आनन्दगिरिटीका (गीताभाष्य)
षष्ठोऽध्यायः
ध्यानयोगप्रस्तावानन्तरं तद्योग्यताहेतुकर्मणः स्तुतिं भगवान् उक्तवान् , इत्याह -
श्रीभगवानिति ।
पूर्वोत्तराध्याययोः सङ्गतिम् अभिदधानो वृत्तम् अनूद्य, अध्यायान्तरम् अवतारयति -
अतीतेति ।
सम्यग्दर्शनप्रकरणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति -
सम्यगिति ।
सङ्ग्रहविवरणयोः अतीतानन्तराध्याययोः युक्तं हेतुहेतुमत्त्वम् , इति भावः ।
अध्यायसम्बन्धम् अभिधाय ‘अनाश्रितः कर्मफलम् ‘ इत्यादिश्लोकद्वयस्य तात्पर्यम् आह -
तत्रेति ।
कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयितुम् , साङ्गं च योगं विचारयितुम् अध्याये प्रवृत्ते सति, इति सप्तम्यर्थः । संन्यासिना कर्तव्यं कर्म, इत्येवं प्रतिभासं व्युदस्यति -
गृहस्थेनेति ।
कर्तव्यत्वं स्तुतियोग्यत्वम् अतश्शब्दार्थः ।
समुच्चयवादी सीमाकरणम् आक्षिपति -
नन्विति ।
यावज्जीवश्रतिवशात् ध्यानारोहणसामर्थ्ये सत्यपि कर्मानुष्ठानस्य दुर्वारत्वात् , इति हेतुम् आह -
यावतेति ।
भार्यावियोगादिप्रतिबन्धात् यावज्जीवश्रुतिचोदितकर्माननुष्ठानवत् वैराग्यप्रतिबन्धादपि तदननुष्ठानसम्भवात् भगवतो विशेषवचनाच्च न यावज्जीवं कर्मानुष्ठानप्रसक्तिः, इति परिहरति -
नारुरुक्षोरिति ।
उक्तमेवार्थं व्यतिरेकद्वारेण विवृणोति -
आरुरुक्षोरित्यादिना ।
आरोढुम् इच्छति इति - आरुरुक्षुः, इत्यत्र आरोहणेच्छा विशेषणम् , आरोहणं कृतवान् इति - आरूढः, इत्यत्र पुनः इच्छाविषयभूतम् आरोहणं विशेषणम् । एवं शमकर्मविषययोः भेदेन विशेषणं मर्यादाकरणानङ्गीकरणे विरुद्धम् आपद्यते । तयोरेवं विभागकरणं च भागवतं सीमानङ्गीकारे न युज्येत, इत्यर्थः ।
विशेषणविभागकरणयोः अन्यथा उपपत्तिम् आशङ्कते -
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । षष्ठी निर्धारणे ।
भवतु अधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातम् ? इत्याशङ्क्य, तृतीयापेक्षया तदुपपत्तिः, इत्याह -
तानपेक्ष्येति ।
आरुरुक्षोः आरूढस्य च भेदे ‘तस्यैव ‘इति प्रकृतपरामर्शानुपपत्तिः, इति दूषयति -
न तस्येति ।
यदि अनारुरुक्षुं पुरुषम् अपेक्ष्य ‘अारुरुक्षोः’ इति विशेषणम् , तस्य च कर्म आरोहणकारणम् , अनारूढं च पुरुषम् अपेक्ष्य ‘आरूढस्य’ इति विशेषणम् , तस्य च शमः संन्यासः योगफलप्राप्तौ कारणम् , इति विशेषणविभागकरणयोः उपपत्तिः ; तदा आरुरुक्षोः आरूढस्य च भिन्नत्वात् प्रकृतपरामर्शिनः तच्छब्दस्यानुपपत्तेः न युक्तम् विशेषणाद्युपपादनम् , इत्यर्थः ।
किञ्च योगम् आरुरुक्षोः तदारोहणे कारणं कर्म इत्युक्त्वा पुनः ‘योगारूढस्य’ इति योगशब्दप्रयोगात् यो योगं पूर्वम् आरुरुक्षुः आसीत् , तस्यैव अपेक्षितं योगम् आरूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनात् आरुरुक्षोः आरूढस्य च अभिन्नत्वप्रत्यभिज्ञानात् ऩ तयोर्भिन्नत्वं शङ्कितुं शक्यम् , इत्याह -
पुनरिति ।
यत्तु - यावज्जीवश्रुतिविरोधात् योगारोहणसीमाकरणं कर्मणोऽनुचितम् - इति, तत्राह -
अत इति ।
पूर्वोक्तरीत्या कर्मतत्त्यागयोः विभागोपपत्तौ श्रुतेः अन्यविषयत्वात् योगम् आरूढस्य मुमुक्षोः जिज्ञासमानस्य नित्यनैमित्तिककर्मस्वपि परित्यागसिद्धिः, इत्यर्थः ।
इतश्च यावज्जीवं कर्म कर्तव्यं न भवति, इत्याह -
योगेति ।
संन्यासिनो योगभ्रष्टस्य विनाशशङ्कावचनात् न यावज्जीवं कर्म कर्तव्यं प्रतिभाति, इत्यर्थः ।
ननु - योगभ्रष्टशब्देन गृहस्थस्यैव अभिधानात् तस्यैव अस्मिन्नध्याये योगविधानात् योगारोहणयोग्यत्वे सत्यपि यावज्जीवं कर्म कर्तव्यम् - इति, नेत्याह -
गृहस्थस्येति ।
तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षातिरिक्तफलानारम्भकत्वात् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यति, इति शङ्का सावकाशा, इत्याशङ्क्य, आह -
अवश्यं हीति ।
अपौरुषेयात् निर्दोषात् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्ति अवगता । ब्रह्मभावस्य च स्वतस्सिद्धत्वात् न कर्मफलत्वम् । अतो मोक्षातिरिक्तस्येव फलस्य कर्मारम्भकमिति कर्मिणि योगभ्रष्टेऽपि कर्मगतिं गच्छति इति निरवकाशा शङ्का, इत्यर्थः ।
ननु - मुमुक्षुणा काम्यप्रतिषिद्धयोः अकरणात् कृतयोश्च नित्यनैमित्तिकयोः अफलत्वात् - कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम् ? तत्र आह -
नित्यस्य चेति ।
चकारेण नैमित्तिकं कर्म अनुकृष्यते ।
वेदप्रमणकत्वेऽपि नित्यनैमित्तिकयोः अफलत्वे दोषम् आह -
अन्यथेति ।
कर्मणोऽनुष्ठितस्य फलारम्भकत्वध्रौव्यात् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्का, इति शेषः ।
इतोऽपि गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इत्याह -
न चेति ।
ज्ञानं कर्म च इत्युभयम् , ततो भ्रष्टोऽयं नश्यति इति वचनम् , गृहस्थे कर्मिणि सति नार्थवद् भवितुम् अलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्य आवश्यकत्वात् , इत्यर्थः ।
कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फलानारम्भकत्वात् अस्ति विभ्रंशकारणम् , इति शङ्कते -
कर्मेति ।
राजाराधनबुद्ध्या धनधान्यादिसमर्पणस्य अधिकफलहेतुत्वोपलम्भात् ईश्वरे समर्पणं न भ्रंशकारणम् , इति दूषयति -
नेत्यादिना ।
अधिकफलहेतुत्वेऽपि मोक्षहेतुत्वम् इष्यताम् , इति शङ्कते -
मोक्षायेति ।
तदेव चोद्यं विवृणोति -
स्वकर्मणामिति ।
सहकारिसामर्थ्यात् तस्य फलान्तरं प्रति उपायत्वासिद्धिः, इति हेतुं सूचयति -
योगेति ।
ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टम् अधिङ्कृत्य नाशाशङ्का, इत्याशङ्क्य, आह -
योगाच्चेति ।
सहकार्यभावे सामग्र्यभावत् फलानुपपत्तेः युक्ता नाशाशङ्का, इत्यर्थः ।
ध्यानसहितम् ईश्वरे कर्मसमर्पणं मोक्षाय, इत्यत्र प्रमाणाभावात् गृहस्थो योगभ्रष्टशब्दवाच्यो न भवति, इति दूषयति -
नेति ।
गृहस्थस्य योगभ्रष्टशब्दवाच्यत्वाभावे हेत्वन्तरम् आह -
एकाकीति ।
न खलु एतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति । तेन तस्य ध्यानयोगविध्यभावात् न तं प्रति योगभ्रष्टशब्दवचनम् उचितम् , इत्यर्थः ।
एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीसहायत्वाभावाभिप्रायेण भविष्यति, इत्याशङ्क्य, अग्निहोत्रादिवत् ध्यानस्य पत्नीसाधनत्वाभावात् अप्राप्तप्रतिषेधात् मैवम् इत्याह -
न चात्रेति ।
विशेषणान्तरपर्यालोचनयापि नायम् एकाकिशब्दो गृहस्थपरो भवितुम् अर्हति, इत्याह -
न चेति ।
किञ्च गृहस्थस्यैव एकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रति उभयभ्रष्टप्रश्नो नोपपद्यते, इत्याह -
उभयेति ।
न हि गृहस्थं प्रति उभयस्मात् ज्ञानात् कर्मणश्च विभ्रष्टत्वम् उपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणः तदभावात् अनुष्ठीयमानकर्मभ्रंशेऽपि प्रागनुष्ठितकर्मवशात् फलप्रतिलम्भात् । अतः यथोक्तप्रश्नालोचनया न गृहस्थं प्रति ध्यानविधानोपपत्तिः इत्यर्थः ।
ननु - भगवता संन्यासस्य प्रतिषिद्धत्वात् गृहस्थस्यैव योगविधानात् तस्यैव योगभ्रष्टशब्दवाच्यत्वम् , इति शङ्कते -
अनाश्रित इत्यनेनेति ।
भगवद्वाक्यं न प्रतिषेधपरम् , इति परिहरति -
न ध्यानेति ।
स्तुतिपरत्वमेव स्फोरयति -
न केवलमिति ।
सत्त्वशुद्ध्यर्थम् अनुतिष्ठन् , इति सम्बन्धः ।
वाक्यस्य उभयपरत्वम् आशङ्क्य वाक्यभेदप्रसङ्गात् मैवमित्याह -
न चेति ।
इतोऽपि भगवतः संन्यासाश्रमप्रतिषेधोऽभिप्रेतो न भवति, इत्याह -
न च प्रसिद्धमिति ।
तस्य प्रसिद्धं संन्यासित्वं योगित्वं च, इति सम्बन्धः ।
प्रसिद्धत्वमेव व्याकरोति -
श्रुतीति ।
इतोऽपि संन्यासाश्रमं भगवान् न प्रतिषेधति, इत्याह -
स्ववचनेति ।
विरोधमेव साधयति -
सर्वकर्माणीत्यादिना ।
‘अनाश्रितः’(भ. गी. ६-१) इत्यादिवाक्यस्य यथाश्रुतार्थत्वानुपपत्तेः स्तुतिपरत्वम् उपपादितम् उपसंहरति -
तस्मादिति ।
कर्मफलसंन्यासित्वम् , अत्र मुनिशब्दार्थः ।
स्तुतिपरं वाक्यम् अक्षरयोजनार्थम् उदाहरति -
अनाश्रित इति ।
कर्मफलेऽभिलाषो नास्ति, इत्येतावता कथं तदनाश्रितत्ववाचोयुक्तिः ? इत्याशङ्क्य व्यतिरेकमुखेन विशदयति -
यो हीति ।
‘कार्यम्’ इत्यादि व्याकरोति -
एवंभूतः सन्निति ।
कथं कर्मिणः संन्यासित्वं योगित्वं च ? कर्मित्वविरोधात् , इत्याशङ्क्य, आह -
ईदृश इति ।
स्तुतेः अत्र विवक्षितत्वात् नानुपपत्तिः चोदनीया, इति मन्वानः सन् , आह -
इत्येवमिति ।
‘न निरग्निः’(भ. गी. ६-१) इत्यादेः अर्थम् आह -
न केवलमिति ।
अग्नयो गार्हपत्याहवनीयान्वहार्थपचनप्रभृतयः । ननु - अनग्नित्वे सिद्धम् अक्रियत्वम् अग्निसाध्यत्वात् क्रियाणाम् , तथा च ‘न निरग्निः’(भ. गी. ६-१) इत्येतावतैव अपेक्षितसिद्धेः ‘न चाक्रियः’(भ. गी. ६-१) इत्यनर्थकम् , अर्थपुनरुक्तेः - इति, तत्र आह -
अनग्नीति
॥ १ ॥
उत्तरश्लोकस्य तात्पर्यं दर्शयितुं व्यावर्त्यम् आशङ्कां दर्शयति -
ननु चेति ।
प्रसिद्धिमपरित्यज्य अप्रसिद्धिः उपदीयमाना प्रसिद्धिविरुद्धा, इति चोद्यं दूषयति -
नैष दोष इति ।
उभयस्य - साग्नौ सक्रिये च संन्यासित्वस्य योगित्वस्य च, इत्यर्थः ।
गुणवृत्त्या उभयसम्पादनं प्रश्नपूर्वकं प्रकटयति -
तत् कथं इत्यादिना ।
सम्भवति मुख्ये संन्यासित्वादौ किमिति गौणम् उभयम् अभीष्टम् ? इत्याशङ्य, मुख्यस्य कर्मिणि असम्भवात् गौणमेव स्तुतिसिद्ध्यर्थं तत् इष्टम् , इत्यभिप्रेत्य, आह -
न पुनरिति ।
चित्तव्याकुलत्वहेतुकामनात्यागात् चित्तसमाधानसिद्धेः योगित्वं कर्मिणोऽपि युक्तम् , संन्यासित्वं तु तस्य विरुद्धम् , इति शङ्कमानं प्रति उक्ते अर्थे श्लोकम् अवतारयति -
इत्येतमिति ।
परमार्थसंन्यासं प्राहुः, इति सम्बन्धः । इति इत्थं संन्यासस्य प्रारमाणिकाभ्युपगतत्वादिति, इतिशब्दो योज्यः । योगं फलतृष्णां परित्यज्य समाहितचेतस्तया, इति शेषः
यदुक्तं - संन्यासित्वं योगित्वं च गृहस्थस्य गौणम् - इति, तद् उत्तरार्धयोजनया प्रकटयितुम् उत्तरार्धम् उत्थापयति -
कर्मयोगस्येति ।
कर्मयोगस्य परमार्थसंन्यासेन कर्तृद्वारकं साम्यम् उक्तं व्यक्तीकरोति -
योहीति ।
त्यक्तानि सर्वाणि कर्माणि साधनानि च येन, स तथोक्तः, तस्य भावः तत्ता, तया । सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजति, इत्यर्थः ।
सङ्कल्पत्यागे तत्कार्यकामत्यागः, तत्त्यागे तज्जन्यप्रवृत्तित्यागश्च सिद्ध्यति, इति अभिसन्धाय विशिनष्टि -
प्रवृत्तीति ।
कर्मिण्यपि यथोक्तसङ्कल्पसंन्यासित्वम् अस्ति, इत्याह -
अयमपीति ।
तदपरित्यागे व्याकुलचेतस्तया कर्मानुष्ठानस्यैव दुश्शकत्वात् , इत्यर्थः ।
उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति -
इत्येतमिति ।
फलसङ्कल्पापरित्यागे किमिति समाधानवत्ताभावः ? तत्र आह -
फलेति ।
व्यतिरेकमुखेन उक्तम् अर्थम् , अन्वयमुखेन उपसंहरति -
तस्मादिति ।
हिशब्दार्थस्य ‘यस्मात् ‘ इत्युक्तस्य ‘तस्मात् ‘ इत्यनेन सम्बन्धः ।
कर्मिणं प्रति यथोक्तविधौ हेतुहेतुमद्भावम् अभिप्रेत्य, द्वितीयविधौ हेतुमाह -
चित्तविक्षेपेति ।
॥ २ ॥
पूर्वश्लोके पूर्वोत्तरार्धाभ्याम् उक्तम् अनुवदति -
एवमिति
परमार्थसंन्यासस्य कर्मयोगान्तर्भावे कर्मयोगस्यैव सदा कर्तव्यत्वम् आपद्येत, तेन इतरस्यापि कृतत्वसिद्धेः, इत्याशङ्क्य, उक्तानुवादपूर्वकम् उत्तरश्लोकतात्पर्यम् आह -
ध्यानयोगस्येति ।
भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्तशक्तित्वात् , इत्याशङ्क्य, आह -
योगारूढस्येति ।
अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति -
ध्यानेति ।
मुनित्वं कर्मफलसंन्यासिनि औपचारिकम् , इत्याह -
कर्मफलेति ।
साधनं चित्तशुद्धिद्वारा ध्यानयोगप्राप्तीच्छायाम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् ।
एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्ययोगव्यवच्छेदेन शमो हेतुः ? इति, तत्र आह -
योगारूढत्वस्येति ।
सर्वव्यापारोपरमरूपोपशमस्य योगारूढत्वे कारणत्वं विवृणोति -
यावद्यावदिति ।
सर्वकर्मनिवृत्तौ आयासाभावात् वशीकृतस्य इन्द्रियग्रामस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः ।
सर्वकर्मोपरमस्य पुरुषार्थसाधनत्वे पौराणिकीं सम्मतिम् आह -
तथा चेति ।
एकता सर्वेषु भूतेषु वस्तुनो द्वैताभावोपलक्षितत्वम् , इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥
योगप्राप्तौ कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरम् अवतारयति -
अथेति ।
समाधानावस्था ‘यदा’ इत्युच्यते । अत एवोक्तं समाधीयमानचित्तो योगी, इति । शब्दादिषु कर्मसु च अनुषङ्गस्य योगारोहणप्रतिबन्धकत्वात् तदभावस्य तदुपायत्वं प्रसिद्धम् , इति द्योतयितुं ‘हि’ इत्युक्तम् ।
सर्वेषाम् अपि सङ्कल्पानां योगारोहणप्रतिबन्धकत्वम् अभिप्रेत्य सर्वसङ्कल्पसंन्यासी इत्यत्र विवक्षितम् अर्थम् आह -
सर्वानिति ।
सर्वसङ्कल्पसन्यासेऽपि सर्वेषां कामानां कर्मणां च प्रतिबन्धकत्वसम्भवे कुतो योगप्राप्तिः ? इत्याशङ्क्य, आह -
सर्वेति ।
सर्वसङ्कल्पपरित्यगे यथोक्तविध्यनुष्ठानम् , अयत्नसिद्धम् इति मन्वानः सन् आह -
सङ्कल्पेति ।
मूलोन्मूलने च तत्कार्यनिवृत्तिः अयत्नसुलभा, इति भावः ।
तत्र प्रमाणम् आह -
सङ्कल्पमूल इति ।
तत्र अन्वयव्यतिरेकौ अभिप्रेत्य उक्तम् उपपादयति -
कामेति ।
सर्वसङ्कल्पाभावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात् तन्निवृत्तिप्रयुक्तामपि निवृत्तिम् उपन्यस्यति -
सर्वकामेति ।
यदुक्तं कर्मणां कामकार्यत्वम् , तत्र श्रृतिस्मृती प्रभाणयति -
स यथेति ।
स पुरुषः स्वरूपम् अजानन् यत्फलकामो भवति, तत्साधनम् अनुष्ठेयतया बुद्धो धारयति, इति तत्क्रतुकर्भवति । यच्च अनुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि करोति, इति कामाधीनं कर्म उक्तम् , इति श्रुत्यर्थः । कामजन्यं कर्म, इति अन्वयव्यतिरेकसिद्धम् , इति द्योतयितुं स्मृतौ ‘हि’ शब्दः ।
न्यायमेव दर्शयति -
नहि सर्वसङ्कल्पेति ।
स्वापादौ अदर्शनात् , इत्यर्थः । नित्यनैमित्तिककर्मानुष्ठानं दुरनिरस्तम् , इति वक्तुम् ‘अपि’ शब्दः ।
श्रुतिस्मृतिन्यायसिद्धम् अर्थम् उपसंहरति -
तस्मादिति
॥ ४ ॥
योगारूढस्य किं स्यात् ? इत्याशङ्क्य, आह -
यदैवमिति ।
योगारोहस्य दृष्टादृष्ठोपायैः अवश्यकर्तव्यतायै मुक्तिहेतुत्वम् , तद्विपर्ययस्य अधःपतनहेतुत्वं च, दर्शयति -
अत इति ।
तत्र हेतुम् आह -
आत्मैव हीति ।
उद्धरणापेक्षाम् आत्मनः सूचयति -
संसारेति ।
संसारात् ऊर्ध्वं हरण कीदृक् ? इत्याशङ्क्य, आह -
योगारूढतामिति ।
योगप्राप्तौ अनास्था तु न कर्तव्या, इत्याह -
नात्मानमिति ।
योगप्राप्त्युपायश्चेत् नानुष्ठीयते, तदा योगाभावे सम्सारपरिहारासम्भवात् आत्मा अधो नीतः स्यात् , इत्यर्थः ।
ननु - आत्मानं सम्सारे निमग्नं तदीयो बन्धुः तस्मात् उद्धरिष्यति ; नेत्याह -
आत्मैव हीति ।
कुतोऽवधारणम् अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्र आह -
न हीति ।
अन्यो बन्धुः सन् अपि सम्सारमुक्तये न भवति, इत्येतत् उपपादयति -
बन्धुरपीति ।
‘स्नेहादि’ इति आदिशब्दात् तदनुगुणप्रवृत्तिविषयत्वं गृह्यते ।
आत्मातिरिक्तिस्यापि शत्रोः अपकारिणः सुप्रसिद्धत्वात् अवधारणम् अनुचितम् , इत्याशङ्क्य, आह -
योऽन्य इति
॥ ५ ॥
उक्तम् अनूद्य प्रश्नपूर्वकं श्लोकान्तरम् अवतारयति -
आत्मैव इत्यादिना ।
एकस्यैव आत्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च लक्षणभेदम् अन्तरेण अयुक्तम् , इति चोदिते, वशीकृत सङ्घातस्य आत्मानं प्रति बन्धुत्वम् , इतरस्य शत्रत्वम् , अविरोधं दर्शयति -
बन्धुरित्यादिना ।
वशीकृतसङ्घातस्य विक्षेपाभावात् आत्मनि समाधानसम्भवात् , उपपन्नम् आत्मानं प्रति बन्धुत्वम् , इति साधयति -
तस्येति ।
अवशीकृतसङ्घातस्य पुनर्विक्षेपोपपत्तेः आत्मनि समाधानायोगात् आत्मानं प्रति शत्रुभावे प्रसिद्धशत्रुवत् आत्मैव शत्रुत्वेन वर्तेत, इति उत्तरार्धं व्याकरोति -
अनात्मन इति ।
दृष्टान्तं व्याचष्टे -
यथेति ।
उक्तदृष्टान्तवशात् अवशोकृतसङ्घातः स्वस्य हितानाचरणात् आत्मानं प्रति शत्रुरेव, इति दार्ष्टान्तिकम् आह -
तथेति
॥ ६ ॥
कथं संयतकार्यकरणस्य बन्धुरात्मा ? इति, तत्र आह -
जितात्मन इति ।
जितकार्यकरणसङ्घातस्य प्रकर्षेण उपरतबाह्याभ्यन्तरकरणस्य परमात्मा विक्षेपेण पुनः पुनः अनभिभूयमानो निरन्तरं चित्ते प्रथते, इत्यर्थः ।
जितात्मानं संन्यस्तसमस्तकर्माणम् अधिकारिणं प्रदर्श्य, योगाङ्गानि दर्शयति -
शीतेति ।
समः स्यात् , इति अध्याहारः ।
पूर्वार्धं व्याचष्टे -
जितेत्यादिना ।
न केवलं तस्य परमात्मा साक्षात् आत्मभावेन वर्तते, किन्तु शीतोष्णादिभिरपि नासौ चाल्यते तत्वज्ञानात् , इति उत्तरार्धं विभजते -
किञ्चेति ।
तेषु, समः स्यात् इति सम्बन्धः
॥ ७ ॥
चित्तसमाधानमेव विशिष्टफलं चेत् इष्टम् , तर्हि कथम्भूतः समाहितो व्यवह्रियते, तत्र आह -
ज्ञानेति ।
परोक्षापरोक्षाभ्यां ज्ञानविज्ञानाभ्यां सञ्जातः अलंप्रत्ययः यस्य अन्तःकरणे, सोऽक्रियो हर्षविषादकामक्रोधादिरहितो योगी, युक्तः, समाहित इति व्यवहारभागी भवति, इति पदत्रयव्याख्यानेन दर्शयति -
ज्ञानमित्यादिना ।
स च योगी परमहंसपरिव्राजकः सर्वत्र उपेक्षाबुद्धिः अनतिशयवैराग्यभागी, इति कथयति -
स योगीति
॥ ८ ॥
योगारूढस्य प्रशस्तत्वम् अभ्युपेत्य योगस्य अङ्गान्तरं दर्शयति -
किञ्चेति ।
पदच्छेदः पदार्थोक्तिः इति व्याख्यानाङ्गं सम्पादयति -
सुहृदितीति ।
अरिर्नाम परोक्षम् अपकारकः, प्रत्यक्षम् अप्रियो द्वेष्यः, इति विभागः । समबुद्धिः इति व्याचष्टे -
कः किमिति ।
प्रथमो हि प्रश्नो जातिगोत्रादिविषयः, द्वितीयो व्यापारविषयः । उक्तप्रकारेण अव्यापृतबुद्धित्वे सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यति, इत्याह -
विशिष्यत इति ।
पाठद्वयेऽपि सिद्धम् अर्थं सङ्गृह्य कथयति -
योगारूढानामिति
॥ ९ ॥
यथोक्तविशेषणवतो योगारूढेषु उत्तमत्वे योगानुष्ठाने प्रयतितव्यम् , इति अङ्गाभिधानानन्तरं प्रधानम् अभिदधाति -
अत एवमिति ।
आदरनैरन्तर्यदीर्घकालत्वं विशेषणत्रयं योगस्य सूचयति -
सततमिति ।
तस्यैव पञ्च अङ्गानि उपन्यस्यति -
रहसि इत्यादिना ।
सर्वदा इति आदरदीर्धकालयोः उपलक्षणम् ।
प्रत्यगात्मानं व्यावर्तयति -
अन्तःकरणमिति ।
गिरिगुहादौ इति आदिशब्देन योगप्रतिबन्धकदुर्जनादिविधुरो देशो गृह्यते ।
विशेषणद्वयस्य तात्पर्यम् आह -
रहसीति ।
योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शयति -
यतेति ।
सति संन्यासित्वे किमिति अपरिग्रहग्रहणम् ? अर्थपुनरुक्तेः, इत्याशङ्क्य कौपीनाच्छादनादिष्वपि सक्तिनिवृत्त्यर्थम् , इत्याह -
संन्यासित्वेऽपीति
॥ १० ॥
योगं योगाङ्गनि च उपदिश्य उत्तरसन्दर्भस्य तात्पर्यम् आह -
अथेति ।
योगस्वरूपकतिपयतदङ्गप्रदर्शनानन्तर्यम् अथशब्दार्थः ।
विहारादीनाम् इति आदिशब्देन यथोक्ताऽऽसनादिगतावान्तरभेदग्रहणम् । तत्फलादि च इति आदिशब्देन योगफलसम्यग्ज्ञानं च तत्फलं कैवल्यं ततो भ्रष्टस्य आत्यन्तिकाविनष्टत्वम् इत्यादि गृह्यते । एवं समुदायतात्पर्ये दर्शिते, किं आसीनः शयानः तिष्ठन् गच्छन् कुर्वन् वा युञ्जीत ? इत्यपेक्षायाम् , अनन्तरश्लोकतात्पर्यम् आह -
तत्रेति ।
निर्धारणे सप्तमी । प्रथमम् योगानुष्ठानस्य प्रधानम् , ‘आसीनः सम्भवात्’(ब्र.सू. ४-१-७) इति न्यायात् , इति यावत् ।
विविक्तत्वं द्वेधा विभजते -
स्वभावत इति ।
आसनस्य अस्थैर्ये तत्र उपविश्य योगम् अनुतिष्ठतः समाधानायोगात् योगासिद्धिः, इति अभिसन्धाय विशिनष्टि -
अचलमिति ।
आस्यते अस्मिन् , इति व्युत्पत्तिम् अनुसृत्य, आह -
आसनमिति ।
‘आत्मन’ इति परकीयासनव्युदासार्थम् । पतनभयपरिहारार्थं नात्युच्छ्रितम् इत्युक्तम् । नाप्यतिनीचम् , इति भूतलपाषाणादिसंश्लेषे वातक्षोभाग्निमान्द्यादिसम्भावितदोषनिरासार्थम् । चैलम् - वस्रम् , अजिनम् - चर्म पशूनाम् , तच्च मृगस्य, कुशाः - दर्भाः, ते च उत्तरे यस्मिन् उपरिष्टात् आरभ्य तत्तथोक्तम् । प्रथमञ्चैलम् , ततोऽजिनम् , ततश्च कुशाः, इति प्रतिपन्नपाठक्रमम् आपातिकं क्रमम् अतिक्रम्य, आदौ कुशाः ततोऽजिनम् , ततः चैलम् इति क्रमं विवक्षित्वा, आह -
विपरीतोऽत्रेति
॥ ११ ॥
यथोक्तम् आसनं सम्पाद्य किं कर्तव्यम् ? इति प्रश्नपूर्वकं कर्तव्यं तत् निर्दिशति -
प्रतिष्ठाप्येति ।
योगं युञ्जानस्य इतिकर्तव्यताकलापं पृच्छति -
कथमिति ।
सर्वेभ्यो विषयेभ्यः सकाशात् प्रत्याहृत्य मनसो यत् एकस्मिन्नेव ध्येये विषये सामाधानम् , यत् चित्तस्य इन्द्रियाणां च बाह्यक्रियाणां संयमनं, तत् उभयं कृत्वा योगम् अनुतिष्ठेत् , इत्याह -
सर्वेति ।
आसने यथोक्ते स्थित्वा यथोक्तया रीत्या योगानुष्ठानस्य प्रश्नपूर्वकं फलम् आह -
स किमर्थमित्यादिना
॥ १२ ॥
उक्तम् अनूद्य अनन्तरश्लोकस्य पुनरुक्तम् अर्थम् आह -
बाह्येति ।
समत्वम् - ऋजुत्वम् , कायः - शरीरमध्यम्
‘अचलम् ‘ विशेषणम् अवतार्य तस्य तात्पर्यम् आह -
सममिति ।
कार्यकरणयोः विषयपारवश्यशून्यत्वम् अचलत्वं स्थैर्यम् ।
किमिति इवशब्दलोपः अत्र कल्प्यते ? स्वनासिकाग्रसम्प्रेक्षणमेव योगाङ्गत्वेन अत्र विधित्सितं किं न स्यात् ? इत्याशङ्क्य, आह -
नहीति ।
तर्हि किमत्र विवक्षितम् ? इति प्रश्नपूर्वकम् आह -
किं तर्हि इति ।
दृष्टिसन्निपातः - दृष्टेः - चक्षुषः, रूपादिविषयप्रवृत्तिराहित्यम् ।
कथम् असौ अनायासेन सिध्यति ? तत्र आह -
स चेति ।
समाधानस्य प्राधान्येन अत्र विवक्षितत्वात् दृष्टेः बहिर्विषयत्वेन तद्भङ्गप्रसङ्गात् तस्या विषयेभ्यो व्यावृत्त्य अन्तरे च सन्निपातो विवक्षितो भवति, इत्यर्थः ।
तथापि कथं स्वनासिकाग्रसम्प्रेक्षणम् अत्र श्रुतम् अविवक्षितम् ? इत्याशङ्क्य, आह -
स्वनासिकेति ।
तत्रैव मनःसमाधाने का हानिः ? इत्याशङ्क्य, वाक्यशेषविरोधात् मैवम् , इत्याह -
आत्मनि हीति ।
किं तर्हि ‘सम्प्रेक्ष्य’ इत्यादौ विवक्षितम् ? इत्याशङ्क्य, आह -
तस्मादिति ।
दक्षिणेतरचक्षुषोः या दृष्टिः तस्या बाह्याद्विषयात् वैमुख्येन अन्तरेव सन्निपतनम् अत्र स्वकीयं नासिकाग्रम् नासिकान्तं सम्प्रेक्ष्येति विवक्षितम् , इत्यर्थः ।
तत्रैव उत्तरम् अपि विशेषणम् अनुकूलम् इत्याह -
दिशश्चेति ।
अनवलोकयन् आसीत इति उत्तरत्र सम्बन्धः, अन्तरान्तरा दिशाम् अवलोकनमपि योगप्रतिबन्धकम् , इति तत्प्रतिषेधः
॥ १३ ॥
योगं युञ्जानस्य विशेषणान्तराणि दर्शयति -
किञ्चेति ।
अन्तःकरणस्य प्रशान्ति रागद्वेषादिदोषराहित्यम् , तस्याश्च प्रकर्षः रागादिहेतोरपि निवृत्तिः । विगतभयत्वम् - सर्वकर्मपरित्यागे शास्त्रीयनिश्चयवशात् निःसन्दिग्धबुद्धित्वम् । भिक्षाभुक्यादि इति आदिशब्देन त्रिषवणस्नानशौचाऽऽचमनादि गृह्यते ।
विशेषणान्तरम् आह -
किञ्चेति ।
उपसंहृत्य योगनिष्ठो भवेत् , इति शेषः ।
मनोवृत्युपसंहारे ध्यानमपि न सिध्येत् , तस्य तद्वृत्यावृत्तिरूपत्वात् , इति आशङ्क्य आह -
मच्चित्त इति ।
विषयान्तरविषयमनोवृत्त्युपसंहारेण आत्मन्येव तन्नियमनात् न ध्यानानुपपत्तिः, इत्यर्थः ।
मच्चित्तत्वेनैव मत्परस्य सिद्धत्वात् मत्पर इति पृथग्विशेषणम् अनर्थकम् , इत्याशङ्क्य, आह -
भवतीति ।
अन्तःकरणशुद्धिः योगस्य अवान्तरफलम्
॥ १४ ॥
सम्प्रति परमफलकथनपरत्वेन अनन्तरश्लोकं आदत्ते -
अथेति ।
योगस्वरूपं तदङ्गम् आसनं अपि तत् कर्तृविशेषणम् इत्यस्य अर्थस्य प्रकथनानन्तरं इति अथ शब्दार्थः । आत्मानं युञ्जन् इति सम्बन्धः । आत्मशब्दः मनोविषयः । यथोक्तः विधिः आसनादिः । उक्तविशेषणत्रयद्योतनार्थं सदा इत्युक्तम् । योगी - ध्यायी संन्यासीत्यर्थः ।
मनः संयमस्य लोकं प्रति असाधारणत्वं दर्शयति -
नियतेति ।
शान्तिशब्दितोपरतेः सर्वसंसारनिवृत्तिपर्यवसायित्वं मत्वा विशिनष्टि -
निर्वाणेति ।
यथोक्तायाः मुक्तेः ब्रह्मस्वरूपावस्थानात् अनर्थान्तरत्वं आह -
मत्संस्थामिति ।
मदधीनां - मदात्मिकां इत्यर्थः
॥ १५ ॥
आहारादि इत्यादि शब्देन विहारजागरितादि च उच्यते । आत्मसंमितं अन्नपरिमाणम् अष्टग्रासादि । आहारनियमे शतपथश्रुतिं प्रमाणयति -
यदुह वा इति ।
तदन्नं भुज्यमानं यदुह वा इति प्रसिद्ध्या अनूदितं अवति - अनुष्ठानयोग्यताम् आपाद्य अनुष्ठानद्वारेण भोक्तारं रक्षति । न पुनः तत् अन्नं अस्य अनर्थाय भवति इत्यर्थः । यत्पुनः आत्मसंमितात् भूयः - अधिकतरं शास्त्रमतिक्रम्य भुज्यते, तत् आत्मानं हिनस्ति भोक्तुः अनर्थाय भवति । यच्च अन्नं कनीयः - अल्पतरं शास्त्रनिश्चयाभावात् अद्यते तत् अन्नं अनुष्ठानयोग्यतादिद्वारा न रक्षितुं क्षमते । तस्मात् अत्यधिकम् अत्यल्पञ्च अन्नं योगमारुरुक्षता त्याज्यम् इत्यर्थः ।
श्रुतिसिद्धमर्थं निगमयति -
तस्मात् इति ।
नेत्यादेः व्याख्यानान्तरमाह -
अथवेति ।
किं तत् अन्नपरिमाणं योगशास्त्रोक्तं, यत् अधिकं न्यूनं वा अभ्यवहरतः योगानुपपत्तिः इत्याशङ्क्य आह -
उक्तं हीति ।
‘ पूरयेदशनेनार्धं तृतीयमुदकेन तु ।
वायोस्सञ्चरणार्थाय चतुर्थमवशेषयेत् ॥ ''
इति वाक्यम् आदिशब्दार्थः । यथा अत्यन्तमश्नतः अनश्नतश्च योगः न सम्भवति तथा अत्यन्तं स्वपतः जाग्रतश्च न योगस्सम्भवति, इत्याह -
तथेति
॥ १६ ॥
आहारनिद्रादिनियमविरहिणो योगव्यतिरेकम् उक्त्वा तन्नियमवतो योगान्वयं व्याचष्टे -
कथं पुनरित्यादिना ।
अन्नस्य नियतत्वम् अर्धम् अशनस्य इत्यादि, विहारस्य नियतत्वं योजनान्न परं गच्छेत् इत्यादि, कर्मसु चेष्टायाः नियतत्वं वाङ्नियमादि, रात्रौ प्रथमतः दशघटिकापरिमिते काले जागरणम् , मध्यतः स्वपनम् , पुनरपि दशघटिकापरिमिते जागरणम् इति स्वप्नावबोधयोः नियतकालत्वम् । एवं प्रयतमानस्य योगिनो भवतः योगस्य फलम् आह -
दुःखहेति ।
सर्वाणि इति आध्यात्मिकादिभेदभिन्नानि, इत्यर्थः ।
यथोक्तयोगमन्तरेणापि स्वप्नादौ दुःखनिवृत्तिरस्ति, इति विशिनष्टि -
सर्वेति ।
विशुद्धविज्ञानद्वारा, इति शेषः
॥ १७ ॥
सफलस्य साङ्गस्य योगस्य उक्त्यनन्तरम् , ‘यदा हि’(भ. गी. ४-७) इत्यादौ उक्तकालानुवादेन युक्तं लक्षयितुं अनन्तरश्लोकप्रवृत्तिं दर्शयति -
अथ अधुनेति ।
विशेषेण संयतत्वमेव सङ्क्षिपति -
एकाग्रतामिति ।
आत्मन्येव इति एवकारार्थं कथयति -
हित्वेति ।
केवलत्वम् - अद्वितीयत्वम् । तस्य आत्मस्थितिं विवृणोति -
स्वात्मनीति ।
चित्तस्य हि कल्पितस्य आत्मैव तत्त्वम् । तत्पुनः अन्यतः सर्वतो निवारितम् अधिष्ठाने निमग्नं तिष्ठति, इति भावः ।
तस्याम् अवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृष्णो युक्तो व्यवह्रियते, इत्याह -
निःस्पृह इति
॥ १८ ॥
उपमा - योगिनः चित्तस्थैर्यस्य उदाहरणम् , इत्यर्थः । उपमाशब्दस्य प्रदीपविषयत्वसिद्ध्यर्थं करणव्युत्पत्तिं दर्शयति -
उपमीयत इति ।
योगिनः - यथोक्तविशेषणवतः चित्तस्थैर्यस्य, इति शेषः
॥ १९ ॥
द्विविधः समाधिः सम्प्रज्ञातः असम्प्रज्ञातश्च । ध्येयैकाकारसत्ववृत्तिः भेदेन कथञ्चित् ज्ञायमाना सम्प्रज्ञातः समाधिः । कथमपि पृथक् अज्ञायमाना सैव सत्ववृत्तिः असम्प्रज्ञातः समाधिः । तत्र सामान्येन समाधिलक्षणमभिधाय असम्प्रज्ञातस्य सामधेः अधुना लक्षणं विवक्षन् आह -
एवमिति ।
काले समाध्युपलक्षिते । एवकारः तुष्यति इत्यनेन सम्बध्यते ।
चकारस्य सम्बन्धमाह -
यस्मिंश्चेति ।
कालस्तु पूर्ववत् ।
कर्मकारकत्वेन निर्दिष्टम् आत्मानं तत्पदार्थत्वेन व्याचष्टे -
परमिति ।
आत्मनि इत्यस्य त्वम्पदार्थविषयत्वमाह -
एवेति ।
परमात्मानं प्रतीच्येव तद्भावेन अपरोक्षीकुर्वन् अतुष्टिहेत्वभावात् तुष्यत्येव इत्यर्थः । तस्मिन् काले योगसिद्धिः भवति इति शेषः
॥ २० ॥
योगसिद्धिकालं प्रकारान्तरेण प्रकटयति -
किञ्चेति ।
बुद्धिशब्दः स्वानुभवविषयः ।
इन्द्रियनिरपेक्षस्वानुभवगम्यत्वोक्तेः ‘अतीन्द्रिय ‘मिति पुनरुक्तम् , इत्याशङ्क्य, आह -
अविषयेति ।
पदच्छेदः -
न चेत्यादि ।
अपेक्षितपूरणम् -
आत्मस्वरूप इति ।
तस्मात् तत्त्वत इति सम्बन्धः । नैव इति एवकारसम्बन्धोक्तिः । चकारः सप्तम्या सम्बन्धनीयः । इति पूर्ववत् सम्बन्धः
॥ २१ ॥
प्रकारान्तरेण प्रकृतं योगं विशिनष्टि -
किञ्चेति ।
आत्मलाभात् न परं विद्यते, इति स्मृत्वा व्याचष्टे -
यम् आत्मलाभमिति ।
लाभान्तरम् - पुरुषार्थभूतम् , ततः - तस्मात् , आत्मलाभादिति यावत् । तं विद्यात् इति उत्तरत्र सम्बन्धः ।
यस्मिन् इत्याद्यवतारयति -
किञ्चेति ।
अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन् स्थितो योगी, तं योगं विद्यात् , इति पूर्ववत्
॥ २२ ॥
तं विद्यात् इत्याद्यपेक्षितं पूरयन् अवतारयति -
यत्रेति ।
तमिति आत्मावस्थाविशेषं परामृशति ।
दुःखसंयोगस्य वियोगः वियोगसंज्ञितो युज्यते, स कथं योगसंज्ञितः स्यात् ? इत्याशङ्क्य, आह -
विपरीतेति ।
इयं हि योगावस्था समुत्खातनिखिलदुःखभेदा, इति दुःखसंयोगभावो योगसंज्ञाम् अर्हति, इत्यर्थः ।
उपसंहृते योगफले किमिति पुनः योगस्य कर्तव्यत्वम् उच्यते ? तत्र आह -
योगफलमिति ।
प्रकारान्तरेण योगस्य कर्तव्यत्वोपदेशारम्भः अत्र अन्वारम्भः ।
योगं युञ्जानः तत्क्षणात् उक्तां संसिद्धिं अलभमानः संशयानो निवर्तेत इति, तन्निवृत्त्यर्थं पुनः कर्तव्योपदेशः अर्थवान् , इति मत्वा, आह -
निश्चयेति ।
तयोः साधानविधानमेव अक्षरयोजनया साधयति -
स यथेति ।
इह जन्मनि जन्मान्तरे वा सेत्स्यति, इति अध्यवसायेन योक्तव्यः - कर्तव्यः
॥ २३ ॥
इतश्च योगस्य कर्तव्यत्वम् , इति प्रतिजानीते -
किञ्चेति ।
केन क्रमेण कर्तव्यत्वम् इत्यपेक्षायाम् , आह -
सङ्कल्पेति ।
सङ्कल्पः - शोभनाध्यासः ।
सर्वान् इत्युक्त्वा पुनः अशेषत इति पुनरुक्तिः, इत्याशङ्क्य, आह -
निर्लेपेनेति ।
तथा शेषो न भवति, तथा सर्वेषां कामानां शोभनाध्यासाधीनानां त्यागस्य योगानुष्ठानशेषत्ववत् विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यम् , इत्याह -
किञ्चेति
॥ २४ ॥
कामत्यागद्वारेण इन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शङ्कितारं प्रति आह -
शनैः शनैरिति ।
सहसा विषयेभ्यः सकाशात् उपरमे मनसो न स्वास्थ्यं सम्भवति, इत्यभिप्रेत्य, आह -
न सहसेति ।
तत्र साधनं धैर्ययुक्ता बुद्धिः, इत्याह -
कयेत्यादिना ।
भूम्यादीः अव्याकृतपर्यन्ताः प्रकृतीः अष्ट पूर्वत्र पूर्वत्र धारणं कृत्वा उत्तरोत्तरक्रमेण प्रविलापयेत् , इति भावः ।
अव्यक्तम् आत्मनि प्रविलाप्य, आत्ममात्रनिष्ठं मनो विधाय, चिन्तयितव्याभावात् अतिस्वस्थो भवेत् , इत्याह -
आत्मेति ।
तत्र संस्थितिमेव मनसो विवृणोति -
आत्मैवेति ।
योगविधिम् उपक्रम्य, किमिदम् उक्तम् ? इत्याशङ्क्य, आह -
एष इति ।
यत् मनसो नैश्चल्यम् , इति शेषः
॥ २५ ॥
ननु मनसः शब्दादिनिमित्तानुरोधेन रागद्वेषवशात् अत्यन्तचञ्चलस्य अस्थिरस्य तत्र तत्र स्वभावेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं च ? इति, तत्र आह -
तत्रेति ।
योगप्रारम्भः सप्तम्यर्थः । एवं शब्देन ‘मनसैव’ इत्यादिः उक्तप्रकारो गृह्यते । स्वाभाविको दोषो मिथ्याज्ञानाधीनो रागादिः ।
शब्दादेः मनसो नियमनं कथम् ? इत्याशङ्क्य, आह -
तत्तन्निमित्तमिति ।
याथात्म्यनिरूपणम् - क्षयिष्णुत्वदुःखसंमिश्रत्वाद्यालोचनम् , तेन तत्र तत्र वैराग्यभावनया तत्तत् आभासीकृत्य ततस्ततो नियम्य एतन्मनः, इति सम्बन्धः ।
मनोवशीकरणेन उपशमे किं स्यात् ? इत्याह -
एवमिति ।
योगाभ्यासः - विषयविवेकद्वारा मनोनिग्रहाद्व्यावृत्तिः, प्रशान्तम् - आत्मन्येव प्रलीनम् , इति यावत्
॥ २६ ॥
मनस्तद्वृत्त्योः अभावे स्वरूपभूतसुखाविर्भावस्य स्वापादौ प्रसिद्धिं द्योतयितुं ‘हि ‘शब्दः । मोहादिक्लेशप्रतिबन्धात् योगिनि यथोक्तसुखाप्राप्तिम् आशङ्क्य, मनोविलयम् उपेत्य परिहरति -
शान्तेति ।
तस्य अस्मदादिविलक्षणत्वम् आह -
ब्रह्मभूतमिति ।
अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वम् , इत्याशङ्क्य, आह -
ब्रह्मैवेति ।
धर्माधर्मप्रतिबन्धात् अयुक्ता यथोक्तसुखप्रप्तिः, इत्याशङ्क्य उक्तम् -
अकल्मषमिति
॥ २७ ॥
उत्तमं सुखं योगिनो भवति इत्युक्तम् , तदेव स्फुटयति -
युञ्जन्निति ।
क्रमः यथोक्तो ‘मनसैवेन्द्रियग्रामम् ‘ इत्यादिः । योगान्तरायः - रागद्वेषादिः, सदा आत्मानं युञ्जन्निति सम्बन्धः । पापपदं उपलक्षणं पुण्यस्यापि । संस्पर्शः - तादात्म्यम् ऐकरस्यम् । उत्कर्षः - विषयासंस्पर्शः
॥ २८ ॥
योगम् अनुतिष्ठतो ब्रह्मभूतस्य सर्वानर्थनिवृत्तिनिरतिशयसुखप्राप्तिलक्षणो द्विविधोमोक्षः हेतुना केन स्यात् ? इति शङ्कमानं प्रति आह -
इदानीमिति ।
स्वम् आत्मानम् ईक्षते, इति सम्बन्धः ।
सर्वभूतान्यपि तद्विशेषणत्वेन पश्यति चेत् न शुद्धवस्तुज्ञानमिति न अविद्यानिवृत्तिः, इत्याशङ्क्य, आह -
सर्वभूतानीति ।
उक्ते दर्शने चित्तसमाधानम् उपायन्दर्शयति -
योगेति ।
विषमेषु उपाधिषु तदनुरोधात् विषममेव दर्शनं तदुपदर्शितदर्शनप्रतिबन्धकं प्रत्युदस्यति -
सर्वत्रेति
॥ २९ ॥
उक्तस्य एकत्वज्ञानस्य फलविकल्पत्वशङ्कां शिथिलयति -
एतस्येति ।
तत्र एकत्वदर्शनम् अनुवदति -
यो मामिति ।
तत्फलम् इदानीम् उपन्यस्यति -
तस्येति ।
ज्ञानानुवादभागं विभजते -
यो मामिति ।
तत्फलोक्तिभागं व्याचष्टे -
तस्यैवमिति ।
अनेकत्वदर्शिनोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह -
नेति ।
अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः ।
‘स च’ इत्यादि व्याचष्टे -
विद्वानिति ।
विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् -
नेत्यादिना ।
अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः ।
ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह -
तस्य चेति ।
आत्मैकत्वेऽपि कथं मिथोऽपरोक्षत्वम् , तत्र आह -
स्वात्मेति ।
विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति -
यस्माच्चेति ।
तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः
॥ ३० ॥
पूर्वार्धेन अनूद्य उत्तरार्धेन फलविधिः, इति मत्वा आह -
इत्येतदिति ।
रागादिरहितस्य यमनियमादिसंस्कारवतः स्वैरप्रवृत्त्यसम्भवेऽपि, ताम् अङ्गीकृत्य ज्ञानं स्तौति -
सर्वथेति ।
प्रतिभासतोऽपि यथेष्टचेष्टाऽङ्गीकारे कुतो ज्ञानवतो नित्यमुक्तत्वम् , प्रातीतिकदुराचारप्रतिबन्धात् , इत्याशङ्क्य, आह -
न मोक्षमिति
॥ ३१ ॥
स्वैराचरणस्य अप्रतिबन्धकत्वकथनात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रति अप्रतिबन्धकत्वप्रसक्तौ उक्तम् -
किञ्चेति ।
अन्यदपि कि़ञ्चित् उच्यते परमयोगिनो निर्देशद्वारा योगमाहात्म्यम् , इत्यर्थः ।
उपमेव - औपम्यम् , आत्मा च तत् औपम्यञ्च, तेन । सर्वभूतेषु यः समं पश्यति इत्युक्ते तदेव समदर्शनं प्रश्नपूर्वकं विवृणोति -
किमित्यादिना ।
विकल्पार्थत्वं वारयति -
वाशब्द इति ।
उपदर्शितसमदर्शनफलम् अभिलषति -
न कस्यचिदिति ।
किमपेक्षया तस्य परमत्वम् ? तत्र आह -
सर्वेति
॥ ३२ ॥
“ मनश्चञ्चलमस्थिरम् “, इत्युपश्रृत्य निर्विशेषे चित्तस्थैर्यं दुश्शकम् इति मन्वानः तदुपायबुभुत्सया पृच्छति, इति प्रश्नम् उत्थापयति -
एतस्येति ।
तत्प्राप्त्युपायं शुश्रूषुः, इति सम्बन्धः ।
॥ ३३ ॥
मनसश्चञ्चलत्वेऽपि तन्निग्रहद्वारा योगस्थैर्यं सम्पाद्यताम् , इत्याशङ्क्या, आह -
प्रसिद्धमिति
कृष्णपदपरिनिष्पत्तिप्रकारं सूटयति -
कृष्ण इतीति ।
कथं कर्षकत्वं आप्तकामस्य भगवतः सम्भवति इत्याशङ्क्य आह -
भक्तेति ।
ऐहिकामुष्मिकसर्वसम्पदां आकर्षणशीलत्वाच्च इति द्रष्टव्यम् ।
प्रमथ्नाति क्षोभयति । तदेव क्षोभकत्वं प्रकटयति -
विक्षिपतीति ।
दुर्निवारत्वं अभिप्रेतात् विषयात् आक्रष्टुं अशक्यत्वं विशेषणान्तरमाह - किञ्चेति । अवच्छेद्यत्वं विशेषणान्तरमाह -
किञ्च दृढम् इति ।
तन्तुनागः वरुणपाशशब्दितः जलचारी पदार्थः अत्यन्तदृढतया छेत्तुमशक्यत्वेन प्रसिद्धः विवक्षितः ।
वायोरित्युक्तं व्यनक्ति -
यथेति
॥ ३४ ॥
प्रश्नम् अङ्गीकृत्य प्रतिवचनम् उत्थापयति -
श्रीभगवानिति ।
कुत्र संशयराहित्यम् ? तत्र आह -
मन इति ।
कथं तर्हि मनोनिरोधो भवति, तत्र आह -
किन्तु इति ।
अभ्यासस्वरूपं सामान्येन निदर्शयति -
अभ्यासो नामेति ।
कस्याञ्चित् चित्तभूमौ इति अविशेषितः ध्येयो विषयो निर्दिश्यते, समानप्रत्ययावृत्तिः विजातीयप्रत्ययानन्तरिता इति शेषः । चित्तस्येति षष्ठी प्रत्ययस्य तद्विकारत्वद्योतनार्था ।
वैराग्यस्वरूपं निरूपयति -
वैराग्यमिति ।
तेषु वैतृष्ण्यं वैराग्यं नाम, इति सम्बन्धः ।
तत्र हेतुं सूचयति -
दोषेति ।
विषयेषुतृष्णाविषयेषु दोषदर्शनम् अभ्यस्यते । तेन वैतृष्ण्यं जायते ।
तेन निगृह्यमाणं निर्दिशति -
विक्षेपेति ।
तस्मिन् गृहीते - निरुद्धे मनोनिरोधेऽस्य किं स्यात् ? इत्यपेक्षायाम् आह -
एवमिति ।
अभ्यासहेतुकवैराग्यद्वारा चित्तप्रचारनिरोधे निरुद्धवृत्तिकं मनोविषयविमुखम् अन्तर्निष्ठं भवति, इत्यर्थः
॥ ३५ ॥
संयतात्मनो योगप्राप्तिः सुलभा, इत्युक्त्वा, व्यतिरेकं दर्शयति -
यः पुनरिति ।
व्यतिरेकोपन्यासपरं पूर्वार्धम् अनूद्य व्याकरोति - असंयतेति । पूर्वोक्तान्वयव्याख्यानपरम् उत्तरार्धं व्याचष्टे -
यस्त्वित्यादिना ।
अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादौ आस्थावता भवितव्यम् , इत्याह -
यततेति ।
उपायो वैराग्यादिपूर्वको मनोनिरोधः
॥ ३६ ॥
प्रश्नान्तरम् उत्थापयति -
तत्रेत्यादिना ।
मनोनिरोधस्य दुःखसाध्यत्वम् आशङ्क्य परिहृते सति, प्रष्टा पुनः अवकाशं प्रतिलभ्य उवाच, इति सम्बन्धः ।
लोकद्वयप्रापककर्मसम्भवे कुतो योगिनो नाशाशङ्का ? इत्याशङ्क्य, आह -
योगाभ्यासेति ।
तथापि योगानुष्ठानपरिपाकपरिप्राप्तिसम्यग्दर्शनसामर्थ्यात् मोक्षोपपत्तौ कुतः तस्य नाशाशङ्का ? इति चेत् , मैवम् , अनेकान्तरायवत्त्वात् योगस्य इह जन्मनि प्रायेण संसिद्धेः असिद्धिः, इत्यभिसन्धाय आह -
योगसिद्धीति ।
अभ्युदयनिःश्रेयसबहिर्भावो नाशः । योगमार्गे तत्फलस्य सम्यग्दर्शनस्य अदर्शनात् , इति शेषः ।
तर्हि ततो बहिर्मुखत्वमेव आत्यन्तिकं संवृत्तम् , इत्याश्क्य, आह -
श्रद्धयेति ।
तर्हि योगमार्गम् आश्रयते ? नेत्याह -
योगादिति ।
मरणकाले व्याकुलेन्द्रियस्य ज्ञानसाधनानुष्ठानावकाशाभावात् युक्तं ततश्चलितमानसत्वम् , इत्याशङ्क्य, आह -
भ्रष्टेति ।
गम्यत इति गतिः - पुरुषार्थः, सामान्यप्रश्नम् अन्तर्भाव्यविशेषप्रश्नो द्रष्टव्यः
॥ ३७ ॥
प्रश्नमेव विवृणोति -
कच्चिदिति ।
प्रशस्तप्रश्नार्थत्वं कच्चिदित्यस्य अङ्गीकृत्य व्याचष्टे -
किमिति ।
उभयविभ्रष्टत्वं स्पष्टयति -
कर्मेत्यादिना ।
वायुना छिन्नमु - विशकलितम् अभ्रं यथा नश्यति तद्वत् , इत्याह -
छिन्नेति ।
नाशाशङ्कनिमित्तम् आह -
निराश्रय इति ।
कर्ममार्गरूपावष्टम्भाभावेपि ज्ञानमार्गावष्टम्भः तस्य भविष्यति, इत्याशङ्क्य आह -
विमूढः सन् इति ।
नहि कर्मिणं प्रति इयम् आशङ्का युक्ता, अभिलाषं त्यक्त्वा ईश्वरे समर्प्य वा कर्म अनुतिष्ठतः, निरुपचारेण तद्भ्रंशवचनासम्भवात् । सर्वकर्मसंन्यासिनः तु विहितानां त्यागात् ज्ञानोपायाच्च विच्युतेः अनर्थप्राप्तिशङ्का युक्ता इति भावः
॥ ३८ ॥
यथोपदर्शितसंशयापाकरणार्थम् अर्जुनो भगवन्तं प्रेरयन् आह -
एतदिति ।
मत्तोऽन्यः कश्चित् ऋषिर्वा देवो वा त्वदीयं संशयं छेत्स्यति इत्याशङ्क्य, आह -
त्वदन्य इति ।
अन्यस्य संशयछेत्तुः अभावे फलितम् आह -
अत इति ।
॥ ३९ ॥
योगिनो नाशाशङ्कां परिहरन् उत्तरम् आह -
भगवानिति ।
यदुक्तम् उभयभ्रष्टो योगी नश्यति, इति, तत्र आह -
पार्थेति ।
तत्र हेतुम् आह -
नहीति ।
योगिनो मार्गद्वयात् विभ्रष्टस्य ऐहिको नाशः - शिष्टगर्हालक्षणो न भवतीति श्रद्धादेः सद्भावात् , तथापि कथम् आमुष्मिकनाशशून्यत्वम् ? इत्याशङ्क्य, तद्रूपनिरूपणपूर्वकं तदभावं प्रतिजानीते -
नाशो नामेति ।
तत्र हेतुभागं विभजते -
नहीत्यादिना ।
उभयभ्रष्टस्यापि श्रद्धेन्द्रियसंयमादेः सामिकृतश्रवणादेश्च भावात् उपपन्नं शुभकृत्त्वम् ।
तातेति कथं पुत्रस्थानीयशिष्यः सम्बोध्यते ? पितुरेव तातशब्दत्वात् , इत्याशङ्क्य, आह -
तनोतीति ।
तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनम् अविरुद्धम् , इत्यर्थः । न गच्छति कुत्सितां गतिम् , कल्याणकारित्वात् , इति नाशाभावः
॥ ४० ॥
योगभ्रष्टस्य लोकद्वयेऽपि नाशाभावे किं भवति ? इति पृच्छति -
किन्त्विति ।
तत्र श्लोकेन उत्तरम् आह -
प्राप्येति ।
कथं संन्यासी इति विशेष्यते ? तत्त्र आह -
सामर्थ्यादिति ।
कर्मणि व्यापृतस्य कर्मिणो योगमार्गप्रवृत्त्यनुपपत्तेः, तत्प्रवृत्तावपि फलाभिलाषविकलस्य ईश्वरे समर्पितसर्वकर्मणः तद्भ्रंशाशङ्कानवकाशात् , इत्यर्थः । समानां नित्यत्वं मानुषसमाविलक्षणत्वम् । वैराग्याभावविवक्षया विभूतिमतां गृहे जन्म, इति विशिष्यते
॥ ४१ ॥
श्रद्धावैराग्यादिकल्याणाधिक्ये पक्षान्तरम् आह -
अथेति ।
योगिनामिति कर्मिणां ग्रहणं मा भूत् , इति विशिनष्टि -
धीमतामिति ।
ब्रह्मविद्यावतां शुचीनां दरिद्राणां कुलेजन्म दुर्लभादपि दुर्लभं प्रमादकारणाभावात् , इत्याह -
एतद्धीति ।
किमपेक्ष्य अस्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वम् ? तदाह -
पूर्वमिति ।
यद्यपि विभूतिमतामपि शुचीनां गृहे जन्म दुःखलभ्यम् , तथापि तदपेक्षया इदं जन्म दुःखलभ्यतरम् , यत् ईदृशं शुचीनां दरिद्राणां विद्यावताम् , इति विशेषणोपेते कुले लोके जन्म वक्ष्यमाणम् , इत्यर्थः
॥ ४२ ॥
यत् उत्तमतरं जन्म उक्तम् , तस्य उत्तमत्वे हेत्वन्तरम् आह -
यस्मादिति ।
बुद्ध्येति आत्मविषयया, इति शेषः । पूर्वस्मिन् देहे भवम् - तत्र अनुष्ठितसाधनविशेषयुक्तम् , इत्यर्थः ।
तर्हि यथोक्तजन्मनि साधनानुष्ठानम् अन्तरेणैव बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -
यतते चेति ।
प्रयत्नः श्रवणाद्यनुष्ठानविषयः
॥ ४३ ॥
यदि पूर्वसंस्कारः अस्य इच्छाम् उपनयन् न प्रवर्तयति, तथा च प्रवृत्तिः अनिच्छया स्यात् , इत्याशङ्क्य आह -
पूर्वेति ।
स हि योगभ्रष्टः समनन्तरजन्मकृतसंस्कारवशात् उत्तरस्मिन् जन्मनि अनिच्छन्नपि योगं प्रत्येव आकृष्टो भवति, इत्यर्थः ।
तत्र कोमुतिकन्यायं सूचयति -
जिज्ञासुरिति ।
पूर्वार्धं विभजते -
यः पूर्वेति ।
तस्मात् , न इच्छया तस्य प्रवृत्तिः, इति शेषः ।
योगभ्रष्टस्य अधर्मादिप्रतिबन्धेऽपि तर्हि पूर्वाभ्यासवशात् बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -
नेत्यादिना ।
यदि योगभ्रष्टेन योगाभ्यासजनितसंस्कारप्राबत्यात् प्रबलतराधर्मभेदरूपं कर्म न कृतं स्यात् , तदा तेन संस्कारेण वशीकृतः सन् इच्छादिरहितोऽपि बुद्धिसम्बन्धभाक् भवति इत्यर्थः ।
विपक्षे योगसंस्कारस्य अभिभूतत्वात् न कार्यारम्भकत्वम् , इत्याह -
अधर्मश्चेदिति ।
योगजसंस्कारस्य अधर्माभिभूतस्य कार्यम् अकृत्वैव अभिभावकप्राबल्ये प्रणाशः स्यात् , इत्याशङ्क्य, आह -
तत्क्षयेत्विति ।
कालव्यवधानात् निवृत्तिं शङ्कित्वा उत्कम् -
नेति ।
तृणजलायुकादृष्टान्तश्रुत्या संस्कारस्य दीर्घतायाः समाधिगतत्वात् , इति भावः ।
कॊमुतिकन्यायोक्तिपरम् उत्तरार्धं विभजते -
जिज्ञासुरपीत्यादिना ।
अत्रापि ‘संन्यासी’ इति विशेषणं पूर्ववत् अवधेयम् , इत्याह -
सामर्थ्यादिति ।
न हि कर्मी कर्ममार्गे प्रवृत्तः ततो भ्रष्टः शङ्कितुं शक्यते, अतः संन्यासी पूर्वोक्तैः विशेषणैः विशिष्टो योगभ्रष्टोऽभीष्टः । सोऽपि वैदिकं कर्म तत्फलं च अतिवर्तते, किमुत योगं बुद्ध्वा तन्निष्ठः - सदा अभ्यासं कुर्वन् कर्म तत्फलं च अतिवर्तत इति वक्तव्यम् , इति योजना । योगनिष्ठस्य कर्मतत्फलातिवर्तनं ततोऽधिकफलावाप्तिः विवक्ष्यते
॥ ४४ ॥
योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुम् उत्तरश्लोकम् अवतारयति -
कुतश्चेति ।
मृदुप्रयत्नोऽपि क्रमेण मोक्ष्यते चेत् अधिकप्रयत्नस्य क्लेशहेतोः अकिञ्चित्करत्वम् , इत्याशङ्क्य, हेत्वन्तरमेव प्रकटयति - प्रयत्नादिति । तत्र - योगविषये प्रयत्नातिरेके सति, इत्यर्थः । ततः - सञ्चितसंस्कारसमुदायात् , इति यावत् । समुत्पन्नसम्यग्दर्शनवशात् प्रकृष्टा गतिः संन्यासिना लभ्यते, तेन शीघ्रं मुक्तिम् इच्छन् अधिकप्रयत्नो भवेत् , अल्पप्रयत्नस्तु चिरेणैव मुक्तिभागी, इत्यर्थः
॥ ४५ ॥
सम्यग्ज्ञानद्वारा मोक्षहेतुत्वं योगस्य उक्तम् अनूद्य योगिनः सर्वाधिकत्वम् आह -
यस्मादिति ।
योगस्य सर्वस्मात् उत्कर्षात् अवश्यकर्तव्यत्वाय योगिनः सर्वाधिक्यं साधयति -
तपस्विभ्य इति ।
योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्यः अधिकत्वम् ? इत्याशङ्क्य, आह -
ज्ञानमिति ।
योगिनः सर्वाधिकत्वे फलितम् आह -
तस्मादिति
॥ ४६ ॥
ननु आदित्यो विराडात्मा सूत्रं कारणम् अक्षरम् इत्येषाम् उपासका भूयांसो योगिनो गम्यन्ते, तेषां कतमः श्रेयान् इष्यते ? तत्र आह -
योगिनामिति ।
यो भगवन्तं सगुणं निर्गुणं वा यथोक्तेन चेतसा श्रद्दधानः सन् , अनवरतम् अनुसन्धत्ते स युक्तानां मध्ये अतिशयेन युक्तः - श्रेयान् , ईश्वरस्य अभिप्रेतः, न हि तदीयो अभिप्रायः अन्यथा भवितुम् अर्हति, इत्यर्थः । तदनेन अध्यायेन कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयता, साङ्गं च योगं विवृण्वता, मनोनिग्रहोपायोपदेशेन योगभ्रष्टस्य आत्यन्तिकनाशशङ्कावकाशं शिथिलयता, त्वम्पदार्थाभिज्ञस्य ज्ञाननिष्ठत्वोक्त्या वाक्यार्थज्ञानात् मुक्तिः, इति साधितम्
॥ ४७ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानान्दज्ञानविरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने षष्ठोऽध्यायः ॥