनार्थत्वाभावात् । असतः सकाशादायातीत्येतदर्थकं फलितार्थकथनपरं वा तद् द्रष्टव्यम् ।
नच प्रत्यय इति वाक्यस्याथेमाह -
नच स्वोपकारिणीति ।
अतोऽतिसुखीति ।
स्वयं कस्यचिदनुपकुर्वन्नेव तेनोपक्रियत इत्ययत्नलभ्योपकारोऽयमित्यतिसुखीत्युपहासः ।
तदात्मना न सतत्त्वा इति साध्ये हेतोः साध्याविशेषमाशङ्क्य, हेतुं विशिनष्टि -
तदात्मनाऽसत्त्वस्येति ।
ममापीष्टत्वादिति सर्वसंप्रतिपत्त्यर्हः शुद्धः पाठः ।
किं तुच्छमसत् सदन्तरं वेति ।
असच्छब्दस्यालीकमर्थमभिप्रेत्याद्यो विकल्पः | अभावमर्थमभिप्रेत्य द्वितीयो विकल्पः । एवं हि टीकायां द्वितीयविकल्पविवरणे भावान्तरमभाव इति तन्मतप्रदर्शनं सङ्गच्छते ।
असत्ख्यातिनिरासमिति ।
ननु सत्ख्यातिवाद्युपन्यस्ताऽसत्ख्यातिवादनिरासो न सिद्धान्त्यनुमोदनार्हः 'अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति ही'ति सिद्धान्ते शाब्दासत्प्रतीत्यङ्गीकारात्, अनिर्वाच्यत्वनिर्वचनप्रविष्टासद्वैलक्षण्य इव असंज्ञानेऽप्यसन्निरूपितत्वोपपत्तेश्च इति चेत्, सत्यम्; शब्दस्यासत्प्रतिपादनक्षमत्वेऽपीन्द्रियस्यासनिकृष्ट ग्राहकत्वाभावादसंनिहितस्येव असतोऽपि नापरोक्षत्वमुपपद्यत इति तात्पर्यम् ।
मुधाऽमुष्येति ।
ननु देशान्तरस्थरजतस्य भ्रमविषयत्वोपपत्तौ मुधाऽभिनवरजतकल्पनमिति विपरीतमेव वक्तुं युक्तम् , नच असंनिहितापरोक्ष्ये संनिकर्षकारणाभावो दोषः, ज्ञानस्य संनिकर्षत्वे वह्न्यनुमितिस्थले प्रत्यक्षोदयप्रसङ्गात्, समाने विषये प्रत्यक्षसामग्र्या बलवत्त्वात् , अलौकिकप्रत्यक्षसामग्र्यपेक्षयाऽनुमितिसामनग्र्या बलवत्त्वे संशयोत्तरभ्रमरूपपुरुषप्रत्यक्षस्थले अनुमितिप्रसङ्गात् ; तस्य संनिकर्षत्वाभ्युपगमेऽपि यत्र यत्पूर्वमवगतं तस्मिन्नेव पुनर्दृश्यमाने तज्ज्ञानस्य, यदवच्छेदेन यत्पूर्वमवगतं तद्वत्त्वेन दृश्यमाने तज्ज्ञानस्य वा, तदुपनायकत्वेन पूर्वरजतत्ववत्त्वेन रजतत्वावच्छेदकवत्त्वेन वा अनवगते शुक्तिशकले रजतज्ञानस्य संनिकषत्वायोगाच्चेति वाच्यम् ; रजतान्तरोत्पत्तावपि संप्रतिपन्नरजतकारणाभावस्य तुल्यत्वात् । तदभावेऽपि दोषवशात् प्रसिद्धव्यावहारिकरजतविलक्षणं प्रातिभासिकं रजतमुत्पद्यत इति कल्प्यते चेत्, संनिकर्षाभावेऽपि दोषवशादसंनिहितरजतविषयं प्रसिद्धप्रमारूपज्ञानविलक्षणं भ्रमरूपज्ञानमुत्पद्यत इत्येव कल्प्यताम् ; लाघवात् इति चेत्, उच्यते; अस्ति तावत्प्रतारकवाक्यात् 'शशस्य शृङ्गमस्ति' 'तदेवंलक्षणमरण्ये पतितमन्विष्य लब्धुं शक्यं' 'तेन चेदं प्रयोजनं भवतीत्येवंरूपादवाप्तमोहस्य तथैवारण्यं गत्वा तदन्वेषमाणस्योक्तलक्षणकाष्ठशृङ्गान्तरादिदर्शने शशशृङ्गमिदमित्यनुभवः, अस्ति च स्वप्ने मनुष्यपशुपक्षिवृक्षाद्यनेकरूपस्यैकस्यावयविनोऽनुभवः, नच तत्रासंनिहितविषयवं कल्पयितुं शक्यमित्यगत्या दोषवशात् प्रातिभासिकस्यैव तस्योत्पत्तिरङ्गीकरणीया; एवमन्यत्र भ्रमस्थले दोषस्य विषयोत्पत्तिकारणत्वक्लृप्तौ तथैव रजतभ्रमेऽपि संभवति । ज्ञानप्रत्यासत्त्याद्यजन्यरजतचाक्षुषप्रत्यक्षमात्रे क्लृप्तस्य रजतचक्षुःसंयोगस्य रजतालोकसंयोगस्य च कारणत्वं परित्यज्य तस्यासंनिहितरजतविषयत्वं न कल्पनीयम् । ननु चैत्रादिव्यक्तिविशेषभ्रमस्य असंनिहितप्रसिद्धचैत्रादिविषयत्वम् अवश्यं कल्पनीयं; रजतसामान्यार्थिप्रवृत्तेः प्रातिभासिकरजतज्ञानादिव प्रसिद्धचैत्रोद्देश्यकप्रवृत्तेः प्रातिभासिकचैत्रज्ञानादुत्पत्त्यसंभवा इति चेद, न; प्रातिभासिकरजतज्ञाने रजतत्वप्रकारत्वस्येव प्रातिभासिकचैत्रज्ञाने चैत्रत्वप्रकारकत्वस्य सत्त्वेनेष्टतावच्छेदकप्रकारकात्ततस्तदुद्देश्यकप्रवृत्त्युपपत्तेः । ननु तदेवेदं रजतमिति व्यक्तिविशेषविषयप्रत्यभिज्ञारूपभ्रमस्य व्यवहितपूर्वदृष्टरजतविषयत्वम् अवश्यं कल्पनीयं, तद्रजतमिहकेनानीतमित्यपि व्यवहारदर्शनात् इति चेद, न; तस्य व्यावहारिकरजतान्तर इव प्रातिभासिकरजतेऽपि दुष्टकरणसहकारिसंस्कारोपनीततत्ताविषयत्वोपपत्तेः । नचाभिनवरजतोत्पत्त्यङ्गीकारे जलबुद्बुदादेरिव तस्योत्पत्तिनाशानुभवप्रसङ्गः ; भ्रमकाले तस्य प्राक्सिद्धपुरोवर्तितादात्म्येनानुभूयमानतयोत्पत्त्यप्रतीत्युपपत्तेः, बाधावतारे त्रैकालिकनिषेधस्यानुभूयमानतया नाशाप्रतीत्युपपत्तेश्च । नच क्वचिदुत्पद्य कंचित्कालं स्थितस्य तत्र त्रैकालिकनिषेधानुपपत्तिः ; फलबलात् समानसत्ताकयोरेव प्रतियोगितदत्यन्ताभावयोर्विरोधः, नतु प्रातिभासिकव्यावहारिकयोरिति कल्पनोपपत्तेः । एतेन यस्य प्रथमं शुक्तिशकले रजतभ्रमानन्तरं बाधो नोत्पन्नः, तत्र शुक्तिसाधारणचाकचक्यावच्छेदेन रजतत्वानुभवस्यानपोदितत्वात् पुनः शुक्तिशकलान्तरे रजतभ्रमोदयेऽन्यथाख्यातिः संभवति; तत्र यदवच्छेदेनेत्याद्युक्तरूपोपनयभानसामग्रीसत्त्वात् , पाकरक्ते घटे श्यामोऽयमिति भ्रमोदये चान्यथाख्यातिः संभवति; यत्र यदनुभूतमित्याद्युक्तरूपोपनयसामग्रीसत्त्वादित्यपि शङ्का निरस्ता; क्वचिद्विभ्रमे देशघटितसामग्रीबलादाविद्यकविषयोत्पत्तिक्लृप्तावन्यत्रापि तदुत्पत्तेरनिवारणात् ; पाकरक्ते स्मृत्युपनीतश्यामवर्णप्रत्यक्षस्य पूर्वानुभूतसौरभे पश्चाद् निखननादिना गतसौरभे चन्दनखण्डे सुरभीदं चन्दनखण्डमिति स्मृत्युपनीतसौरभविषयचाक्षुषप्रत्यक्षस्येव प्रमात्वाद्, इदानीं श्याम इति प्रत्यक्षभ्रमस्य विरोधिनि रक्तरूपे स्फुरत्यसंभवात् , श्याममृल्लिप्ते रक्तघटे इदानीं श्याम इति प्रत्यक्षभ्रमस्यानुभूयमानमृद्वर्णारोपत्वसंभवेन स्मृत्युपनीतविषयत्वस्याकल्पनीयत्वात् ।
देहादिः सन्निति ।
टीकायां शङ्काग्रन्थलिखितेऽनुमाने नासन्त इति साध्यं निर्दिष्टम् । तत्रासत्त्वमलीकत्वं चेत् तद्व्यतिरेकसाधनमनिर्वचनीयत्ववादिनः सिद्धसाधनम् ; असतः प्रतीत्यविषयत्वस्य सत्ख्यातिवाद्यभिमतत्वात् , साध्याप्रसिद्धिश्च । अनिर्वचनीयत्वं चेत्, अत्रापि साध्याप्रसिद्धिः ; तस्य तन्मते शशशृङ्गायमानत्वादित्यभिप्रेत्य सदिति साध्यं निर्दिष्टम् । ननु किमिह सत्त्वं साध्यं; प्राक् सद्वाद्युक्तं प्रकाशमानत्वं चेत्, हेतोः साध्याविशेषः । स्वरूपसत्त्वं, सत्ता जातिः, अर्थक्रियाकारित्वम्, इत्येतानि सिद्धसाधनग्रस्तानि । अबाध्यत्वं त्वात्मनि सत्त्वे प्रयोजकमित्युपाधित्वेन वक्ष्यते । प्रकाशमानत्वं च भासमानत्वं चेत्, असति प्रतिवादिगते न व्यभिचारः । अपरोक्षतया भासमानत्वं चेत्, आदिशब्दग्राह्येष्विन्द्रियेषु भागासिद्धिरिति चेत्, उच्यते; प्रमाविषयत्वं ज्ञानानिवत्यत्वं वा सत्त्वमिह साध्यं; भासमानत्वसामान्यं हेतुः, सद्वादिना तस्यासति प्रत्याख्यातत्वात् प्रसाध्याङ्गको हेतुरिति नात्र व्यभिचारशङ्का । यद्यपि सिद्धान्तिना कृतं मरीचिकोदकस्यानिर्वचनीयत्वोपपादनं; प्रकाशमानतैव न सत्ता मरीचिकोदकस्य प्रकाशमानत्वेऽपि सत्त्वाभावादिति, तयोर्व्यतिरेकप्रदर्शनेनाभेदनिरासार्थं; देहेन्द्रियादिबाध्यत्ववर्णनं 'प्रकाशमानत्वं सत्त्वं न भवति चेत् , किं तर्हि सत्त्वमित्याकाङ्क्षायामबाध्यत्वं सत्त्वमित्यभिप्रेत्य देहेन्द्रियादिषु तद्व्यतिरेकप्रदर्शनार्थं देहेन्द्रियाद्यध्यासेष्वध्यासविस्तृतलक्षणानुगतिप्रदर्शनानन्तरं तत्संक्षिप्तलक्षणानुगतिप्रदर्शनार्थं चेति, व्याख्यातुं शक्यं तथापि तद्व्याख्यानं स्पष्टमिति मत्वा पूर्वपक्ष्याशयस्थमनुमानमुद्घाट्य तत्र व्यभिचारोपाधिप्रदर्शनार्थत्वेन सैद्धान्तिकमिदं ग्रन्थद्वयं व्याख्यातम् ।
स्वयंप्रकाशत्वादिति ।
स्वयंप्रकाशमात्मनः स्वरूपं केनापि बाधितुं न शक्यम्; अन्ततो बाधसाक्षिण एव स्वयंप्रकाशमानस्यात्मत्वपर्यवसानादिति भावः ।
दृग्दृश्येति ।
दृश्यध्यस्तत्वं विना दृशा दृश्यस्य संबन्धान्तरानिरूपणादित्यर्थः ।
सत्यस्यात्मवदिति । विषादेरिति ।
ननु सर्वः प्रपञ्चो मिथ्येति त्वन्मते विषस्य सत्यत्वासिद्धिरस्तु नाम; तथापि विषस्य मिथ्यात्वं न तार्क्ष्यध्याननिवर्त्यत्वप्रयुक्तं त्वयेष्यते, किंतु प्रपञ्चमिथ्यात्वसाधकप्रमाणान्तरप्रयुक्तमिष्यते; तथाच तार्क्ष्यध्याननिवर्त्यत्वं विषस्येव ब्रह्मज्ञाननिवर्त्यत्वं संसारस्य मिथ्यात्वे प्रयोजकं न स्यादित्याशङ्याह -
ध्यानस्य चेति ।
ब्रह्मज्ञानं हि परीक्षितप्रमाणमूलकं प्रमारूपमेव संसारनिवर्तकम् ; 'वेदान्तविज्ञानसुनिश्चितार्था' इत्यादिश्रुतेः, ब्रह्मविद्योपक्रमाम्नातगुरुशिष्यनिबन्धवदुपाख्यानगतयावत्संशयनिवृत्तिप्रश्नोपदेशतत्तदुपपत्त्युपन्यासलिङ्गाच्च, तार्क्ष्यध्यानस्य कल्पाताकल्पितसाधारणयथोपदिष्टार्थविषयस्य विषनिवर्तकत्वे प्रमात्वं नापेक्षितमित्यर्थः ।
ननु सेतुदर्शनं प्रमारूपमेवाघनिवर्तकम् ; अन्यत्र सेतुभ्रमेण तदनिवृत्तेः, अतः प्रमात्वापेक्षमपि निवर्त्यत्वं न मिथ्यात्वप्रयोजकमित्याशङ्क्याह -
सेतुदर्शनं चेति ।
यद्विषयप्रमात्वमात्रं यन्निवर्तकताप्रयोजकं तत् तत्राध्यस्तमिति नियमस्य न व्यभिचार इत्यर्थः । यद्यपि शुक्तौ रजताध्यासस्य रङ्गाध्यासेनापि निवृत्तिरस्ति; तथापि समूलसकलाध्यासनिवृत्तिरधिष्ठानप्रमापेक्षा, तदन्यानपेक्षा च दृष्टाः तन्न्याय इहापि ग्राह्य इति भावः ।
ननु सेतुदर्शनवद् विध्यायत्तं ब्रह्मज्ञानस्य निवर्तकत्वं, न शुक्तिज्ञानवदधिष्टानप्रमात्वायत्तम् इत्याशङ्क्याह -
आत्मप्रमा त्विति ।
विरोधिविषयतया दृष्टद्वारेणाज्ञाननिवृत्तिर्ज्ञानोदयानन्तरमेव भवन्ती निवर्तकज्ञानसमानकाला भवतीति शुक्तिज्ञानजन्यरजतनिवृत्तौ दृष्टं, तद्वदिहापि 'ब्रह्म वेद ब्रह्मैव भवती'त्यादिश्रुतिषु ब्रह्मवेदननिवृत्तसंसारब्रह्मभावापत्त्योर्लडाख्याताभ्यां समानकालता प्रतिपाद्यते । नच 'प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्ती'त्यत्र सत्रानुष्ठानप्रतिष्ठाफलयौगपद्यप्रत्यायकलडाख्यातयोरिवान्यथानयने कारणं किंचिद्बाधकमस्ति । तस्माद्ब्रह्मज्ञानं दृष्टद्वारेणैव संसारं निवर्तयति शुक्तिज्ञानमिव रजताध्यासमित्यवसीयत इति भावः ।
मतभेदेनेति ।
बाह्यास्तित्ववादिनोर्वैभाषिकसौत्रान्तिकयोः सत् शुक्तिशकलादिकमधिष्ठानम्, तन्नास्तित्ववादिनो योगाचारस्य त्वविद्याकल्पितं तदधियानमित्येवं मतभेदेनाधिष्ठानभेदमाहेत्यर्थः ।
ननु प्रातिभासिकाध्यासेष्वधिष्ठानग्रहणं नियतं; तद्बाह्यप्रत्यक्षत्ववादिनो वैभाषिकस्य सुघटं, नतु तदतीन्द्रियत्ववादिनः सौत्रान्तिकस्येत्याशङ्क्य तस्यानुमानिकं तदस्तीत्याह -
वैभाषिकवदिति ।
अस्त्यधिष्ठानमिति ।
स्फुरदधिष्ठानमस्तीत्यर्थः ।
भ्रान्तिज्ञानाकारसदृशस्येति ।
भ्रान्तिज्ञाने सविकल्पके य आकारो रजतादिः तस्य वस्तुतो बाह्यस्य शुक्तिगतस्याभावादित्यर्थः ।
समानाधिकरणे पञ्चम्याविति ।
षष्ठीपञ्चम्यन्तत्वेन व्यधिकरणे चेत्, रजतस्य विज्ञानाकारत्वे अहं रजतमिति स्यादित्यापादनस्यायुक्तत्वशङ्का विज्ञानाहमर्थभेदप्रयुक्तैव वारिता स्यात् ; तथा विज्ञानाकारतया रजतस्य विज्ञानधर्मत्वादहं रजतवानित्यनुभवः स्यादित्यापादनीयमित्येतत्प्रयुक्ता तत उपरि संभवन्ती न वारिता स्यात्, समानाधिकरणे चेत् शङ्काद्वयमपि वारितं भवतीत्यभिप्रेत्यैवं व्याख्यातम् ।
भ्रान्तिरूपविकल्पस्य हीति ।
विकल्पः सविकल्पकं तस्य द्वौ विषयौ; ग्राह्याध्यवसेयभेदात् । तस्याकारेभ्यो निकृष्टं यदविकल्पं स्वरूपमस्ति; तद् ग्राह्यं स्वविषयत्वलक्षणस्वप्रकाशत्वाङ्गीकारात् । तस्य रजताकारस्योपर्यवसेयो बाह्यत्वशब्दोक्तइदन्त्वाकारो विकल्परूपोऽध्यवसेय इति साकारवादिनां प्रक्रिया । तथाच पुरोवर्तिन्यधिष्ठाने ज्ञानाकाररूपं रजतमिदन्त्वेनारोप्यत इति नाहन्त्वोल्लेखप्रसक्तिरिति भावः ।
ननु रजतज्ञाने शुक्तेः कारणत्वेन विषयत्वं नाख्यातिमते शङ्कार्हम् ; अन्यथाख्यातिमत एव तस्य विशेष्यत्वेन कारणत्वादित्याशङ्ख्याऽख्यातिमतेऽपि रजतज्ञाने शुक्तेः कारणत्वमुपपादयन्नवतारयति -
अथ रजतसदृशेति ।
मिथ्याज्ञानमपीति ।
ननु मिथ्याज्ञाननिह्नवो नच रजतमेव शुक्तिकायां प्रसञ्जितमित्यादिपूर्वग्रन्थेनापि कृतः, स ग्रन्थस्तथैवावतारितश्च, सत्यम्; स ग्रन्थोऽर्थाध्यासनिह्नवस्यापि साधारणः; यतः शुक्तेर्देशान्तरस्थरजतात्मनेव तद्देशोत्पन्नरजतात्मना भानाङ्गीकारेऽप्यन्यात्मना भानमन्यालम्बनमित्येतदनुभवविरुद्धमित्यर्थाध्यासनिह्नवोऽपि तेन लभ्यते । इन्द्रियसामर्थ्यरूपकारणाभावोपपादनं तु मिथ्याज्ञाननिह्नव एवासाधारणयुक्तिरिति तात्पर्येणैवमवतारितम् ।
गृहीतमिदमिति ।
पूर्वानुभवविषयत्वं तत्तेति भावः ।
नाश्रयासिद्धिरिति ।
एतदुपलक्षणम्, साध्यमपि सर्वविषयावच्छिन्नयाथार्थ्यं वा, विसंवादीच्छाप्रवृत्तिरूपव्यवहारप्रसिद्धायाथार्थ्यराहित्यं वेति धर्म्यंशयाथार्थ्यमादाय न सिद्धसाधनमित्यपि द्रष्टव्यम् ।
पुरोवर्तिनि साधने इति ।
ननु फलज्ञानवदुपायज्ञानमपि न नियमेन प्रवर्तकं; फलस्य नानोपायसाध्यत्वादेवेति हेतोरसिद्धिः । व्यक्तिनियमेन हेतुसमर्थने व्यभिचारतादवस्थ्यम् ; यत्पक्षीकृतं रजतज्ञानं पुरोवर्तिनि नियमेन प्रवर्तकमिष्यते तत्रत्यफलज्ञानस्यापि तस्मिन्नियमेन प्रवर्तकत्वात् । एवं च तत्रेति विशेषणेन न स्मृतेरपि व्यावृत्तिः, आरोपप्राचीनस्यारोप्यस्मरणस्यापि फलसाधनताज्ञानप्राचीनफलज्ञानतुल्यन्यायतया नियमेन पुरोवर्तिनि प्रवर्तकत्वात् । एवं तावन्नियमेनेति तत्रेति च विशेषणमयुक्तम् । बाधादिव्यावृत्त्यर्थं रजतार्थिन इति विशेषणमित्यप्ययुक्तम् ; तृणपर्णजलादिकमिव स्ववेगबलात्पुरुषं नयता वाय्वादिना पुरुषे फलाख्यप्रवृत्तेरजननात्, प्रवृत्तिपदस्य शरीरक्रियासाधारणव्यापारमात्रपरत्वेऽपि शरीरात्मकालादृष्टादिव्यभिचारवारणाय प्रवर्तकज्ञानत्वादिति हेतोर्विवक्षणीयत्वेन टीकायामुदाहरणवाक्ये ज्ञानपदनिवेशनया तद्विवक्षायाः सूचितत्वेन च तत एव तन्निरासलाभाच्च, नियमविशेषणेनैव कालादृष्टादिव्यावृत्तौ तत एव वायोरपि व्यावृत्तिसिद्धेश्च इति चेत्, उच्यते; टीकायां फलसाधनतानुमितिहेतुपरामर्शरूपं यद्रजतत्वहेतुविषयं ज्ञानमावश्यकमिति प्रतिपादितं तदत्र पक्षः । तस्य पुरोवर्तिविषयत्वं साध्यम् । स च परामर्शः पुरोवर्तिविषयामेव फलसाधनतानुमितिं तद्द्वारा प्रवृत्तिं च जनयति; फलस्य वस्तुतो नानोपायसाध्यत्वेऽपि तदन्यत्र तदुपायत्वानुसन्धानाभावात् , फलज्ञानं तु तटस्थं न नियमेन पुरोवर्तिनि प्रवर्तकं तस्योपायान्तरगतफलसाधनताऽनुमितिद्वारान्यत्रापि प्रवर्तकत्वसंभवात्, तथैवारोपप्राचीनरजतस्मरणमपि; सत्यपि तस्मिन्नन्यत्र फलसाधनतानुमित्या प्रवृत्तिसंभवात् । तत्रेति विशेषणं तु स्वयं गेहादिनिहितरजतार्थिप्रवृत्तिनियततद्रजतगतफलसाधनतादिस्मृतौ व्यभिचारनिरासार्थम् । प्रवर्तकत्वं शरीरव्यापारप्रयोजकत्वमेव विवक्षितमिति रजतार्थिन इति विशेषणं सफलम् , (हेतौ ज्ञानत्वं न निवेश्यं; नियमविशेषणेन तत्प्रयोजनलाभात् । उदाहरणे ज्ञानमिति नियमविशेषणलब्धार्थानुवादः । साध्ये पुरोवर्तिपदं विसंवादिप्रवृत्तिविषयशुक्त्यादिव्यक्तिविशेषपरम् । अतएव रजतज्ञाने दृष्टान्ते साध्यवैकल्यं मा भदिति यत्तद्भ्यां सामान्यव्याप्तिरुपन्यस्ता । यदि अर्थिन इत्येतावतैव बाधादिव्यावर्तनाद्रजतविशेषणं न निवेश्यते, तदा रजतभ्रमजन्यप्रवृत्तिविषये पुरोवर्तिनि शुक्त्यर्थिप्रवर्तकशुक्तित्वप्रकारकज्ञानं दृष्टान्तीकृत्य विशेषव्याप्तिरप्युपपादयितुं शक्या ।) नतु प्रयत्नप्रयोजकत्वम् ; अख्यातिवादिना तत्रेच्छाप्रयत्नावपि न पुरोवर्तिविषयौ, किंतु तन्मूलरजतज्ञानवद्देशान्तरस्थविषयावित्यपलपितुं शक्यत्वेन हेत्वसिद्धिप्रसङ्गात् । अन्यथा तत्र नियमेन रजतेच्छाकारणत्वस्यैव हेतुत्वसंभवेन रजतार्थिप्रवर्तकत्वपर्यन्तहेत्वनपेक्षणात्, तदपेक्षणेऽपि तत्रत्यरजतेच्छायां विशेषव्याप्त्युदाहरणसंभवेन समीचीनरजतज्ञाने सामान्यव्याप्त्युदाहरणायोगाच्च । एवंच वायुकालादृष्टप्रागभावादिव्यावर्तनाय रजतार्थीति विशेषणम् । यद्यपि वाय्वादीनां पुरोवर्तिविषयप्रवृत्तिं प्रत्यसाधारणकारणत्वाभावाद् नियमविशेषणेनापि भवति व्यावृत्तिः; तथापि प्रागभावस्य न भवति । तस्य प्रतियोगिनि तत्तत्प्रागभावत्वेन कारणत्वाङ्गीकारात् , तद्व्यावृत्तिस्तु पुरोवर्तिविषयरजतार्थिप्रवृत्तित्वाच्छिन्नकार्यप्रयोजकत्वस्य हेतुत्वविवक्षयेति न किंचिदवद्यम् ॥ टीकायामुदाहरणवाक्ये ज्ञानप्रदं रजतप्रमैव सामान्यव्याप्तौ दृष्टान्तः, नतु विसंवादिप्रवृत्तिस्थलेच्छा शङ्कितान्यविषयभावा विशेषव्याप्तौ दृष्टान्त इति सूचनाय । यत्र यद्यदर्थिनमित्यत्र यद्रजतार्थिनमित्यर्थो ग्राह्यः । इत्थमिष्टसाधनतानुमितिहेतुपरामर्शरूपस्य रजतत्वप्रकारकज्ञानस्य पक्षत्वम् इष्टसाधनत्वानुमितिहेतोरपक्षधर्मत्वप्रसङ्गमत्र विपक्षबाधकमुपन्यस्यता टीकाग्रन्थेन सूचितम् । ननु अत्र हेतोरपक्षधर्मत्वं न दोषः, नह्यख्यातिवादिभिर्भ्रमस्थले प्रवृत्तिविषयविषयकेष्टसाधनतानुमितिरभ्युपगम्यते; अन्यथाख्यात्यापत्तेः, किंत्विष्टसाधनत्वव्याप्तरजतत्वाश्रयभेदाग्रहादुपस्थितेष्टसाधनभेदाग्रहमात्रं रजतभेदाग्रहवदावश्यकं, तत एव प्रवृत्तिरिति कल्प्यते; लाघवादिति चेत्, यद्येवमनुमितावपि पक्षे लिङ्गवद्भेदाग्रह एव कारणं स्याद् ; न्यायतौल्याद्, नतु लिङ्गविशिष्टपक्षज्ञानम् । तथाच विसंवादिप्रवृत्तिस्थले पक्षे इष्टसाधनत्वव्याप्तरजतत्वाश्रयभेदाग्रहादिष्टसाधनत्वानुमितिर्भवन्ती केन वार्यते । तस्माद्भक्षितेऽपि लशुने न व्याधिशान्तिरिति न्यायेनान्यथाख्यातिपरिजिहीर्षया भ्रमस्थले विशिष्टज्ञानमपलप्य प्रवृत्तौ भेदाग्रहं कारणमाश्रयतोऽनुमितावपि स एव कारणं स्यादित्यन्यथाख्यातिरूपानुमितेरशक्यप्रतिक्षेपत्वादभावरूपं भेदाग्रहं परित्यज्य भावतया लघु लिङ्गविशिष्टपक्षज्ञानमेवानुमितौ कारणमभ्युपेयमिति युक्तोऽत्र हेतोरपक्षधर्मलप्रसङ्गो विपक्षबाधकस्तर्कः । एवमिष्टसाधनत्वानुमितिहेतुपरामर्शरूपरजतज्ञानपक्षकवत् केवलरजतज्ञानपक्षकमपि निरुक्तहेतुसाध्यकमनुमानं युक्तमेव; तत्रापि विशिष्टज्ञानस्य प्रवृत्तिकारणत्वे संभवत्यभावरूपभेदाग्रहस्य तत्कारणत्वकल्पने गौरवमिति विपक्षबाधकसद्भावात् । ननु अत्र विपरीतं गौरवम् ; इष्टपुरोवर्तिज्ञानमात्रस्यावश्यकभेदाग्रहविशिष्टस्य प्रवर्तकत्वोपपत्तौ मिथ्याज्ञानतद्विषयकल्पनायोगात्, ततश्च प्रतिकूलतर्कपराहतमनुमानम् ; नच मिथ्याज्ञानापलापे भ्रमस्थले भेदाग्रहसाहित्येन प्रवृत्तिवदभेदाग्रहसाहित्येन निवृत्तेरपि प्रसङ्गः; रजतस्मरणस्य रजताभेदविषयत्वेनाभेदाग्रहासिद्धेरिति चेद्, मैवम्, मिथ्याज्ञानापलापे सत्यस्थले इष्टपुरोवर्तिमेदग्रहाप्रसिद्धितस्तदभावाप्रसिद्ध्या सत्यरजतज्ञानादप्रवृत्तिप्रसङ्गात् । भेदाग्रहशब्देन पुरोवर्तिनीष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभावो विवक्षित इति चेत्, तर्हि तव भ्रमस्थले पुरोवर्तिनीष्टाभिन्नत्वप्रकारकज्ञानविषयत्वस्याप्यभावोऽस्तीति ततो निवृत्तिरपि स्यात् । टीकायामिदमेव दृषणम् 'अथ तथात्वेनाग्रहणात्कस्मान्नोपेक्षतेति ग्रन्थेन दर्शितम् । किंचैवं सति रजते नेदं रजतमिति भ्राम्यतोऽपि रजतार्थिनस्तत्र प्रवृत्तिप्रसङ्गः, रजते रजतभेदग्रहे मिथ्याज्ञानप्रसङ्गेन तत्रापीदमिति न रजतमिति च ज्ञानद्वयस्य कल्पनीयत्वात् । स्वातन्त्र्यमिष्टे विशेषणं; तच्च भेदप्रतियोगितयोपस्थित्यविषयत्वमिति चेत्, तथा विशेषणे कृते स दोषो नितरां दृढीकृतः स्यात् । नेदं रजतमिति भ्रमस्थले पुरोवर्तिगतस्य विशिष्टाभावस्येष्टभिन्नत्वप्रकारकज्ञानविषयत्वरूपविशेष्याभावमात्रादपि सिध्यतः स्वातन्त्र्यरूपविशेषणस्याप्यभावे सुतरां सिद्धेः । नेदं रजतमिति प्रमास्थलेऽपि रजतार्थिप्रवृत्तिः स्यादिति दोषश्चात्राधिकः; तत्र विशेषणाभावाद् विशिष्टाभावसिद्धेः । वस्तुतस्तु स्वातन्त्र्यं उक्तविशिष्टाभावप्रतियोगिकोटाविष्टविशेषणं न युक्तम् ; इष्टभिन्नत्वज्ञानदशायामिष्टस्य भेदप्रतियोगितोपस्थितिविषयत्वनियमेन तदभावविशिष्टेष्टविशेषितस्य प्रतियोगिनोऽप्रसिद्ध्या तदभावाप्रसिद्ध्यापत्तेः ॥ ननु तर्हि स्वातन्त्र्यमपि प्रवृत्तौ पृथक्कारणान्तरमस्तु, अतस्तदभावाद् नेदं रजतमिति प्रमाभ्रमस्थलयोर्न प्रवृत्तिप्रसङ्गः, प्रतियोगिविशेषणत्वेनानिवेशनाच्च न विशिष्टाप्रसिद्ध्या तदभावाप्रसिद्ध्यापत्तिरिति चेद, न; तथा सतीदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानादप्रवृत्त्यापत्तेः । यद्येतद्दोषपरिहाराय पुरोवर्तिनिष्ठभेदप्रतियोगित्वेनानुपस्थितत्वं स्वातन्त्र्यम् इति निरुच्येत, तदा नेदं रजतमिति भ्रमस्थले रजतार्थिप्रवृत्तिः स्यादिति दोषः पुनरुन्मज्जेत् । ननु पुरोवर्त्यगृहीता संसर्गभेदप्रतियोगित्वेनानुपस्थितत्वं स्वातन्त्र्यम् , अतस्तदभावान्नेदं रजतमिति भ्रमेण न प्रवृत्तिप्रसङ्गः, तत्र पुरोवर्तिनि रजतभेदासंसर्गाग्रहसत्त्वेन तद्विशेषितभेदप्रतियोगितोपस्थितेर्विद्यमानतया तदभावाभावात् , नापीदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानेनाप्रवृत्तिप्रसङ्गः तत्र पुरोवर्तिनि रजतभेदासंसर्गरूपरजताभेदग्रहसत्त्वेन तदभावविशेषितभेदप्रतियोगितोपस्थित्यभावसत्त्वादिति चेद्, न; एवमपि यत्रेदं नेति भेदविशिष्टपुरोवर्तिज्ञानं रजतस्मरणं चेति ज्ञानद्वयरूपो नेदं रजतमिति भ्रमः, तत्र रजतार्थिप्रवृत्तिप्रसङ्गात्, न रजतमित्यधिकरणविशेषानुल्लेखिन इव इदं नेति प्रतियोगिविशेषानुल्लेखिनोऽपि भेदज्ञानस्य संभवात् । स्यादेतत् पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वासंसर्गाग्रहाभाववत्त्वं स्वातन्त्र्यम् । एवंच न कोऽपि दोषः तथाहि इदमिति न रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये पुरोवर्तिनि रजतभेदस्यासंसर्गाग्रहोऽस्ति, इदं रजतमितिभ्रमोदये रजतस्येव । तथाच तत्र पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य ग्रहणात्तत्प्रतियोगित्वासंसर्गाग्रहोऽस्तीति तदभावाभावाद् न तत्र रजतार्थिप्रवृत्तिप्रसङ्गः । नापीदं नेति रजतमिति च ज्ञानद्वयात्मकस्य नेदं रजतमिति भ्रमस्योदये तत्प्रसङ्गः, तत्र पुरोवर्तिनि गृहीतसंसर्गत्वेनागृहीतासंसर्गो यो भेदस्तत्प्रतियोगित्वस्यासंसर्ग इष्टे यद्यपि विद्यते; तथापि तस्य नेदं रजतमिति भ्रमदशायामग्रहस्य सत्त्वेन तदभावाभावात् । इदं रजतं घटनिष्ठभेदप्रतियोगीति ज्ञानोदये च नाप्रवृत्तिप्रसङ्गः, तत्र रजते भेदप्रतियोगित्वसंसर्गाग्रहणेन तदसंसर्गाग्रहरूपविशेष्यसद्भावेऽपि पुरोवर्तिनि भेदासंसर्गरूपाभेदग्रहणेन विशेषणाभावात्तद्विशिष्टस्य भेदप्रतियोगित्वासंसर्गाग्रहस्याभावसद्भावादिति चेद्, मैवम्; एवमपि यत्रेदं रजतमिति भ्रमकाले रजतं घटनिष्ठभेदप्रतियोगीत्यपि स्मरणं तत्राप्रवृत्तिप्रसङ्गः । तत्र पुरोवर्तिनि रजतभेदासंसर्गग्रहे मिथ्याज्ञानप्रसङ्गेन तदसंसर्गाग्रहोऽस्तीति पुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वसंसर्गग्रहसत्त्वेन तदसंसर्गाग्रहस्य प्रतियोगिनो विद्यमानतया तदभावाभावात् । अरजतरजतयोरिमे रजतारजते इति भ्रमादरजते रजतार्थिप्रवृत्त्यभावप्रसङ्गश्च तत्र पुरोवर्तिन्यरजते रजतभेदासंसर्गग्रहे मिथ्याज्ञानप्रसङ्गेन अरजतरूपपुरोवर्त्यगृहीतासंसर्गभेदप्रतियोगित्वेन रजतस्य गृह्यमाणतया तदसंसर्गाग्रहस्य प्रतियोगिनः सत्त्वेन तदभावाभावात् । किं बहुना इदं रजतमित्येतावन्मात्ररूपात् प्रसिद्धरजतभ्रमादपि प्रवृत्त्यभावप्रसङ्गः । तत्र हि रजतभेदः पुरोवर्त्यगृहीतासंसर्गो भवति; तत्र तदसंसर्गग्रहे मिथ्याज्ञानापत्तेः । रजते तथाभूतभेदप्रतियोगित्वासंसर्गाग्रहोऽप्यस्ति; तत्र रजते भेदप्रतियोगित्वं नास्तीति भेदप्रतियोगित्वासंसर्गग्रहोदयाभावात् । अतो विशिष्टस्य प्रतियोगिनः सत्त्वेन तदभावरूपस्वातन्त्र्याभावाद् न प्रवृत्तिर्घटते । तस्मान्मिथ्याज्ञानापलापेन भेदाग्रहात् प्रवृत्त्युपपादनमयुक्तमेव ।
नन्वनाश्वासदोषे परेणोद्भाविते निराकर्तव्ये सत्यव्यभिचारस्य प्रामाण्यरूपत्वादिविकल्पः क्वोपयुज्यत इत्याशङ्क्याह -
येन कचिदिति ।
अयमाशयः प्रामाण्यनिश्चयादेव प्रवृत्त्यादि कार्योपपत्तेरव्यभिचारनिश्चयस्य नास्त्युपयोग इति परोद्भावितानाश्वासदोषनिराकरणे कृते परेणैवं वाच्यम् । अव्यभिचारानिश्चयः प्रामाण्यानिश्चयपर्यवसायी, तत्पर्यवसानं च त्रेधा संभवति, प्रामाण्यस्याव्यभिचारितारूपत्वेन, तद्धेतुकत्वेन, तद्व्याप्यत्वेन वा । तद्व्याप्यत्वेऽपि हि व्यापकनिवृत्तौ व्याप्यं निवर्तेत । एवं प्रकृतोपयोगिनमन्वीक्ष्य त्रेधा विकल्पः कृत इति ।
अव्यभिचारिणामपीति ।
इदं व्यतिरेकव्यभिचारदूषणमिव न विकल्पत्रयसाधारणं; सहकारिविरहेण प्रतिबन्धेन वा हेतोरपि कार्याजनिसंभवेन द्वितीयविकल्पे अन्वयव्यभिचारस्य तृतीयविकल्पे व्यापकव्यभिचारस्य चादोषत्वात् । अतः प्रथमविकल्पमात्रे द्वितीयदूषणमिदमिति द्रष्टव्यम् ।
ननु 'अहो बत महानेष प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वासः किंनिबन्धनः ॥' इति परेण ज्ञानस्यैव व्यभिचारो दोषत्वेनोक्तः, स च करणव्यभिचारस्यादोषत्वोपपादनेन परिहृतो न भवतीत्याशङ्कते -
भवत्विति ।
अव्यभिचारोऽपेक्ष्य इति ।
अव्यभिचारश्च ज्ञानानां प्रामाण्यमेवेति भावः ।
यदि प्रामाण्यस्य परतस्वमिष्यते, तत्राह -
अव्यभिचारग्राहिण इति ।
अर्थक्रियासंवादादिज्ञानस्येति ।
अर्थक्रियासंवादो दूरे वह्निज्ञाने जाते समीपोपसर्पणानन्तरं दाहसामर्थ्यानुभवः । आदिशब्देन तद्वह्निज्ञानं, प्रमा, दाहसमर्थे तद्वह्नित्वप्रकारकत्वादित्यनुमाने यत् प्रवृत्तिसंवादरूपज्ञानघटनीयं लिङ्गज्ञानं, यच्च तज्जन्यानुमितिरूपं प्रामाण्यज्ञानं, तदुभयमपि गृह्यते ।
नन्वनवधृतप्रामाण्यमेव संवादिज्ञानं स्वविषयनिश्चयात्मकं भवत्वित्यत्राह -
अनिश्चये वेति ।
प्रामाण्यासिद्धेरिति ।
अनवधृतप्रामाण्यादपि ज्ञानाद्विषयसिद्धौ दूरत्वादिदोषेण शङ्किताप्रामाण्यात् चन्द्रप्रादेशिकत्वादिज्ञानादपि तत्सिद्धिः स्यात् । यदि प्रामाण्याग्रहणेऽपि अप्रामाण्यशङ्काविरहमात्रेण संवादादिज्ञानं स्वविषयनिश्चयात्मकं भवेत, तदा तथैव प्रथमज्ञानमपि स्वविषयनिश्चयात्मकं सत् प्रवृत्त्यादिकार्योपयोगि भवेदिति भावः ।
ननु अप्रामाण्यशङ्काविरहापेक्षया प्रामाण्यनिश्चयो लघीयान् , अतो निश्चितप्रामाण्यमेव संवादादिज्ञानं स्वविषयनिश्चयरूपमिति संवादादिज्ञानस्य तथात्वसिद्ध्यर्थं स्वतःप्रामाण्यमिष्यत इति चेत्, तत्राह -
स्वतःप्रामाण्ये चेति ।
संवादादिज्ञाने स्वविषये स्फुरति तद्विषयविशेष्यप्रकारकतदुभयवेशिष्ट्यघटितं योग्यधर्मरूपं तत्प्रामाण्यं ज्ञानत्ववदुत्सर्गतः स्फुरति । यत्र तु क्वचिदनभ्यासदशादिदोषाद् विशेष्यप्रकारवैशिष्ट्यांशे ज्ञानस्य न सत्तानिश्चयरूपत्वं तत्र तद्घटितस्य प्रामाण्यस्य स्थाणुत्वादेरिव स्फुरणं नास्ति तत्र परं प्रामाण्यसंदेह इति खलु संवादादिज्ञाने प्रामाण्यस्य स्वतस्त्वं समर्थनीयं; तन्न्यायः प्रथमज्ञानेऽपि तुल्य इति भावः । ननु अयं प्रामाण्यस्य स्वतस्त्वाभ्युपगमो न युक्तः; तथाहि सिद्धान्ते ज्ञानं स्वप्रकाशम् । अत इदं जलमिति इदं जलत्वेन जानामीति च व्यवहारहेतौ प्रथमज्ञाने एव तत्प्रामाण्यस्य स्फुरणं वाच्यम् । तत्र प्रामाण्यघटकसर्वोपाधिस्फुरणाभ्युपगमात्, ततश्च तत्र प्रामाण्यवद्विशेष्यकप्रामाण्यप्रकारकत्वरूपं प्रामाण्यान्तरमपि संपद्यत इति तदपि तत्र स्फुरेद्, न्यायतौल्यात् , नचेष्टापत्तिः; तथा सति द्वितीयप्रामाण्यघटितप्रामाण्यान्तरस्य तत्तत्प्रामाण्यघटितप्रामाण्यान्तराणां च स्वप्रकाशज्ञाने स्फुरणापत्त्या तस्यानुभवविरुद्धापर्यवसितानन्तविषयाभ्युपगमापत्तेः इति चेत्, उच्यते; स्वप्रकाशज्ञाने प्रामाण्यस्फुरणे सति प्रामाण्यवद्विशेष्यकप्रामाण्यप्रकारकत्वरूपप्रामाण्यान्तरं संपद्यते चेत्, संपद्यतां नाम, न तस्यापि तत्र स्फुरणमिष्यते, प्रामाण्यतदाश्रययोः तदुभयवैशिष्ट्यस्य च तत्र स्फुरणेऽपि तत्प्रकारकत्वतद्विशेष्यकत्वयोस्तत्रास्फुरणात् । नहि जलज्ञानानन्तरम् 'इदं जल'मिति 'इदं जलत्वेन जानामीति च व्यवहारवदिदं ज्ञानं प्रमाणत्वेन जानामीत्यपि व्यवहारो दृश्यते; येन तयोरपि तत्र स्फुरणमिष्येत । न च स्वप्रकाशज्ञानगतत्वेन तत्स्फुरणावश्यंभावः; तद्गतगुणत्वद्रव्यत्वादिवदस्फुरणसंभवात् । तथापि प्रामाण्यस्य स्वाश्रयसहभाननियमरूपस्वतस्त्वाभ्युपगमात् स्फुरणावश्यंभाव इति चेद्, न; यत्र प्रामाण्यघटकसर्वोपाधिस्फुरणमस्ति, तत्र प्रामाण्यस्य स्फुरणमित्युत्सर्गरूपस्य नियमस्य यत्र तद्घटकस्य कस्यचिदस्फुरणं तत्रापवादाभ्युपगमात् । तस्मात् स्वप्रकाशज्ञाने प्रामाण्यस्फुरणौत्सर्गिकत्वाभ्युपगतौ न काचिदनुपपत्तिः ।
प्रसङ्गादुत्पत्तावपि स्वतस्त्वं निरूपयितुं पृच्छति -
ननु किमिति ।
यद्वा ज्ञानमुत्पद्यमानमुत्सर्गतः प्रमारूपमेवोत्पद्यते चेदेवं प्रमाप्रायिकत्वाधीनसमुत्कटतद्वासनावशादप्रामाण्यशङ्कानुदयः प्रामाण्यस्फुरणं चेत्युभयमौत्सर्गिकं भवति, अतः स्वतःप्रामाण्ये चेति पूर्ववाक्येनोपक्षिप्तमौत्सर्गिकत्वरूपं ज्ञप्तिस्वतस्त्वमुपपादयितुमुत्पत्तावपि स्वतस्त्वं निरूपयितुं पृच्छति -
ननु किमिति ।
इयं रूपप्रमेति ।
ननु स्वतस्त्वनिर्वचनप्रश्ने तदप्रदर्श्य किमिति प्रमाणमुपन्यस्यते; अथ ज्ञानसामग्रीमात्रजन्यत्वमेव स्वतस्त्वं, तत्तु प्रामाण्यस्य नेष्यते, किंतु तदधिकरणज्ञानव्यक्तेः, अतो नोक्तदोष इति प्रमापक्षीकरणेन सूचितमिति चेत्, न; उपन्यस्तनिर्वचनस्य परतस्त्वसाधारण्यात् । नहि परतस्त्वपक्षे प्रमा न ज्ञानं; येन सा ज्ञानसामग्रीमात्रजन्या न स्यात् । अथ ज्ञानसामान्यसामग्रीमात्रजन्यत्वं विवक्षितमिति चेद्, न; ज्ञानसामान्यसामग्र्यनुप्रविष्टात्ममनःसंयोगाद्यतिरिक्तेन्द्रियलिङ्गपरामर्शादिजन्यासु प्रत्यक्षानुमित्यादिप्रमास्वसंभवापत्तेः इति चेद्, मैवम्; ज्ञानसामग्रीशब्देन प्रमाभ्रमसाधारणज्ञानकारणकलापस्य विवक्षितत्वात् , इन्द्रियादीनां च प्रमावद् भ्रमेष्वपि कारणत्वात् , चक्षुषा रजतं पश्यामीति प्रातिभासिकस्यापि चाक्षुषत्वानुभवात् ।
प्रमायाः प्रमाभ्रमसाधारणकारणातिरिक्तकारणजन्यत्वाभावरूपं स्वतस्त्वं यथा सिद्ध्यति तथा साध्यं दर्शयति –
अर्थति ।
अत्र साध्ये संयुक्तसमवायान्तर्गतसंयोगरूपचक्षुर्गुणजन्यत्वेन विषयभूतरूपगुणजन्यत्वेन च बाधवारणयाऽसंप्रयोगत्वानधिकरणेति चक्षुर्गतेति च गुणविशेषणम् । सामान्याभावविवक्षया चक्षुरन्तरगतगुणजन्यत्वाभावेनार्थान्तरवारणायैतदिति चक्षुर्विशेषणं, तदविवक्षायां तु नोपादेयम् । न चैवमपि व्यञ्जकतेजोरूपत्वादालोकरूपवच्चक्षूरूपमपि रूपप्रमाहेतुरिति बाधः; तेजोगतमुद्भूतरूपमेव रूपादिज्ञानहेतुः नतु ऊष्मरूपवदनुद्भूतं चक्षूरूपमिति मतानुसरणात् । मतान्तरे तु रूपभिन्नेत्यपि विशेषणं देयम् । ननूक्तरूपं स्वतस्त्वं कथमनेन साध्यनिर्देशेन सिध्यति, नहि प्रमाभ्रमसाधारणज्ञानसामान्यकारणकलापाननुप्रविष्टप्रमायां विशेषकारणं संप्रयोगातिरिक्तचक्षुर्गुणरूपं परतस्त्ववादिभिरिष्यते, येन तज्जन्यत्वाभावसाधनं स्वतस्त्वसाधनं भवेत्; परतस्त्ववादिभिर्हि स्थूलावयविप्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसंनिकर्षो जन्यप्रत्यक्षप्रामाण्यं, यावद्विषयसंनिकर्षो जन्यप्रमामात्रे, ग्राह्ययथार्थज्ञानं च विशेषकारणमिष्यते; न तद्व्यावर्तनमुदाहृतसाध्यनिर्देशेन लभ्यते, तत्रादिमस्य विशेषकारणद्वयस्य व्यावर्तनं चक्षुर्गतविशेषणलभ्यं संप्रयोगातिरिक्तविशेषणेन विरुद्धम् , संप्रयोगातिरिक्तविशेषणलभ्यं तृतीयस्य व्यावर्तनं चक्षुर्गतविशेषणेन विरुद्धम् ; तस्माद् नानेनानुमानेन स्वतस्त्वसिद्धिरिति चेत्, उच्यते; चक्षुर्गतपित्तदोषाभावे शङ्खे श्वैत्यप्रमा तदभावे न, चक्षुर्गतमण्डूकवसाञ्जनाभावे वंशवर्णप्रमा तदभावे नेत्यन्वयव्यतिरेकाभ्यां रूपचाक्षुषप्रमायां विशेषकारणत्वेन शङ्कार्हस्तथैव परतस्त्ववादिभिरिष्यमाणश्चक्षुर्दोषाभावरूपो यस्तद्धर्मस्तजन्यत्वाभाव इह साध्यः । अन्यत्तु प्रमायां विशेषकारणत्वेन शङ्कार्हमेव न भवति । नहि भूयोऽवयवेन्द्रियसंनिकर्षं विना स्थूलावयविप्रत्यक्षप्रमा नोत्पद्यते; तदभावेऽपि संनिकृष्टकिंचित्प्रदेशावच्छेदेन तदुत्पत्तिदर्शनात् । अतस्तत्तत्प्रदेशप्रत्यक्षमात्रार्थं तत्तत्प्रदेशसंनिकर्षापेक्षेति न भूयोऽवयवेन्द्रियसंनिकर्षस्य स्थूलावयविप्रत्यक्षप्रमायां विशेषकारणत्वे मानमस्ति । एतेन स्थूलावयवावच्छेदेन संनिकर्षस्तस्यां विशेषकारणमित्यपि निरस्तम्; स्थूलावयविनि परमाणुद्व्यणुकरूपसूक्ष्मावयवावच्छेदेन संनिकर्षे भ्रमस्याप्यनुदयात्, यावद्विषयसंनिकर्षोऽपि न प्रमायां विशेषकारणम्; असंनिकृष्टभाने अतिप्रसङ्गेन शुक्तिरजतादिष्वपि संस्कारस्य स्मृतेर्वा संनिकर्षत्वस्याभ्युपेयत्वात्, असंनिकृष्टमपि रजतादिकं दोषाद्भासत इति समर्थने तथैवासंनिकृष्टमपि निध्यादिकमञ्जनादिगुणाद् भासत इति समर्थयितुं शक्यत्वेन प्रमायामपि तस्यानुगतविशेषकारणत्वाभावप्रसङ्गात् । विशेष्यवृत्तिविशेषणसंनिकर्षोऽपि न जन्यप्रत्यक्षप्रमानुगतो गुणः परंपरासंबन्धेन स्फटिकवृत्तेर्लौहित्यस्य तत्र साक्षात्संबन्धावगाहिनि भ्रमे तस्य साधारण्यात् , तत्तत्संबन्धविशेषेण वृत्तिविवक्षायामननुगमात् । एतेन विशेषणवद्विशेष्यसंनिकर्षस्तस्यां गुण इत्यपि निरस्तम्; ग्राह्ययथार्थज्ञानस्य तु जन्यप्रमामात्रे नान्वयव्यतिरेकाभ्यां विशेषकारणत्वं, व्यभिचारेण तदसिद्धेः । लोके शाब्दप्रमायां वक्तृवाक्यार्थयथार्थज्ञानस्य कारणत्वदर्शनात् , यद्विशेषयोः कार्यकारणभावः बाधकं विना तत्सामान्ययोरपीति व्याप्त्या तत्र तस्य कारणत्वसिद्धिः । नच व्यभिचारः; यत्रास्मदादिगतग्राह्ययथार्थज्ञानं नास्ति, तत्र सर्वत्रोक्तव्याप्तिबलेन परमेश्वरज्ञानस्य तथात्वेनापि कारणत्वकल्पनोपपत्तेरिति चेद्, न; अप्रयोजकत्वात् । नच जन्यप्रमात्वावच्छिन्नकार्यस्याकस्मिकत्वप्रसङ्गो विपक्षबाधकस्तर्कः; जन्यज्ञानत्वावच्छिन्नज्ञानसामान्यकारणकलापस्य सत्त्वात् , तत्र तद्वद्विशेष्यकतत्प्रकारकत्वस्याव्यवस्थितघटत्वपटत्वादिप्रवेशेनाऽननुगतस्यावच्छेदककोटिप्रवेशायोगात् । अन्यथा वक्तृवाक्यार्थायथार्थज्ञानस्य शाब्दभ्रमे कारणत्वाद् 'यद्विशेषयो'रित्युक्तव्याप्त्यैव भ्रममात्रे ग्राह्यभ्रमो हेतुः कल्पनीय इति परमेश्वरे नित्यप्रमावद् नित्यभ्रान्तिरप्यङ्गीकरणीया स्यात् । यत्तु तदभाववति तत्प्रकारकज्ञानमपेक्ष्य लघु तदभाववज्ज्ञानमेव भ्रमेषु दोषोस्तु, तत्तु भ्रमे धर्मिज्ञानरूपं सर्वत्र सुलभमिति नेश्वरे भ्रान्तिकल्पना प्रसज्यते, नचैवं प्रमायामपि लघु तद्वज्ज्ञानमेव गुणः स्यादिति वाच्यम्; इष्टापत्तेः, तावतापि परतस्त्वसिद्धेस्तत्फलेश्वरसिद्धेश्चाप्रत्यूहत्वात् इति । तन्न; तदभाववत्त्वेन ज्ञानस्य भ्रमविरोधिनस्तत्र कारणत्वायोगात् , वस्तुतो यत् तदभाववत् तज्ज्ञानस्य विशेषणज्ञानादिरूपस्य प्रमासाधारण्येन भ्रमासाधारणकारणत्वरूपदोषत्वायोगात् । तदभाववद्विशेष्यकं ज्ञानं दोष इति चेद्, न; तदभाववद्विशेष्यकानामपि ज्ञानानां प्रमाकारणानां बहुलमुपलम्भात् । तदभाववद्भ्रमविशेष्यविशेष्यकं ज्ञानं दोष इति चेद्, न; तदभाववत्त्वविशेषणवैयर्थ्यात् , भ्रमविशेष्यस्यारोप्याभाववत्त्वनियमात् । अस्तु तर्हि भ्रमविशेष्यविशेष्यकमेव ज्ञानं दोष इति चेद्, न; एतदपेक्षया भ्रम एव भ्रमे दोष इति कल्पनाया लघीयस्त्वात् । तस्माद् भूयोऽवयवेन्द्रियसंनिकर्षादीनां शङ्कानर्हत्वात् प्रमान्वयव्यतिरेकशालितया तदर्हस्येन्द्रियदोषाभावस्यैवाधिककारणत्वनिराकरणमनेनानुमानेन कृतम् । चक्षुर्दोषाभावस्य तन्निराकरणमिदम् इन्द्रियान्तरदोषाभावानामधिककारणत्वनिराकरणार्थानामप्येतच्छायापन्नानामनुमानान्तराणामुपलक्षणम् । का तर्हि दोषाभावान्वयव्यतिरेकयोर्गतिः ? दोषस्य प्रमाप्रतिबन्धकत्वमेव । सत्यां सामग्र्यां कार्यविरोधि हि प्रतिबन्धकं लोके प्रसिद्धं, नतु नैयायिककल्पितं कारणीभूताभावप्रतियोगि; तैरपि साक्षादविरोधिनो ज्ञानस्य जनकज्ञानविघटकस्यैव प्रतिबन्धकत्वम् इत्यादि वदद्भिः कारणीभूताभावप्रतियोगितत्वेनानभ्युपगतमपि कार्यानुत्पत्तिव्याप्यमात्रं प्रतिबन्धकमिष्यत एवेत्यलं विस्तरेण ॥
ज्ञप्तिस्वतस्त्वमपि अनुमानारूढं करोति -
तथेति ।
उक्तविधेति ।
चक्षुर्गतगुणज्ञानाधीनप्रथमप्रामाण्यज्ञानं न भवतीत्यर्थः । स्वतस्त्ववादे प्रथमं प्रामाण्यस्य करणगुणज्ञानानपेक्षज्ञात्वेऽपि पश्चात् करणगुणेनापि तदनुमानं संभवतीति बाधवारणाय प्रथमविशेषणम् । परतस्त्ववादे प्रथममपि प्रमारूपधर्मिज्ञानं करणगुणज्ञानानधीनं संभवतीति सिद्धसाधनवारणाय प्रामाण्यपदम् । गुणपदं पूर्ववद् निर्दोषत्वधर्मपरम् । ननु परतस्त्ववादिभिः करणदोषाभावलिङ्गादिव समर्थप्रवृत्तिलिङ्गसंवादाभ्यामपि प्रथमं प्रामाण्यस्य शेयत्वमिष्यते, तदुभयज्ञेयत्वनिरासोऽनेनानुमानेन न सिध्यतीति चेत्, सत्यम्; समर्थप्रवृत्तिसंवादौ तदयोग्यवैदिकार्थादिज्ञानप्रामाण्यावधारणे न संभवतः, करणदोषाभावाज्ञानं तु सर्वत्र संभवतीति तदधीनप्रथमज्ञानत्वमनेनानुमानेन निरस्तम् । तथा च यस्यां प्रमायां करणदोषाभावलिङ्गकमेव परतस्त्ववाद्यभिमतं प्रामाण्यग्राहकं प्रवर्तते सैवात्र पक्षो, नतु समर्थप्रवृत्तिसंवादावसितप्रामाण्येति न सिद्धसाधनम् । तदवसितप्रामाण्यायां तु प्रमायां स्वतस्त्वे एतद्घटप्रमा, एतद्घटविषयसमर्थप्रवृत्तिसंवादाधीनप्रथमप्रामाण्यनिश्चया न भवति, प्रमात्वात् पटप्रमावदित्यनयैव रीत्या तत्राप्यनुमानमुन्नेतुं शक्यमिति न प्रदर्शितम् । एवंच परतस्त्वनिषेधे प्रामाण्यस्य स्वाश्रयसहभाननियमरूपस्वतस्त्वसिद्धिः । ननु एवं सति यस्यां रूपप्रमायां करणदोषशङ्कया प्रामाण्यसंशये सति तन्निर्दोषत्वनिश्चयेन प्रामाण्यनिश्चयः, तत्र साध्यस्य बाधः स्यादिति चेद्, न; अतथाभूताया इह पक्षीकरणात् , तत्प्रतिपत्त्यर्थत्वादेषेति प्रक्षविशेषणस्य ।
तथाविधेति ।
ननु इह साक्षात्प्रवृत्तेः करणगुणज्ञानाधीनत्वं न निषेध्यम्; परतस्त्ववादिभिरपि तस्याः साक्षात्समानविषयरजतादिज्ञानजन्यत्वस्यैवाभ्युपगतत्वात् । नापि प्रामाण्यनिश्चयद्वारा; प्रामाण्यनिश्चयो न प्रवृत्त्यर्थमपेक्षितः, अनवस्थाप्रसङ्गात् , किंत्वप्रामाण्यशङ्काशून्यं समानविषयज्ञानमेवेति तैरभ्युपगतत्वात् । नच वाच्यं करणदोषसंशयेन प्रवर्तकज्ञानस्याप्रामाण्यशङ्कया प्रवृत्तिप्रतिबन्धे प्रसक्ते निर्दोषत्वरूपकरणगुणज्ञानजन्येन प्रामाण्यनिश्चयेन तच्छङ्कानिरासपूर्विका यत्र प्रवृत्तिः तत्र तस्याः करणगुणज्ञानाधीनत्वं परतस्त्ववाद्यभिमतं निषेध्यम् इति; स्वतस्त्ववादिभिरपि तस्याङ्गीकर्तव्यत्वेन तन्निषेधे बाधापत्तेरिति चेत्, सत्यम्; प्रामाण्यनिश्चयवत् प्रवृत्तिरपि करणगुण ज्ञानाधीनेति परतस्त्ववादिषु केषांचिन्मतमालक्ष्य तन्निषेधार्थमिदमनुमानम् ।
सर्वतन्त्रसिद्धार्थ इति ।
यद्यप्यख्यातिमते अन्यस्यान्यात्मतया भानमेव न सिद्धम् । अन्यथाख्यातिमते तत्सिद्धावप्यन्यात्मताऽनिर्वचनीयेत्येतदसिद्धम्; तथापि प्रागुक्तयुक्त्या तथाऽवश्याभ्युपगन्तव्यतामापाद्य सर्वतन्त्रसिद्धार्थत्वोक्तिः ।
रजतवदिति न सादृश्यविवक्षेति ।
ननु 'तेन तुल्यं क्रिया चेद्वति'रिति सूत्रेण क्रियया सदृशे वतिरनुशिष्टः, नतु मिथ्याभूते, अथ सदृशवाचिनो मिथ्याभूते लक्षणेत्युच्येत, नैतद्युक्तम्; यथा रजतं रजतात्मना भासते, तथा शुक्तिकापि रजतात्मना भासत इति वतिना रजततादात्म्यभानविषयत्वरूपे रजतसादृश्ये शुक्तिकायाः प्रतिपादिते सति असंनिहितस्य रजतस्य तत्तादात्म्यस्य चात्र प्रत्यक्षायोगेनार्थान्मिथ्याभूतरजततत्तादात्म्यसिद्धिसंभवादिति चेत्, सत्यम्; अर्थतः सिध्यति, रजततत्तादात्म्यमिथ्यात्वे रजतवदवभासत इति व्यवहर्तुलोकस्य तात्पर्यं, न तु द्वारभूते शुक्तिकागतरजतसादृश्ये इत्याशयेन सादृश्ये न विवक्षा किंतु मिथ्यात्वे इत्युक्तम् । यद्वा यथा सादृश्यवाचिन इवशब्दस्य वतेश्च दूरादागच्छन् देवदत्तवद्भातीत्यादिप्रयोगादुत्कटकोटिकसंशयरूपा तादात्म्यसंभावनाऽप्यर्थः । एवं शुक्तिका मिथ्यारजतात्मनाऽवभासत इत्यर्थविवक्षावतां रजतवदवभासत इत्यादिव्यवहारदर्शनान्मिथ्यात्वमपि तदर्थ इत्याशयेन तथोक्तमिति सर्वमनवद्यम् ।
स्वप्रकाशफलस्येति ।
ननु तथा हीत्यादिग्रन्थेन प्रथमं संविदः स्वप्रकाशत्वमेवोपपाद्यते, तत्कथं प्रतिपाद्यत्वेन नावतार्यते ? कथं च स्वप्रकाशत्वप्रति पादनानन्तरं प्रतिपाद्यमानः परपक्षे संविदोऽर्थप्रकाशत्वासंभवः, स्वपक्षे एवार्थजातस्य संविद्विवर्ततया संविदभेदेन संविदः स्वाभिन्नार्थप्रकाशत्वसंभवश्च प्रतिपाद्यत्वेन नावतार्यते ? तदनन्तरं संविदो जन्मादिनिषेधेन प्रतिपाद्यमानम् आत्मत्वमेव केवलं प्रतिपाद्यत्वेनावतार्यते ? उच्यते; संविदाश्रयत्वेनात्मसिद्धिं वदतां संविदः स्वप्रकाशत्वमभिमतमेवेति तदुपपादनमनुवादमात्रमित्याशयेन तत् स्वप्रकाशफलस्येत्यनुवाद्यकोटौ निवेशितम् । संविदः परपक्षे अर्थप्रकाशत्वासंभवप्रदर्शनपूर्वकम् अर्थजातस्यानिर्वचनीयत्वपक्ष एव तत्संभवोपपादनम् अर्थजातस्यानिर्वचनीयवव्यवस्थापनपर्यवसन्नं सत्स्वरूपतोऽननुभयमानभेदायाः संविदो नार्थोपाधिको भेदस्तस्य मिथ्यात्वादिति संविदो नित्यात्मस्वरूपत्वोपपादकतयैव प्रकृतोपयोगिता । अन्यथा कथं 'सत्यं ज्ञानमिति' श्रुतेर्ज्ञानात्माभेदे तात्पर्यं द्रागेव निश्चेतुं शक्यम् ? इह हि ज्ञानपदमन्तोदात्तमधीयते । अन्तोदात्तस्वरश्च केवलं ल्युडन्ततायां नोपपद्यते । तथाहि ल्युडादेशस्य अन इत्यस्य 'आद्युदात्तश्चे'ति प्रत्ययस्वरेण प्रथमाकारे उदात्ते 'लितीति' लित्स्वरेण प्रकृत्याकारे चोदात्ते 'अनुदात्तं पदमेकवर्ज'मिति शेषनिघातस्वरेण प्रत्ययस्थयोरकारयोरनुदात्तयोः 'एकादेश उदात्तेनोदात्त' इत्येकादेशस्वरेण प्रकृत्याकारप्रत्ययाद्यकारयोरेकादेशे चोदात्ते सति प्रत्ययान्त्याकारस्यानुदात्तस्य विभक्त्यकारस्य च 'अनुदात्तौ सुप्पिता'विति सुप्स्वरेणानुदात्तस्य 'अमि पूर्व' इत्येकादेशो भवन् स्थानेऽन्तरतम इति परिभाषयाऽनुदात्तः स्यात् । तस्य चानुदात्तस्य 'उदात्तादनुदात्तस्य स्वरित' इति स्वरितादेशो भवेत् । अत एतद् ज्ञानमिति पदं केवलल्युडन्तत्वे स्वरितान्तं स्यात् । यथा काठके 'संज्ञानं विज्ञानं प्रज्ञान'मिति । तस्मादन्तोदात्तनिर्वाहार्थमिदं ज्ञानपदं ल्युडनन्तरं मत्वर्थीयाचप्रत्ययान्तं वाच्यम् । अर्शआदेराकृतिगणत्वात् । तथा सत्यन्तोदात्तस्वर उपपद्यते । अशआद्यच्प्रत्यये 'यस्येति चेति' प्रकृतावन्त्यस्याकारस्य लोपे 'चित' इति चित्स्वरेण मत्वर्थीयप्रत्ययस्योदात्तत्वे च सति तस्य विभक्त्यकारस्य चैकादेशस्यापि 'एकादेश उदात्तेनोदात्त' इत्युदात्तस्यैव भावात् । एवमिह ज्ञानपदप्रक्रियाश्रयणे ज्ञानवत्त्वमेवात्मनः सिध्येद्; न ज्ञानरूपत्वं, किं त्वौणादिकनप्रत्ययान्तत्वेन तत्सिध्येत् । ज्ञाधातोराहत्य नप्रत्ययविधानाभावेऽपि 'जणादयो बहुलमि'ति बहुलग्रहणेन यतो विहितास्ततोऽन्यत्रापि ते भवन्तीति सिद्धेः । औणादिकप्रत्ययान्तत्वे भावार्थत्वमप्युपपद्यते, अर्त्यादिसूत्रविहितमन्प्रत्ययान्तस्य होमशब्दस्येव अन्तोदात्तस्वरश्च युज्यते; नप्रत्ययाकारस्य प्रत्ययस्वरेणोदात्तवे सति तस्य तद्विभक्त्यकारेण भवत एकादेशस्याप्युदात्तस्यैव भावात् । एवमुभयथेह ज्ञानपदप्रक्रियाश्रयणसंभवे कथमस्याः श्रुतेः संविदात्मामेदे तात्पर्यं निर्णीयत इत्याकाङ्क्षायां तत्र तत् तात्पर्यनिर्णयार्थामुपपत्तिमुपपद्यते चेति प्रतिज्ञाय तामेवोपपत्तिं प्रदर्शयितुं टीकायां तथा हीत्यादिग्रन्थः प्रवर्तितः ।
अतोऽत्र स्वप्रकाशत्वादिव्यवस्थापनस्य न साक्षादन्वयसंघटनेतीत्थमवतारिका -
नन्वभ्युपेयते इति ।
ननु चाभ्युपगमे को हेतुः, स्वयमभासमानमपि ज्ञानमर्थप्रकाशरूपमस्तु, नच तथात्वे तस्य चक्षुरादिवदर्थप्रकाशकत्वमेव स्याद्, नतु तत्प्रकाशरूपत्वमित्यनवस्थेति वाच्यम्; अप्रयो जकत्वेनोक्तनियमासिद्धेरिति चेद्, न; तथा सति घटज्ञानादिषु सत्सु कदाचित्संदेहविपर्यासापत्तेः प्रकाशाव्यभिचारिण्येव सुखादौ संशयविपर्यासानुदयदर्शनात् , एतावन्तं कालं मनसा रुदानुवाकानावर्तयन्नासमिति परामर्शानुपपत्तेश्च । न हि तत्तद्वर्णस्मृतीनां स्वस्वकाले भानाभावे तासामग्रिमपरामर्शो भवितुमर्हति । न चेच्छाघटितसामग्रीजन्यनिरन्तरक्रमिकवर्णविषयस्मरणसन्तानोदयकाले मध्ये मध्ये प्रतिस्मरणमनुव्यवसायोत्पत्तिः संभवति ।
आत्मस्वप्रकाशत्ववाद्याहेति ।
अभ्युपेतव्या इत्येतदन्तमुक्तवानात्मस्वप्रकाशवाद्येव । आत्मनः प्रकाशमानत्वं स्वप्रकाशफलाभेदेनैव उपपादनीयं, नान्यथा । तस्य प्रकाशमानत्वं भवतीत्येवमुपपादयितुमाहेत्यर्थः ।
अनुपयोग उक्त इति ।
सहभावस्य प्रकाशमानतायामनुपयोग उक्तः । उपयोगमङ्गीकृत्य तस्याव्यापकत्वमाहेत्यर्थः ।
विशेषणस्यासिद्धिमाहेति ।
बाधदोषः स्फुट इति मत्वा दोषान्तरमाहेत्यर्थः ।
तां परिहरतीति ।
असिद्धिं परिहरन् पूर्ववादी शङ्कत इत्यर्थः ।
जडत्वान्नार्थविषयप्रकाशश्चेदिति ।
अर्थविषयहानादिजनकत्वमात्रं न ज्ञानस्यार्थविषयतानियामकं, किंतु तज्जनकप्रकाशत्वम्; तथाच जडे देहात्मसंयोगे न प्रसङ्ग इति शङ्कार्थः ।
स्वप्रकाशत्वात् स्वमात्रे साक्षीति ।
दृश्यवर्गस्य संविद्भिन्नताभ्युपगमे संविदः स्वात्मानं प्रति प्रकाशत्वं ह्यभेदसंबन्धेनैव क्लृप्तमिति तं प्रति सा जडरूपा देहात्मसंयोगतुल्या न प्रकाशरूपेति नोक्तनियामकेन तस्या दृश्यवर्गविषयत्वसिद्धिरित्यर्थः । ननु यद्विषयत्वनियामकमन्विष्यते तं प्रति प्रकाशत्वं प्रकाशशब्देन न विवक्षितम्; तथा सति ह्यात्माश्रयः स्यात्, किंतु ज्ञानत्वसामान्यं विवक्षितम् , अतो नोक्तदोष इति चेद्, न; एवमपि गगनादीनामतीतानागतयोश्च हानाद्यविषयत्वेन तद्विषयज्ञानाव्यापनात्, ताम्रादिज्ञाने तदुपष्टम्भककालिकादेरप्युपादानजनके कालिकादिविषयत्वस्याप्यापत्तेश्च । एतेन परोक्षापरोक्षवृत्तीनामिच्छाद्वेषवृत्तीनां हानादिव्यापाराणां च तत्तद्भिन्नेऽपि तद्विषये विषयत्वनियमार्थं कस्यचिन्नियामकस्यावश्यान्वेष्यत्वेन तथाभूतं नियामकं संविद्भिन्नेऽपि संविदस्तत्तद्विषयत्वनियामकं भविष्यतीत्यपि शङ्का निरस्ता; संविदः स्वप्रकाशतायामभेदस्य नियामकस्य क्लृप्तत्वेन दृश्यवर्गप्रकाशतायां नियामकान्तरस्याननुगमावहस्य कल्पयितुमयुक्तत्वात् ।
ननु संविदः स्वभिन्ने नास्ति प्रकाशरूपतेति ब्रूषे, संवित्प्रपञ्चयोरभेदं च तात्त्विकमपाकुरुषे, अध्यासप्रतिक्षेपार्थं प्रवृत्तश्च नाध्यासिकं तमङ्गीकुरुषे, किंतु जगदान्ध्यमेव वक्तुमध्यवसितोऽसीत्याशङ्क्याह -
सिद्धान्त्यभिमतामिति ।
भामती-वेदान्तकल्पतरु-कल्पतरुपरिमलोपबृंहितम् । धर्माणाम् ? सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति, युष्मत्प्रत्ययापेतस्य च प्रत्यगात्मनो सर्वोऽयं सिद्धान्त्यभिमत एवार्थ आत्मनोऽधिष्ठानत्वासंभवोपपादनार्थमनूद्यते । सिद्धान्ती खलु संवित् स्वप्रकाशेति तस्याः स्वाभिन्न एव प्रकाशरूपत्वस्य क्लृप्तत्वात् खभिन्ने दृश्यवर्गे तस्याः प्रकाशरूपता न संभवति, तात्त्विकश्च दृग्दृश्ययोरभेदो न युज्यते, अतो दृश्यवर्गस्य संविद्विवर्ततयाऽनिर्वचनीयेन तदभेदेन प्रकाशमानता । एवं चानुभवामीत्येकरूपप्रत्ययदर्शनेन संविदां स्वात्मे भेदाप्रतीतेरर्थानामनिर्वाच्यतया तद्भेदेन रङ्गरजतादिभ्रमविषयभेदेन भ्रमाधिष्ठानशुक्तिशकलस्येव भास्करमतरीत्यौपाधिकवस्तुकृतभेदासंभवाच्च नित्या संविदिति नित्यसंविदतिरेकेणात्मकल्पनायां प्रमाणाभावात् संवित्प्रकाश एव स्वयंप्रकाश एकः कूटस्थो निरंशः प्रत्यगात्मेति मन्यते । तस्य मते प्रत्यगात्मरूपस्य प्रकाशस्य करणदोषाजन्यतया निरंशतया च सामान्यग्रहणविशेषाग्रहणासंभवात् कथमध्यासाधिष्ठानतेत्येवं सिद्धान्तिमतानुसारेणैवायम् अध्यासाक्षेपः क्रियत इत्याशयः ।
आजानतः स्वभावत इति ।
तथाच स्वाभाविकभेदो नानुभूयते, किंत्वनुभवामीत्येकरूपप्रत्ययेनाऽभेद एवावसीयते । नचानुगतप्रत्ययो जात्यैक्यविषयः; व्यक्तिभेदाप्रतीतौ लाघवेन तस्य व्यक्त्यैक्यविषयत्वकल्पनौचित्यात् । नचेच्छाया अपीच्छामीत्यनुगतप्रत्ययात् स्वतो भेदाप्रतीतेश्च नित्यत्वप्रसङ्गः, ममैतदिच्छा नष्टा एतदिच्छा उत्पन्नेति नाशोत्पत्त्यनुभवविरोधेनानुगतप्रत्ययस्य जातिविषयत्वकल्पनात् । नच ज्ञान इवेच्छायामपि नाशोत्पत्त्यनुभवस्यावच्छेदकवृत्तिविषयत्वं कल्पयितुं शक्यम् ; इच्छायामवच्छेदकवृत्तिकल्पने प्रमाणाभावात् । ज्ञाने तत्कल्पने त्वस्ति प्रमाणम् । सर्वस्य हि प्रपञ्चस्य नित्यैकदृगध्यस्तत्वेन प्रकाशमानतोपयोग्यभेद उपपादनीयः, नतु तत्तद्विषयस्य तत्तदृगध्यस्तत्वेन; लब्धात्मन्यधिष्ठाने भासमाने पश्चादध्यासस्य वक्तव्यत्वेन विषयाध्यासात् पूर्वं चाक्षुषादिज्ञानानां विषयं विनापि भानप्रसङ्गात् । नच सर्वस्य प्रपञ्चस्यैकदृगध्यस्तत्वे तत्तज्ज्ञानानां विषयनियमासंभवः; अवच्छेदकवृत्तिकृतविषयनियमोपपत्तेरिति भावः ।
नन्वहंवृत्तिरूपसाक्षात्कारेणार्थान्तरदुष्टमनुमानं; सुखमहमस्वाप्समिति परामर्शानुपपत्त्या सुषुप्तावहंवृत्तेरवश्याभ्युपगन्तव्यत्वात् तथाभूतपरामर्शदर्शनस्यैवानुमानग्राहकतर्कतया तवाप्युपजीव्यत्वात्, इत्याशङ्क्याह -
नच सुप्ताविति ।
सुषुप्तावन्तःकरणलयस्य श्रुतिसिद्धत्वेन तदानीमहंवृत्त्यसंभवात् स्वरूपतः सुषुप्तौ साक्षात्कृते प्रत्यगात्मनि सुप्तोस्थितपरामर्शस्तात्कालिकाहमर्थानुरागविषयो वक्तव्य इत्याशयः ।
यथा खल्वभिज्ञायामिति ।
ननु देवदत्तोऽयमित्यभिज्ञायामिदमर्थे यद् देवदत्तैक्यं भासते, तद्विविक्तमुल्लिख्यत एव; यत्तु तत्र तत्ताविशिष्टैक्यं विविक्तं नोल्लिख्यते, तन्नभासत एव; अतो भासमानस्य विविक्तोल्लेखाभावे नेदमुदाहरणमिति चेद्, न; एकस्मिन्निदमर्थे ऐक्यद्वयाभावेन भासमान एव देवदत्तैक्ये तत्तोपाधिपरामर्शाभावेन तत्तेदन्ताविशिष्टाभेदरूपतयोल्लेखाभावरूपस्य विविक्तानुल्लेखस्य विवक्षितस्य सत्त्वात् ।
दुःखप्रत्यनीकत्वादिरूपेणेति ।
ननु दुःखप्रत्यनीकत्वं दुःखविरोधित्वं, दुःखव्यावर्तकसुखत्वं वा । नाद्यः स्रक्चन्दनादि विषयभोगदशायां दुःखस्मरणरहितानां तज्जन्यानन्दे दु:खविरोधित्वपरामर्शासंभवात् , तदनुभवस्यासत्कल्पत्वेनापुरुषार्थत्वप्रसङ्गात् , मुक्तौ कथमपि दुःखस्मरणप्रसक्त्यभावेन मुक्त्यानन्दानुभवस्यापुरुषार्थत्वप्रसङ्गाच्च । अत एव न द्वितीयोऽपि, मुक्तौ सुखत्वादिप्रकारकानुभवाभावात् इति चेत्, उच्यते; निरतिशये स्वरूपानन्दे संसारदशायामविद्यान्तःकरणोपधानदोषादस्त्यध्यस्तोऽपकर्षस्तं विनाऽनुभवाभावादिति विवक्षितम् । तथा चाध्यस्तापकर्षयुक्ततया गृहीतोऽप्यानन्दो मेघावरणकृतापकर्षसौरालोकवदगृहीत इव भातीति तात्पर्यम् । यद्वा सकलसांसारिकदुःखविरोधि यत् स्वरूपानन्दे निरतिशयानन्दत्वं तदनुभवाभावादिति विवक्षितम् । तच्च स्वरूपाभिन्नमेव मुक्त्यानन्दानुभवे प्रकारो महावाक्यजन्यब्रह्माभिन्नस्वस्वरूपसाक्षात्कार इवाभेदप्रतियोगिब्रह्मरूपमिति न कश्चिद्दोषः । आनन्दादय इत्यादिशब्देन नित्यत्वादयो गृह्यन्ते ।
आनन्दादीनामिति ।
ननु आनन्दादीनामिव बुद्ध्यादिभेदस्यापि वास्तवत्वेनाद्वितीयचैतन्यैकरसताऽवश्याभ्युपगन्तव्या; आत्मनि बुद्ध्याद्यभेदाध्यासवादिनस्तत्र तद्भेदोऽप्यध्यस्त इत्युक्त्ययोगात्, अभेदाभावे तदात्मकभेदप्रतिक्षेपासंभवात् । नच बुद्ध्यादेः स्वरूपतोऽध्यस्तत्वादात्मनि वस्तुतो न तद्भेदो, नापि तदभेद इति वाच्यम् । अध्यस्तादपि रजतात् शुक्तौ तज्ज्ञानाबाध्यबाधगोचरभेददर्शनात् इति चेद्, न; शुक्त्यादिगतरजतादिभेदस्यापि सर्वप्रपञ्चनिवर्तकब्रह्मज्ञानबाध्यत्वाभ्युपगमेन तद्वत् संसारदशायामबाध्यस्यापि बुद्ध्यादिभेदस्य तद्बाध्यत्वोपपत्तेः ।
यदि च स वास्तव एवाद्वितीयचैतन्यैकरसस्य इष्यते, तथापि न दोषः; बुद्ध्यादिप्रतियोगिकत्वापरामर्शात् सोऽप्यगृहीत इव भातीति वक्तुं शक्यत्वात् । अयमपि टीकाकाराणामाचार्याणां च संमतः पक्षः । अत एव सौत्राथशब्दविचारप्रस्तावेऽन्तःकरणाद्यभावस्य ब्रह्मस्वरूपानतिरिक्ततया वास्तवत्वेनैव शुद्धत्वाद्यवगाहिब्रह्मसाक्षात्कारविषयत्वं समर्थयिष्यते -
अस्मत्प्रत्ययविषयत्वमपीति ।
ननु चैतन्यस्याखण्डानन्दात्मकशुद्धस्वरूपेणाहंवृत्त्यविषयत्वेऽप्यौपाधिकरूपेण तद्विषयत्वं प्रागनुपदमेवोक्तं, वक्ष्यते च शब्दापरोक्षनिराकरणे, औपाधिकरूपापन्नश्च जीवः, तस्य कथमिह तद्विषयत्वम् औपचारिकमित्युच्यते, तस्य तद्विषयत्वाभावे च तस्यास्मदुल्लेखो न स्यादन्तःकरणमात्रविषयत्वादिदमुल्लेख एव स्यात्, सत्यम् । अहमर्थानुप्रविष्टानिदमंशरूपस्य सुखादिसाक्षिणः स्वप्रकाशस्याज्ञानोपाधिकस्य जीवस्याहंवृत्तिविषयत्वं प्रागुक्तं, वक्ष्यते च, इह तु तस्येदमंशस्येव अहंवृत्त्यवच्छिन्नचैतन्यविषयत्वं मुख्यं नास्तीति तदौपचारिकमित्युच्यते । एवं च न कर्मकर्तृत्वविरोध इति चैतन्यकर्मत्वप्रयुक्तस्य विरोधस्य परिहारः । वृत्तिकर्मत्वप्रयुक्तस्य तु पञ्चाग्निविद्यायामुपासनाकर्मत्वप्रयुक्तस्येव कथंचिद्रूपभेदेन परिहार आस्थेयः । अहं सुखीत्याद्यनुभवात्सुखादिविशिष्टरूपेण कर्मत्वम्, अन्तःकरणविशिष्टरूपेण कर्तृवमिति ।
अप्रकाशसमर्थनेनेति ।
निरतिशयानन्दात्मकस्य शुद्धत्वरूपस्येति शेषः ।
अभिव्यकं स्वरूपज्ञानमिति ।
चरमसाक्षात्काररूपायां वृत्तावभिव्यक्तं स्वरूपज्ञानमेवाविद्यानिवर्तकम्; यथा सूर्यकान्तारूढं सौरं तेज एव तृणदाहकं तद्वत्, नतु वृत्तिरविद्यानिवर्तिका जडत्वादित्याशयेन कर्मधारयोक्तिः ।
स्वयमेवेति स्वभाववादिन इति ।
वत्सविवृद्ध्यर्थं क्षीरमिव पुरुषभोगापवर्गार्थं प्रधानं खयमेव प्रवर्तते इति वदतः साङ्ख्यस्य शङ्कायाः विवरणार्थत्वेन योजयितुं शक्यत्वेऽपि साङ्ख्यमते पुरुषसन्निधानमात्रस्यापेक्षितत्वात्तस्यापेक्षामवदतः स्वभाववादिनो मते स्वयमेवेत्येवकारस्य स्वारस्यमस्तीति स्वभाववादिमतपरतया योजितम् ।
प्रमाश्रयत्वेनापि समर्थयतीति ।
नच प्रमातृत्वमन्तरेणेति भाष्यं पूर्वभाष्यशेषत्वेन प्रतीयमानमपि प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्यनुपपत्तेरिति पूर्वभाष्यगतवाक्येन पौनरुक्त्यपरिहाराय युक्त्यन्तपरत्वेन व्याख्यायत इति भावः ।
प्रमाश्रयत्वं हीति ।
नहीन्द्रियाण्यनुपादायेत्यादिभाष्ये प्रमातृत्वं प्रमाकरणादिप्रयोक्तृत्वरूपं प्रमाकर्तृत्वमिति प्रमाणप्रेरकत्वेनाध्याससमर्थनार्थमुक्तम्, इह तु चिद्रपतयाऽपरिणामत्वेनाचिद्रूपतया च चिदचित्संवलनरूपा या प्रमा तदाश्रयत्वं केवलचितः केवलाचितश्च न संभवतीति प्रमाश्रयत्वेनाध्याससमर्थनार्थं प्रमातृत्वं प्रमाश्रयत्वमिति व्याख्यायते । यद्यप्युभयथाप्यध्याससमर्थनं प्रत्यगात्मनः कौटस्थ्यं सिद्धं कृत्वा प्रवृत्तं तत्कौटस्थ्ये विप्रतिपद्यमानं प्रति नोपन्यासार्हं; तथापि श्रुतिसिद्धं तत्कौटस्थ्यं प्रामाणिकानां न विप्रतिपत्त्यर्हमिति तात्पर्यम् ।
अनेनेति ।
नाविद्यावन्तमिति शङ्काग्रन्थो हि विरोधाभिप्रायः । स तु विद्याया एवाचित्संवलितरूपत्वेनाविद्यागर्भत्वान्नास्ति विरोध इति परिहृत इत्यर्थः । अनुपयोगपरिहारार्थस्तामेवेति ग्रन्थः ।
अध्यासमपेक्ष्य प्रमाणप्रवृत्तेस्तेन प्रमोपयोगकथनादित्यवतारयति -
तत्त्वेति ।
इह यदि प्रमातृत्वं प्रमाकरणादिप्रेरकत्वरूपं प्रमायां स्वातन्त्र्यं, तदा प्रमाणप्रेरकत्वेनाध्याससमर्थनमेवास्यापि भाष्यस्यार्थः स्यादिति पूर्वभाष्येण पौनरुक्त्यं भवेद् ; यदि तु तत्प्रेरणानुकूला शक्तिरिह प्रमातृवं तत्राह -
प्रमातृत्वशक्तिरिति ।
p>नच प्रेरणव्यापारेण कल्पितया शक्त्याध्यास उपपाद्यतामिति वाच्यम् । प्रथमोपस्थितेन तस्य कल्पकेनैव तदुपपादनसंभवात्, तस्य च कृतत्वादिति भावः ।
प्रमा त्विति ।
तुशब्द': प्रमाणप्रेरणव्यापारोपस्थित्यनपेक्षोपस्थितिकत्वविशेषद्योतनार्थः ।
उद्देशत्यागात्मकेति ।
यजमानद्रव्यस्वत्वत्यागोऽन्येन कर्तुमशक्य इति तस्मिन्प्रधाने यजमानस्यैव कर्तृवं, तथैव ऋत्विगानमनार्थे दक्षिणादानेऽपि । उपलक्षणमेतत्, फलप्रतिग्रहयोग्यतापादकतपःप्रभृतेश्च । एवकारस्तदितराङ्गकलापव्यवच्छेदार्थः ।
भावनाक्षिप्तेति ।
ननु पचन्ति पाचका इत्यत्र भावनाक्षिप्तपाचकरूपकर्तृगामित्वं पाकफलस्य नास्तीति दृष्टमिति चेद्, न; तत्राकर्तृगामिक्रियाफलार्थकपरस्मैपदबलात्पाकफलस्यान्यगामित्वेऽप्यत्र बाधकाभावेनौत्सर्गिककर्तृगामित्वत्यागायोगादिति भावः ।
न केवलं कर्तृगामित्वे बाधकाभावमात्रं, तत्र साधकान्तरमप्यस्तीत्याह -
आत्मनेपदेन चेति ।
अनर्थकं स्यादिति ।
भूतिदानं हि स्वफलार्थं कर्म परैः कारयितुमित्येवं लोके दृष्टार्थमवगतम् । अतो दृष्टार्थपरिक्रयविधिबलात् परिक्रीतैः कर्म कारणीयमिति नियमोऽवसीयत इति भावः ।
आध्वर्यवादिकमिति ।
आध्वर्यवादिसमाख्यायुक्तकाण्डाम्नातमङ्गजातं समाख्यावशादध्वर्य्वादिभिः कर्तव्यमित्यधिकरणान्तरव्युत्पादनीयार्थस्य बुद्धिसौकर्यार्थमिहोपन्यासः ।
प्रयोजककर्तृत्वादिति ।
स्वतन्त्रप्रयोजकसाधारणकर्तृसामान्यपरं साङ्गप्रधानानुष्ठापकप्रयोगविधिगतमाख्यातमिति भावः ।
अप्रयोकेत्यनेन पौनरुक्त्यपरिहारायाह -
अकर्ता कर्तृत्वशक्तिरहित इति ।
पातकं ब्रह्मवधादीति ।
अत्र पातकशब्देन महापातकमतिपातकं समपातकं चेति त्रिविधं पातकं गृह्यते । जातिभ्रंशकरादि इत्यादिशब्देन प्रकीर्णकं गृह्यते । अनुक्रान्ताष्टविधपापानन्तभूतं पापं प्रकीर्णकम् । एवमेकैकसंज्ञया केषांचित्केषांचित्पापानां कोडीकारस्तेषु तेष्वेकरूपनरकादिफलप्रायश्चित्तोपदेशार्थः ।
देहगतस्वामित्वस्येति ।
ननु पुत्रभार्यादिस्वामित्वं देहगतं न भवति; तस्य पुत्रभार्याद्युपचाराधीनभोगाभावात् , तदधीनभोगभाक्त्वव्यतिरेकेण तद्वैकल्यसाकल्यप्रयुक्तवैकल्यसाकल्यार्हस्य स्वामित्वस्याभावात् इति चेद्, न; तदुपचाराधीनयोषादिभाक्त्वरूपस्य तथाभूतस्य स्वामित्वस्य देहेऽपि संभवात् ।
प्रमेयस्वरूपालोचनयापि तमाहेति ।
नच अहंप्रत्ययसिद्धेन कर्तृत्वभोक्तृत्वादिना निश्चितस्यापि भोक्तृरूपस्य नित्यत्वविभुत्वादिना संदिग्धतया विषयत्वं स्यादिति वाच्यम् ; सिद्धान्ते तन्निर्णयस्य मोक्षफलत्वानङ्गीकारादिति भावः ॥
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ननु सूत्रे जिज्ञासापदप्रकृतिप्रतिपाद्यं किम् ? अखण्डानन्दरूपब्रह्मस्वरूपज्ञानं, किं वा विचारसाध्यं ब्रह्मनिर्णयरूपं वृत्तिज्ञानम् ? नाद्यः; संशयानाक्षेपेण विषयसूचनालाभप्रसंगात् । नहि बहुशो दृष्टेऽपि पुन: पुनरुदित्वरी विषयसौन्दर्यप्रयुक्ता जिज्ञासा संशयमूला । न द्वितीयः; प्रयोजनसूचनालाभप्रसङ्गादित्याशङ्क्योभयमपि विवक्षितं, सौत्रपदानाम् अनेकार्थत्वस्यालङ्कारत्वादित्याह -
वृत्तिव्यक्तेति ।
वृत्तिश्च व्यक्तस्वरूपज्ञानं चेति द्वन्द्वैकवद्भावः । स्वरूपज्ञानविवक्षायां ब्रह्मणो यज्ज्ञानं तदिच्छेत्यर्थकथने 'राहोः शिर' इतिवदुपचारो द्रष्टव्यः ।
ब्रह्मतज्ज्ञानप्रारम्भार्थ इति ।
ब्रह्म तावत् स्वरूपतो जन्मादिसूत्रेण (ब्र.अ.१ पा.१ सू.२) प्रयोजनरूपतया फलाध्यायेन च प्रतिपाद्यते । तद्विषये प्रमाणयुक्ती ब्रह्मतज्ज्ञानेत्यत्र करणव्युत्पत्तिमता ज्ञानपदेन संगृहीते समन्वयाविरोधलक्षणाभ्यां प्रतिपाद्येते । मुक्तिसाधनब्रह्मज्ञानं भावव्युत्पत्तिमता तेनैव ज्ञानपदेन संगृहीतं सपरिकरं साधनाध्यायेन प्रतिपाद्यते । तस्मादिहाथशब्दस्य ब्रह्मतज्ज्ञानप्रतिपादनप्रारम्भार्थत्वं वक्तुं शक्यमिति शङ्कार्थः ॥
दण्डी प्रैषानिति ।
इष्टिषु प्रैषस्याध्वर्युः कर्ता, अनुवचनस्य होता; तद्विकृतौ पशावुभयोरपि मैत्रावरुणः कर्ता विधीयते -
मैत्रावरुणः प्रैष्यति चान्वाह चेति ।
तेन प्राप्तत्वाद्दण्डिवाक्ये मैत्रावरुणकर्तृके प्रैषानुवचने विध्यन्वयित्वेन न विवक्षा, किंतु प्रैषानुवचनाङ्गे दण्डग्रहण इत्यर्थः । यद्यपि “क्रीते सोमे मैत्रावरुणाय दण्डं प्रयच्छतीति” विहितस्य दण्डदानस्य मैत्रावरुणकार्यार्थत्वावगमात् तेन स्थित्वोच्चैः कर्तव्ये प्रैषानुवचने बलार्थमवष्टम्भतया दण्डग्रहणस्य सामर्थ्यादपि प्राप्तिर्भवेत् ; तथापि सामर्थ्याद्भवन्ती प्राप्तिस्तेन कर्तव्ये रात्रिसंचारादावपि भवेत् , सा मा भूदिति कार्यान्तरपरिसंख्याफलकः प्रैषानुवचनरूपे कार्ये तस्य दण्डविधिरिति दण्ड एव विध्यन्वयित्वेन विवक्षित इति भावः ॥
प्रत्युत तदविवक्षायामिति ।
ननु विध्यन्वयित्वेनाविवक्षितमपि प्रैषानुवचनमनुवाद्यतया यथा विधेयदण्डान्वयि, एवमिच्छापि प्रारभ्यमाणब्रह्मज्ञानान्वयिनी सती ब्रह्मज्ञानस्य प्रयोजनत्वं ब्रह्मणः संदिग्धत्वं च गमयेत् ; इच्छेष्यमाणसमभिव्याहारे चेष्यमाणप्राधान्यं 'यजेत स्वर्गकाम' इत्यादौ क्लृप्तम्, अत इहापीच्छाप्राधान्यं विहायेष्यमाणप्राधान्यमभ्युपगन्तुं युक्तम् ; तस्मात्प्रारम्भार्थतायां न कश्चिद्दोष इति चेत्; उच्यते, एवं सति वृत्त्यभिव्यक्तनिरतिशयानन्दरूपस्वरूपज्ञानस्येच्छाविषयत्वेनाग्रहणात्परमपुरुषार्थः सूत्रेण साक्षाद्दर्शितो न स्याद्, विविदिषन्तीत्यत्रेव मुक्तिसाधनज्ञानस्य गौणपुरुषार्थताज्ञापनार्थेनेच्छासमभिव्याहारेण निर्णिनीषोक्त्यैव संदेहानाक्षेपाद्विषयसूचनं च न सिद्ध्येत् । अतः स्वरूपज्ञानप्रेप्साप्रतिपादनेन तस्य परमपुरुषार्थत्वब्रह्मविषयनिर्णयेच्छाप्रतिपादनेन ब्रह्मणः प्रागविज्ञाततया संदिग्धत्वेन विषयत्वं च सूचयितुं पूर्वोक्तरीत्या जिज्ञासापदस्य स्वरूपज्ञाननिर्णयज्ञानेच्छाद्वयप्राधान्यमेवाभ्युपेयमिति भावः ।
स्वतो नान्तस्य त्विति ।
यद्यपि तस्य पूजितविचारवचनत्वं न व्याकरणस्मृतिसिद्धं 'मान पूजाया'मिति धातोः पूजामात्रवाचित्वात्, 'मान विचारे' इति चुरादिपठितस्य धातोर्विचारमात्रवाचित्वात्; तथापि तयोरन्यतरस्य ग्रहणे धात्वर्थतया विशेषणविशेष्यान्यतरतलाभोऽस्तीत्यभिप्रायेणैवमुक्तम् । प्रवर्त्स्यति प्रवर्तिष्यते । 'वृद्भ्यः स्यसनो'रिति वैकल्पिकं परस्मैपदम् । परस्मैपदे 'न वृद्भ्यश्चतुर्भ्य' इति प्रतिषेधादिडागमाभावः ।
किं पूर्वप्रकृतादिति ।
किमयमथशब्द आनन्तर्यार्थम् इति प्रथमविकल्पोपन्यासपरे पूर्ववाक्ये विकल्पधर्मित्वेन प्रकृतादित्यर्थः ।
द्वितीये इति ।
अथशब्दविशिष्टात्पूर्वोक्तकल्पादानन्तर्यशुद्धकल्पाद्वेत्यर्थः । पूर्वप्रकृतस्याथशब्दस्यावश्यमपेक्षणे तमेवापेक्ष्याथशब्दस्य तादर्थ्ये कल्पान्तरोपन्यासार्थकत्वे संभवत्यर्थान्तरस्य विशिष्टापेक्षयाऽऽनन्तर्यस्य कल्पनानवकाशात् । यद्वा पूर्वप्रकृतस्य प्रथमकल्पस्यापेक्षाया आवश्यकत्वे द्वितीयाथशब्दस्य तादर्थ्ये तन्मात्रापेक्षया आनन्तर्यार्थकत्वे संभवति अर्थान्तरस्य विशिष्टानन्तर्यस्य कल्पनानवकाशादित्यर्थः ।
आनन्तर्यरूपत्वपक्षे विकल्पाप्रतिभानादिति ।
यत्र विकल्पप्रतिभानं तत्रैव पूर्वं विकल्पप्रकृततद्धर्म्यपेक्षार्थको विकल्पान्तरमुखेऽथशब्दः प्रसिद्धो नान्यत्रेत्याशयः ।
ननु 'अथैष ज्योतिरेतेन सहस्रदक्षिणेन यजेते'त्यत्र प्रकृतज्योतिष्टोमानुवादेन सहस्रदक्षिणालक्षणगुणविधानं, न तु तद्विशिष्टकर्मान्तरविधानमिति पूर्वपक्षोपपादकत्वेन पूर्वप्रकृतापेक्षार्थत्वमथशब्दस्य वार्तिककृतोक्तम् । (तन्त्रवार्तिके जै. अ. २ पा. २ सू. २२) अतो विकल्पाभावेऽपि तादर्थ्यप्रसिद्धिरस्तीति चेद्, न; तत्रानन्तर्यार्थत्वमेव पूर्वपक्षेऽभिमतम् । आनन्तर्यमपि हि पूर्वप्रकृतमपेक्ष्य वर्ण्यते । अत एव तृतीयाध्यायटीकायां संज्ञाधिकरणा(ब्र. अ. ३ पा. ३ सू. ६-८)नुक्रमणेऽथशब्दस्यानन्तर्यार्थस्यासंबन्धेऽनुपपत्तेरित्यानन्तर्यार्थमादायैव पूर्वपक्षसमर्थनं कृतम् । आचार्यैश्च तद्व्याख्यानसमये वार्तिककारीयपूर्वप्रकृतापेक्षोक्तेरानन्तर्य एव पर्यवसानमुक्तिभङ्ग्या दर्शितम् आनन्तर्यं हि पूर्वप्रकृतापेक्षं, गुणविधिपरत्वे चाश्रयदानार्थमस्ति ज्योतिष्टोमापेक्षा, न कर्मान्तरत्वे; नहि क्रतुः क्रत्वन्तरमपेक्षत इत्यर्थ इति । यस्मिन् सति भवन्ती भवत्येवेति ग्रन्थमध्याहारव्यवहितयोजनाभ्यां व्याचष्टे -
अन्यदपीति ।
ब्रह्मजिज्ञासाया अपि योग्यत्वादिति ग्रन्थमपेक्षिताध्याहारेण व्याचष्टे -
स्वाध्यायाध्ययनानन्तरमिति ।
इत्थं प्रतीकमनुपादाय व्याख्यानं, व्याख्यानेनैव व्याख्येयमूलांशो ज्ञातुं शक्य इति ग्रन्थलाघवार्थम् । एवमुत्तरत्रापि तत्र तत्र दृश्यते ।
नन्विति ।
धर्मजिज्ञासासूत्रे ब्रह्म विचार्यत्वेन नोपात्तं, किंतु धर्ममात्रम् ; अतस्तत्रत्याथशब्दस्य धर्मपरवेदाध्ययनानन्तर्यमर्थः, इह तु ब्रह्मविचारे वेदान्ताध्ययनमपेक्षितमिति तत्साधारणाध्ययनानन्तर्यं ब्रह्मविचारस्य प्रतिपादयितुमिदं सूत्रमारब्धव्यमिति शङ्कार्थः । ननु धर्मशब्दस्य वेदार्थमात्रोपलक्षणत्वमङ्गीकृत्य तेन तत्रत्याथशब्दस्य सकलवेदाध्ययनानन्तर्यमर्थमुपपाद्यास्याथशब्दस्य तेन गतार्थत्वपरिहारार्थमर्थान्तरं वर्णनीयमित्युपपादनमयुक्तम् ; तथा सति हि सकलवेदार्थविचारप्रतिज्ञानं तत्रैव कृतमिति स्यात् , एवं च कृत्स्नमेवेदं शास्त्रं गतार्थत्वेनानारभ्यं भवेदिति कुतोऽस्याथशब्दस्यार्थान्तरवर्णनप्रत्याशा, न हि कृत्स्नवेदार्थविचारं प्रतिज्ञाय तदेकदेशविचारस्त्यक्तो बुद्धिपूर्वमिति वक्तुं शक्यम् ; न वा धर्मविचारार्थं द्वादशलक्षणीं कृत्वा तत्रासूत्रितान् कांश्चिन्न्यायानालक्ष्य तत्संग्रहार्थं द्वादशलक्षणीं शेषं संकर्षकाण्डमपि कृतवतो महर्षिवरस्य भगवतो जैमिनेर्ब्रह्मपरवेदभागविचारे विस्मरणं विघ्नजातं वोत्प्रेक्षितुं शक्यमिति चेत्, उच्यते; धर्मजिज्ञासासूत्रस्य (जै. अ. १ पा.१ सू. १) सकलवेदार्थविचारप्रतिज्ञापरत्वमात्रेणास्य शास्त्रस्य गतार्थत्वं नापद्यते; इह व्युत्पादयिष्यमाणानां सिद्धब्रह्मपरवाक्यार्थनिर्णायकन्यायानां पूर्वतन्त्रव्युत्पादितेभ्यः कर्मपरवाक्यार्थनिर्णायकन्यायेभ्यो विलक्षणत्वात्, किंतु शास्त्रारम्भप्रतिज्ञैक्येन वक्तृभेदेऽप्येकप्रबन्धतामात्रं तदानीमापद्यते; समयबन्धपूर्वकानेककविकर्तृकैककाव्यवत् । तदपि सिद्धान्ते प्रौढ्याभ्युपगम्य मतान्तरमिष्यत एव; तदाश्रित्य हि भाष्यटीकयो'रेक आत्मनः शरीरे भावात्' (जै. ब्र. अ.३ पा.२ सू.५३) इत्यधिकरणे देहातिरिक्तात्मास्तित्वस्य शास्त्रप्रथमपादे व्यवस्थापनादत्र तद्व्यवस्थापनं पुनरुक्तमिति शङ्कोद्घाटनं, भाष्यकृता शबरस्वामिना तत्र तत्कृतं न तत्सूत्रारूढमिति समाधानं च करिष्यते । ननु प्रौढ्यापि कथमैकशास्त्रमभ्युपगतं; विरुद्धयोरेकप्रबन्धत्वायोगात् , अस्ति हि जैमिनिबादरायणमतयोर्विरोधः, बादरायणेन हि 'शेषत्वात्; पुरुषार्थवादो यथान्येष्विति जैमिनिः' (ब्र.अ.३ पा.४ सू.२) 'परामर्शं जैमिनिः' (ब्र.अ.३ पा.४ सू.१८) इति च सूत्रे ब्रह्मसंन्यासापलपनं जैमिन्यभिमतमनूद्य दूषितं, नच जैमिनेरन्वारुह्यवादमात्रमनूद्य दूषितं, नतु तन्मतम् , 'पर जैमिनिर्मुख्यत्वात्' (ब्र.अ.४ पा.३ सू.१२) 'तद्भूतस्य तु नातद्भावो जैमिनेरपि' (ब्र.अ.३ पा.४ सू.४०) इत्यादिसूत्रैः जैमिनेर्ब्रह्मसंन्यासाभ्युपगमस्य बादरायणेनैव प्रतिपादितत्वादिति वाच्यम् । 'तस्य विप्रतिषेधा च्चासमञ्जसम्' (ब्र.अ.२ पा.२ सू.१०) इति साङ्ख्याधिकरणोक्तन्यायेन जैमिनिमतस्य परस्परविरुद्धतयानुपादेयत्वसूचनार्थत्वोपपत्तेः । किंच देवताधिकरणे (ब.अ.१ पा.३. सू.२६-३३) जेमिन्यभिमतं बहुशो देवताप्रत्याख्यानमनूद्य दूषितम् । 'आम्नायस्य क्रियार्थत्वात्' (जै.सू.अ.१ पा.२ सू.१) इत्यादिसूत्रेण वेदस्य क्रियार्थत्वेनैव प्रामाण्यं वक्तव्यमित्यविशेषेणाक्रियार्थानामप्रामाण्यमाशङ्क्य 'विधिना त्वेकवाक्यत्वात्' (जै.अ.१ पा.२ सू.७) इति सूत्रेण केवलसिद्धार्थविषयत्वेन भासमानानां वाक्यानां विध्येकवाक्यतया क्रियार्थतामुपपाद्य जैमिनिना यत्प्रामाण्यसमर्थनं कृतं, तदपि बादरायणेन समन्वयसूत्रे (ब्र.अ.१ पा.१ सू.४) ब्रह्मविषयाणां वाक्यानामनपेक्ष्य विधिशेषतामक्रियार्थानामेव सतां प्रामाण्यसमर्थनेन प्रत्याख्यातम्; एवं विरुद्धयोरेकप्रबन्धत्वं प्रौढ्यापि कथमभ्युपगतमिति चेत्, उच्यते; ब्रह्मसंन्यासदेवतापलापविषये विरोधस्तावद् नैकाप्रबन्धत्वापवादकः; तस्य द्वादशलक्षण्यामसूत्रितत्वेन परस्परविरुद्धमताभिमान्यनेककविकृतरामायणादिवदेकप्रबन्धतोपपत्तेः । किंच जैमिनिना तिर्यगधिकरणे 'न देवता देवतान्तराभावादिति' सूत्रेण देवताः कर्मसु नाधिक्रियन्ते; इन्द्रादीनां हविस्त्यागोद्देश्यस्येन्द्रान्तरादेरभावात् , स्वात्मने संकल्प्यमानस्य द्रव्यस्य स्वत्वत्यागासंभवेन यागाद्यनिर्वृत्तेः, इत्येवमुपपादयता देवताभ्युपगम एव स्पष्टीकृतः । देवतानां युगपदनेकयागदेशसंनिधानमप्याधानपवमानेष्टिजन्यसंस्कारनिचयम् , आहवनीयादिशब्दार्थमभ्युपगच्छता तस्य संप्रतिपन्नमेव; आहवनीयाद्यभिमानिदेवतां विना निरुक्तसंस्काराधारस्य वक्तुमशक्यत्वाद्, नहि प्रत्यक्षाग्निस्तदाधारः; आधानकाले निहितस्याहवनीयादेः पावमानेष्ट्यनन्तरं त्यागेन तद्गतस्य संस्कारस्य तन्नाशतो नाशादाहवनीयाद्यननुवृत्तिप्रसङ्गात् , अजस्रपक्षेऽप्यनुगतस्य मथनादिना पुनरुत्पादने तदनुवृत्त्यभावप्रसङ्गात् । नच प्रणयनमथनादिजन्यसंस्कारोप्याहवनीयादिशब्दस्यार्थः; अनेकार्थत्वप्रसङ्गात् । पशावौत्तरवेदिकनणयनानन्तरमाहवनीयगाहेपत्यताप्राप्त्या प्रणयनस्याहवनीयशब्दप्रवृत्तिनिमित्तत्वायोगाच्च । तस्मादाहवनीयाद्यभिमानिदेवता एव तत्तदायतनविशेषनिहितेषु संभारेषु मथिताग्निनिधानरूपेणाधानेन संस्क्रियन्ते । ताश्च संस्कृता देवता अजस्रपक्षे यजमानशरीरे अग्निदानपर्यन्तं मध्येऽग्निसंस्कारविच्छेदनिमित्तोपजने तत्पर्यन्तं च तेष्वग्निषु संनिदधते । अग्नीनामजस्रधारणाभावे तत्तत्कर्मावसानेष्वाहवनीयादिदेवता गार्हपत्यमनुप्रविशन्ति । पशावौत्तरवेदिकप्रणयने क्रियमाणे तम् आहवनीयोऽनुप्रविशति, तेन प्रागधिष्ठितमग्निं गार्हपत्य इत्येवमादिकमभ्युपगन्तुं युक्तम् । एवं सत्येव 'नान्तराग्निं संचरति यदि पूर्वोऽनुगतः संचर्यं पश्चाद्धि स तर्हि गत' इति 'गार्हपत्याज् ज्वलन्तमाहवनीयमुद्धरती'ति च कल्पसूत्रकारवचनं सामञ्जस्यमश्नुते । नहि संस्कारमात्रस्य पश्चाद्गमनं संभवति । नाप्याहवनीयस्य गार्हपत्यानुप्रवेशाभावे गार्हपत्यात् तत्र सत आहवनीयस्योद्धरणं संभवति । नच तथा सत्यग्निद्वयसंसर्गनिमित्तकप्रायश्चित्तप्रसङ्गः, तस्य प्रत्यक्षाग्निसंसर्गनिमित्तकत्वात् । नच देवतानामाहवनीयादिशब्दार्थतायां "आहवनीये जुहोति” “गार्हपत्ये हवींषि श्रपयती'त्यादिवाक्यश्रुतं हविःप्रक्षेपश्रपणाद्याधारत्वमपि तासां भवेदित्ययं दोषः; इष्टापत्तेः, 'अभून्नो दूतो हविषो जातवेदा अवाड्ढव्यानि सुरभीणि कृत्वेति' मन्त्रवर्णतः पाकेन हविषां सुरभीकरणस्योद्देश्यदेवतार्थं नयनस्य चैककर्तृकत्वावगतेश्च । तत्राभिमान्यभिमानविषयाणामभेदाध्यवसायेन समानकर्तृकत्वव्यपदेश इति चेद्, इहापि तर्ह्यभेदाध्यास एव गतिरस्तु । एवमग्निसंस्काराधारदेवतानामिव हविरुद्देश्यदेवतानामपि बहुषु यागदेशेषु संनिधानम् आवाहनादिमन्त्रार्थवादावगतं जैमिनिनाप्युक्तप्रायमेव; मानान्तरप्राप्तिबाधाभावे मन्त्रार्थवादादिप्रतिपन्नस्य देवतादेस्तेनाप्यभ्युपगतत्वात् । नच तथापि देवतानां कर्मसु गुणत्वप्राधान्याभ्यां विरोधः, बादरायणमतेऽपि फलकरणत्वेन प्रधानतया शब्दबोधितं यागादिकं प्रत्युद्देश्यतया तच्छरीरनिवर्तकत्वेन देवतानां संनिपात्यङ्गत्वरूपतद्गुणत्वसत्त्वात् । सिद्धार्थविषयवाक्यानां विधिशेषत्वं तु जैमिनिनोक्तं विधिसमभिव्याहृतवायुक्षेपिष्ठादिवाक्यमात्रविषयम् । तथाहि धर्मजिज्ञासासूत्रे (जै.अ.१ पा.१ सू.१) ब्रह्ममीमांसासाधारणी वेदार्थविचारप्रतिज्ञा धर्ममीमांसामात्रासाधारणी धर्मविचारप्रतिज्ञा चेति द्विविधा प्रतिज्ञा विवक्षिता; सूत्राणामावृत्त्यानेकार्थप्रतिपादकत्वस्यालंकारत्वात् । अत एव 'अथातः शेषलक्षणम्' (जै.अ.३ पा.१ सू.१) इति तृतीयाध्यायाद्यसूत्रं वार्तिककृता 'द्विलक्षण्याः परं शिष्टं यावत्किंचन लक्षणम् । सत्सर्वं वक्तुमारब्धमथातः शेषलक्षणम्' इत्यवशिष्टदशाध्यायार्थविचारप्रतिज्ञापरं व्याख्यायानन्तरं तृतीयाध्यायार्थशेषशेषिभावविचारप्रतिज्ञापरत्वेनापि व्याख्यातम् । एवं च यथा शेषः परार्थत्वादिति द्वितीयसूत्रमारभ्य तृतीयाध्यायसूत्राणि शेषशेषिभावमात्रविषयाणि, एवं चोदनासूत्रम् (जै.अ.१ पा.१ सू.२) आरभ्य द्वादशलक्षणीसूत्राणि धर्ममात्रविषयाणि । अत एव चोदनासूत्रे धर्मस्यैव विधिगम्यत्वं लक्षणमुक्तं, नहि ब्रह्मणो विधिगम्यत्वमस्ति, अतः 'तस्य निमित्तपरीष्टि: (जै.अ.१ पा.१ सू.३) इति सूत्रे धर्मप्रमाणमेव परीक्ष्यत्वेन प्रतिज्ञातमिति तदनुसारेण 'आम्नायस्य क्रियार्थत्वात्' (जै.अ.१ पा.२ सू.१) इति सूत्रं धर्मप्रमाणत्वेनाभिमतस्य क्रियार्थत्वेनैव तत्र प्रामाण्यं वक्तव्यमित्येतत्परम् । 'विधिना त्वेकवाक्यत्वा'(जै.अ.१ पा.२ सू.७)दिति सूत्रमपि धर्मप्रमाणत्वाभिमतक्रियाविधिसमभिव्याहृतवायुक्षेपिष्ठादिवाक्यमात्रविषयमिति न कश्चिद्विरोधः । न चैवं कर्मब्रह्मविचारशास्त्रयोरैकशास्त्र्याभ्युपगमे ब्रह्मजिज्ञासासूत्रगताथशब्दस्य कर्मविचारानन्तर्यमर्थः स्यादिति वाच्यम् ; भाष्योक्तरीत्या ब्रह्मविचारे कर्मानुष्ठानस्यापेक्षानियमाभावेन तदप्रसक्तेः । नहि ज्वरादिवाजीकरणान्तचिकित्साप्रतिपादकानां वैद्यकसंहिताग्रन्थानामेकग्रन्थत्वमात्रेण वा तच्चिकित्साप्रकरणं विचारयिष्यता ज्वरचिकित्सामारभ्य विचारणीयम् । तत्तद्विचाराधिकारिवैलक्षण्यमिहापि तुल्यम् । तस्मादनपेक्षितं हि वेदार्थविचारत्वोपाधिकल्प्यमैकशास्त्र्यं नातिविरुद्धमिति प्रौढ्या तदभ्युपगमे न कश्चिद्दोषः । यद्वा धर्मशब्दस्येत्यादिटीकाग्रन्थेन जिज्ञास्यसमर्पणार्थस्य धर्मशब्दस्य वेदार्थमात्रोपलक्षणत्वं नोक्तं; किंत्वतःशब्दोक्ते वेदस्य विवक्षितार्थत्वरूपे धर्मविचारप्रतिज्ञाहेतौ धर्मरूपस्यैवार्थस्य विवक्षितत्वं न विशेषणं, किं तर्हि, कृत्स्नस्य वेदार्थस्य अतो धर्मविचारप्रतिज्ञायां यागादिकार्यसमर्पकोऽपि धर्मशब्दो हेतुशरीरगतमथशब्दं समभिव्याहारवशात्तावन्मात्रपरं न कुर्याद्, अपि तु वेदार्थसामान्यपरमेव कुर्यादित्येतावदुक्तम् । तदेतत्प्रथमसूत्रार्थव्याख्यानावसाने टीकावाक्यैराचार्यवाक्यैस्तद्व्याख्यानेन च स्पष्टीभविष्यति । ननु च विवक्षितार्थत्वे हेतौ वेदार्थसामान्यस्य प्रवेशोपदर्शनेन कृत्स्नवेदाध्ययनानन्तर्यमथशब्दार्थ इति प्रकृते सिषाधयिषितोऽर्थः कथं सिध्येदिति चेत्, इत्थम् ; धर्मशब्दसमभिव्याहारे विद्यमानेऽपि यथा हेतावर्थशब्दो वेदार्थमात्रपरोऽङ्गीकृतः, विशिष्य धर्मपरवेदभागस्यार्थविवक्षोपन्यासे वेदान्तभागस्यार्थविवक्षा नाङ्गीकृतेति तद्वद्धर्मपरभागोऽप्यविवक्षितार्थोऽस्त्विति शङ्कानिरासोपयोगात् ; एवमध्ययनानन्तर्यमपि कृत्स्नवेदस्याध्ययनानन्तर्यरूपमङ्गीकर्तव्यम् । अध्ययनविधेरेकदेशाध्ययनानुष्ठापनेन पर्यवसानाभावादिति दृष्टान्तमुखेन सिद्ध्येदित्यलं विस्तरेण ।
अर्थतः प्राधान्यादिति ।
प्रत्ययार्थः प्रधानमिति सामान्यन्यायादिच्छेष्यमाणसमभिव्याहृताविष्यमाणं प्रधानमिति स्वर्गकामपदादिषु क्लृप्तो विशेषन्यायो बलवानिति भावः ।
साक्षात्कारोपयोगमिति ।
ब्रह्मोपासनाकालेऽपि तदङ्गतया कर्माण्यनुष्ठेयानीति समुच्चयवादी तदनुष्ठानापेक्षितकर्मावबोधानन्तर्यमथशब्दार्थमिच्छति । अतस्तस्य तादर्थ्यसिद्ध्यर्थं कर्मणामुपासनाङ्गत्वमुपपादयितुं तेषामुपासनाजन्यसाक्षात्कारोपयोगमाहेत्यर्थः ।
असिद्ध इत्याहेति ।
शङ्कावादीति शेषः ।
प्रमाणत्वप्रसिद्ध्यभावादिति ।
यद्यपि प्रमाणत्वाभावेऽप्यसंभावनादिमूलकल्मषनिर्हरणद्वारा योग्यतावधारणे तज्जन्यमहावाक्यार्थज्ञाने वा प्रमाणसहकारित्वेन कारणत्वमुपपद्यते, अन्यथा वक्ष्यमाणस्य कर्मणां साक्षात्कारोपयोगस्यापि निर्वोढुमशक्यत्वात् ; तथापि विविदिषन्तीत्यत्र फलरूपवेदनमानन्दसाक्षात्कारतया मुख्यपुरुषार्थरूपमेव ग्राह्यं, मुख्यसंभवे गौणग्रहणस्यान्याय्यत्वादिति तात्पर्यम् ।
संस्कारद्वारेति ।
यद्यपि कल्मषनिबर्हणमृणत्रयापाकरणमिति संस्कारपक्षाद्भिन्नमपि पक्षद्वयमुक्तं तथापि तदपि पक्षद्वयं सामान्यतः संस्कारपक्ष एवानुप्रविशति, प्रथमाधानवत्कल्मषनिबर्हणादेरपि संस्कारत्वाऽविशेषादिति तात्पर्यम् ।
किं काम्यैव खाादिरता नित्येऽपि स्यादिति सिद्धान्तकोटिः पूर्वपक्षाद्विशेष सिद्धये । काम्यैवेत्यवधारणम् । अन्यथा यदा क्वचित्प्रयोगे वीर्यकामनया काम्या खादिरतोपादीयते, तदा तया पशुनियोजनरूपस्य नित्योपकारस्यापि प्रसङ्गात्सिद्धेः काम्या क्वचिन्नित्येऽपि भवतीत्यतस्मिन्नर्थे पूर्वपक्षिणोऽपि संप्रतिपत्त्या ततः सिद्धान्तकोटेर्विशेषो न सिध्येत् । किं केवलकाम्यैव खादिरतेत्यङ्गीकृत्य सा सर्वत्र नियेऽपि स्यादित्युच्यते, अथवा यथा खादिरता वीर्यकामवाक्येन फलार्थतया काम्या, एवं खादिरे पशुमिति वाक्येन क्रत्वर्थतया नित्यापीत्यभ्युपेत्येति विकल्प्याद्यं नित्यानित्यसंयोगविरोधेन निराकृत्य द्वितीयमाशङ्कते -
यत्त्विति ।
सिद्धरूपः खदिरतरुरननुष्ठीयमानो वीर्यफलाय न प्रभवेदिति तस्य पशुबन्धनयुक्तयूपरूपाश्रयानुरागेण साध्यतोपपादनीया । यद्यपि यूपप्रातिपदिकार्थोऽपि सिद्धरूपः; तथापि पशुबन्धनक्रियायुक्तत्वाकारेण भवति खदिरतरोरपि तदनुरागे सति साध्यता । एवं च खदिरस्य फलसंबन्धं बोधयद् वीर्यकामवाक्यं तस्याश्रयसंबन्धमपि बोधयितुं न शक्नोति, वाक्यभेदप्रसङ्गादित्याश्रयसंबन्धस्यान्यतः प्राप्त्यपेक्षायामपेक्षितसमर्पणेन फलवाक्यान्वयि खादिरे पशुमिति वाक्यं न खदिरस्य कत्वर्थतामपि बोधयितुं शक्नोतीति न ततः क्रत्वर्थत्वसिद्धिरित्यर्थः । नच यथा 'अपः प्रणयन्ती'त्यस्य संनिधाने 'गोदोहनेन पशुकामस्येति' फलार्थं विधीयमानस्य सिद्धरूपस्य गोदोहनस्यापां प्रणयनं संनिधानादाश्रयो भवति, एवमिहापि संनिधानादेव यूप आश्रयो लभ्यत इति वाच्यम् ; अपां हि गार्हपत्यदेशे ग्राह्याणामाहवनीयदेशं प्रति नयनरूपं यत् प्रकृष्टनयनं प्रणयनशब्दवाच्यं तस्य गोदोहपात्रस्य चाधाराधेयभावो लोकसिद्ध इति युक्तस्तत्र योग्यतया संनिहितस्याश्रयत्वलाभः, इह त्वतीन्द्रियातिशयविशेषविशिष्टस्य यूपस्याहवनीयवदलौकिकत्वात् तं प्रति न लोकसिद्धः खदिरस्य प्रकृतिभाव इति खादिरे पशुमिति वाक्येनैव तस्याश्रयसंबन्धो बोधनीय इति भावः । अत्र खादिरे पशुमित्यस्य नित्यवाक्यत्वं सिद्धान्त्यभिमतमनूदितम् ; पूर्वपक्षे फलवाक्यैकवाक्यतापन्नस्य तस्य नित्यवाक्यत्वाभावात् । एकस्य खादिरत्वस्येत्यादिना एकस्योभयात्मकत्वे नित्यानित्यसंयोगविरोधो नास्ति, विनियोजकप्रमाणभेदादिति सिद्धान्तयुक्ति'रेकस्य तूभयत्वे' (जै.अ.४ पा.३ सू.५) इति सूत्रारूढा दर्शिता ।
संनिधानादेवेति ।
यूपशब्दार्थस्यालौकिकत्वेऽपि यस्मिन्नष्टाश्रित्वाद्याकृतिविशिष्टे काष्ठविशेषे यूपशब्दो वर्तते, तस्य खदिरतरोश्च प्रकृतिविकृतिभावो लोकसिद्ध इति तावतैव संनिधानात् पशुबन्धनार्थो यूप आश्रयत्वेनान्वेतुं योग्य इति भावः ।
शेषलक्षणादिति ।
शेषलक्षणं तृतीयाध्यायः । तत आरभ्य चतुर्भिरध्यायैः शेषत्वप्रयुक्तिकर्माधिकारनिरूपणार्थैरुपदेशविचारः । सप्तमाद्यैश्चतुर्भिः सामान्यातिदेशविशेषातिदेशोहबाधनिरूपणार्थैरतिदेश विचारः । एकादशद्वादशाभ्यामुपदेशातिदेशसाधारणतन्त्रप्रसङ्गविचारः ।
चातुर्थिकेति ।
यद् येन प्रयुज्यते अनुष्ठाप्यते, तत्तेन सहितमुपकार्योपकारकभावरूपसंबन्धवद्भवति; अनुपकार्येणानुपकारकस्याननुष्ठापनादिति साहित्योक्त्या चातुर्थिकप्रयुक्तिसंग्रहः ।
संस्कारकर्मत्वेति ।
संस्कारकर्मणस्तानि द्वैधाधिकरण(जै.अ.२ पा.१ सू.६-८)निरूपितगुणकर्मविशेषत्वेऽपि दृष्टप्रयोजनाभावेन त्रिविधगुणकर्मवैषम्यात् , धर्ममात्रे तु कर्म स्यात् (जै.अ.२ पा.१ सू.९) इत्यधिकरणान्तरविषयत्वाच्च पृथग् ग्रहणम् ।
द्विरवत्तेति ।
इदं भाष्यकारमतम् , यत्साक्षाद् द्व्यवदानसाधनको यागः पुरोडाशस्तत्प्रकृतितया यागसाधनमिति । आचार्यमते तु कृत्स्नः पुरोडाशो यागसाधनं, द्विरवत्तस्याग्नौ प्रक्षेपरूपो होमस्तु हविष एकदेशद्वारा संस्कारकर्म । तथाच होमकाले कृत्स्नः पुरोडाशो देवतोद्देशेन मनसा त्यक्तव्यः; वचनबलादन्योद्देशेन त्यक्तैकदेशस्य स्विष्टकृति पुनर्देवतान्तरोद्देशेन त्याग इत्येवं विशेषः ।
जडं स्यादिति ।
दृग्भिन्नस्य प्रकाशमानत्वं दृगध्यस्ततया तदभेदेनोपपादनीयमिति प्राक् प्रसाधितत्वादध्यस्तस्य च जडत्वनियमादिति भावः ।
ननु टीकोक्तप्रामाण्यायोगयुक्तिरयुक्ता; इन्द्रियशब्दादिप्रमाकरणजन्यत्वेन प्रामाण्योपपत्तेरित्याशङ्क्य तामुपपादयति -
तच्चेन्द्रियाद्यगोचर इति ।
'न चक्षुषा गृह्यते' 'यन्मनसा न मनुत' इत्यादिश्रुतेरिति भावः ।
तथाविधमिति ।
दिङ्मोहेऽपि पुरुषविशेषस्यापरिशीलितप्रदेशविशेषप्राप्तिरुपाधिः ।
शाब्दापरोक्षशङ्कामुपस्कुर्वन्नवतारयति -
अपरोक्षे ब्रह्मणीति ।
अयमर्थः अभिव्यक्तचैतन्याभिन्नत्वमर्थस्यापरोक्ष्यं, तत्तु नित्याभिव्यक्तजीवचैतन्याभिन्ने ब्रह्मणि स्वाभाविकम् । अत एव 'यत्साक्षादपरोक्षाद्ब्रह्मे'ति श्रुतिः । घटादीनामपरोक्षचैतन्याभेदाध्यासोपाधिकं तदेव प्रत्यक्षोऽयं घटः प्रत्यक्षं घटं पश्यामीत्यादिव्याहारालम्बनम् । ज्ञानस्यापरोक्ष्यमपरोक्षार्थव्यवहारानुकूलज्ञानत्वं तत्स्वस्य सुखादेश्च प्रकाशरूपे नित्याभिव्यक्तसाक्षिचैतन्ये वानुगतं स्वाभाविकं, चाक्षुषादिवृत्तिषु तत्तदभिव्यक्तचैतन्याभेदाध्यासोपाधिकं, नतु जातिरूपम् इन्द्रियजन्यत्वाद्युपाधिरूपं वा ज्ञानानामापरोक्ष्यम् । अपरोक्षज्ञानविषयत्वमर्थापरोक्ष्यमिति न युक्तम् ; तत्तांशविषयप्रत्यभिज्ञायां तत्तांशे चातिप्रसक्तेः, साक्ष्यव्यापनाच्च । एवं च तत्त्वमस्यादिशब्दजन्यम् अपरोक्षजीवाभिन्नब्रह्मज्ञानमपरोक्षमेव भवति । नचैवं सति अनुमितेरप्यपरोक्षपर्वतादावापरोक्ष्यं स्यादिति वाच्यम् ; इष्टापत्तेरिति । शब्द एवेत्येवकारेण प्रथमं श्रवणजन्ये ब्रह्मज्ञाने क्लृप्तकरणभावस्य शब्दस्यैवाविद्यानिवर्तके चरमसाक्षात्कारेऽपि करणत्वोपपत्तेर्न तत्र करणान्तरं कल्पनीयमिति सूचितम् ।
नन्वपरोक्षजीवाभेदतः श्रुतेश्चापरोक्षेऽपि ब्रह्मणि परोक्षत्वावगाहि ज्ञानं लोकसिद्धमनुभूयते, अत एव निरतिशयानन्दरूपं ब्रह्म ममापरोक्षं न प्रकाशत इति व्यवहारः । एवं श्रुतितोऽपि ब्रह्मणि परोक्षत्वावगाहि परोक्षमेव ज्ञानं भवेदित्याशङ्क्याह -
अन्यथेति ।
लोकत इव श्रुतितो नापरोक्षे ब्रह्मणि परोक्षत्वावगाहि भ्रमरूपं ज्ञानं युक्तमिति भावः ।
स्वतोऽपरोक्षस्यापीति ।
यदि ब्रह्म स्वतोऽपरोक्षमिति तद्विषयशब्दजन्यमपि ज्ञानमपरोक्षं भवेत् , तदा श्रवणजन्यज्ञानमप्यपरोक्षमिति श्रुतवेदान्तस्य पुंसः तस्मिन्पारोक्ष्यभ्रमानुवृत्तिर्न स्यात् । अनुवर्तते च तदनन्तरमपि भ्रमगृहीतं ब्रह्मणि पारोक्ष्यमिति न शब्दादपरोक्षज्ञानम् । तस्मादपरोक्षज्ञानजननसमर्थादन्यत एव तदेष्टव्यम् । क्लृप्तं चान्तःकरणस्य तत्सामर्थ्यं; ब्राह्मलौकिकभोगानुभवे 'मनसैतान्कामान्पश्यन्रमते य एते ब्रह्मलोके मनोऽस्य दैवं चक्षु'रिति श्रुतेः । विशिष्य चाहंवृत्तिरूपे स्वात्मज्ञानेऽपि तस्य करणत्वं क्लृप्तम् ; चरमसाक्षात्कारस्य शब्दजन्यत्वाभ्युपगमेऽपि तस्य व्यापारोऽवश्यमपेक्षणीयः । तस्मादावश्यकेनान्तःकरणेनैव तदुत्पत्त्युपपत्तौ तदर्थं तत्त्वमस्यादिवाक्यस्य तत्कालेऽपि पुनरनुसंधानकल्पन एव गौरवमिति भावः ।
ननु तर्हि तत्त्वमस्यादिवाक्यश्रवणनिरपेक्षमेवान्तःकरणं ब्रह्मात्मैक्यमपरोक्षयेदित्यत्राह -
तत्तु शब्दजनितेति ।
उक्तंच गीताविवरणे भाष्यकारैः शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणमिति ।
नन्वपरोक्षब्रह्मविषयस्य शब्दस्यापरोक्षप्रमाहेतुत्वं न शक्यं प्रत्याख्यातुम् , श्रवणजन्यापरोक्षज्ञाने सत्यपि पारोक्ष्यभ्रमानुवृत्तिस्त्वसंभावनादिदोषप्रतिबद्धस्य भ्रमनिवर्तनकार्याक्षमतया भवेदित्याशङ्क्याह -
शब्दस्त्विति ।
अभिव्यक्तचैतन्याभिन्नत्वमर्थापरोक्ष्यमिति तावन्न युक्तम् ; स्वरूपसदभेदमात्रविवक्षायां चाक्षुषवृत्त्यभिव्यक्तपर्वतावच्छिन्नचैतन्येन व्यवहितवह्न्यवच्छिन्नचैतन्यस्य तेन व्यवहितवह्नेश्च स्वाभाविकाध्यासिकाभेदसत्त्वेन व्यवहितवह्नेरप्यपरोक्षत्वापत्तेः, निरस्तभेदोपाधिकाभेदविवक्षायां चरमसाक्षात्कारनिवर्त्याविद्योपाधेः चरमसाक्षात्कारोत्पत्तिदशायामपि सत्त्वेन ब्रह्मणस्तदानीमापरोक्ष्याभावापत्तेः, स्फुरदभेदविवक्षायां ताद्धर्म्याध्यासविषये दुःखशोकादौ तदानीं सद्रूपब्रह्माभेदास्फुरणादापरोक्ष्याभावापत्तेः, स्वव्यवहारानुकूलं यदभिव्यक्तचैतन्यं तदभेदविवक्षायामनुमेयवह्न्यादिव्यवहारानुकूलेन जीवचैतन्येन प्रागुक्तरीत्यैवाभिन्नस्य वह्न्यादेरापरोक्ष्यापातात्, स्वव्यवहारानुकूलो योऽभिव्यक्तचैतन्याभेदस्तद्वत्त्वविवक्षायां तत्तदाकारधीवृत्तिसमुल्लासमात्रादपि भवति व्यवहारे चैतन्याभेदस्यानपेक्षितत्वेनासंभवापत्तेः, स्वावरणनिवृत्त्यनुकूले चैतन्याभेदवत्त्वविवक्षायामावरणनिवर्तकत्वग्रहणाधीनमापरोक्ष्यग्रहणम् आपरोक्ष्यग्रहणाधीनमावरणनिवर्तकत्वग्रहणमिति परस्पराश्रयापत्तेः, एवमुक्तरूपार्थापरोक्ष्यनिर्वचनायोगात् तदपेक्षमपरोक्षार्थव्यवहारानुकूलज्ञानत्वं ज्ञानापरोक्ष्यमिति निर्वचनमप्ययुक्तम् ; तस्मात्स्वाविषयविषयकज्ञानाजन्यज्ञानत्वं ज्ञानापरोक्ष्यमिति निर्वक्तव्यम् । तच्चाक्षुषादिवृत्त्यभिव्यक्तचैतन्येषु नित्याभिव्यक्तसाक्षिचैतन्येषु चानुगतम् , अनुमितिशाब्दज्ञानादिभ्यश्च तत्तदविषयलिङ्गशब्दादिज्ञानजन्येभ्यो व्यावृत्तम् । न च विशिष्टज्ञानं विशेषणज्ञानजन्यमित्यभ्युपगमे दण्डकुण्डलोभयस्मृतिजन्यदण्डिप्रत्यक्षाव्याप्तिः; वस्तुगत्या यः स्वाविषयः तद्विषयत्वं यस्य ज्ञानस्य जनकतायामवच्छेदककोटिप्रविष्टं तदजन्यत्वस्य विवक्षितत्वात्, उक्तस्मृतेर्दण्डिप्रत्यक्षे तदविषयकुण्डलविषयत्वेनाजनकतया तत्रापि लक्षणसत्त्वात् । यदीश्वरज्ञानमुपादानगोचरज्ञानतया 'बहु स्यां प्रजायेये'तिवदिदं ज्ञानमस्य स्यादिति संकल्परूपतया वा कारणमिष्यते, तदा तज्जन्येषूक्तज्ञानेष्वव्याप्तिवारणाय समानाधिकरणत्वं ज्ञाने विशेषणं देयम् । न च कोलाहले बुभुत्सितशब्दग्रहो बुभुत्साजन्यस्तन्मूलबोधेष्टसाधनताज्ञानेनापि जन्य इति तत्राव्याप्तिः; बुभुत्सयाऽन्यथासिद्धस्य तस्य शब्दग्रहे कारणत्वाभावाद् , बुभुत्सयेतरशब्दग्रहप्रतिबन्धे सति क्लृप्तकारणादेव बुभुत्सितशब्दग्रह इति तत्र बुभुत्साया अप्यकारणत्वाच्च । न च व्याप्तिज्ञानत्वावच्छिन्नं सर्वमनुमितिजनकं व्याप्तिज्ञानत्वादित्यनुमितावतिव्याप्तिः; तत्रानुमितेः सामान्यतः सर्वव्याप्तिविषयायाः स्वकारणज्ञानविषयव्याप्तिविषयत्वसत्त्वेऽपि स्वकारणव्याप्तिज्ञानवत् प्रकृतहेतुसाध्यविशेषोपरक्ततया तद्विषयत्वाभावेन तस्याः स्वाविषयविषयकज्ञानजन्यत्वात् । नचैवमपि हेतुतावच्छेदकसाध्यतावच्छेदकविशेषावच्छिन्नहेतुसाध्योपरक्तव्याप्तिज्ञानत्वावच्छिन्नसर्वपक्षीकरणे सत्युक्तानुमितावतिव्याप्तिः, सामान्यधर्ममात्रानवच्छिन्नतया यः स्वविषयो न भवति तद्विषयत्वस्य विवक्षितत्वात्, तस्यामनुमितौ हेतुतावच्छेदकसाध्यतावच्छेदकयोः सामान्यधर्ममात्रावच्छिन्नत्वेन विषयतया सामान्यधर्ममात्रानवच्छिन्नतया तदविषयत्वस्य सत्त्वात् । न चानुपलब्धिप्रमाणजन्याभावज्ञानेऽतिव्याप्तिः, योग्यानुपलब्धेः प्रमाणत्वात्, योग्यतायाश्च यद्यत्राधिकरणे प्रतियोग्यभविष्यत् , तदा भूतलमिवाद्रक्ष्यतेति तकरूपत्वेनानुपलब्धिज्ञानस्य स्वाविषयविषयकतर्करूपज्ञानजन्यत्वात्, स्मृतौ स्वसमानविषयपूर्वानुभवसंस्कारजन्यायामतिव्याप्तिवारणार्थमग्रिमज्ञानपदमनुभवपरं बोध्यम् । एवं च प्रत्यभिज्ञायास्तत्तांशेऽपि नातिव्याप्तिः; तस्यास्तदंशे स्मृतित्वाङ्गीकारात् । एवमपरोक्षज्ञानलक्षणव्यवस्थितौ तज्जन्यव्यवहारयोग्यत्वमर्थापरोक्ष्यमिति तन्निर्वचनं द्रष्टव्यम् । एवं च शब्दप्रमाणं स्वाविषयविषयकज्ञानजन्यां परोक्षप्रमामेव जनयतीति नापरोक्षप्नमाहेतुरिति भावः ।
ननु दशमस्त्वमसीत्यादौ शब्दस्याप्यपरोक्षज्ञानजनकत्वं सिद्धमस्तीत्याशङ्क्याह -
दशम इति ।
एवमनुमितेरपि पर्वताद्यंशे नापरोक्ष्यं, तत्रापरोक्षभ्रमस्तु तदानीन्तनापरोक्षज्ञानभेदाग्रहादिति द्रष्टव्यम् ।
अन्धादेस्विति ।
अभ्युपेत्यायं परिहारः । दशमोऽहमस्मीत्यपरोक्षज्ञानम् अन्तःकरणे न संभवति; शरीरविषयं चेत्, स्पशनेन्द्रियेण वा ज्ञानान्तरोपनयसहितान्तःकरणेन वा संभवति ।
ननु भावनाजन्यसाक्षात्कारः कामिनीसाक्षात्कारवद्भ्रमः स्याद्, न चान्तःकरणसाहित्येन विशेषः; तत्रापि तत्सत्त्वादित्यत आह -
अपि चेति ।
ननु ब्रह्मसाक्षात्कारस्य मनःकरणकत्वाभ्युपगमो 'यन्मनसा न मनुत' इति श्रुतिविरुद्ध इत्यत्राह -
दृश्यत इति ।
प्रागुपन्यस्तन्यायोपबृंहितायां 'दश्यत' इति श्रुताग्र्यया सूक्ष्मयेति विशेषणाद्यन्मनसेति श्रुतिरनवहितमनोविषया, यथा 'तं त्वौपनिषद'मिति श्रुतावौपनिषदमिति विशेषणा'द्यद्वाचानभ्युदित'मिति श्रुतिर्विशिष्टशक्तिकशब्दविषयेति भावः ।
साक्षादपरोक्षादिति ।
यथा प्रत्यक्षस्पर्शाश्रयत्वादिलिङ्गजन्या वायोः प्रत्यक्षत्वानुमितिः स्वयं प्रत्यक्षरहितेत्येतावदेव, न तु वायौ प्रत्यक्षत्वाभावमवगाहत इति न भ्रमत्वं प्रतिपद्यते, एवमिहापि योजनीयम् ।
स्वरूपप्रकाशस्येति ।
आविर्भावयतीत्यन्तेन ग्रन्थेन जीवस्वरूपप्रकाशस्य ब्रह्माभेदसाक्षात्कारेण तदभेदतिरोधायकाविद्यानिवृत्तिरूपाभिव्यक्तिसंस्कारमुपपाद्याभिव्यञ्जकस्य तस्य साक्षात्कारस्य नचासावनुत्पादितब्रह्मानुभवेति टीकया प्रागुपक्षिप्तामुत्पाद्यतामन्तःकरणवृत्तिरूपखप्रदर्शनेनोपपादयतीत्यर्थः । असमुच्चयमते कर्मोपासनयोः कालैक्येन समुच्चयो नास्तीति ।
सिद्धान्ते परिहारसाम्यमाहेति ।
वृत्ति विषयवं स्वप्रकाशवं च विरुद्धमित्याशङ्कायामुपहि तानुपहितरूपभेदेन समाधानं मतदयेऽपि समानं दर्शयतीत्यर्थः । नन्वेवं सति-अविद्योपहितो जीवः कथं स्वप्रकाशः स्यादिति चेत्, उच्यते; उपहितमुपधानकाले खरूपेणापि न खप्रकाश मिति नार्थः, किंतूपहितरूपेण न खप्रकाश मिति, अतो न दोषः ।
ननु निरुपाधि ब्रह्मेति ।
उपहितं वृत्तिविषय इति न युक्तं ब्रह्म शुद्ध निरुपाधिकमिति हि वृत्तिरूपसाक्षात्कार स्याकार इष्यते, नचोपाधौ विद्यमाने तदाकारः संभवितुमर्हतीति शङ्कार्थः ।
मिथ्याभूतेषूपाधिषु विद्यमानेष्वपिन वास्तव. निरुपाधिकलाकारसाक्षात्कारोदयो निरुच्यत इति समाधानाभिप्रायमाह -
निरूपाधीति ।
ननु मिथ्याभूतानां तेषामुपा धीनां केन निवृत्तिः साक्षात्कारेणेति चेत्, तस्य केन निवृत्तिरित्याकालायामाह -
स्वस्वेतरेति ।
अनेन चरमवृत्युदय काले उपाध्यन्तराण्यपि सन्येव । टीकायां-वृत्तेरेवोपाधिलवर्णनम् अन्ततो वृत्तिमात्रमस्तीत्यभ्युपेत्यवाद इति सूचितम् ।
ननूपाधीनां निवृत्तावनुपहितमेव साक्षात्कार विषय इति स्यादित्याशय साक्षात्कारदशायां विनश्यदवस्थतामात्रं, नतु विनाशोदय इत्याह -
ततः स्वसत्तायामिति ।
वृत्युपहितं वृत्त्या विशिष्ट, तदुपलक्षितं वा । आद्यं दूषयि खा द्वितीयं दूषयति -
उपलक्षितस्य त्विति ।
अविद्यमानेनाप्युपलक्षितलं भवति, यथोड्डीय गतेनापि काकेन गृहस्य; वृत्त्या तु विद्यमानयैवोपहितता विषयताघटनार्थमिष्यते; अतः प्रसिद्धोपलक्षणवैलक्षण्याद् न वृत्तिरुपलक्षणमिति विद्यमान व्यावर्तकलनियमाद्विशेषणमेव वाच्या, अतः पूर्वोक्तदोषद्वयं प्रादुःष्यादिति भावः ।
वृत्त्युपरागोत्रेति ।
नन्वत्र-विशेषणोपलक्षणपक्षयोः के पक्षं परिगृह्य परिहारो वर्ण्यते, उच्यते, सत्तयोपयुज्यते इत्य विद्यमानव्यावर्तकलनिषेधान्नोपलक्षणं; न प्रतिभास्यतयेति कार्यान्वयनिषेधान विशेषणं, किंतु कार्यानन्वयी सत्त्वनियत उपाधिर्विशेषणोपलक्षणाभ्याम् अन्यस्तृ तीयः प्रकार इति वाक्यान्वयाधिकरणे (ब्र. अ. १ पा. ४ सू. १९) वक्ष्यमाणं तृतीयं प्रकारं परिगृह्य परिहारः । विष यविषयित्वलक्षणः विषयविषयिलोपाधिकस्तत्प्रयोज्य इति यावत् । एवं हि इतरेतराश्रयं इति घटते । लक्षणशब्दस्य खरूपवाचिले तु विषयविषयिभाव एव तत्प्रयोजक उक्त इत्यात्माश्रय एव भवेत् ।
चैतन्यप्रतिविम्बितत्वमिति ।
प्रतिबिम्बितचैतन्यकसमित्यर्थः । आहितान्यादेराकृतिगणलान्निष्ठान्तस्य पूर्वनिपातानियमः । संजातचैतन्यप्रतिबिम्बखमिति वाऽर्थः; तारकादेराकृतिगणवात् तारकितं नभ इतिवदितच्प्रत्ययः । तथा च चैतन्यवृत्त्योः प्रतिबिम्बतदुपाधित्वलक्षणसंबन्धो न विषयविषयिभावप्रयोज्यः, खयमेव तु तत्प्रयोजक इति नान्योन्याश्रय इत्यर्थः ।
भ्रमत्वमिति ।
संसारदशाया मप्रकाशमानं ब्रह्म परोक्षमिति तत्रापरोक्ष्यावगाहितया भ्रमखमभिप्रेतम् । वेदान्तजज्ञानेन वेदान्तजन्यज्ञानमूलभावना परिपाकसहितान्तःकरणजन्यज्ञानेनेत्यर्थः । तत्तद्वपेण षड्जलादिरूपेण । यद्यपि गान्धर्वशास्त्राभ्यासरहितैरपि सूक्ष्मम तिभिः श्रूयमाणाः खराः किंचित्परस्परबैलक्षण्यैनानुभूयन्ते, तदेव षड्जखादिकमिति तैस्तदवगम्यत एव, षड्जादि शब्दविशेषवाच्यलं परं न ज्ञायते; तथापि ये स्थूलमतयः खरानाकर्णयन्तोऽपि समवर्णपरिमाणान् केशादीनिव पर स्परविविक्ततयावगन्तुं न प्रभवन्ति, तेषामपि गान्धर्वशास्त्रपरिचये सति क्रमेण विविक्तोल्लेखो दृश्यते स इहोदाहरणम् ।
निषादेति ।
वीणादिषु प्रथमभूयमाणश्रुत्याख्यशब्दावयवानुरणनात्मका घण्टानादानुरणनसदृशाः खराः सप्त । तेषां स्वराणां समुदायाः षड्जमध्यमगान्धारखरप्रभवा नन्द्यावर्तजीमूतसुभद्राख्यात्रिविधा प्रामाः, तेषु प्रामेषु क्रमेण खराणामारोहाऽवरोहाभ्यां निवेशाः प्रतिग्राम सप्तधा भिन्ना एकविंशतिमूर्च्छनाः । तदुक्तम्-'प्रथमश्रवणाच्छब्दः भूयते हखमात्रकः । सा श्रुतिः संपरिज्ञेया खरावयवलक्षणा ॥ श्रुत्यनन्तरभावी यः शब्दोऽनुरणनात्मकः । खतो रजयति श्रोतृचित्तं स खर उच्यते ॥ श्रुतिभ्यः स्युः खराः षड्जर्षभा गान्धारमध्यमाः । पञ्चमो धैवतश्चापि निषाद इति सप्तमः ॥ यथा कुटुम्बिनः सर्वेऽप्येकीभूता भवन्ति हि । तथा खराणां संदोहो ग्राम इत्यभिधीयते ॥ षड्ज ग्रामो भवेदादौ मध्यमग्राम एव च । गान्धारग्राम इत्येतद्रामत्रयमुदाहृतम् ॥ नन्द्यावर्तोऽथ जीमूतः सुभद्रो ग्रामकास्त्रयः । षड्जमध्यमगान्धारास्त्रयाणां जन्महेतवः ॥ क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । मूर्च्छनेत्युच्यते ग्रामस्था एताः सप्त सप्त च ॥' इति । क्यषन्तस्य रूपमिति । लोहितादेराकृतिगणवादिति भावः । ननु-क्यषन्तले विद्वदाभास इत्यर्थो न लभ्यते; यथा पूर्वमलोहितः पश्चाल्लोहितो भवन् लोहितायमानः, एवं पूर्वमविद्वान् पश्चाद्विद्वान् भवन् विद्वस्य मान इत्यैतदर्थों लभ्यते, अभूततद्भावे क्यषो विधानात् , विद्वदाभास इत्यर्थस्तु क्यङन्तले लभ्यते; कर्तुः क्यङ् सलोपश्चेति सूत्रेण हि उपमानात् कर्तुस्तद्वदाचरतीत्यर्थे क्यप्रत्ययो विहितः, श्येनायते काक इत्यादि च तदुदाहरणं लिखितं, तथेह क्यङन्तले विद्वानिवाचरन्नविद्वान् विद्वस्यमान इत्यस्य सोऽर्थों लभ्यते । नच-'ओजसोऽप्सरसो नित्यं पयसस्तु विभाषयेति' वृत्तावुक्तवाद् ओजोप्सरःपयोव्यतिरिक्तेभ्यः सकारान्तेभ्यः क्यङ् न भवतीति-शङ्कनीयम् ; तेभ्यः सलोपो न भवतीत्येव ततः सिद्ध्या क्यङभावाप्रसक्तेर्वार्तिककृता सलोपो वेति सामान्यतः सलोपस्य विकल्पितत्व मुक्ला ओजसोऽप्सरसो नित्यमिति सकारान्तविशेषयोस्तन्नित्यबस्योक्ततया तदनुसारेण तत्र पयोग्रहणस्य ओजोप्सरोव्यति रिक्तसकलसकारान्तोपलक्षणतया वक्तव्यखाचेति-चेत्, उच्यते; क्रियाक दिखरूपविभागं च विद्वस्यमानः इह विद्वा नभिमत इति टीकावाक्येऽस्मिन् विद्वस्यमान इत्यस्य क्यप्रत्ययान्तता न संभवति; विद्वानिवाचरन्नित्युपमेयगतसादृश्यो पसर्जनस्य प्रकृत्यर्थस्य विदुषः क्रियाक दिखरूपविभाग मिति निर्दिष्टकर्मसापेक्षलेनासामर्थ्यात्, सविशेषणानां वृत्तिनेंति महाभाष्यवचनात् । अत एव महान्तं पुत्रमिच्छतीति वाक्यस्यार्थे महान्तं पुत्रीयतीति न वृत्तिः । ननु-क्यषन्तखेऽपि विद्वदाभास इत्यालाभ उक्तः, नैष दोषः; शास्त्रसिद्धेन मिथ्यालेन क्रियाकादि विभागमविद्वानेव सन् यः कर्मानुष्ठा नोपयोगिनं तं सत्सलेन वेत्ति स विद्वस्यमान इत्युक्त्या विद्वदाभास इत्यर्थलाभात् । एवमेव ह्युक्तमाचारविद्वानेव विद्वान् भवचित्यनेन । न केनैव रूपेण क्वचिदर्थे कस्यचित्समानकाले विद्याऽविद्ये संभवतः । अतोऽस्य वाक्यस्य रूपमेदाभिप्रायखसिद्धौ सत्यलमिथ्याले एवं विद्याऽविद्याऽविषयरूपे पर्यवस्यतः । विद्वदाभास इत्यर्थ इति वाक्यशेषात् , क्रिया कादिविभागे सत्यलबुद्धेरेव कर्मानुष्ठानोपयोगिलाच, तस्याश्चाभूततद्भावः कादाचित्कलेन प्रागभूततयोपपादनीयः । न चालोहितो लोहितो भवतीत्यत्रैव अभूततद्भावे सर्वत्र उपात्तपूर्वावस्थोपमर्दनियमः; मृदंघटीकरोति तपनो लोहिताय तीत्याधुदाहरणे घटाद्यवस्थासु मृत्त्वाद्युपमर्दाभावात् । तस्मादविद्वानेव विद्वान्भवन्निति क्यषन्तस्य रूपमिति च युक्तमेव । यदितु लोहितादिसूत्रे भाष्यकारैर्नायं हलन्ताद्विधीयत इति हलन्तात् क्यषोऽनङ्गीकृतलादिह न भवति क्यषित्यपरितोषः, तदा विदेः कर्मणि नित्यापेक्षासत्त्वानियसापेक्षेषु चासामर्थेऽपि तत्र तत्र भूयसा समासादिवृत्तिदर्शनात् 'सुडनपुंसकस्य'ति सौत्रासमर्थसमासरूपज्ञापकाच विद्वस्यमानशब्द आचारक्यडन्त इत्येव समर्थनीयम् ।
नकारोऽयं प्रतिषेधवाचीति ।
पर्यदासवाचिले समास नियमस्य वार्तिककारेणोक्तखादिह च नजः समासाभावात् प्रतिषेधवाच्येवायम् । ततश्च प्रतिषे ध्यक्रियाया यत्तदोश्चाध्याहारेण यः श्रद्दधानो न भवति स नाधिक्रियत इति वाक्यं पूरणीयमित्याशयः । पर्युदासवा चिलमपि शक्यमुपपादयितुम् सूत्रकारपक्षे महाविभाषाधिकारेण तद्वाचिऽपि नजः समासनियमाभावात् , मीमांसकैर्यजतिषु येयजामहं करोति नानूयाजेष्वित्यस्यानूयाजव्यतिरिक्तेषु यज्ञेषु येयजामहं करोतीत्यर्थनिर्णयेन दीक्षितो न जुहोतीत्यस्यादीक्षितो जुहोतीत्यर्थनिर्णयेन च नमः समासाभावेऽपि पर्युदासवृत्तिवस्याङ्गीकृतखात्, 'वृत्तानुपूर्वे च न चातिदीर्घ' इत्यादिमहाकविप्रयोगदर्शनाच, समासनियमेऽपि गमिकर्मीकृतनैकनीबृतेतिवन्नसमास इति कल्पनोपपत्तेश्च । अत एव ज्ञानानन्तरमिति । ननु-सगुणज्ञानानन्तरं तदुपासनानिष्ठस्य कर्मानुष्ठानं संभवति; फलभूयस्त्वार्थ सहकारिलेन तदपेक्षितं च भवति, तथैव चाचार्यैः 'अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शना' दित्यधिकरणे (ब्र. अ. ४ पा. १ सू. १६) वक्ष्यते, सगुणतदुपासनात्फलविचारश्चात्रैव शाख्ने महता प्रबन्धेन करिष्यते, तद्विचारसाध्यं च तदनुष्ठानमतः सगुणोपासनासह कारिकर्मानुष्ठानापेक्षितः कर्मावबोध इति तदानन्तर्यमथशब्दार्थः कुतो न भवेत् ? सगुणविचारस्यानुषङ्गिकलात्प्रधाननिर्गुणविचारापेक्षितानन्तर्यमेव वक्तव्यमिति चेत्, तर्हि सगुणविद्यानुष्ठानं कस्यापि न सिद्ध्येत् : एतच्छास्त्र विचारमन्तरेण हि तदनुष्ठानं न संभवति, एतच्छाखविचारे च ब्रह्मलोकप्राप्यन्तसकलफलविरक्तस्य त्यक्तसमस्तकर्मणो निर्विशेषप्रेप्सया तजिज्ञासोरेवाधिकार इष्यते, तस्माद्विरुद्धमिदमापतितमिति चेत्, उच्यते; सगुण विद्यापेक्षिणाम् अङ्गावबद्धोपासनापेक्षिां केवलकमठानां च तदनुष्ठानप्रकाराद्यवगतिर्विचारिततच्छास्त्रेभ्यो गुरुभ्योऽन्वेषणीया, गत्यन्तराभावात् । अभ्युपगम्यते हि कर्मविचारप्राचीनसंध्यावन्दनाध्ययननियमाद्यनुष्ठानार्थ निषादरथकारकर्तृकस्थपती छ्याधानानुष्ठानार्थ च तत्तदवगतिः खयमविचारिततत्तद्वाक्यानामेव हितैषिवचनमात्रादिति ।
ननु श्रुतौ धनशब्दस्य देव लोकावाप्तिहेवपरविद्या वाच्येति कुतोऽवगतमित्याकाङ्क्षायामाह -
तथा हिश्रुत्यन्तरमिति ।
प्रधानेन प्रत्ययाथै नेति ।
विविदिषन्तीत्यत्र पञ्चमलकारकल्पनया विध्यवरुद्धायां यज्ञदानादिकरणान्वितायां भावनायां धालर्थस्य भाव्याका सापूरकलेनान्वये वक्तव्ये प्राधान्यादिच्छाया एव तथान्वयो न वेदनस्येति भावः । ननु-यजेत' 'दद्याज्' 'जुहुया - दित्यादी सर्वत्र धाखर्थस्य भावनायां कारणलेनान्वयस्य दृष्टवादिहापि वेदनेच्छायास्तथैवान्वयो युक्तः, यज्ञादिषु तृतीया श्रवणं तु सोमेन यजेतेत्यादिष्विव धाखथं विशेषणतया भविष्यति ।नच सोमपयोदध्यादीनां यागहोमनिर्वर्तकतया क्रिया कारकभावो लोकसिद्ध इति युक्तस्तत्र विशेष्यविशेषणभावः, इह वेदनेच्छाया यज्ञादीनां च सन लोकसिद्ध इति न युक्तो विशेषणविशेष्यभाव इति-वाच्यम् ; देवताधिकरणे (ब्र, अ.१पा. ३सू. २६-३२) वक्ष्यमाणेन न्यायेनैतस्यैव रेव तीषु वारवन्तीयमिति वाक्ये रेवतीनां वारवन्तीयस्य चाधाराधेयभावस्येव यज्ञादीनां विविदिषायाश्च क्रियाकारकभावस्यापि समभिव्याहारादेव सिद्धयुपपत्तेः । एवंच भाव्याकाङ्क्षायामिच्छाविषयभूतं वेदनमेव भाव्यखेनान्वेति । नच वेदनतदिच्छयोः कार्यकारणभावस्य लोके सिद्धलाद्विधिवैयर्थ्य शङ्कनीयम्; प्रतिबन्धकपापापनोदनद्वारा यज्ञादिभिः संपन्नया स्थिरविविदि षया वेदनं भावयेदित्येतदर्थकतया विधिसार्थक्यादिति-चेत्, उच्यते, भावनायाः प्रथम भाब्याकाङ्क्षायाँ समानपदो पात्ता प्रधानभूता वेदनसाधनत्वेन निीतगौणपुरुषार्थभावा विविदिषा भाव्यलेनान्वेतीति युकं, यागादिस्तु समानपदो पात्तखेऽपि स्वयं क्लेशात्मकखात् फलसाधनखेनाच्यतोऽनवगतलाच भाव्यलेनान्वेतुमयोग्य इति तमतिक्रम्य वर्गादर्भा व्यलेन प्रणे सति तं केन भावये दिल्याकालायां फलशिरस्कभावनाकरणखेनान्वितो भवति । इह यदि भावनाय करणा न्तरं श्रुतं न लभ्येत, तदा विविदिषामेव करणं गृहीला तत्साध्यं वेदनं फलं कल्पयेद्, नलेतदस्ति; यज्ञादीनां तृतीयया करणलेन समर्पणात् । तेषां भावनाकरणखेनान्वये मवर्थलक्षणा च परिहता भवति; अन्यथा तेषां करण विशेषणले सोमवता यागेनेतिवद् यज्ञवल्या विविदिषयेत्यादिरूपेण यज्ञेनेत्यादिसर्वेषु तृतीयान्तेषु मखर्थलक्षणा प्रसज्येत । एवं क्लिष्टयो जनायामपि विविदिषा भाव्येति पक्षात् फलतो न विशेषः, दना जुहोतीतिदधिविशिष्टहोमविधेः प्राप्ताप्राप्तविवेकेन होम साधनतया दधिविधान इव स्थिर विविदिषासाधनतया यज्ञादिविधान एवास्य पर्यवसानात् । तस्यायज्ञादिभिर्विविदिषां भाव येदिति वेदनेच्छायाः फलवेनान्वय इत्येव युक्तम् । ननु-इच्छायाः प्रधानखेऽपि फलखेन नान्वयः, किंलिष्यमाण स्यैवेति वर्गकामादिवाक्येषु संप्रतिपन्न; तत्कस्य हेतोः ? लिडादिभिर्विधिशब्दैः कर्मणा मिष्टसाधनत्वे प्रतीते किं तत्कर्मसाध्य मिष्टमितीष्टविशेषाकालायां यदिच्छाविषयत्वेन निबद्धं विशिष्योपात्तं च तदेव फलत्वेनान्वेतुं योग्यमिति योग्यतावधारणाद्, योग्यतानुसारेणेच्छामुल्लङ्य तद्विषये करणान्वयस्य अश्वन जिगमिषतीत्यादौ कृप्तलाच, अयं हेतुरिहापि तुल्य इति चेत्, उच्यते; यज्ञादीनां ज्ञाने विनियोगेऽपि जिज्ञासा यज्ञादिद्वारवर्गमध्ये अवश्यं निवेशनीया, निवेशिता चटीकायाम् ; तथाच जिज्ञासाया यज्ञादिफलत्वेनावश्याभ्युपगन्तव्यखात् कामोपबन्धेषु यागादिवाक्येषु वर्गादेर्भाव्यत्वेनानन्वयेऽन्यतः खर्गादिसाधनानवगत्या कामनाया नि तखविषयसाधनप्रवर्तकत्वेन गौणपुरुषार्थखाप्रतीत्या तस्या भाव्यत्वेनान्वयाऽयोग्य खात्, नामोपात्तवर्गकामनावैलक्षण्येनेहाख्यातोपात्ताया इच्छायाः फलखान्वययोग्यत्वात्, हेतुसाध्यलप्रतीतिसद्भावाच प्रधानभूतां तामुलक्ष्य ज्ञानस्य फलवाभ्युपगमो न युक्तः, तदभ्युपगमे शास्त्रान्तरसिद्धपापक्षयरूपद्वारातिरिक्तस्यापूर्वरूपस्य कर्मणां द्वारान्तरस्यापि कल्पनापत्तेर्वक्ष्यमाणखात् । ननु-जिज्ञासायाः फलखान्वययोग्यलमसिद्धम् , खतः फलवरहि तायास्तस्याः फलत्वं हि ज्ञानरूपफलजनकलोपाधिकं वाच्यम् । तथाच जिज्ञासाफले ज्ञाने प्रागेवेच्छासत्त्वे सैव जिज्ञासेति तस्याः सिद्धत्वात्प्राक् तदसत्त्वे तस्याः फलजनकत्वोपाधिकपुरुषार्थवाऽप्रतीतेश्चेति न तस्याः फललान्वययोग्यतेति-चेत्, उच्यते; द्विविधा ब्रह्मज्ञानेच्छारूपा जिज्ञासा; एका सानाध्ययनादिप्रयुक्तब्रह्मज्ञानपुरुषार्थवावगतिमात्रमूला, साऽनित्य दुःखमये संसारे नित्यसुखमयलभ्रममुत्पाद्य चित्तसत्त्वं मलिनयता पाप्मना प्रतिबद्धता सती ज्ञानोद्देशेन तदुपायेषु प्रवृत्ति जनयितुं न प्रभवति । यदा प्रवृत्तिपर्यन्तजिज्ञासादिप्रतिबन्धकपाप्मसद्भाव शास्त्रतः पुरुषोऽवगच्छति, तदा तथाभूत जिज्ञासोपायमन्विच्छन्विविदिषावाक्येन तदुपायं यज्ञादिकमुपलभ्य तथाभूतजिज्ञासोद्देशेन यज्ञादीननुष्ठाय ततः संसारसुख मयलप्रदर्शकपाप्मनिवृत्त्या तस्य वस्तुसहुःखैकरूपत्वं निश्चित्य तदसहमानस्तजिहासामूलामपि ब्रह्मजिज्ञासां लभते, सा द्वितीया। तया ब्रह्मज्ञानोपायेषु प्रवृत्तिः। यथा भोजने सत्येव देहस्थितिबलपुष्ट्यादिकं भवेदिति तादावगतिमात्रमूला धातुवैषम्यकृतरोग विशेषप्रतिबद्धा भोजनेच्छा भोजनार्थप्रवृत्तिं जनयितुं न प्रभवति; तत्प्रवृत्तिपर्यन्तबुभुक्षाप्रतिबन्धक रोगसद्धावं यदा वैद्यकादवगच्छति पुरुषः, तदा रोगनिवृत्तिपूर्वकबुभुक्षोत्पत्त्युपायमन्विच्छन् वैद्यकशास्त्रेणैव तथाभूतमौषध मुपलभ्य तत्सेवनेन रोगनिवृत्त्या क्षुधामुपलभ्य तामसहमानः तन्निवृत्त्यर्थमपि बुभुक्षां लभते, तथा च भोजने प्रवर्तते । अतो नात्र काचिदनुपपत्तिः । पापक्षयं ज्ञानमाकात इति । विविदिषाद्वारेति शेषः । ज्ञाने विनियुक्तेति । ज्ञानार्थवि विदिषाविनियुक्त्यर्थः । ननु क्लुप्तपापक्षयातिरेकेणोपकारान्तरस्याऽकल्प्यत्वेऽपि यानि पवित्रेध्यग्निष्टदश्वमेधादीनि कृष्णाजिनदानादीनि कृच्छ्रचान्द्रायणादीनि च सामान्यतः पापक्षयार्थत्वेन चौदितानि काम्यकर्माणि तत्साधारण्यमिह यज्ञादिशकदानायवर्जनीयमित्याशय नि त्यफलपापक्षयातिरेकेणेति पापक्षयो नित्यफलत्वेन विशेषितः ॥ अवश्यकर्तव्यनित्या नुष्ठानजो हि पापक्षयः खतः प्राप्तः, अतः प्रयुक्तिलाघवात् तमेव विविदिषार्थयज्ञादि विधिारं गृहीला निर्वृणोति, न खवश्याननुष्ठेयपविनेष्ट्यादिफलभूतमपि पापक्षयं द्वारं गृहीला तत्संपादनं प्रयोजयति; अतो नित्यफलस्यैव पापक्षयस्येह द्वारता, यथा ऋत्विगपेक्षः क्रतुविधिर्धनार्जने याजनं खकीयोपाय इति तादर्सेन खतः प्राप्तान्ब्राह्मणानेव गृहीला नि णोति, नतु क्षत्रियवैश्यानपि ऋत्विजो गृहीला तानविज्ये प्रयोजयतीति ब्राह्मणानामेव कतावाविज्यं तद्वत् । एवंच यस्य यदा यन्नित्यमनुष्ठेयं प्राप्त, तेन तदा तदेव विविदिषितार्थतयाऽनुष्ठितं फलार्थ भवति; काम्यानुष्ठानतः प्रसङ्गानित्य सिद्धेर्नित्य प्रयुक्तं पापक्षयद्वारमपि लभत इति प्रयुक्तिलाघवान्नित्यानामेव विनियोग इति भावः । ननु-प्राकृतोपकारदृष्टान्तेन पाप क्षयस्येह द्वारखकल्पनं न युज्यते; वैषम्यात् , प्राकृतपदार्थानाम् उपकारमुखेनैव विकृतिघ्वतिदेशः; नतु पदार्थानामतिदे शानन्तरमुपकारकल्पनेति न तत्र प्राकृतोपकारातिरिकोपकारकल्पनाप्रसचिः, इहतु प्रत्यक्षश्रुत्या प्रथममेव विनियुक्तानां यज्ञादीनामुपदिष्टाङ्गानामिव पश्चात्कल्पनीय उपकारः प्रथमाऽवगतविनियोगनिर्वाहायाकृतोऽपि सामान्यशब्दोपात्तसकल नित्यकाम्यसाधारणः कथं न कल्प्येतेत्याशङ्याह-पापक्षयस्य चेति । स्यादेतदेवं-यद्यत्र पदार्थशक्तिमालोच्योप कारः कल्प्यः स्याद् , नत्वेवम् । इह पापक्षय एवोपकार इत्यपि प्रत्यक्षशास्त्रेणैव सिद्धलादित्यर्थः । ननु ततस्तु तमिति शास्त्रेण पापक्षयस्य ज्ञानोत्पत्तौ द्वारत्वं सिद्ध, नतु विविदिषोत्पत्तौ । उच्यते: विविदिषावाक्यानुरोधेन विशुद्धसत्त्वस्ततो विविदिषाद्वारेण पश्यतीति तस्य शास्त्रस्यार्थ इति तात्पर्यम् । एवं ततस्तु तमित्यादिश्रुतौ विविदिषान्तर्भावस्तवतारणार्थे टीकाग्रन्थे विशुद्धसत्त्वस्येत्येतदनन्तरमुत्पन्न विविदिषस्येति विशेषणेन स्फुट इत्याचारिह न विशेषितम् । अत्र केचिद संस्कारपक्षमेव सिद्धान्तमभिमन्यमाना विविदिषन्तिवाक्ये विधिर्न कल्प्यः; नित्यकर्मभिः पापक्षयस्य तद्विधिभिः पापक्ष याज्ज्ञानोत्पत्तस्ततस्तु तं ज्ञानमुत्पद्यत इति श्रुतिस्मृतिभ्यां च सिद्धेः, अतो विविदिषन्तिवाक्यं तत्सिद्धानुवादक-इत्या हुशतन्मतमनूद्य निराकरोतिनच वाच्यमित्यादिना ।
विशेषतःशास्त्रान्तरादसिद्धेरिति ।
पापान्तरनिवर्त नेनापि चरितार्थानित्यानुष्ठानान्न ज्ञानोत्पत्तिप्रतिबन्धकपापव्यक्तिविशेषनिबर्हणनियमः सिध्यति; अतस्तत्सिद्धये विनियोगान्तरमित्यर्थः । अत्र संस्कारपक्षावलम्बनैर्विविदिषावाक्यस्य विद्याऽर्थविनियोगानुपपत्त्याऽनुवादकत्वं शङ्कितमिति तदृष्ट्वा ज्ञानो त्पत्तिप्रतिबन्धकैत्युक्तम् । शङ्कासमाधानयोर्विविदिषार्थंपक्षेऽपि तुल्यखात खमते ज्ञान ग्रहण विविदिषोपलक्षणम् । तस्यामेव यज्ञादि विनियोगस्य प्रायव्यवस्थापितखात्, सर्वापेक्षाधिकरणे (ब. अ. ३ पा. ४ सू. २६) चोपपादयिष्यमाण खात्, भाष्यकृद्भिरपि विद्यासंयोगात् प्रत्यासन्नानि विद्यासाधनानि शमादीनि विविदिषासंयोगात्तु बाह्यान्तराणि यज्ञादीनि इति यज्ञादीनां विविदिषार्थवस्य वक्ष्यमाणसाच्च, तेषां ज्ञाने विनियोगे ज्ञानोत्पत्त्यपेक्षितसद्गुरुलाभश्रवणादिप्रवृत्तिग्रहणधा रणपाटवादीनामपि ज्ञानार्थ यज्ञादिसम्पाद्यखापत्त्या तदर्थमपूर्वस्यापि द्वारान्तरस्य कल्प्यतापत्तेश्च । ज्ञानमुत्पद्यत इतिस्मृते विविदिषन्तिवाक्यमूलकलोक्तिस्तु पापक्षयाद् विविदिषोदये सति क्रमाज्ज्ञानमप्युत्पद्यते इत्येवंपरा स्मृतिरित्याशयेन ।
श्रतिस्त्वेतादशीति ।
एषेव दृश्यत इत्येतादृशी । आपाततो विविदिषावाक्यवत् ततस्तु तमिति श्रुतिर्दृश्यते । वस्तुतस्तृभयोरप्यान्तरालिकफलभेदोऽस्ति, पापक्षयरूपद्वारावगमस्ततस्तु तमिति श्रुत्यपेक्षः, पापक्षयाज्ज्ञानोत्पत्तौ विविदिषा न्तर्भावो विविदिषन्तिवाक्यापेक्ष इति । अतः कथमपि नानुवादखशङ्केति भावः। अथवा एतादृशी एतत्समाना कल्प्य विधिकलाविशेषात् तत्र यदि विधिः श्रूयेत, तदा विधिश्रवणरहितं विविदिषावाक्यं तदनुवादक कल्प्येतापि, न त्वेतदस्तीति भावः । सर्वापेक्षाधिकरणे इत्युपलक्षणम् । सर्वथापि त एवोभयलिङ्गादित्यधिकरणे (ब्र. अ.३पा.४ सू. ३४ ) चेति द्रष्टव्यम् ।
हेतुहेतुमद्भावाभावेऽपीति ।
ननु-अनुष्ठानद्वारा हेतुहेतुमद्भावाभावेऽपि प्रामाण्यप्रतिपादनादिद्वारा सोऽस्ति; पूर्वतन्त्रे प्रथमाध्यायप्रतिपादितं वेदप्रामाण्यमिहाप्यपेक्षितं, द्वितीयाध्यायनिरूपितं शब्दान्तरादिषट्कं विद्यामेदाभेदचिन्तायां, तृतीयाध्यायनिरूपितं श्रुतिलिङ्गादिकं सर्वत्रापि तत्तदधिकरणविषयवाक्यार्थनिर्णये, पञ्चमा ध्यायनिरूपितं श्रुत्यर्थादिकं वियदादिसृष्ट्यर्चिरादिपर्वक्रमचिन्तायां, सप्तमाष्टमनिरूपितमतिदेशप्रमाणं 'तस्यैतस्य तदेव रूपं यदमुष्य रूप'मित्याद्यर्थनिर्णये चापेक्षितम् । 'कुशाच्छन्दःस्तुत्युपगानवत्तदुक्तं' (ब्र.अ. ३ पा. ३ सू. २६)'प्रदानवदेव तदुक्क' (न. अ. ३ पा.३ सू. ४३) मित्यादिषु च पूर्वतन्त्रसंमतिप्रदर्शने तत्तदधिकरणार्थज्ञान मपेक्षितम् । आचार्यः प्रथमसूत्रव्याख्यानावसाने वेदांतमीमांसा तदविरोधितर्कोपकरणेति भाष्यव्याख्यानावसरे तस्या अविरोधिनः श्रुतिलिजादयस्तार्तीयाः पाञ्च मिकाः श्रुत्यादयो वेदप्रामाण्यपरिशोधकाः कर्ममीमांसायां विचारिता इति पूर्व तत्रापेक्षा स्फुटीकृता, अतो हेतुहेतुमद्भावाभावोक्तिरयुक्तैति-चेत्, उच्यते; पूर्वतन्त्र इवात्रापि शास्त्रे वेदप्रामाण्यादी नि सूनितान्येव । अत एव च नित्यत्व (ब. अ.१पा. ३ सू. २९)मिति हि वेदप्रामाण्यं सूत्रितं नानाशब्दा दिमेदादिति (ब्र.अ. ३ पा.३सू. ५८) शब्दान्तरादिकं, 'शब्दादेव प्रमितः' (व. अ. १ पा.३ सू. २४) आकाशस्तल्लिङ्गात् (ब्र.अ.१ पा. १ सू. २२) तथा चैकवाक्यतोपबन्धात् (ब्र, अ.३ पा. ४ सू. २४) प्रकरणा (ब्र.अ.१ पा. ३ सू.६)दित्यादिभिः श्रुतिलिङ्गादिक, 'श्रुत्यादिबलीयस्त्वाच्च न बाध (ब्र. अ. ३ पा. ३ सू. ४९) इत्यादौ श्रुतिलिज्ञादिबलाबलं, 'विपर्ययेण तु क्रम' (ब्र. अ. २ पा. ३ सू. १४) इत्यादिभिरपेक्षितं क्रमप्रमाणजातम्, अतिदेशाच्चे (ब्र. अ.३ पा. ३ सू.४६) त्यतिदेशप्रमाणमित्येतत्सर्व सूत्रितमेव । भाष्यकारा दिभिः स्फुटीकर्तव्यता तु पूर्वतन्त्रसूत्रेष्वपि समाना । तदुक्तमित्येतदत्रैव व्याख्यानेनावगन्तुं शक्यं न कर्मविचारमपेक्षते: अन्यथा 'तके आहुरसदेवेदमग्र आसी'दिति वाक्यार्थावगत्यर्थमसद्वादिशास्त्रविचारानन्तर्यमप्यथशब्दार्थ: स्यात् । आचार्यस्तु श्रुतिलिङ्गादयः पूर्वतन्त्रे निरूपिता इत्येतावदुक्तं, नलिह तदपेक्षाऽस्तीति; तत्र हि तदनन्तरं न्यायशास्त्र स्यापेक्षा कण्ठत उक्ता इति न्यायशास्त्रस्योपयोग इति । अथापि तदानन्तर्यमथशब्दार्थों नेष्यते, तथाऽपेक्षो. क्तिरहितकर्मविचारानन्तर्यस्य काथशब्दार्थलप्रसक्तिः ।
आरादुपकारकत्वादिति ।
तथासंभवादित्यर्थः ।
अनुष्ठानापेक्षितेति ।
ननु-अनुष्ठानापेक्षस्मृत्युपयोगिनो मन्त्रा एव, न विधिवाक्यानीति न तत्पाठक्रमेणानुष्ठानकाले क्रमिकपदार्थस्मृतयो भवन्तीति-चेत्, सत्यम्: मत्रपाठकमाभावे विधिपाठक्रमोऽप्यनुष्ठानकालपदार्थस्मृतिकमनियामक त्वेनाश्रीयते तस्य दृष्टार्थत्वायेत्याह-एवं क्रमपाठोऽपीति ।
तद्यथेति ।
लोके स्नायादनुलिम्पेदित्यादौ पाठक्रमोऽनुष्ठान कमार्थ एव । अतएवानुलिम्पेत्स्नायादितिवदन्नभिज्ञेन मैवं वादी:, मायादनलिम्पेदिति वद, तथैवानुष्ठानक्रमादिति व्युत्पाद्यते, तस्य तादाभावे तथा व्युत्पादनं न क्रियतेति भावः ।
तद्विधानाच्चेति ।
सहखविधानादौपवसथ्येऽहन्यग्नीषोमीयस्ततः सौत्येऽहनि सवनत्रयव्यापिसवनीयपश्वनुष्ठाने सत्यवभृथानन्तरमनुबन्ध्य इत्येवंरूपः प्राकृतकमो निवर्तत इत्यर्थः ।
अधिकव्य वधिमिति ।
साङ्गप्रयोगविधिबलादङ्गानां प्रधानसाहित्यमवगतं, तच्चैकक्षणानुष्ठेयत्वरूपं न संभवतीति संनिकर्षरूपं पर्यवस्यति । स च संनिकर्षः प्रधानाव्यवहितपूर्वापरावधवहिताङ्गानामात्यन्तिको न संभवतीति यस्याङ्गस्य यावद्भिः खप्रधानाः प्रधा नान्तराजैर्वा व्यवधानमवर्जनीय तत्तावद्भिर्व्यवधानं सहते, नान्यैः; ततश्च पश्चादनुष्ठेयस्य प्रधानस्या निर्वापादि प्रथमानु ध्यप्रधानाशान्निवापादितः पूर्व यद्यनुष्ठीयते, तदा तदमनुज्ञाताधिकेनापि पश्चादनुष्ठीयमानप्रथमप्रधाना न खप्रधानाधव हितं स्यात् , तन्न सहते अङ्गप्रधानसाहित्यबोधकः प्रयोगविधिरित्यर्थः ।
मुख्यक्रमानादरे पाश्चात्य प्रधानाङ्गस्य पूर्वप्रधाना सेन प्रयोगविध्यननुज्ञातं व्यवधानं भवेदित्यमुमेवार्थ विवृण्वन्नाह -
यदि त्विति ।
अस्मिन्नर्थेऽस्य वाक्यस्यैत्थं योजना । यदि प्रधानान्तरस्य प्रथमप्रधानस्य संनिधौ तत्संनिकृष्टतया तदङ्गानुष्ठानं, द्वितीय प्रधानाजानुष्ठानानन्तरं प्रथमप्रधानाङ्गा नुष्ठानमिति यावत् । तथानुष्ठाने हि प्रथमप्रधानाङ्गानि द्वितीयप्रधानाङ्गव्यवधानाभावात्स्व प्रधानसंनिकृष्टानि भवन्ति, तद तथा मुख्यक्रमानादरेणानुष्ठाने अङ्गानि प्रथमानुष्ठीयमानद्वितीय प्रधानाङ्ग निर्वापादीनि तेनैव पश्चादनुष्ठीयमानप्रथमप्रधानाङ्ग निर्वापादिना स्वप्रधानाद्विप्रकृष्येरनिति । यदितु प्रधानान्तरसंनिधावन्यप्रधानाङ्गानुष्ठानं, तदा तेनैव प्रधानान्तरेणान्यप्रधा नाङ्गानि खप्रधानाद्विप्रकृष्येरनिल्यापाततः प्रतीयमानोऽर्थस्तु न ग्राह्यः; मुख्यक्रमानादरे पाश्चात्यस्य पुंदैवतयागस्य किमर्ज पूर्वेण नीदेवतयागेन व्यवहितं स्यादित्यापाद्यते, अवदानात्प्राचीनानां हि तदङ्गानां पूर्वप्रधानेन व्यवधानमातिदेशिकपाठक्रमादिप्राप्तं सह्यमेव, अवदानादिमध्ये तु न कस्यापि तेन व्यवधानप्रसक्तिरस्ति; अवदानादिप्रदानान्तस्य पूर्वप्रधानानन्तरमेवानुष्ठा नात् । अतः प्रधानान्तरव्यवधानापादनायोगात् पूर्वोक्त एवार्थों ग्राह्यः ।
अतो मुख्यक्रमादिति ।
यद्यपि वक्ष्यमाण प्रवृत्तिकमोऽप्यत्र संभवति, याज्यानुवाक्याप्रवृत्तिकमेण निर्वापादयः कार्याः, अन्यथा पुंदैवत्ययागाङ्ग योनिर्वापानुवचनयोर ननुज्ञातव्यवधानप्रसङ्गादिति, तथापि प्रवृत्तिक्रमवद् मुख्यक्रमस्यापि पदार्थक्रमनियमनसामर्थ्य मस्ति, अङ्गानामिव अङ्गप्रधा नयोरपि परस्परं वर्जनीयव्यवधानस्य परिहरणीयखात; अतस्तदपि प्रमाणमिह संभवतीत्युदाहृतम् । मन्त्रकम विधाय 'सारखतौ भवतः एतद्वै दैव्यं मिथुनं यत् सरखती च सरखांश्च ति विधिवाक्यशेषगतपाठकममात्रैण मुख्यक्रम निश्चित्य चेत्थमुदाहृतम् । मुख्यक्रमस्यासंकीर्णोदाहरणं लिदं दर्शपूर्णमासयोर्दधिधर्माः पूर्व पठिताः, तत आग्नेयस्य निर्वापादयः याज्यानुवाक्ययोस्तु विपरीतः पाठः । तत्र प्रवृत्तिद्वयं परस्परविरुद्ध प्रयाजशेषेण हवींष्यभिघारयतीति विहितप्रयाजशेषा भिघारणक्रमे न नियामकं, किंतु मुख्यक्रमादानेयस्य प्रथममभिघारणमिति ।
प्रधानस्याङ्गैर्विप्रकर्षः स्यादिति ।
यत्र पशौ सर्वाण्यङ्गानि प्रथममनुष्ठितानि तत्पशुयागात् प्रकृतौ तत्संनिहितान्यप्यमान्यत्यन्तं विकृती विप्रकृष्येरन् , अतः पदा थोनुसमय एव कार्यों न काण्डानुसमय इत्यर्थः। 'संनिपाते प्रधानानामेकैकस्य गुणानां स्वधर्मः स्यात(जे. अ.५ पा.२ सू. १) इत्यधिकरणार्थोऽयं प्रकृताधिकरणापेक्षितो वर्णितः ।
प्रकृताधिकरणार्थमाह -
द्वितीयादिपदार्थप्र योग इति ।
प्रवृत्तिकमानादरे तत्तत्पशुगतानामुपाकरणप्रोक्षणादिपदार्थानां परस्परप्रत्यासत्तिरेकरूपा न स्याद, अतस्त द्वैषम्यपरिहाराय पतिपरिवेषणन्यायेन प्रवृत्तिकम एष्टव्य इत्यर्थः ।
त्रयः पूर्णमास्येति ।
यदाग्नेयवाक्यस्यार्थभेदेन द्वेधा विभागे सति 'यदामेयोऽष्टाकपालोऽमावास्यायां चाच्युतो भवतीति वाक्येन अमावास्यायामेक आमेयो विधीयते, 'यदाग्ने योऽष्टाकपालः पौर्णमास्यां चाच्युतो भवतीति वाक्येन पौर्णमास्यामपरः; ततश्च पौर्णमास्यामाने याग्नीषोमीयोपांशुयाजास्त्रयः, अमावास्यायामाग्नेयतदधियागास्त्रय इत्यर्थः ।
एकश्चासाविति ।
सर्वैरजैः समुच्चितैः खखासाधारणदृष्टादृष्टोपकारद्वारकै रेकः प्रधानगतफलजननसामोद्बोधनरूपाखण्डोपकारो जायत इत्येकादशे स्थिता मीमांसकमर्यादा । ननु-अध्ययनव दर्थावबोधार्थों विचारोऽपि वेदपाठक्रमेण स्यादिति कर्मब्रह्मकाण्डयोर्विचारे पाठकमो नियामकः स्याद; मुख्यक्रमो वा नियामकः स्यात्, खाध्यायाध्ययनेनार्थज्ञानं भावयेदित्यध्ययनविधिवाक्यविपरिणामे मुख्ययोः कर्मब्रह्मकाण्डाध्ययनयोः पौर्वापर्यस्य कृप्तखात् , प्रवृत्तिकमो वा स्याद् अध्ययनगृहीतेन स्वाध्यायेनार्थज्ञानं भावयेदिति तद्विधिविपरिणामपक्षे अध्य यनमीमांसारूपयोरङ्गयोर्मध्ये अध्ययने क्रमस्य प्रवृत्तवादित्याशा एकप्रयोगावच्छिन्नतया एकपुरुषानुष्ठेयत्वेन क्रमाकाला यां पाठक्रमादिर्नियामको भवति, नचात्र तदस्ति; कर्मब्रह्मविचारयोविलक्षणाधिकारिकलात्, एकाधिकारिकत्वेन क्रमाकाङ्क्षा कल्पने च वेदभाष्यवद्विचारस्याप्यादित आरभ्य प्रवृत्तिप्रसङ्गाचेति दर्शयितुं यत्र क्रमाकांक्षा नास्ति तत्र पाठक्रमस्यानिया मकतायामधिकरणमुदाहरति-एकादशे स्थितमिति । एकादश इति प्रामादिकः पाठः । अङ्गवक्रतूनाम् (जै. अ. ५पा.३सू.३२) इत्याधिकरणं हि पाञ्चमिकम् । अथवा पञ्चमतृतीयपादगतमेकादशमिदमधिकरणमित्यभिप्रायमेका दश इत्येतद्योज्यम् । 'अन्ते तूत्तरयोदध्यात्' (जै. अ. ५ पा ३ सू . १३) इति सूत्रं तत्पूर्वाधिकरणप्रत्युदाहरण तया तच्छेषभूतं, तस्याधिकरणान्तरत्वे त्वेकादश इत्यस्यातीते इति शेषोऽध्याहार्यः ।
किंतु पुरुषस्येति ।
वस्तुतः पुरु षस्यापि नास्ति काम्यनैमित्तिकेषु ऋतुषु क्रमाकाला; कामनानां निमित्तानां च क्रमनियमाभावात् , तदधीनखाच काम्य नैमित्तिकानुष्ठानस्य ।
क्रत्वर्थत्वेति ।
केवलं पुरुषशेषखम् , उत क्रतुशेषखमपीति संदेहे इत्यर्थः ।
पशुकामस्येति । समभि व्याहाराद्वाक्येनेति ।
ननु-गोदोहनेनेति तृतीया पशुकामस्येति षष्ठी च शेषशेषिभावे श्रुतिरेवास्ति, कथ मिह पुरुषशेषत्वे वाक्यं प्रमाणमुपन्यस्तम् । उच्यते; गोदोहनेनेति तृतीयया फलभावना करणत्वं नोच्यते; किंतु संनिधिप्राप्तप्रणयनक्रियाकरणत्वं; सिद्धरूपस्य दध्नो यागादिवत्खरूपेण फलभावनाकरणखासंभवेन यत्किंचिद्धालर्थका रकतारूपक्रियानुरागेण साध्यत्वं संपाद्य तस्य फलभावनाकरणखस्योपपादनीयत्वात् , अतस्तृतीयार्थकारक विशिष्ट दधि दधिविशिष्टं वा कारकं फलाय विधेयमिति तृतीयया तावद्गोदोहनस्य न फलभावनाशेषचप्रतीतिः, नापि षष्ठीश्रुत्या पशुफलस्य शेषिलप्रतीतिः तस्याः संबन्धासमान्यवाचित्वेन शेषिलविशेषपर्यवसानार्थ समभिव्याहतपदार्थान्तरशेषि खान्वययोग्यतावधारणसापेक्षखात् । अतः प्रथमोपस्थितं गोदोहनपशुफलसमभिव्याहारात्मक वाक्यमेव स्वर्गकामो यजेतेति वाक्य मिव फलशेषत्वे प्रमाणमिति । क्वचित् कोशे पशुकामस्येत्येतदनन्तरं श्रुत्यैत्यपि पदान्तरं दृष्ट, तत्प्रक्षिप्तमिव भाति; वाक्यात् पुरुषार्थमेवेत्युपसंहारे तददर्शनात् , समभिव्याहारापेक्षपर्यवसानलभ्यश्रुतिखाभिप्रायं वा तद्योज्यम् ।
नोपकारकत्वमिति ।
तथात्वे प्रधानस्याप्यङ्गानुष्ठापनेन तदुपकारस्य तच्छेषलप्रसङ्गादिति भावः । तादर्थ्य तदुद्देश्यककृ तिसाध्यतम् ।
ननु गोदोहनस्य चमसस्थानापन्नस्य कलनङ्गत्वे तत्प्रयोगे चमसनिवृत्त्यामविकलः कतुर्न फलदः स्यादि त्याशवयाह -
अङ्गापेक्षेति ।
अङ्ग ह्युपकारायापेक्ष्यते , अङ्गसाध्योपकारस्यान नापि सिद्धौ किमजवैकल्येन हीयत इत्यर्थः ।
फलार्थस्य कथं कताबुपकारकलमित्याशय प्रासादप्रकाशार्थस्य दीपस्य रथ्यासंचार इवेत्याह -
अन्यार्थस्यापीति ।
यथावा दर्शपूर्णमासाभ्यामितीति ।
प्राचीनोऽप्ययं प्रतीको गोदोहनविषयाधिकरणानुबन्धिटीकाग्रन्थव्याख्यानान्तर मेव तदनुबन्ध्य धिकरणानुक्रमणार्थ मिह गृहीतः ।
ननु द्रव्यद्वारेणेति ।
दर्शपूर्णमासाभ्यामिष्टा सोमेन यजेतेत्यत्र सोम पदमुत्पत्तिवाक्ये इव द्रव्यपरं तदुत्पत्तिवाक्ये विहितस्य सोमयागस्य प्रत्यभिज्ञानार्थमिति तस्यह न पुनर्विधिः; विहितस्य विधानायोगात्, अतः कालविधियुक्त इत्यर्थः ।
यथा वाजपेयेनेट्वति वाक्ये प्रसिद्धबृहस्पतिसवनामग्रहणे सत्यपि तत्कार्य ब्रह्मवर्चसप्रत्यभिज्ञानाभावान्न तस्य कालविधिः, किंतु बृहस्पतिसवनामककर्मान्तरविधिः; एवमिहापि सोमव्यग्रहणे सत्यपि प्रसिद्धसोमयागफलवर्गप्रत्यभिज्ञानाभावान तस्य कालविधिः, किंतु सोमद्रव्यककर्मान्तरविधिरित्याह -
उच्यते तत्कार्य स्येत्यादिना ।
दर्शपूर्णमासंप्रति इल्यन दर्शपूर्णमाससोमयोरिति टीकायामिव द्वन्द्वैकवद्भावः । कर्मान्तरविधिश्चेत् तस्य देवतया भाव्यं, न चेह देवता निर्दिय। यदि यागं प्रति संबन्धितया देवतोपादानराहित्यरूपम् अव्यक्तदेवताकत्वं प्रसि द्धसोमयागसादृश्यमिह वर्तत इति तेनोद्भिदादियागेविवेहापि प्रसिद्धसोमयागादतिदेशतो देवताप्राप्तिरिष्यते, तदा तत एव सोमव्यप्राप्तिरपि स्यात् । दर्शपूर्णमासाभ्यामिष्ट्वा यजेतेल्यैतावतैव दर्शपूर्णमासाङ्गप्रसिद्धसोमयागप्रकृतिककर्मान्तरविधिः सिदित्यतिरिच्यमानं सौमद्रव्यग्रहणं प्रसिद्धसोमयागप्रत्यभिज्ञापनेनैव सफलं वाच्यमिति तस्यात्र कालविधिरित्येव युक्तम् ।
विहितस्य पुनः स्वरूपतो विधानायोगादिति सिद्धान्तयति -
उच्यत इति ।
बृहस्पतिसवनामग्रहणं तु नातिरिच्यते, येन तदपि प्रसिद्धबृहस्पतिसवप्रत्यभिज्ञापनार्थ कथंचित्कल्प्येत, तत्तु कर्मान्तरे तद्धर्मातिदेशार्थत्वेन सफलम् । अतस्तस्य प्रक रणान्तरन्यायप्राप्तकमोन्तरविधिखारस्यवद्यजि पारतक्ष्यं न हातव्यमिति तद्वेषम्यमाह-बृहस्पतिसवस्त्विति ।
उत भेदेनेति ।
अस्मिन्पक्षे षडपि यागाः पृथक्पृथक् पूर्वोत्तराङ्गसहिताः प्रयोगभेदेन कर्तव्याः । फलं तन्त्रमिति सिद्धान्ते खमावास्याः पौर्णमास्याश्च त्रयस्त्रयो यागाः खस्खका लयोरेकप्रयोगाः कर्तव्या इति फलमेदः ।
मेदेनाभिसंबध्यत इति ।
एकशब्दोपात्तानामप्यामेयादीनां साहित्यमिह न विवक्षितम् उत्पत्तिवाक्यविहितानां तेषामिह फलसंबन्धविधा नार्थमुद्देश्यखाद, उद्देश्येषु च साहित्यरूपस्य विशेषणस्य विवक्षणायोगादिति भावः ।
आमेयादीनां पृथक्त्वमैककय च सूत्रोक्तं परस्पर विरुद्धमित्याशय तदर्थ कथयन्नेव सिद्धान्तमाह -
यद्यप्येषामिति ।
फले विधीयन्त इति ।
फलस्य प्राधान्यात्तु फलकाममुद्दिश्यामेयादय एव विधेयाः; खरूपेण विहितानामपि फलसंबन्धिलेन पुनर्विधानसंभवात् अत स्तेषां साहित्यविशेषणाविवक्षाकारणं नास्तीति भावः । उपादीयमानानां कामिनमुद्दिश्यानुष्ठेयत्वेन बोध्यमानानाम् ।
टीकायामात्यन्तिकविशेषणेन विवक्षितं फलमेदाज् जिज्ञास्यमेदस्य स्फुटत्वमुपपादयितुं फलमेदस्यास्फुटखमाह -
कचिट ब्रह्म विदिति ।
कृतकत्वे मोक्षफलस्यानित्यखप्रसङ्गो न्यायः । ब्रह्मेव सन् 'ब्रह्माप्येती' त्यादिवचनान्तरम् ।
ननु भवतेरिति ।
अनपुंसकलिङ्गोऽयमकर्मकधातुनिष्पन्नकृत्यप्रत्ययान्तो भव्यशब्दो न भावकर्मार्थो, नापि तस्यार्थान्तरमस्तीति निर र्थकः; निरर्थक शब्देन कथं जिज्ञास्य विशेषलाभ इत्यर्थः ।
अस्य च भवतेरिति ।
सुखमनुभवतीत्यादौ सोपसर्गत्वेन भवतिः सकर्मकः, 'प्रमाणभूत आचार्य' इत्यादौ प्रामाण्यं प्राप्त इति प्राप्त्यर्थत्वेन, तदुभयमिह नास्तीत्यर्थः ।
उत्पाद्यध मापेक्षणादिति।
उत्पत्तिमद्धर्मसामानाधिकरण्या दित्यर्थः । भावपरत्वे हि भव्यमनेनेति वैयधिकरण्यं भवेत् । ननु भावार्थभव्यशब्दार्थस्य भवनस्योत्पत्तिरूपलाद्धर्मशब्दसामानाधिकरण्यं घटत इत्याशङ्कयोत्पाद्येति विशेषितम् । उत्पत्ति मान् हि यागादिधर्म इह नेह निर्दिष्टः, न धर्ममात्रम्: अतस्तस्य नोत्पत्तिवाचिशब्दसामानाधिकरण्यं घटत इति भावः । यता नेह सः इत्यस्य नेह भावार्थ इत्यर्थमाश्रित्य तत्र पुंलिङ्गनिर्देशादिति हेतुयोजनानन्तरं तस्यावृत्त्या नेह प्राप्त्यर्थ इत्यर्थान्त रमाश्रित्य तत्र हेतुत्वेनोत्पाद्यधर्मसापेक्षवा दिखेतद्योजनीयम् । वेदार्थ विचारानन्तरमनुष्टानेनोत्पादनीय धर्ममपेक्ष्य हि तद्वि शेषणतया भव्य इति निर्दिष्टं, नतु ग्रामपश्वादिवत् तटस्थतया प्रागेव सिद्ध किंचित्प्राप्यमपेक्ष्य, अतोऽत्र न प्राप्त्यर्थों घटत इति भावः ।
भावकव्यापारी भावयितृव्यापारः । तत्र वाक्यपदीयसंमतिमाह -
करोत्यथेस्यति ।
घटंकरोतीय स्यायमर्थः । घटं भवन्तं भावयतीति स भावयिता भवितुघेटस्य प्रयोजक । भविता घटस्तमपेक्ष्य प्रयोज्य इत्यर्थः । खस्या जाति प्रमादिकः पाठः । स्वशब्द स्यात्मवाचित्वे नपुंसकलिङ्गखादिति ।
धर्मस्येत्युक्त्येति ।
धर्मस्य चोदनेति भाष्य चोदनोपसर्जनमपि भावना तत्प्रतिपाद्यत्वेनार्थतः प्राधान्यात् सापि खविषय इति भाष्ये खशब्देन गृह्यत इत्यर्थः ।
स एव विति ।
ब्रह्मबोध एव विधितः प्रवृत्तिविषयः किं न स्यादित्यर्थः ।
यथा विशिष्टविधाविति ।
यथा खलु 'एतस्यैव रेवतीषु वारबन्तीयमग्निष्टोमसाम कृला पशुकामो ह्येतेन यजेते ति रेवयाधारवारवन्तीयसामसाध्यामिष्टोमस्तोत्र विशिष्टकतु विधौ रेवत्या धारवारवन्तीयसामरूपविशेषणस्य दधिसोमादिविशेषणवदन्यतः प्रसिद्धिरहितस्य तत एव सिद्धिरेवमिहापीत्यर्थः ।
लोकेऽपेक्षितपुरणार्थम् एवमित्यादि ।
स्नानेत्यादिव्यतिरेके दृष्टान्तः । यद्यपि घटादेरपि । वल षु भ्रमवि षयस्य घटादेरित्यर्थः । अतो नित्यवं सत्सवमनित्यलमसत्यखमिति व्याख्यानेन न विरोधः ।
सुखत्वान्नित्यमिति ।
सत्यं हि 'यो वै भूमा तत्सुख मिति सुखरूपमुक्तम् । अथ यदल्यं तन्मयं नाल्पं सुखमस्तीति सत्यरूपस्य भूम्नः प्रतिद्ध यं दुःखरूपमतम, अतः सानाध्ययनवतः शुद्धान्तःकरणस्य सत्यासत्ययोः सुखदःखत्खनिश्चयो भवतीत्यर्थः ।
खप्नप्रपञ्चवत्सर्वमसत्यं चेत्, सत्यखासत्यखयोधर्मिभ्यां भाव्यमित्युक्तरूपो नित्यानित्य विवेको न सिद्ध्येदित्याशय सत्यसि द्यर्थमनुभवोपपत्ती टीकायामुपच्यस्ते, ते विभजते -
दृऐ इति ।
शुक्तिरजतादौ सदधिष्ठानखानुभवः, तथात्वेनास्फुटे खप्नादावुपपत्तिः ।
तामेवोपपत्तिमाह -
विगीतमिति ।
गन्धर्वपुरीव दिति ।
तत्र सौरालोकादिकं सदधिष्ठानमिति भावः । व्यायसिद्धिशङ्का शून्यवादे वस्तुनः शून्यतैवेति मतेऽपि सैव सत्यास्तीति परिहारार्थः ।
'इयतो विवेकस्येति ।
खप्नव सर्वस्य प्रपञ्चस्यासत्यवं यदि स्यात्तदानीमप्यधिष्ठानपरिशेषोऽवश्यंभावी, तच्च सत्यं सुखरूप मिसतावतो निर्धारणस्येत्यर्थः ।
सगुण निर्गुणेति ।
परिशिष्यमाणं सत् सगुणं भवेनिगुणं वा, निगुणत्वे कथमखण्डे तन समन्वय इत्यादि बिचारार्थत्वेन शानरम्भः सफल इत्यर्थः । ननु-एवं सति नित्यानित्य विवेकः प्रसिद्धनि यानित्य बिषय एवास्तु किमर्थ सत्यानृतविषय त्वेन क्लिष्टव्याख्यान ? शास्त्रानारम्भशङ्कापरिहार स्योक्तस्य तत्रापि तुल्य खात , नच ब्रह्मानन्द एक एव नित्यः कर्मफलादिक मन्यत्सर्वमनित्यमिति शास्त्रारम्भात्प्रागेव निश्चये सति 'असंभवस्तु सतोऽनुपपत्तेः' (न. अ. २ पा. ३ सू. १) इति ब्रह्मनित्यखव्यवस्थापनस्य वैराग्यपादादिषु (ब्र. अ.३ पा.१) कर्मफलाद्यनित्यखव्यवस्थापनस्य च वैफल्यप्रसङ्गः; प्रागेव संसारबन्धान्तलनिश्चये सति तत्समर्थनार्थस्य तहुणसारत्वात्तु तद्यपदेशः (ब..२पा.३सू.२७) 'यथाच तक्षोभयथा' (न. अ. २ पा. २ सू. ४० ) इत्यादिसूत्र जातस्य वैफल्यप्रसङ्ग इति दूषणस्य तत्रापि तुल्यखात् । प्रानिश्चिते एव बन्धमिथ्यात्वे श्रुति विरोधादिशकान्तरनिरासाय तद्गुणसारखादिसूत्रजातमिति परिहाररीतिस्तु पक्षान्तरोऽपि तुल्या । किंच नित्यानित्यवस्तुविवेकखरूपासिद्धिशङ्कापरिहारार्थातःशब्दव्याख्यानावसरे कर्म फलनित्यख प्रतिपादकवाक्येभ्यः तदनित्यत्वप्रतिपादकवाक्यानां प्रावल्यमेवोपपत्तितया दर्शितं, नतु बन्धसत्य खप्रतिपादकवाक्येभ्यस्तन्मिथ्याखप्रति पादकवाक्यानाम् । अतोऽपि हेतोः प्रसिद्धनित्यानित्य विवेक एवात्र विवक्षित इति ज्ञायते, तस्मात्सामान्यतः सत्यानृतस द्भावनिर्धारण प्रसख्यानलभ्यबन्धमिथ्यावनिर्धारणपर्यन्तं नित्यानित्यवस्तु विवेक इत्युक्तमयुक्तमिति-चेत्, उच्यते: वेकानन्तरं नित्यफलप्रेप्सामनपेक्ष्य तद्विवेकमात्रेण सकलकर्मफल विराग उक्तः, नित्यवस्तुप्रेप्सया तत्प्राप्युपायान्वेषणं पश्चादुक्तम् ; अयं क्रमोऽनित्यत्वमसत्यखमिति व्याख्याने युज्यते, नवस्थायित्वमिति व्याख्याने । अस्थायिनै भोग भुञानस्तत्परित्यागे स्थायिभोगलाभमालक्ष्य हि ततो विरज्यते, नान्यथा अन्तासक्तस्तु तदनृतखनिश्चये त्यागे तथाभूतसत्यवस्तुलाभप्रतिसंधानाभावेऽपि ततो विरज्यते । नहि रजतार्थी कचन रजतनमेण प्रवृत्तस्त मिथ्याखनिश्वये सति तत्परित्यागेन सत्यरजतस्य खलभ्यखप्रतिसंधानाभावे ततो न निवर्तते, किंतु ततो निवृत्तः सत्यर जतप्राप्युपायं किंचित्पश्यति चेत् तत्र प्रवर्तते । तस्मान्नित्यानित्यवस्तु विवेकादिक्रमेण साधनचतुष्टयं ब्रह्मजिज्ञासाहेतुं वर्ण. यतो भगवतो भाष्य कारस्य सत्यमिदं सुखरूप मिति विशेषनिर्धारणमनपेक्ष्य कर्मफलानृतवनिर्धारणमेव वैराग्यादिक्रमेण साधनान्तराणां प्रवर्तकमित्याशयमालोच्य टीकाकारैराचार्यैश्च सामान्यतः सत्यमस्तीति विशिष्य बन्धमात्रमनृतमिति च विवेकः प्रथमसाधनत्वेन परिगृहीतः । तदनन्तरमक्षय्यादिवाक्यात्कर्मफलनित्यवसिद्धेस्तदनृतलमसिद्धम् अन्तस्य तत्त्व ज्ञाननिव_खनियमादिति शङ्कायां ततखसियर्थ मेव न्यायतस्तदनित्यलमतःशब्देन सूत्रितमिति न किंचिदवद्यम् । तदभ्यास इति । जननमरणपरिवृत्त्यादिरूपसंसारबन्धासत्यखदृढनिश्चयपर्यन्त इति शेषः ।
क्रियासमभिहारे इति ।
'क्रियासमभिहारे लोट् लोटो हिखा'विति पाणिनिसूत्रेण क्रियापौनःपुन्य विवक्षायां सर्वलकारापवादेन लोविहितः । तस्य परस्मैपदात्मनेपदयोर्यथाक्रमं हिखावादेशौ च विहितौ । ननु-क्रियासमभिहारे लुनीहि लुनीहीयेवायं लुनातीत्यायुदाहरणेष्विव जायख जायखेत्येवेमानि जायन्ते, म्रियख म्रियस्वेत्येवं म्रियन्त इति, द्विर्भावस्तस्य तस्य धातोरनुप्रयोगश्च प्राप्नोति; तत्सूत्रवार्तिके द्विर्भावानुशासनाद्, यथाविध्यनुप्रयोगः पूर्वस्मिन्निति सूत्रेण कियासमभिहारे तस्यैव धातोरनुप्रयोगनियमनाच । नैष दोषः क्रियासममिहारवज् जननमरणरूपक्रियाद्वयसमुच्चयस्याप्यत्र विवक्षितखात्, 'समुचयेऽन्यतरस्यामिति सूत्रेण समुच्चयेऽपि लोण्मध्यमपुरुषैकवचन विधानात् । तत्र हिन द्विर्भाववार्तिकमस्ति; नापि यथा विध्यनुप्रयोगविधानमस्ति, किंतु समुच्चये सामान्यवचनस्येति सूत्रेण तावत् क्रियाविशेषानुगतसामान्यवचनस्यानु प्रयोगो विहितः । ओदनं भुक्ष्व क्षीरं पिब धानाः खादेत्येवायमभ्यवहरतीत्यादि तदुदाहरणम् । इहापि जननमरणानु गतसामान्यरूपविपरिवृत्तिवाचिनोऽनुप्रयोगोऽस्ति । असकृदावर्तीनि भूतानि भवन्तीति क्रियासमभिहारसमुचयोभयविव क्षायां च समुच्चयविवक्षाप्रयुक्तमेव कार्य भवति; 'विप्रतिषेधे पर कार्यमिति स्मरणात् ।
कात्यायनेन स्विति ।
'चतुर्थीतदर्थमात्रेणेति चेत्, सर्वप्रसङ्गोऽविशेषादिति, यथाश्रुतसूत्रार्थे अनुपपत्तिप्रदर्शकमेकं वार्तिक । सर्वप्रसङ्गः सर्वस्य चतुर्यन्तस्य तदर्थमात्रेण समासप्रसङ्गः, रन्धनाय स्थाली अवहननायोलखलमियादावपि समासः प्रसज्येतेत्यर्थः । विकृतिः प्रकृत्येति चेद् 'अश्वघासादीनामुपसंख्यान'मिति वार्तिकान्तरं । यदि विकृतिवाची चतुर्थ्यन्तशब्दः प्रकृतिवाचिना समस्यत इति विशेष्यते, तदा सर्वप्रसङ्गः परिहतो भवति, किंतु अश्वाय घासोऽश्वघास इति समासो न प्राप्नोति प्रकृतिवि कारभावाभावात् । अतस्तत्संग्रहार्थमुपसंख्यानं यत्नान्तर, कर्तव्यमित्यर्थः । एवमश्व घासादिषु चतुर्थीसमास इति वार्ति ककारमतम् । एतदवलम्बनेनैव धर्माय जिज्ञासा धर्मजिज्ञासेति शबरखा मिभिश्चतुर्थीसमासः समाश्रितः । कात्यायने नैवेति । कात्यायनग्रहणमनादरेण शब्दाभियुक्तमात्रोपलक्षणं भाष्यकाराभिप्रायम् । भाष्यकारैः खलु तत्र वार्तिकमु लल्य यथाश्रुतसूत्रं समर्थयमानैः षष्ठीसमासः समाश्रितः । अत्रेदभाष्यकारीयं वार्तिकप्रत्याख्यानम्-प्रकृति विकृतिग्रहणाय यत्नस्तावन्न कर्तव्यः; सूत्रे बलिरक्षितग्रहणेन ज्ञापकेन तदर्थसिद्धेः । यदि हि तदर्थसमासस्तदर्थमात्र विषयः स्यात्, तदा कुबेराय बलि: कुबेरार्थों भवति, अश्वाय रक्षितम् अश्वार्थ भवतीति कुबेरबलि: अश्वरक्षितमिति समा सयोस्तदर्थसमास विधिनैव सिद्धेः पृथरबलिरक्षितग्रहणं न कर्तव्यं स्यात् । तत्कृतं ज्ञापयति तदर्थसमासः प्रकृति विकृति मात्र विषय इति । तथाश्वघासाद्युपसंख्यानयनोऽपि न कर्तव्यः; तेषु षष्ठीचतुर्थीसमासयोः खरवैषम्याभावेन षष्ठीसमा सोपपत्तः-इति ॥ एवं सूत्रानुसारिभाष्यकारमतप्राबल्याद वार्तिककारमतम नादृत्य चतुर्थीसमासासंभव उक्तः । इदमेव भाष्यकारमतमनुसृत्य भहपादधर्माय जिज्ञासेति शबरखामिवचनं षष्ठीसमासलधार्थिकार्थप्रदर्शनपर, नतु विग्रह प्रदर्शनपरम् । तस्य ज्ञ तुमिच्छेति निगमनवाक्येन षष्ठीसमासविभावनादिति व्याख्यातम् । आत्मनेपदपरस्मैपदशब्दयोः प्रकृति विकारभावाभावेऽपि तादर्थ्यसमासस्तु 'वैयाकरणाख्यायां चतुर्थ्या' इत्यलुग्विधानसामर्थ्यात् । नच तस्मादेव ज्ञापकात् सर्वत्रापि तादर्थ्यसमासः शङ्कनीयः; तथासति बलिरक्षितग्रहणवैयापत्तेरुक्तवात् । समासान्तरमुपसंख्यात मिति । षष्ठीसूत्रविहितं समासान्तरं भाष्यकारैरङ्गीकृतमित्यर्थः । ननु 'ज्ञातं ब्रह्म विषयो' 'ज्ञातं ब्रह्म प्रयोजन मिति ब्रह्म विषयप्रयोजनोभयरूपमिष्यते, तत्र प्रयोजनख प्रतिपत्त्युपयोगी चतुर्थीसमास इहासाधुरिति त्यक्तः, एवमेवात्र विष यत्वप्रतिपत्त्युपयोगी षष्ठीसम सोऽप्य साधुरेव । तथाहि-केन सूत्रेणेह षष्ठी; 'षष्ठी शेषे' इति सूत्रेण वा, 'कर्तृकर्मणोः कृती'ति सूत्रेण वा । नाद्यः; कर्मलं वाच्यं परिग्राह्य मिति शेषषष्ठ्यास्त्र या त्यक्तखात् । न द्वितीय, 'प्रतिपदविधाना च षष्ठी न समस्यत' इति वार्तिकेन वैशेषिकसूत्रविहितषष्ठ्याः समासप्रतिषेधात् । अतएव सर्पिषो ज्ञानमित्यत्र सर्पिषा करणेन प्रवृत्तिरित्यर्थके 'ज्ञोऽविदर्थस्य करणे' इति सूत्रेण वित्तिव्यतिरिक्तप्रवृत्तिरूपार्थान्तरमुक्तम् । जानातिकरणखनिमित्ता प्रतिपदविहिता षष्ठीति न समास इति चेत्याशयाह-कर्तृकर्मणोः कृतीति । कर्मलस्य वाच्यवसिद्ध्यर्थ द्वितीयपक्ष एवात्र परिगृह्यते । अस्ति पत्र कृद्योगः; जिज्ञासापदस्य 'अप्रत्ययादिति प्रत्ययान्तधातोरुपरि विहिताकारप्रत्ययान्तलाद, अकारप्रत्ययस्य च 'कृदतिपिति सूत्रेण कृत्संज्ञकलात् । नच समासासंभवः, 'कृयोगलक्षणा च षष्ठी समस्यत' इति प्रति पदविधानखेऽपि कृद्योगनिमित्तषठ्याः समासाभ्यनुज्ञानादिति भावः । ननु कृयोगलक्षणषष्ठीष्वपि कर्मणि या षष्ठी तस्याः समासः कर्मणि चेति सूत्रेण प्रतिषिद्ध इत्याशझ्याह-यस्तु कर्मणीति । 'कर्मणि चेति सूत्रेण कर्मषष्ठीमात्रस्य समास प्रतिषेधो न भवति तथा सति 'कर्तरि चेति सूत्रवैयर्यप्रसङ्गात् । तेन हि सूत्रेण कर्तरि यौ तृजको ताभ्यां सह कर्मणि षड्याः समासो निषिध्यते, अपां स्रष्टा ओदनस्य भोजक इत्यादौ । नच कर्मषष्ठीमात्रस्यात्र समासनिषेधे तत्सफलं भवेद्; अतः कर्मणि चेति सूत्रे चकार इतिकारार्थः । कर्मणीति शब्दमुचार्य या षष्ठी नियमिता, सा न समस्यत इति तदर्थः । ततश्च 'उभयप्राप्ती कर्मणी ति सूत्रेण कर्मणीति शब्द मुच्चार्य नियमिता षष्ठी तस्य समासप्रतिषेधस्य विषयः, नतु 'कर्तृकर्मणोः कृती'ति सूत्रविहिता कर्मणि षष्ठीत्यर्थः । नन्विहाप्युभयप्राप्तिसूत्रनियमितैव कर्मणि षष्ठी । तस्य हि सूत्रस्यैवमर्थः कर्तृकर्मणोरुभयोः षष्ठीप्राप्तियत्रैकस्मिन्कृति भवति तस्मिन् कृति सति कर्मण्येव षष्ठी न कर्तरीति । तथाचात्र साधना चतुष्टयसंपन्नः कर्ता यदि श्रूयेत, तदा तस्मिन्नपि कर्मणीव 'कर्तृकर्मणोः कृतीति सूत्रेण षष्ठ्याः प्राप्तौ निमित्तं भवति । जिज्ञा. सेति कृत्प्रत्ययः, अतोऽत्र 'कर्मणि चेति समासप्रतिषेधः स्यादेवेत्याशङ्कयाह-सामर्यादुपादानप्राप्ताविति । 'कृखोर्थप्रयोगे कालेऽधिकरणे' इति व्यवहितपूर्वसूत्रात् प्रयोग इत्यनुवर्तते । तच्च कर्तृगत किंचिदतिशयविवक्षासामर्थ्यात् कर्तृ कर्मोभयप्रयोगावश्यंभावपरम् । एवंचाश्चर्यों गवां दोह इत्यादिरेवोभयप्राप्तिसूत्रविषयः । तत्रह्माश्चर्यशब्दसूचितकर्तृ गतातिशयोपपादनोपयोगितया दुर्दोहवरूपाजादिवलक्षण्य सूचनाय गोत्वेन दोहकर्मणां तदोहासामर्यसंभावनासूच । नायाशिक्षितवादिना दोहकर्तुश्चोपादानमपेक्षितं कृत, नेह तथा किंचिदतिशय विवक्षया कर्तुरुपादानं कृतमस्तीति नात्रो भयप्राप्तिसूत्रेण कर्मणि षष्ठीनियमनमित्यर्थः । ननु-यत्र कर्तृकर्मोभयप्रयोगो नास्ति, तत्र गम्यमानेऽपि कर्मण्युभय प्राप्तिसूत्रेण कर्तरि षष्ठ्याः प्रतिषेधमभिप्रेत्य तृतीयाप्रयोगः सूत्रकारेणैव कृतो दृश्यते 'अन्तर्षी येनादर्शन मिच्छती ति; अन्तर्धिनिमित्तं यत्कर्तृकदर्शनाभाव खात्मनः कर्मणोऽन्तरङ्गप्रत्यासत्त्या गम्यमानस्येच्छति तस्यापादानसंज्ञा अनेन सूत्रेण विधीयते, तथाचोपाध्यायादन्तर्धत्त इत्यत्र पञ्चमी भवति । नच कर्मणि गम्यमाने एवोभयप्राप्तिसूत्रप्रवृत्तिः न कर्तरि गम्यमान इति विशेषः शङ्कनीयः; कर्तृकर्मोभयोपादाननियमभङ्गे सत्यस्य विशेष स्याप्रयोजकत्वात्, इहापरितोष इति चेद, एवं परिहारो द्रष्टव्यः, अकाकारयोः प्रतिषेधो नेति बकव्यं; शेषे विभाषेति भाष्यकारैरुभयप्राप्ती कर्मणी ति कर्तरि षष्टीप्रतिषेधस्य अके अकारे च कृति नित्यमप्रवृत्तिः, स्त्रीप्रत्ययरूपे कृति, तद्यतिरिक्तमात्रे वा विकल्पेनाप्रवृत्तिश्चोक्ता, उदाहृतं च मेदिका देवदत्तस्य काष्ठानां; चिकीर्षा विष्णुमित्रस्य कटस्येति, शोभना खलु पाणिनेः सूत्रस्य कृतिः, शोभना खलु पाणिनिना सूत्रस्य कृतिरिति च । तस्मादिह जिज्ञासेत्यकारप्रत्यययोगादू नोभयप्राप्तिसूत्र विषयखशावकाश इति । अयमपि परिहारो जिज्ञासापदस्याकारप्रत्ययान्तलं दर्शयद्भिराचार्यः सूचितः ।
व्याख्यातमिति ।
चरमवात्स्फुटलपर तयेति शेषः । परमाप्तस्य सूत्रकारस्योपदेशमात्रेणापि विश्वासः स्यादित्याशक्य न्यायसूत्र इति विशेषितम् ।
फलेच्छाया एवेति ।
फलेच्छैव हि खसाधनलोपाधिना उपायेच्छामादधाति, अत उपायेच्छा फलविषयापि भवतीत्येतद् युज्यत इति भावः ।
आर्थिके चास्मिन्निति ।
टीकायामेषितव्यमित्युक्त्या सूत्रे जिज्ञासा कर्तव्येति कर्तव्यपदाध्याहारः सूचितः, स तु जिज्ञासापदस्य कृतियोग्यविचारार्थ कलाभिप्रायो न भवति; ब्रह्मजिज्ञासाया अनधिकार्यलादिति भाष्ये जिज्ञासाशब्द स्यानधिकार्यज्ञानेच्छापरवस्याङ्गीकृतलात, किंवार्थिकविचारकर्तव्यवाभिप्राय इत्यर्थः ।
अर्थविवक्षाप्रतिज्ञावदिति ।
ननु-अर्थविवक्षाप्रतिज्ञा विचारप्रतिज्ञेति नास्ति प्रतिज्ञाद्वयं धर्मजिज्ञासासूत्रे, (जै. सू. अ.१ पा० १सू.१) येनाद्य प्रतिज्ञायां धर्मग्रहणं वेदार्थमात्रोपलक्षणं, न द्वितीय प्रतिज्ञायामिति विभज्येत, किं खेकैव तत्र विचारप्रतिज्ञा वेदस्य; विवक्षितार्थलं खतःशब्देन तत्र हेतुतयोच्यते, तद्धेतूकरणसामर्थ्याच वेदस्याध्ययनविनियोगशेषलेन विषनिहरणादिमन्त्रवदविवक्षितार्थ खशङ्का निरस्यत इति चेत्, सत्यम्। धर्ममात्रस्य तत्र विचार्यलप्रतिज्ञायामपि विशिष्य धर्मपरवेदभागमात्रस्य विवक्षि तार्थलं न हेतुः, तथासति वेदान्तभागस्य अविवक्षितार्थलशङ्कायां न्यायतौल्येन पूर्वभागस्यापि तद्वदविवक्षितार्थलम स्विति शङ्कायाः स्थिरीकरणापत्तेः, किंतु कृत्स्नवेदाध्ययनानन्तर्यस्याथशब्दार्थवादधीतस्य कृत्स्नस्य वेदस्य विवक्षितार्थवं हेततयोच्यते इत्यत्र तात्पर्यम् । एवंच धर्मग्रहणस्य वेदार्थमात्रोपलक्षणलादिति टीकायां धर्मस्य यग्रहणम् अतःशब्दो कविवक्षि तार्थले हेतावर्थशब्देनोपादानं तस्य वेदार्थमात्रोपलक्षणखादित्यर्थों दर्शितो भवति । टीकायामपि स एवार्थः प्रकृतोपयोगी ।
एवेति ।
फलेच्छैव हि खसाधनलोपाधिना उपायेच्छामादधाति, अत उपायेच्छा फलविषयापि भवतीत्येतद् युज्यत इति भावः ।
आर्थिके चास्मिन्निति ।
टीकायामेषितव्यमित्युक्त्या सूत्रे जिज्ञासा कर्तव्येति कर्तव्यपदाध्याहारः सूचितः, स तु जिज्ञासापदस्य कृतियोग्यविचारार्थ कलाभिप्रायो न भवति; ब्रह्मजिज्ञासाया अनधिकार्यलादिति भाष्ये जिज्ञासाशब्द स्यानधिकार्यज्ञानेच्छापरवस्याङ्गीकृतलात, किंवार्थिकविचारकर्तव्यवाभिप्राय इत्यर्थः ।
अर्थविवक्षाप्रतिज्ञावदिति ।
ननु-अर्थविवक्षाप्रतिज्ञा विचारप्रतिज्ञेति नास्ति प्रतिज्ञाद्वयं धर्मजिज्ञासासूत्रे, (जै. सू. अ.१ पा० १सू.१) येनाद्य प्रतिज्ञायां धर्मग्रहणं वेदार्थमात्रोपलक्षणं, न द्वितीय प्रतिज्ञायामिति विभज्येत, किं खेकैव तत्र विचारप्रतिज्ञा वेदस्य; विवक्षितार्थलं खतःशब्देन तत्र हेतुतयोच्यते, तद्धेतूकरणसामर्थ्याच वेदस्याध्ययनविनियोगशेषलेन विषनिहरणादिमन्त्रवदविवक्षितार्थ खशङ्का निरस्यत इति चेत्, सत्यम्। धर्ममात्रस्य तत्र विचार्यलप्रतिज्ञायामपि विशिष्य धर्मपरवेदभागमात्रस्य विवक्षि तार्थलं न हेतुः, तथासति वेदान्तभागस्य अविवक्षितार्थलशङ्कायां न्यायतौल्येन पूर्वभागस्यापि तद्वदविवक्षितार्थलम स्विति शङ्कायाः स्थिरीकरणापत्तेः, किंतु कृत्स्नवेदाध्ययनानन्तर्यस्याथशब्दार्थवादधीतस्य कृत्स्नस्य वेदस्य विवक्षितार्थवं हेततयोच्यते इत्यत्र तात्पर्यम् । एवंच धर्मग्रहणस्य वेदार्थमात्रोपलक्षणलादिति टीकायां धर्मस्य यग्रहणम् अतःशब्दो कविवक्षि तार्थले हेतावर्थशब्देनोपादानं तस्य वेदार्थमात्रोपलक्षणखादित्यर्थों दर्शितो भवति । टीकायामपि स एवार्थः प्रकृतोपयोगी । तत्रहि ब्रह्मजिज्ञासासूत्रं ब्रह्मज्ञानेच्छोपदर्शनमुखेन तदर्थायां ब्रह्ममीमांसायां प्रवर्तनाथ, नतु वेदान्ताध्ययने प्रवर्तनार्थ वेदान्ता नां विवक्षितार्थखोपपादनार्थ वेत्युक्ला वेदान्ताध्ययने प्रवृत्तरध्ययन विधिना सिद्धलादिति हेतुं स्पष्टवादप्रदर्य वेदान्तानां विवक्षितार्थलस्य फलवदर्थावबोधपरतामध्ययन विधेः सूत्रयता धर्मजिज्ञासासूत्रेणैव (जै, अ. १पा.१सू.१)सिद्धलादिति हेतुः प्रागुक्तः । तदुपादानार्थ विवक्षितार्थवादिति हेतावर्थंग्रहणस्य वेदान्तार्थसाधारण्यमेव वक्तव्यं, नतु धर्मजिज्ञासेत्यत्र धर्मग्र हणस्य । अत इह टीकाकारधर्मशब्दस्य वेदार्थमात्रोपलक्षणख वदद्भिः धर्मजिज्ञासासूत्र वेदार्थविचारप्रतिज्ञापरं विंशतिलक्षणीसा धारणमङ्गीकृतमिति न मन्तव्यम् । सामान्यतो दृष्टनिबन्धनवचनव्यक्त्याभासप्रतिबद्धःसंदिग्धार्थः स्यादिति । यद्यपि तत्त्वमसीत्यादिर्वेदान्तः स्वारस्येन ब्रह्मात्मैक्यं बोधयति; तथाप्यन्यत्र क्वचिद् दृष्टमित्येतावन्मानमवलम्च्य प्रवृत्तान् वच नव्यक्त्याभासान् वाक्ययोजनाभासान् वादिभिरुत्प्रेक्षितान् पश्यतस्तैः प्रतिबद्धः सन् वेदान्तः संदिग्धार्थः स्यात् । तथाहि "अनुक्षरा ऋजवः सन्तु पन्था' इत्यत्र पन्थान इति बहुवचनस्य 'सुपां सुलगि त्या दिसूत्रेण खादेशो दृष्टः, उत 'यत्सुन्वन्ति सामिधेनीस्तदन्वाहे'त्यत्र यत्तयां सप्तम्यास्तेनैव सूत्रेणालुग दृष्टः, 'गायत्री छन्दसां माते'त्यत्र द्वितीया प्रथमार्थं इति विभतिव्यत्ययो दृष्टः एवं तत्त्वमसील्यत्र तदित्यस्माच्चतुर्थ्याः खादेशो लुग, विभक्तिव्यत्ययो वेति तस्मै जगत्कारणाय ब्रह्मणे त्वं । बदात्मा समर्पणीय इत्यर्थः; 'ब्रह्मणे खा महस ॐइत्यात्मानं युञ्जीते ति श्रुत्यन्तरात् । अथवा-पञ्चम्याः खादेशादिभि-ना स्तस्मात्वं तस्माज्जातस्वमित्यर्थः; 'यतो वा इमानि भूतानि जायन्त' इति श्रुत्यन्तरात् । अथवा-षष्ट्याः खादेशादिभि- स्तस्य त्वं तत्खामिकस्वमित्यर्थः; 'सकारण करणाधिप' इति श्रुत्यन्तरात् । अथवा-सप्तम्याः खादेशादिभिस्तमिस्त्वं भजन तदाश्रितस्त्वमित्यर्थः; 'प्राणबन्धनं हि सोम्य मन' इति तत्रैव श्रवणात् अथवा-ब्राह्मणस्त्वं मनुष्यस्वमित्यादिवत् शरी रशरीरिभावनिबन्धनं तत्त्वमिति सामानाधिकरण्यं; 'यस्यात्मा शरीरमिति श्रुत्यन्तरात् । अथवा-'अघोराऽपापकाशि नी'त्यत्रेवाऽकारप्र लषात् अतत्वमसीति च्छेदः, 'द्वा सुपर्णे' त्यादिभेदश्रुत्यनुरोधादिति । एवं 'मीमांसका हि वाक्यार्थविचारे प्रस्तुते सति । लोकदृष्टीः प्रतिघ्नन्ति वचन व्यक्तिपांसुभिः ॥' इति ग्रहाधिकरण( जै. अ. ३ पा. ३ सू. १४) वार्तिकोक्त रीत्या तत्तदुत्प्रेक्षितवचनव्यक्त्याभासापादितसंदेहाक्रान्ता तत्त्वमस्यादिवाक्यजन्या ब्रह्मात्मैक्यधीरापाततः प्रसिद्धिरित्यर्थः । वचनयुक्त्याभासेति पाठे द्वा सुपर्णेल्यादयो मेदप्रतिपादनच्छायापत्त्या वचनाभासाः तदुपो(लकयुक्तयो युक्त्याभासाः । सामान्यतो दृष्टवचनव्यक्त्याऽऽपाततः प्रसिद्धः संदिग्धार्थः स्यादिति पाठः प्रागुक्त एवार्थे योजनीयः; सामा न्यतो दृष्टेन या वचनव्यक्तिस्तयार्थान्तराणामप्यापाततः प्रतीतेः संदिग्धार्थः स्यादिति । ब्रह्मात्मस्वरूपनिर्णायकवाक्येष्वर्थसं देहेऽपि नित्यानित्यवस्तुविवेकान्तर्गतबन्धमिथ्याखसद्रूपतदधिष्टानावश्यंभावनिश्चयो मोक्षार्थप्रवृत्त्युपयोग्यन्तःकरणशुद्ध्या पादककर्मानुष्ठानमहिनेति प्रागेवोक्तम् । ततस्तु प्राग् देहायमेदेनेति टीकाग्रन्थो न चार्वाकमताभिप्रायः तन्मते मुक्ती देहात्मनोहेंद इत्यस्याभावात् ।
नापि भ्रान्तिकृताऽमेदाभिप्रायः; तस्य सिद्धान्त्यभिमतखेनानिराकार्यखादित्याशय तत्ता त्पर्यमाह-मेदाभेदमतेन शङ्केति । षष्ठयोः सामानाधिकरण्ये हेतुमाह -
जीवस्य हीति ।
तत्पदार्थस्य धर्मिणो जीवात्पदार्थान्तरत्वे हि धर्म्यपि तत्पदेनापूर्वतया बोधनीयः, नतु स जीवात्पदार्थान्तरमिति तद्गतं शुद्धवाद्येव संसारदशा यामविद्यातिरोहितलेनाप्रसिद्ध तेन ज्ञापनीय; अतस्तत्पदार्थस्य शुद्धखादेश्चेति न वैयधिकरण्यमित्यर्थः । यद्यपि तत्पदार्थस्य यत् शुद्धवादीयेव वैयधिकरण्यं वक्तुं शक्यं तथापि संपदार्थ एव तत्पदार्थ इत्यमेददृढीकरणाय तदपि परित्यक्तमित्यर्थः । सर्वस्य ब्रह्मास्तिलप्रसिद्धिरिति साध्य, सर्वो हि तत्प्रत्यतीति हेतुरिति तयोरविशेषशङ्का ।
तत्पदार्थमात्रस्य प्रसिद्धिरिति ।
तत्पदबोभ्यस्य धर्मिण इत्यर्थः, न तु प्राचीनटीकाग्रन्थ इव तद्वोध्यस्य शुद्धलादेरित्यर्थः। तस्य प्रसिद्ध्यभावेनानुवादा योगात् । वस्त्वभावसाधिकेति। रजताभावप्रतिपत्तिहि रजतबाधिका दृष्टा, तथेहापि स्यादित्यर्थः ।
साधारणाका रद्दष्टाविति ।
साधारणधर्मिदृष्टावित्यर्थः; विप्रतिपत्तिजन्यसंशये समानधर्मदर्शनस्यानपेक्षितवाद्, अग्रे विरुद्धप्रतिपत्त्योः साधारणालम्बनस्य धर्मिण एवान सद्भावोपपादनदर्शनाच्च । एवंच न विहेत्याद्यग्रिमवाक्येऽपि साधारणो धर्मीत्येव पाठो युक्तः । अतएव साधारणधर्मिस्फुरणेऽपीत्यग्रिमग्रन्थे सकलकोशेषु धर्मिशब्दस्यैव पाठः । नहि साधारणः शास्त्रार्थ 'इति । संदेहविषयकोटिद्वयसाधारणो धर्मों न शास्त्रप्रतिपाद्यः, संप्रतिपन्नखादित्यर्थः ।
तत्पदार्थप्रतीतेरिति ।
आस्तिकमे दवादिषु निरीश्वरवादिनां तत्पदार्थप्रतीतेर्गौणतायां सेश्वरवादिनां तत्त्वमर्थकलप्रतीतेः, गौणतायामिति विगानमित्यप्रेतनेनान्वितम् । सांख्या निरीश्वरा अपि चेतनाः प्रतिदेहं भिन्ना इति मेनिरे इति संबन्धः ।
तत्र हेतुमाह -
जननेति ।
स्मृत्यादिभिश्चेति ।
स्मरन्ति च (ब्र. अ. २ पा. ३ सू. ७४) अपि च सप्त (ब्र.अ.३ पा.१सू.१५) बहि स्तूभयथापि स्मृतेराचाराच (ब्र. अ. ३ पा. ४ सू. ४३) आचारदर्शना (न. अ. ३ पा. ४ सू. ३ ) दिया दिसूनैर्नरकयातनासद्भावारूढपतितबहिष्करणादौ प्रमाणलेनोपनिबद्धानां स्मृत्याचाराणां प्रामाण्यं वेदमूलखेनेति तैर्वेदा नुमाने, अनुमानखरूपनिर्णयस्योपयोग इत्यर्थः ।
तेन विहितेति ।
यस्माच्यायशास्ने लक्षणमुखेन प्रमाणप्रमेयादिविवेचन कृतं, तेन हेतुना समाननामरूपलादिसूत्र (ब्र. अ. १ पा.३सू.३०) निबद्ध वैदिकानां यागदेवतासम पैकेन्द्रादिशब्दानां जातिर) इति विवेके जानश्रुतौ शदशब्दस्य न शूदखजातिरर्थः, किंतु यौगिकलेन व्यक्तिरिति विवेके च जातिव्यक्तिपदार्थविवेचनद्वारा आनुमानिकवेदखरूपग्रहणेऽनुमाननिर्णयद्वारा च न्यायशास्त्रस्योपयोग इत्यर्थः ॥ इति जिज्ञासाधिकरणम् ॥१॥