अद्वैतशारदा

आनन्दगिरिटीका (गीताभाष्य)

षष्ठोऽध्यायः

ध्यान­यो­ग­प्र­स्ता­वा­न­न्तरं तद्यो­ग्य­ता­हे­तु­क­र्मणः स्तुतिं भगवान् उक्तवान् , इत्याह -
श्रीभगवानिति ।

पूर्वो­त्त­रा­ध्या­ययोः सङ्गतिम् अभिदधानो वृत्तम् अनूद्य, अध्यायान्तरम् अवतारयति -
अतीतेति ।

सम्य­ग्द­र्श­न­प्र­क­रणे ध्यानयोगस्य प्रसङ्गाभावं व्युदस्यति -
सम्यगिति ।
सङ्ग्रहविवरणयोः अती­ता­न­न्त­रा­ध्या­ययोः युक्तं हेतु­हे­तु­म­त्त्वम् , इति भावः ।

अध्यायसम्बन्धम् अभिधाय ‘अनाश्रितः कर्मफलम् ‘ इत्या­दि­श्लो­क­द्व­यस्य तात्पर्यम् आह -
तत्रेति ।

कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयितुम् , साङ्गं च योगं विचारयितुम् अध्याये प्रवृत्ते सति, इति सप्तम्यर्थः । संन्यासिना कर्तव्यं कर्म, इत्येवं प्रतिभासं व्युदस्यति -
गृहस्थेनेति ।
कर्तव्यत्वं स्तुति­यो­ग्य­त्वम् अतश्शब्दार्थः ।

समुच्चयवादी सीमाकरणम् आक्षिपति -
नन्विति ।

याव­ज्जी­व­श्र­ति­व­शात् ध्याना­रो­ह­ण­सा­मर्थ्ये सत्यपि कर्मानुष्ठानस्य दुर्वारत्वात् , इति हेतुम् आह -
यावतेति ।

भार्या­वि­यो­गा­दि­प्र­ति­ब­न्धात् याव­ज्जी­व­श्रु­ति­चो­दि­त­क­र्मा­न­नु­ष्ठा­न­वत् वैरा­ग्य­प्र­ति­ब­न्धा­दपि तद­न­नु­ष्ठा­न­स­म्भ­वात् भगवतो विशेषवचनाच्च न यावज्जीवं कर्मा­नु­ष्ठा­न­प्र­सक्तिः, इति परिहरति -
नारुरुक्षोरिति ।

उक्तमेवार्थं व्यतिरेकद्वारेण विवृणोति -
आरु­रु­क्षो­रि­त्या­दिना ।
आरोढुम् इच्छति इति - आरुरुक्षुः, इत्यत्र आरोहणेच्छा विशेषणम् , आरोहणं कृतवान् इति - आरूढः, इत्यत्र पुनः इच्छाविषयभूतम् आरोहणं विशेषणम् । एवं शमकर्मविषययोः भेदेन विशेषणं मर्या­दा­क­र­णा­न­ङ्गी­क­रणे विरुद्धम् आपद्यते । तयोरेवं विभागकरणं च भागवतं सीमानङ्गीकारे न युज्येत, इत्यर्थः ।

विशे­ष­ण­वि­भा­ग­क­र­णयोः अन्यथा उपपत्तिम् आशङ्कते -
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः । षष्ठी निर्धारणे ।

भवतु अधिकारिणां त्रैविध्यम् , तथापि प्रकृते विशेषणादौ किमायातम् ? इत्याशङ्क्य, तृतीयापेक्षया तदुपपत्तिः, इत्याह -
तानपेक्ष्येति ।

आरुरुक्षोः आरूढस्य च भेदे ‘तस्यैव ‘इति प्रकृ­त­प­रा­म­र्शा­नु­प­पत्तिः, इति दूषयति -
न तस्येति ।
यदि अनारुरुक्षुं पुरुषम् अपेक्ष्य ‘अारुरुक्षोः’ इति विशेषणम् , तस्य च कर्म आरोहणकारणम् , अनारूढं च पुरुषम् अपेक्ष्य ‘आरूढस्य’ इति विशेषणम् , तस्य च शमः संन्यासः योगफलप्राप्तौ कारणम् , इति विशे­ष­ण­वि­भा­ग­क­र­णयोः उपपत्तिः ; तदा आरुरुक्षोः आरूढस्य च भिन्नत्वात् प्रकृ­त­प­रा­म­र्शिनः तच्छ­ब्द­स्या­नु­प­पत्तेः न युक्तम् विशे­ष­णा­द्यु­प­पा­द­नम् , इत्यर्थः ।

किञ्च योगम् आरुरुक्षोः तदारोहणे कारणं कर्म इत्युक्त्वा पुनः ‘योगारूढस्य’ इति योग­श­ब्द­प्र­यो­गात् यो योगं पूर्वम् आरुरुक्षुः आसीत् , तस्यैव अपेक्षितं योगम् आरूढस्य तत्फलप्राप्तौ कर्मसंन्यासः शमशब्दवाच्यो हेतुत्वेन कर्तव्य इति वचनात् आरुरुक्षोः आरूढस्य च अभि­न्न­त्व­प्र­त्य­भि­ज्ञा­नात् ऩ तयोर्भिन्नत्वं शङ्कितुं शक्यम् , इत्याह -
पुनरिति ।

यत्तु - याव­ज्जी­व­श्रु­ति­वि­रो­धात् योगा­रो­ह­ण­सी­मा­क­रणं कर्मणोऽनुचितम् - इति, तत्राह -
अत इति ।
पूर्वोक्तरीत्या कर्मतत्त्यागयोः विभागोपपत्तौ श्रुतेः अन्यविषयत्वात् योगम् आरूढस्य मुमुक्षोः जिज्ञासमानस्य नित्य­नै­मि­त्ति­क­क­र्म­स्वपि परि­त्या­ग­सिद्धिः, इत्यर्थः ।

इतश्च यावज्जीवं कर्म कर्तव्यं न भवति, इत्याह -
योगेति ।
संन्यासिनो योगभ्रष्टस्य विना­श­श­ङ्का­व­च­नात् न यावज्जीवं कर्म कर्तव्यं प्रतिभाति, इत्यर्थः ।

ननु - योगभ्रष्टशब्देन गृहस्थस्यैव अभिधानात् तस्यैव अस्मिन्नध्याये योगविधानात् योगा­रो­ह­ण­यो­ग्यत्वे सत्यपि यावज्जीवं कर्म कर्तव्यम् - इति, नेत्याह -
गृहस्थस्येति ।

तेनापि मुमुक्षुणा कृतस्य कर्मणो मोक्षा­ति­रि­क्त­फ­ला­ना­र­म्भ­क­त्वात् योगभ्रष्टोऽसौ छिन्नाभ्रमिव नश्यति, इति शङ्का सावकाशा, इत्याशङ्क्य, आह -
अवश्यं हीति ।
अपौरुषेयात् निर्दोषात् वेदात् फलदायिनी कर्मणः स्वाभाविकी शक्ति अवगता । ब्रह्मभावस्य च स्वत­स्सि­द्ध­त्वात् न कर्मफलत्वम् । अतो मोक्षा­ति­रि­क्त­स्येव फलस्य कर्मारम्भकमिति कर्मिणि योगभ्रष्टेऽपि कर्मगतिं गच्छति इति निरवकाशा शङ्का, इत्यर्थः ।

ननु - मुमुक्षुणा काम्य­प्र­ति­षि­द्धयोः अकरणात् कृतयोश्च नित्य­नै­मि­त्ति­कयोः अफलत्वात् - कथं तदीयस्य कर्मणो नियमेन फलारम्भकत्वम् ? तत्र आह -
नित्यस्य चेति ।
चकारेण नैमित्तिकं कर्म अनुकृष्यते ।

वेद­प्र­म­ण­क­त्वेऽपि नित्य­नै­मि­त्ति­कयोः अफलत्वे दोषम् आह -
अन्यथेति ।
कर्म­णोऽ­नु­ष्ठि­तस्य फला­र­म्भ­क­त्व­ध्रौ­व्यात् गृहस्थो योगभ्रष्टोऽपि कर्मगतिं गच्छतीति न तस्य नाशाशङ्का, इति शेषः ।

इतोऽपि गृहस्थो योग­भ्र­ष्ट­श­ब्द­वाच्यो न भवति, इत्याह -
न चेति ।
ज्ञानं कर्म च इत्युभयम् , ततो भ्रष्टोऽयं नश्यति इति वचनम् , गृहस्थे कर्मिणि सति नार्थवद् भवितुम् अलम् , तस्य कर्मनिष्ठस्य कर्मणो विभ्रंशे हेत्वभावात् तत्फलस्य आवश्यकत्वात् , इत्यर्थः ।

कृतस्य कर्मणो मुमुक्षुणा भगवति समर्पणात् कर्तरि फला­ना­र­म्भ­क­त्वात् अस्ति विभ्रंशकारणम् , इति शङ्कते -
कर्मेति ।

राजा­रा­ध­न­बुद्ध्या धन­धा­न्या­दि­स­म­र्प­णस्य अधि­क­फ­ल­हे­तु­त्वो­प­ल­म्भात् ईश्वरे समर्पणं न भ्रंशकारणम् , इति दूषयति -
नेत्यादिना ।

अधि­क­फ­ल­हे­तु­त्वेऽपि मोक्षहेतुत्वम् इष्यताम् , इति शङ्कते -
मोक्षायेति ।

तदेव चोद्यं विवृणोति -
स्वकर्मणामिति ।

सह­का­रि­सा­म­र्थ्यात् तस्य फलान्तरं प्रति उपा­य­त्वा­सिद्धिः, इति हेतुं सूचयति -
योगेति ।

ध्यानसहितस्य संन्यासस्य मोक्षौपयिकत्वे कुतो योगभ्रष्टम् अधिङ्कृत्य नाशाशङ्का, इत्याशङ्क्य, आह -
योगाच्चेति ।
सहकार्यभावे सामग्र्यभावत् फलानुपपत्तेः युक्ता नाशाशङ्का, इत्यर्थः ।

ध्यानसहितम् ईश्वरे कर्मसमर्पणं मोक्षाय, इत्यत्र प्रमाणाभावात् गृहस्थो योग­भ्र­ष्ट­श­ब्द­वाच्यो न भवति, इति दूषयति -
नेति ।

गृहस्थस्य योग­भ्र­ष्ट­श­ब्द­वा­च्य­त्वा­भावे हेत्वन्तरम् आह -
एकाकीति ।
न खलु एतानि विशेषणानि गृहस्थसमवायीनि सम्भवन्ति । तेन तस्य ध्यान­यो­ग­वि­ध्य­भा­वात् न तं प्रति योग­भ्र­ष्ट­श­ब्द­व­च­नम् उचितम् , इत्यर्थः ।

एकाकित्ववचनं गृहस्थस्यापि ध्यानकाले स्त्रीस­हा­य­त्वा­भा­वा­भि­प्रा­येण भविष्यति, इत्याशङ्क्य, अग्नि­हो­त्रा­दि­वत् ध्यानस्य पत्नी­सा­ध­न­त्वा­भा­वात् अप्रा­प्त­प्र­ति­षे­धात् मैवम् इत्याह -
न चात्रेति ।

विशे­ष­णा­न्त­र­प­र्या­लो­च­न­यापि नायम् एकाकिशब्दो गृहस्थपरो भवितुम् अर्हति, इत्याह -
न चेति ।

किञ्च गृहस्थस्यैव एकाकित्वादि विवक्षित्वा ध्यानयोगविधौ तं प्रति उभ­य­भ्र­ष्ट­प्रश्नो नोपपद्यते, इत्याह -
उभयेति ।
न हि गृहस्थं प्रति उभयस्मात् ज्ञानात् कर्मणश्च विभ्रष्टत्वम् उपेत्य प्रष्टुं युज्यते, तस्य ज्ञानाद् भ्रंशेऽपि कर्मणः तदभावात् अनु­ष्ठी­य­मा­न­क­र्म­भ्रं­शेऽपि प्राग­नु­ष्ठि­त­क­र्म­व­शात् फलप्रतिलम्भात् । अतः यथो­क्त­प्र­श्ना­लो­च­नया न गृहस्थं प्रति ध्यान­वि­धा­नो­प­पत्तिः इत्यर्थः ।

ननु - भगवता संन्यासस्य प्रति­षि­द्ध­त्वात् गृहस्थस्यैव योगविधानात् तस्यैव योग­भ्र­ष्ट­श­ब्द­वा­च्य­त्वम् , इति शङ्कते -
अनाश्रित इत्यनेनेति ।

भगवद्वाक्यं न प्रतिषेधपरम् , इति परिहरति -
न ध्यानेति ।

स्तुतिपरत्वमेव स्फोरयति -
न केवलमिति ।
सत्त्व­शु­द्ध्य­र्थम् अनुतिष्ठन् , इति सम्बन्धः ।

वाक्यस्य उभयपरत्वम् आशङ्क्य वाक्य­भे­द­प्र­स­ङ्गात् मैवमित्याह -
न चेति ।

इतोऽपि भगवतः संन्या­सा­श्र­म­प्र­ति­षे­धोऽ­भि­प्रेतो न भवति, इत्याह -
न च प्रसिद्धमिति ।
तस्य प्रसिद्धं संन्यासित्वं योगित्वं च, इति सम्बन्धः ।

प्रसिद्धत्वमेव व्याकरोति -
श्रुतीति ।

इतोऽपि संन्यासाश्रमं भगवान् न प्रतिषेधति, इत्याह -
स्ववचनेति ।

विरोधमेव साधयति -
सर्व­क­र्मा­णी­त्या­दिना ।

‘अनाश्रितः’(भ. गी. ६-१) इत्यादिवाक्यस्य यथा­श्रु­ता­र्थ­त्वा­नु­प­पत्तेः स्तुतिपरत्वम् उपपादितम् उपसंहरति -
तस्मादिति ।
कर्म­फ­ल­सं­न्या­सि­त्वम् , अत्र मुनिशब्दार्थः ।

स्तुतिपरं वाक्यम् अक्षरयोजनार्थम् उदाहरति -
अनाश्रित इति ।

कर्मफलेऽभिलाषो नास्ति, इत्येतावता कथं तद­ना­श्रि­त­त्व­वा­चो­युक्तिः ? इत्याशङ्क्य व्यतिरेकमुखेन विशदयति -
यो हीति ।

‘कार्यम्’ इत्यादि व्याकरोति -
एवंभूतः सन्निति ।

कथं कर्मिणः संन्यासित्वं योगित्वं च ? कर्मि­त्व­वि­रो­धात् , इत्याशङ्क्य, आह -
ईदृश इति ।

स्तुतेः अत्र विवक्षितत्वात् नानुपपत्तिः चोदनीया, इति मन्वानः सन् , आह -
इत्येवमिति ।

‘न निरग्निः’(भ. गी. ६-१) इत्यादेः अर्थम् आह -
न केवलमिति ।

अग्नयो गार्ह­प­त्या­ह­व­नी­या­न्व­हा­र्थ­प­च­न­प्र­भृ­तयः । ननु - अनग्नित्वे सिद्धम् अक्रियत्वम् अग्नि­सा­ध्य­त्वात् क्रियाणाम् , तथा च ‘न निरग्निः’(भ. गी. ६-१) इत्येतावतैव अपेक्षितसिद्धेः ‘न चाक्रियः’(भ. गी. ६-१) इत्यनर्थकम् , अर्थपुनरुक्तेः - इति, तत्र आह -
अनग्नीति
॥ १ ॥

उत्तरश्लोकस्य तात्पर्यं दर्शयितुं व्यावर्त्यम् आशङ्कां दर्शयति -
ननु चेति ।

प्रसि­द्धि­म­प­रि­त्यज्य अप्रसिद्धिः उपदीयमाना प्रसि­द्धि­वि­रुद्धा, इति चोद्यं दूषयति -
नैष दोष इति ।
उभयस्य - साग्नौ सक्रिये च संन्यासित्वस्य योगित्वस्य च, इत्यर्थः ।

गुणवृत्त्या उभयसम्पादनं प्रश्नपूर्वकं प्रकटयति -
तत् कथं इत्यादिना ।

सम्भवति मुख्ये संन्यासित्वादौ किमिति गौणम् उभयम् अभीष्टम् ? इत्याशङ्य, मुख्यस्य कर्मिणि असम्भवात् गौणमेव स्तुति­सि­द्ध्यर्थं तत् इष्टम् , इत्यभिप्रेत्य, आह -
न पुनरिति ।

चित्त­व्या­कु­ल­त्व­हे­तु­का­म­ना­त्या­गात् चित्त­स­मा­धा­न­सिद्धेः योगित्वं कर्मिणोऽपि युक्तम् , संन्यासित्वं तु तस्य विरुद्धम् , इति शङ्कमानं प्रति उक्ते अर्थे श्लोकम् अवतारयति -
इत्येतमिति ।
परमार्थसंन्यासं प्राहुः, इति सम्बन्धः । इति इत्थं संन्यासस्य प्रार­मा­णि­का­भ्यु­प­ग­त­त्वा­दिति, इतिशब्दो योज्यः । योगं फलतृष्णां परित्यज्य समाहितचेतस्तया, इति शेषः

यदुक्तं - संन्यासित्वं योगित्वं च गृहस्थस्य गौणम् - इति, तद् उत्तरार्धयोजनया प्रकटयितुम् उत्तरार्धम् उत्थापयति -
कर्मयोगस्येति ।

कर्मयोगस्य पर­मा­र्थ­सं­न्या­सेन कर्तृद्वारकं साम्यम् उक्तं व्यक्तीकरोति -
योहीति ।
त्यक्तानि सर्वाणि कर्माणि साधनानि च येन, स तथोक्तः, तस्य भावः तत्ता, तया । सर्वकर्मविषयं तत्फलविषयं च सङ्कल्पं त्यजति, इत्यर्थः ।

सङ्कल्पत्यागे तत्का­र्य­का­म­त्यागः, तत्त्यागे तज्ज­न्य­प्र­वृ­त्ति­त्या­गश्च सिद्ध्यति, इति अभिसन्धाय विशिनष्टि -
प्रवृत्तीति ।

कर्मिण्यपि यथो­क्त­स­ङ्क­ल्प­सं­न्या­सि­त्वम् अस्ति, इत्याह -
अयमपीति ।
तदपरित्यागे व्याकुलचेतस्तया कर्मा­नु­ष्ठा­न­स्यैव दुश्शकत्वात् , इत्यर्थः ।

उक्तमेव साम्यं व्यक्तीकुर्वन् व्यतिरेकं दर्शयति -
इत्येतमिति ।

फल­स­ङ्क­ल्पा­प­रि­त्यागे किमिति समाधानवत्ताभावः ? तत्र आह -
फलेति ।

व्यतिरेकमुखेन उक्तम् अर्थम् , अन्वयमुखेन उपसंहरति -
तस्मादिति ।
हिशब्दार्थस्य ‘यस्मात् ‘ इत्युक्तस्य ‘तस्मात् ‘ इत्यनेन सम्बन्धः ।

कर्मिणं प्रति यथोक्तविधौ हेतु­हे­तु­म­द्भा­वम् अभिप्रेत्य, द्वितीयविधौ हेतुमाह -
चित्तविक्षेपेति ।
॥ २ ॥

पूर्वश्लोके पूर्वो­त्त­रा­र्धा­भ्याम् उक्तम् अनुवदति -
एवमिति

पर­मा­र्थ­सं­न्या­सस्य कर्म­यो­गा­न्त­र्भावे कर्मयोगस्यैव सदा कर्तव्यत्वम् आपद्येत, तेन इतरस्यापि कृतत्वसिद्धेः, इत्याशङ्क्य, उक्ता­नु­वा­द­पू­र्व­कम् उत्त­र­श्लो­क­ता­त्प­र्यम् आह -
ध्यानयोगस्येति ।

भाविन्या वृत्त्या मुनेर्योगम् आरोढुम् इच्छोः इष्यमाणस्य योगारोहणस्य कर्महेतुश्चेद् अपेक्षितम् योगम् आरूढस्यपि तत्फलप्राप्तौ तदेव कारणं भविष्यति तस्य कारणत्वे क्लृप्त­श­क्ति­त्वात् , इत्याशङ्क्य, आह -
योगारूढस्येति ।

अनारूढस्य इत्येतस्यैव अर्थम् स्फुटयति -
ध्यानेति ।

मुनित्वं कर्म­फ­ल­सं­न्या­सिनि औपचारिकम् , इत्याह -
कर्मफलेति ।
साधनं चित्त­शु­द्धि­द्वारा ध्यान­यो­ग­प्रा­प्ती­च्छा­याम् , इति शेषः । ‘तस्य’ इति प्रकृतस्य कर्मिणो ग्रहणम् ।

एवकारो भिन्नक्रमः शमशब्देन सम्बध्यते । कस्य अन्य­यो­ग­व्य­व­च्छे­देन शमो हेतुः ? इति, तत्र आह -
योगा­रू­ढ­त्व­स्येति ।

सर्व­व्या­पा­रो­प­र­म­रू­पो­प­श­मस्य योगारूढत्वे कारणत्वं विवृणोति -
यावद्यावदिति ।
सर्व­क­र्म­नि­वृत्तौ आयासाभावात् वशीकृतस्य इन्द्रि­य­ग्रा­मस्य चित्तसमाधाने योगारूढत्वं सिध्यति, इत्यर्थः ।

सर्वकर्मोपरमस्य पुरु­षा­र्थ­सा­ध­नत्वे पौराणिकीं सम्मतिम् आह -
तथा चेति ।
एकता सर्वेषु भूतेषु वस्तुनो द्वैता­भा­वो­प­ल­क्षि­त­त्वम् , इति प्रतिपत्तिः । समता - तेष्वेव औपाधिकविशेषेऽपि स्वतो निर्विशेषत्वधीः । सत्यता - तेषामेव हितवचनम् । शीलम् - स्वभावसम्पत्तिः । स्थितिः - स्थैर्यम् । दण्डनिधानम् - अहिंसनम् । आर्जवम् - अवक्रत्वम् । क्रियाभ्यः सर्वाभ्यः सकाशात् उपरतिश्च इति, एतदुक्तं सर्वं यथा - यादृशम् , एतादृशं नान्यद् ब्राह्मणस्य वित्तम् - पुमर्थसाधनम् , अस्ति । तस्मात् एतदेव अस्य निरतिशयं पुरुषार्थसाधनम् , इत्यर्थः ॥ ३ ॥

योगप्राप्तौ कारणकथनानन्तरं तत्प्राप्तिकालं दर्शयितुं श्लोकान्तरम् अवतारयति -
अथेति ।
समाधानावस्था ‘यदा’ इत्युच्यते । अत एवोक्तं समाधीयमानचित्तो योगी, इति । शब्दादिषु कर्मसु च अनुषङ्गस्य योगा­रो­ह­ण­प्र­ति­ब­न्ध­क­त्वात् तदभावस्य तदुपायत्वं प्रसिद्धम् , इति द्योतयितुं ‘हि’ इत्युक्तम् ।

सर्वेषाम् अपि सङ्कल्पानां योगा­रो­ह­ण­प्र­ति­ब­न्ध­क­त्वम् अभिप्रेत्य सर्व­स­ङ्क­ल्प­सं­न्यासी इत्यत्र विवक्षितम् अर्थम् आह -
सर्वानिति ।

सर्व­स­ङ्क­ल्प­स­न्या­सेऽपि सर्वेषां कामानां कर्मणां च प्रति­ब­न्ध­क­त्व­स­म्भवे कुतो योगप्राप्तिः ? इत्याशङ्क्य, आह -
सर्वेति ।

सर्व­स­ङ्क­ल्प­प­रि­त्यगे यथो­क्त­वि­ध्य­नु­ष्ठा­नम् , अयत्नसिद्धम् इति मन्वानः सन् आह -
सङ्कल्पेति ।
मूलोन्मूलने च तत्का­र्य­नि­वृत्तिः अयत्नसुलभा, इति भावः ।

तत्र प्रमाणम् आह -
सङ्कल्पमूल इति ।

तत्र अन्वयव्यतिरेकौ अभिप्रेत्य उक्तम् उपपादयति -
कामेति ।

सर्व­स­ङ्क­ल्पा­भावे कामाभाववत् कर्माभावस्य सिद्धत्वेऽपि कर्मणां कामकार्यत्वात् तन्नि­वृ­त्ति­प्र­यु­क्ता­मपि निवृत्तिम् उपन्यस्यति -
सर्वकामेति ।

यदुक्तं कर्मणां कामकार्यत्वम् , तत्र श्रृतिस्मृती प्रभाणयति -
स यथेति ।
स पुरुषः स्वरूपम् अजानन् यत्फलकामो भवति, तत्साधनम् अनुष्ठेयतया बुद्धो धारयति, इति तत्क्रतुकर्भवति । यच्च अनुष्ठेयतया गृह्णाति, तदेव कर्म बहिरपि करोति, इति कामाधीनं कर्म उक्तम् , इति श्रुत्यर्थः । कामजन्यं कर्म, इति अन्व­य­व्य­ति­रे­क­सि­द्धम् , इति द्योतयितुं स्मृतौ ‘हि’ शब्दः ।

न्यायमेव दर्शयति -
नहि सर्वसङ्कल्पेति ।
स्वापादौ अदर्शनात् , इत्यर्थः । नित्य­नै­मि­त्ति­क­क­र्मा­नु­ष्ठानं दुरनिरस्तम् , इति वक्तुम् ‘अपि’ शब्दः ।

श्रुति­स्मृ­ति­न्या­य­सि­द्धम् अर्थम् उपसंहरति -
तस्मादिति
॥ ४ ॥

योगारूढस्य किं स्यात् ? इत्याशङ्क्य, आह -
यदैवमिति ।

योगारोहस्य दृष्टा­दृ­ष्ठो­पायैः अव­श्य­क­र्त­व्य­तायै मुक्तिहेतुत्वम् , तद्विपर्ययस्य अधःपतनहेतुत्वं च, दर्शयति -
अत इति ।

तत्र हेतुम् आह -
आत्मैव हीति ।

उद्धरणापेक्षाम् आत्मनः सूचयति -
संसारेति ।

संसारात् ऊर्ध्वं हरण कीदृक् ? इत्याशङ्क्य, आह -
योगारूढतामिति ।

योगप्राप्तौ अनास्था तु न कर्तव्या, इत्याह -
नात्मानमिति ।
योग­प्रा­प्त्यु­पा­य­श्चेत् नानुष्ठीयते, तदा योगाभावे सम्सा­र­प­रि­हा­रा­स­म्भ­वात् आत्मा अधो नीतः स्यात् , इत्यर्थः ।

ननु - आत्मानं सम्सारे निमग्नं तदीयो बन्धुः तस्मात् उद्धरिष्यति ; नेत्याह -
आत्मैव हीति ।

कुतोऽवधारणम् अन्यस्यापि प्रसिद्धस्य बन्धोः सम्भवात् , तत्र आह -
न हीति ।

अन्यो बन्धुः सन् अपि सम्सारमुक्तये न भवति, इत्येतत् उपपादयति -
बन्धुरपीति ।
‘स्नेहादि’ इति आदिशब्दात् तद­नु­गु­ण­प्र­वृ­त्ति­वि­ष­यत्वं गृह्यते ।

आत्मा­ति­रि­क्ति­स्यापि शत्रोः अपकारिणः सुप्र­सि­द्ध­त्वात् अवधारणम् अनुचितम् , इत्याशङ्क्य, आह -
योऽन्य इति
॥ ५ ॥

उक्तम् अनूद्य प्रश्नपूर्वकं श्लोकान्तरम् अवतारयति -
आत्मैव इत्यादिना ।

एकस्यैव आत्मनो मिथो विरुद्धं बन्धुत्वं रिपुत्वं च लक्षणभेदम् अन्तरेण अयुक्तम् , इति चोदिते, वशीकृत सङ्घातस्य आत्मानं प्रति बन्धुत्वम् , इतरस्य शत्रत्वम् , अविरोधं दर्शयति -
बन्धुरित्यादिना ।

वशीकृतसङ्घातस्य विक्षेपाभावात् आत्मनि समाधानसम्भवात् , उपपन्नम् आत्मानं प्रति बन्धुत्वम् , इति साधयति -
तस्येति ।

अव­शी­कृ­त­स­ङ्घा­तस्य पुन­र्वि­क्षे­पो­प­पत्तेः आत्मनि समाधानायोगात् आत्मानं प्रति शत्रुभावे प्रसि­द्ध­श­त्रु­वत् आत्मैव शत्रुत्वेन वर्तेत, इति उत्तरार्धं व्याकरोति -
अनात्मन इति ।

दृष्टान्तं व्याचष्टे -
यथेति ।

उक्त­दृ­ष्टा­न्त­व­शात् अवशोकृतसङ्घातः स्वस्य हितानाचरणात् आत्मानं प्रति शत्रुरेव, इति दार्ष्टान्तिकम् आह -
तथेति
॥ ६ ॥

कथं संयतकार्यकरणस्य बन्धुरात्मा ? इति, तत्र आह -
जितात्मन इति ।
जित­का­र्य­क­र­ण­स­ङ्घा­तस्य प्रकर्षेण उप­र­त­बा­ह्या­भ्य­न्त­र­क­र­णस्य परमात्मा विक्षेपेण पुनः पुनः अनभिभूयमानो निरन्तरं चित्ते प्रथते, इत्यर्थः ।

जितात्मानं संन्य­स्त­स­म­स्त­क­र्मा­णम् अधिकारिणं प्रदर्श्य, योगाङ्गानि दर्शयति -
शीतेति ।
समः स्यात् , इति अध्याहारः ।

पूर्वार्धं व्याचष्टे -
जितेत्यादिना ।

न केवलं तस्य परमात्मा साक्षात् आत्मभावेन वर्तते, किन्तु शीतोष्णादिभिरपि नासौ चाल्यते तत्वज्ञानात् , इति उत्तरार्धं विभजते -
किञ्चेति ।
तेषु, समः स्यात् इति सम्बन्धः
॥ ७ ॥

चित्तसमाधानमेव विशिष्टफलं चेत् इष्टम् , तर्हि कथम्भूतः समाहितो व्यवह्रियते, तत्र आह -
ज्ञानेति ।

परो­क्षा­प­रो­क्षाभ्यां ज्ञान­वि­ज्ञा­नाभ्यां सञ्जातः अलंप्रत्ययः यस्य अन्तःकरणे, सोऽक्रियो हर्ष­वि­षा­द­का­म­क्रो­धा­दि­र­हितो योगी, युक्तः, समाहित इति व्यवहारभागी भवति, इति पद­त्र­य­व्या­ख्या­नेन दर्शयति -
ज्ञानमित्यादिना ।

स च योगी पर­म­हं­स­प­रि­व्रा­जकः सर्वत्र उपेक्षाबुद्धिः अन­ति­श­य­वै­रा­ग्य­भागी, इति कथयति -
स योगीति
॥ ८ ॥

योगारूढस्य प्रशस्तत्वम् अभ्युपेत्य योगस्य अङ्गान्तरं दर्शयति -
किञ्चेति ।

पदच्छेदः पदार्थोक्तिः इति व्याख्यानाङ्गं सम्पादयति -
सुहृदितीति ।

अरिर्नाम परोक्षम् अपकारकः, प्रत्यक्षम् अप्रियो द्वेष्यः, इति विभागः । समबुद्धिः इति व्याचष्टे -
कः किमिति ।

प्रथमो हि प्रश्नो जाति­गो­त्रा­दि­वि­षयः, द्वितीयो व्यापारविषयः । उक्तप्रकारेण अव्या­पृ­त­बु­द्धित्वे सर्वोत्कर्षो वा सर्वपापविमोक्षो वा सिध्यति, इत्याह -
विशिष्यत इति ।

पाठद्वयेऽपि सिद्धम् अर्थं सङ्गृह्य कथयति -
योगारूढानामिति
॥ ९ ॥

यथोक्तविशेषणवतो योगारूढेषु उत्तमत्वे योगानुष्ठाने प्रयतितव्यम् , इति अङ्गा­भि­धा­ना­न­न्तरं प्रधानम् अभिदधाति -
अत एवमिति ।

आद­र­नै­र­न्त­र्य­दी­र्घ­का­लत्वं विशेषणत्रयं योगस्य सूचयति -
सततमिति ।

तस्यैव पञ्च अङ्गानि उपन्यस्यति -
रहसि इत्यादिना ।
सर्वदा इति आदरदीर्धकालयोः उपलक्षणम् ।

प्रत्यगात्मानं व्यावर्तयति -
अन्तःकरणमिति ।
गिरिगुहादौ इति आदिशब्देन योग­प्र­ति­ब­न्ध­क­दु­र्ज­ना­दि­वि­धुरो देशो गृह्यते ।

विशेषणद्वयस्य तात्पर्यम् आह -
रहसीति ।

योगं युञ्जानस्य संन्यासिनो विशेषणान्तराणि दर्शयति -
यतेति ।

सति संन्यासित्वे किमिति अपरिग्रहग्रहणम् ? अर्थपुनरुक्तेः, इत्याशङ्क्य कौपी­ना­च्छा­द­ना­दि­ष्वपि सक्ति­नि­वृ­त्त्य­र्थम् , इत्याह -
संन्या­सि­त्वेऽ­पीति
॥ १० ॥

योगं योगाङ्गनि च उपदिश्य उत्तरसन्दर्भस्य तात्पर्यम् आह -
अथेति ।
योग­स्व­रू­प­क­ति­प­य­त­द­ङ्ग­प्र­द­र्श­ना­न­न्त­र्यम् अथशब्दार्थः ।

विहारादीनाम् इति आदिशब्देन यथो­क्ताऽऽ­स­ना­दि­ग­ता­वा­न्त­र­भे­द­ग्र­ह­णम् । तत्फलादि च इति आदिशब्देन योग­फ­ल­स­म्य­ग्ज्ञानं च तत्फलं कैवल्यं ततो भ्रष्टस्य आत्य­न्ति­का­वि­न­ष्ट­त्वम् इत्यादि गृह्यते । एवं समुदायतात्पर्ये दर्शिते, किं आसीनः शयानः तिष्ठन् गच्छन् कुर्वन् वा युञ्जीत ? इत्यपेक्षायाम् , अन­न्त­र­श्लो­क­ता­त्प­र्यम् आह -
तत्रेति ।
निर्धारणे सप्तमी । प्रथमम् योगानुष्ठानस्य प्रधानम् , ‘आसीनः सम्भवात्’(ब्र.सू. ४-१-७) इति न्यायात् , इति यावत् ।

विविक्तत्वं द्वेधा विभजते -
स्वभावत इति ।

आसनस्य अस्थैर्ये तत्र उपविश्य योगम् अनुतिष्ठतः समाधानायोगात् योगासिद्धिः, इति अभिसन्धाय विशिनष्टि -
अचलमिति ।

आस्यते अस्मिन् , इति व्युत्पत्तिम् अनुसृत्य, आह -
आसनमिति ।

‘आत्मन’ इति पर­की­या­स­न­व्यु­दा­सा­र्थम् । पत­न­भ­य­प­रि­हा­रार्थं नात्युच्छ्रितम् इत्युक्तम् । नाप्यतिनीचम् , इति भूत­ल­पा­षा­णा­दि­सं­श्लेषे वात­क्षो­भा­ग्नि­मा­न्द्या­दि­स­म्भा­वि­त­दो­ष­नि­रा­सा­र्थम् । चैलम् - वस्रम् , अजिनम् - चर्म पशूनाम् , तच्च मृगस्य, कुशाः - दर्भाः, ते च उत्तरे यस्मिन् उपरिष्टात् आरभ्य तत्तथोक्तम् । प्रथमञ्चैलम् , ततोऽजिनम् , ततश्च कुशाः, इति प्रति­प­न्न­पा­ठ­क्र­मम् आपातिकं क्रमम् अतिक्रम्य, आदौ कुशाः ततोऽजिनम् , ततः चैलम् इति क्रमं विवक्षित्वा, आह -
विपरीतोऽत्रेति
॥ ११ ॥

यथोक्तम् आसनं सम्पाद्य किं कर्तव्यम् ? इति प्रश्नपूर्वकं कर्तव्यं तत् निर्दिशति -
प्रतिष्ठाप्येति ।

योगं युञ्जानस्य इति­क­र्त­व्य­ता­क­लापं पृच्छति -
कथमिति ।

सर्वेभ्यो विषयेभ्यः सकाशात् प्रत्याहृत्य मनसो यत् एकस्मिन्नेव ध्येये विषये सामाधानम् , यत् चित्तस्य इन्द्रियाणां च बाह्यक्रियाणां संयमनं, तत् उभयं कृत्वा योगम् अनुतिष्ठेत् , इत्याह -
सर्वेति ।

आसने यथोक्ते स्थित्वा यथोक्तया रीत्या योगानुष्ठानस्य प्रश्नपूर्वकं फलम् आह -
स किम­र्थ­मि­त्या­दिना
॥ १२ ॥

उक्तम् अनूद्य अनन्तरश्लोकस्य पुनरुक्तम् अर्थम् आह -
बाह्येति ।

समत्वम् - ऋजुत्वम् , कायः - शरीरमध्यम्
‘अचलम् ‘ विशेषणम् अवतार्य तस्य तात्पर्यम् आह -
सममिति ।
कार्यकरणयोः विष­य­पा­र­व­श्य­शू­न्य­त्वम् अचलत्वं स्थैर्यम् ।

किमिति इवशब्दलोपः अत्र कल्प्यते ? स्वना­सि­का­ग्र­स­म्प्रे­क्ष­ण­मेव योगाङ्गत्वेन अत्र विधित्सितं किं न स्यात् ? इत्याशङ्क्य, आह -
नहीति ।

तर्हि किमत्र विवक्षितम् ? इति प्रश्नपूर्वकम् आह -
किं तर्हि इति ।
दृष्टिसन्निपातः - दृष्टेः - चक्षुषः, रूपा­दि­वि­ष­य­प्र­वृ­त्ति­रा­हि­त्यम् ।

कथम् असौ अनायासेन सिध्यति ? तत्र आह -
स चेति ।
समाधानस्य प्राधान्येन अत्र विवक्षितत्वात् दृष्टेः बहिर्विषयत्वेन तद्भ­ङ्ग­प्र­स­ङ्गात् तस्या विषयेभ्यो व्यावृत्त्य अन्तरे च सन्निपातो विवक्षितो भवति, इत्यर्थः ।

तथापि कथं स्वना­सि­का­ग्र­स­म्प्रे­क्ष­णम् अत्र श्रुतम् अविवक्षितम् ? इत्याशङ्क्य, आह -
स्वनासिकेति ।

तत्रैव मनःसमाधाने का हानिः ? इत्याशङ्क्य, वाक्य­शे­ष­वि­रो­धात् मैवम् , इत्याह -
आत्मनि हीति ।

किं तर्हि ‘सम्प्रेक्ष्य’ इत्यादौ विवक्षितम् ? इत्याशङ्क्य, आह -
तस्मादिति ।
दक्षि­णे­त­र­च­क्षुषोः या दृष्टिः तस्या बाह्याद्विषयात् वैमुख्येन अन्तरेव सन्निपतनम् अत्र स्वकीयं नासिकाग्रम् नासिकान्तं सम्प्रेक्ष्येति विवक्षितम् , इत्यर्थः ।

तत्रैव उत्तरम् अपि विशेषणम् अनुकूलम् इत्याह -
दिशश्चेति ।
अनवलोकयन् आसीत इति उत्तरत्र सम्बन्धः, अन्तरान्तरा दिशाम् अवलोकनमपि योगप्रतिबन्धकम् , इति तत्प्रतिषेधः
॥ १३ ॥

योगं युञ्जानस्य विशेषणान्तराणि दर्शयति -
किञ्चेति ।
अन्तःकरणस्य प्रशान्ति राग­द्वे­षा­दि­दो­ष­रा­हि­त्यम् , तस्याश्च प्रकर्षः रागादिहेतोरपि निवृत्तिः । विगतभयत्वम् - सर्व­क­र्म­प­रि­त्यागे शास्त्री­य­नि­श्च­य­व­शात् निःस­न्दि­ग्ध­बु­द्धि­त्वम् । भिक्षाभुक्यादि इति आदिशब्देन त्रिष­व­ण­स्ना­न­शौ­चाऽऽ­च­म­नादि गृह्यते ।

विशेषणान्तरम् आह -
किञ्चेति ।
उपसंहृत्य योगनिष्ठो भवेत् , इति शेषः ।

मनो­वृ­त्यु­प­सं­हारे ध्यानमपि न सिध्येत् , तस्य तद्वृ­त्या­वृ­त्ति­रू­प­त्वात् , इति आशङ्क्य आह -
मच्चित्त इति ।
विष­या­न्त­र­वि­ष­य­म­नो­वृ­त्त्यु­प­सं­हा­रेण आत्मन्येव तन्नियमनात् न ध्याना­नु­प­पत्तिः, इत्यर्थः ।

मच्चित्तत्वेनैव मत्परस्य सिद्धत्वात् मत्पर इति पृथग्विशेषणम् अनर्थकम् , इत्याशङ्क्य, आह -
भवतीति ।
अन्तःकरणशुद्धिः योगस्य अवान्तरफलम्
॥ १४ ॥

सम्प्रति परमफलकथनपरत्वेन अनन्तरश्लोकं आदत्ते -
अथेति ।
योगस्वरूपं तदङ्गम् आसनं अपि तत् कर्तृविशेषणम् इत्यस्य अर्थस्य प्रकथनानन्तरं इति अथ शब्दार्थः । आत्मानं युञ्जन् इति सम्बन्धः । आत्मशब्दः मनोविषयः । यथोक्तः विधिः आसनादिः । उक्त­वि­शे­ष­ण­त्र­य­द्यो­त­नार्थं सदा इत्युक्तम् । योगी - ध्यायी संन्यासीत्यर्थः ।

मनः संयमस्य लोकं प्रति असाधारणत्वं दर्शयति -
नियतेति ।

शान्ति­श­ब्दि­तो­प­रतेः सर्व­सं­सा­र­नि­वृ­त्ति­प­र्य­व­सा­यित्वं मत्वा विशिनष्टि -
निर्वाणेति ।

यथोक्तायाः मुक्तेः ब्रह्म­स्व­रू­पा­व­स्था­नात् अनर्थान्तरत्वं आह -
मत्संस्थामिति ।
मदधीनां - मदात्मिकां इत्यर्थः
॥ १५ ॥

आहारादि इत्यादि शब्देन विहारजागरितादि च उच्यते । आत्मसंमितं अन्नपरिमाणम् अष्टग्रासादि । आहारनियमे शतपथश्रुतिं प्रमाणयति -
यदुह वा इति ।
तदन्नं भुज्यमानं यदुह वा इति प्रसिद्ध्या अनूदितं अवति - अनु­ष्ठा­न­यो­ग्य­ताम् आपाद्य अनुष्ठानद्वारेण भोक्तारं रक्षति । न पुनः तत् अन्नं अस्य अनर्थाय भवति इत्यर्थः । यत्पुनः आत्मसंमितात् भूयः - अधिकतरं शास्त्र­म­ति­क्रम्य भुज्यते, तत् आत्मानं हिनस्ति भोक्तुः अनर्थाय भवति । यच्च अन्नं कनीयः - अल्पतरं शास्त्र­नि­श्च­या­भा­वात् अद्यते तत् अन्नं अनु­ष्ठा­न­यो­ग्य­ता­दि­द्वारा न रक्षितुं क्षमते । तस्मात् अत्यधिकम् अत्यल्पञ्च अन्नं योगमारुरुक्षता त्याज्यम् इत्यर्थः ।

श्रुति­सि­द्ध­मर्थं निगमयति -
तस्मात् इति ।

नेत्यादेः व्याख्या­ना­न्त­र­माह -
अथवेति ।

किं तत् अन्नपरिमाणं योग­शा­स्त्रोक्तं, यत् अधिकं न्यूनं वा अभ्यवहरतः योगानुपपत्तिः इत्याशङ्क्य आह -
उक्तं हीति ।

‘ पूरयेदशनेनार्धं तृतीयमुदकेन तु ।
वायो­स्स­ञ्च­र­णा­र्थाय चतुर्थमवशेषयेत् ॥ ''
इति वाक्यम् आदिशब्दार्थः । यथा अत्यन्तमश्नतः अनश्नतश्च योगः न सम्भवति तथा अत्यन्तं स्वपतः जाग्रतश्च न योगस्सम्भवति, इत्याह -
तथेति
॥ १६ ॥

आहा­र­नि­द्रा­दि­नि­य­म­वि­र­हिणो योगव्यतिरेकम् उक्त्वा तन्नियमवतो योगान्वयं व्याचष्टे -
कथं पुनरित्यादिना ।

अन्नस्य नियतत्वम् अर्धम् अशनस्य इत्यादि, विहारस्य नियतत्वं योजनान्न परं गच्छेत् इत्यादि, कर्मसु चेष्टायाः नियतत्वं वाङ्नियमादि, रात्रौ प्रथमतः दशघटिकापरिमिते काले जागरणम् , मध्यतः स्वपनम् , पुनरपि दशघटिकापरिमिते जागरणम् इति स्वप्नावबोधयोः नियतकालत्वम् । एवं प्रयतमानस्य योगिनो भवतः योगस्य फलम् आह -
दुःखहेति ।
सर्वाणि इति आध्या­त्मि­का­दि­भे­द­भि­न्नानि, इत्यर्थः ।

यथो­क्त­यो­ग­म­न्त­रे­णापि स्वप्नादौ दुःख­नि­वृ­त्ति­रस्ति, इति विशिनष्टि -
सर्वेति ।
विशु­द्ध­वि­ज्ञा­न­द्वारा, इति शेषः
॥ १७ ॥

सफलस्य साङ्गस्य योगस्य उक्त्यनन्तरम् , ‘यदा हि’(भ. गी. ४-७) इत्यादौ उक्तकालानुवादेन युक्तं लक्षयितुं अन­न्त­र­श्लो­क­प्र­वृत्तिं दर्शयति -
अथ अधुनेति ।

विशेषेण संयतत्वमेव सङ्क्षिपति -
एकाग्रतामिति ।

आत्मन्येव इति एवकारार्थं कथयति -
हित्वेति ।

केवलत्वम् - अद्वितीयत्वम् । तस्य आत्मस्थितिं विवृणोति -
स्वात्मनीति ।
चित्तस्य हि कल्पितस्य आत्मैव तत्त्वम् । तत्पुनः अन्यतः सर्वतो निवारितम् अधिष्ठाने निमग्नं तिष्ठति, इति भावः ।

तस्याम् अवस्थायां सर्वेभ्यो विषयेभ्यो व्यावृत्ततृष्णो युक्तो व्यवह्रियते, इत्याह -
निःस्पृह इति
॥ १८ ॥

उपमा - योगिनः चित्तस्थैर्यस्य उदाहरणम् , इत्यर्थः । उपमाशब्दस्य प्रदी­प­वि­ष­य­त्व­सि­द्ध्यर्थं करणव्युत्पत्तिं दर्शयति -
उपमीयत इति ।
योगिनः - यथोक्तविशेषणवतः चित्त­स्थै­र्यस्य, इति शेषः
॥ १९ ॥

द्विविधः समाधिः सम्प्रज्ञातः असम्प्रज्ञातश्च । ध्येयै­का­का­र­स­त्व­वृत्तिः भेदेन कथञ्चित् ज्ञायमाना सम्प्रज्ञातः समाधिः । कथमपि पृथक् अज्ञायमाना सैव सत्ववृत्तिः असम्प्रज्ञातः समाधिः । तत्र सामान्येन समा­धि­ल­क्ष­ण­म­भि­धाय असम्प्रज्ञातस्य सामधेः अधुना लक्षणं विवक्षन् आह -
एवमिति ।
काले समाध्युपलक्षिते । एवकारः तुष्यति इत्यनेन सम्बध्यते ।

चकारस्य सम्बन्धमाह -
यस्मिंश्चेति ।
कालस्तु पूर्ववत् ।

कर्मकारकत्वेन निर्दिष्टम् आत्मानं तत्पदार्थत्वेन व्याचष्टे -
परमिति ।

आत्मनि इत्यस्य त्वम्प­दा­र्थ­वि­ष­य­त्व­माह -
एवेति ।
परमात्मानं प्रतीच्येव तद्भावेन अपरोक्षीकुर्वन् अतु­ष्टि­हे­त्व­भा­वात् तुष्यत्येव इत्यर्थः । तस्मिन् काले योगसिद्धिः भवति इति शेषः
॥ २० ॥

योगसिद्धिकालं प्रकारान्तरेण प्रकटयति -
किञ्चेति ।
बुद्धिशब्दः स्वानुभवविषयः ।

इन्द्रि­य­नि­र­पे­क्ष­स्वा­नु­भ­व­ग­म्य­त्वोक्तेः ‘अतीन्द्रिय ‘मिति पुनरुक्तम् , इत्याशङ्क्य, आह -
अविषयेति ।

पदच्छेदः -
न चेत्यादि ।

अपेक्षितपूरणम् -
आत्मस्वरूप इति ।
तस्मात् तत्त्वत इति सम्बन्धः । नैव इति एव­का­र­स­म्ब­न्धोक्तिः । चकारः सप्तम्या सम्बन्धनीयः । इति पूर्ववत् सम्बन्धः
॥ २१ ॥

प्रकारान्तरेण प्रकृतं योगं विशिनष्टि -
किञ्चेति ।

आत्मलाभात् न परं विद्यते, इति स्मृत्वा व्याचष्टे -
यम् आत्मलाभमिति ।
लाभान्तरम् - पुरुषार्थभूतम् , ततः - तस्मात् , आत्मलाभादिति यावत् । तं विद्यात् इति उत्तरत्र सम्बन्धः ।

यस्मिन् इत्याद्यवतारयति -
किञ्चेति ।
अपरिपक्वयोगो यथा दर्शितेन दुःखेन प्रच्याव्यते न चैवं विचाल्यते यस्मिन् स्थितो योगी, तं योगं विद्यात् , इति पूर्ववत्
॥ २२ ॥

तं विद्यात् इत्या­द्य­पे­क्षितं पूरयन् अवतारयति -
यत्रेति ।
तमिति आत्मा­व­स्था­वि­शेषं परामृशति ।

दुःखसंयोगस्य वियोगः वियोगसंज्ञितो युज्यते, स कथं योगसंज्ञितः स्यात् ? इत्याशङ्क्य, आह -
विपरीतेति ।
इयं हि योगावस्था समु­त्खा­त­नि­खि­ल­दुः­ख­भेदा, इति दुःखसंयोगभावो योगसंज्ञाम् अर्हति, इत्यर्थः ।

उपसंहृते योगफले किमिति पुनः योगस्य कर्तव्यत्वम् उच्यते ? तत्र आह -
योगफलमिति ।
प्रकारान्तरेण योगस्य कर्त­व्य­त्वो­प­दे­शा­रम्भः अत्र अन्वारम्भः ।

योगं युञ्जानः तत्क्षणात् उक्तां संसिद्धिं अलभमानः संशयानो निवर्तेत इति, तन्नि­वृ­त्त्यर्थं पुनः कर्तव्योपदेशः अर्थवान् , इति मत्वा, आह -
निश्चयेति ।

तयोः साधानविधानमेव अक्षरयोजनया साधयति -
स यथेति ।
इह जन्मनि जन्मान्तरे वा सेत्स्यति, इति अध्यवसायेन योक्तव्यः - कर्तव्यः
॥ २३ ॥

इतश्च योगस्य कर्तव्यत्वम् , इति प्रतिजानीते -
किञ्चेति ।

केन क्रमेण कर्तव्यत्वम् इत्यपेक्षायाम् , आह -
सङ्कल्पेति ।
सङ्कल्पः - शोभनाध्यासः ।

सर्वान् इत्युक्त्वा पुनः अशेषत इति पुनरुक्तिः, इत्याशङ्क्य, आह -
निर्लेपेनेति ।

तथा शेषो न भवति, तथा सर्वेषां कामानां शोभ­ना­ध्या­सा­धी­नानां त्यागस्य योगा­नु­ष्ठा­न­शे­ष­त्व­वत् विवेकयुक्तेन मनसा करणसमुदायस्य सर्वतो नियमनमपि तत्र शेषत्वेन कर्तव्यम् , इत्याह -
किञ्चेति
॥ २४ ॥

कामत्यागद्वारेण इन्द्रियाणि प्रत्याहृत्य किं कुर्यादिति शङ्कितारं प्रति आह -
शनैः शनैरिति ।

सहसा विषयेभ्यः सकाशात् उपरमे मनसो न स्वास्थ्यं सम्भवति, इत्यभिप्रेत्य, आह -
न सहसेति ।

तत्र साधनं धैर्ययुक्ता बुद्धिः, इत्याह -
कयेत्यादिना ।
भूम्यादीः अव्या­कृ­त­प­र्यन्ताः प्रकृतीः अष्ट पूर्वत्र पूर्वत्र धारणं कृत्वा उत्त­रो­त्त­र­क्र­मेण प्रविलापयेत् , इति भावः ।

अव्यक्तम् आत्मनि प्रविलाप्य, आत्ममात्रनिष्ठं मनो विधाय, चिन्त­यि­त­व्या­भा­वात् अतिस्वस्थो भवेत् , इत्याह -
आत्मेति ।

तत्र संस्थितिमेव मनसो विवृणोति -
आत्मैवेति ।

योगविधिम् उपक्रम्य, किमिदम् उक्तम् ? इत्याशङ्क्य, आह -
एष इति ।
यत् मनसो नैश्चल्यम् , इति शेषः
॥ २५ ॥

ननु मनसः शब्दा­दि­नि­मि­त्ता­नु­रो­धेन रागद्वेषवशात् अत्यन्तचञ्चलस्य अस्थिरस्य तत्र तत्र स्वभावेन प्रवृत्तस्य कुतो नैश्चल्यं नैश्चिन्त्यं च ? इति, तत्र आह -
तत्रेति ।
योगप्रारम्भः सप्तम्यर्थः । एवं शब्देन ‘मनसैव’ इत्यादिः उक्तप्रकारो गृह्यते । स्वाभाविको दोषो मिथ्या­ज्ञा­ना­धीनो रागादिः ।

शब्दादेः मनसो नियमनं कथम् ? इत्याशङ्क्य, आह -
तत्त­न्नि­मि­त्त­मिति ।
याथा­त्म्य­नि­रू­प­णम् - क्षयि­ष्णु­त्व­दुः­ख­सं­मि­श्र­त्वा­द्या­लो­च­नम् , तेन तत्र तत्र वैराग्यभावनया तत्तत् आभासीकृत्य ततस्ततो नियम्य एतन्मनः, इति सम्बन्धः ।

मनोवशीकरणेन उपशमे किं स्यात् ? इत्याह -
एवमिति ।
योगाभ्यासः - विषयविवेकद्वारा मनो­नि­ग्र­हा­द्व्या­वृत्तिः, प्रशान्तम् - आत्मन्येव प्रलीनम् , इति यावत्
॥ २६ ॥

मन­स्त­द्वृत्त्योः अभावे स्वरू­प­भू­त­सु­खा­वि­र्भा­वस्य स्वापादौ प्रसिद्धिं द्योतयितुं ‘हि ‘शब्दः । मोहा­दि­क्ले­श­प्र­ति­ब­न्धात् योगिनि यथो­क्त­सु­खा­प्रा­प्तिम् आशङ्क्य, मनोविलयम् उपेत्य परिहरति -
शान्तेति ।

तस्य अस्म­दा­दि­वि­ल­क्ष­ण­त्वम् आह -
ब्रह्मभूतमिति ।

अस्मदादेरपि स्वतो ब्रह्मभूतत्वेन तुल्यं जीवन्मुक्तत्वम् , इत्याशङ्क्य, आह -
ब्रह्मैवेति ।

धर्मा­ध­र्म­प्र­ति­ब­न्धात् अयुक्ता यथो­क्त­सु­ख­प्रप्तिः, इत्याशङ्क्य उक्तम् -
अकल्मषमिति
॥ २७ ॥

उत्तमं सुखं योगिनो भवति इत्युक्तम् , तदेव स्फुटयति -
युञ्जन्निति ।
क्रमः यथोक्तो ‘मन­सै­वे­न्द्रि­य­ग्रा­मम् ‘ इत्यादिः । योगान्तरायः - रागद्वेषादिः, सदा आत्मानं युञ्जन्निति सम्बन्धः । पापपदं उपलक्षणं पुण्यस्यापि । संस्पर्शः - तादात्म्यम् ऐकरस्यम् । उत्कर्षः - विषयासंस्पर्शः
॥ २८ ॥

योगम् अनुतिष्ठतो ब्रह्मभूतस्य सर्वा­न­र्थ­नि­वृ­त्ति­नि­र­ति­श­य­सु­ख­प्रा­प्ति­ल­क्षणो द्विविधोमोक्षः हेतुना केन स्यात् ? इति शङ्कमानं प्रति आह -
इदानीमिति ।
स्वम् आत्मानम् ईक्षते, इति सम्बन्धः ।

सर्वभूतान्यपि तद्विशेषणत्वेन पश्यति चेत् न शुद्ध­व­स्तु­ज्ञा­न­मिति न अवि­द्या­नि­वृत्तिः, इत्याशङ्क्य, आह -
सर्वभूतानीति ।

उक्ते दर्शने चित्तसमाधानम् उपायन्दर्शयति -
योगेति ।

विषमेषु उपाधिषु तदनुरोधात् विषममेव दर्शनं तदु­प­द­र्शि­त­द­र्श­न­प्र­ति­ब­न्धकं प्रत्युदस्यति -
सर्वत्रेति
॥ २९ ॥

उक्तस्य एकत्वज्ञानस्य फल­वि­क­ल्प­त्व­शङ्कां शिथिलयति -
एतस्येति ।

तत्र एकत्वदर्शनम् अनुवदति -
यो मामिति ।

तत्फलम् इदानीम् उपन्यस्यति -
तस्येति ।

ज्ञानानुवादभागं विभजते -
यो मामिति ।

तत्फलोक्तिभागं व्याचष्टे -
तस्यैवमिति ।

अने­क­त्व­द­र्शि­नोऽपि ईश्वरो नित्यत्वात् न प्रणश्यति, इत्याशङ्क्य आह -
नेति ।
अहम् परमानन्दः, न तं प्रति परोक्षो भवामि, इत्यर्थः ।

‘स च’ इत्यादि व्याचष्टे -
विद्वानिति ।

विद्वानिव अविद्वानपि ईश्वरस्य न नश्यति, इत्याशङ्क्य, उक्तम् -
नेत्यादिना ।
अविदुषश्च स्वरूपेण सतोऽपि व्यवहितत्वात् अविद्यया, नष्टप्रायता इत्यर्थः ।

ईश्वरस्य विदुषश्च परस्परम् अपरोक्षत्वे हेतुम् आह -
तस्य चेति ।

आत्मैकत्वेऽपि कथं मिथोऽ­प­रो­क्ष­त्वम् , तत्र आह -
स्वात्मेति ।

विद्वदीश्वरयोः एकत्वानुवादेन विद्याफलं विवृणोति -
यस्माच्चेति ।
तस्मात् एकत्वदर्शनार्थं प्रयतितव्यम् , इति शेषः
॥ ३० ॥

पूर्वार्धेन अनूद्य उत्तरार्धेन फलविधिः, इति मत्वा आह -
इत्येतदिति ।

रागादिरहितस्य यम­नि­य­मा­दि­सं­स्का­र­वतः स्वैर­प्र­वृ­त्त्य­स­म्भ­वेऽपि, ताम् अङ्गीकृत्य ज्ञानं स्तौति -
सर्वथेति ।

प्रतिभासतोऽपि यथे­ष्ट­चे­ष्टाऽ­ङ्गी­कारे कुतो ज्ञानवतो नित्यमुक्तत्वम् , प्राती­ति­क­दु­रा­चा­र­प्र­ति­ब­न्धात् , इत्याशङ्क्य, आह -
न मोक्षमिति
॥ ३१ ॥

स्वैराचरणस्य अप्र­ति­ब­न्ध­क­त्व­क­थ­नात् परपीडनस्य योगिनः सम्यग्दर्शनं प्रति अप्र­ति­ब­न्ध­क­त्व­प्र­सक्तौ उक्तम् -
किञ्चेति ।
अन्यदपि कि़ञ्चित् उच्यते परमयोगिनो निर्देशद्वारा योगमाहात्म्यम् , इत्यर्थः ।

उपमेव - औपम्यम् , आत्मा च तत् औपम्यञ्च, तेन । सर्वभूतेषु यः समं पश्यति इत्युक्ते तदेव समदर्शनं प्रश्नपूर्वकं विवृणोति -
किमित्यादिना ।

विकल्पार्थत्वं वारयति -
वाशब्द इति ।

उप­द­र्शि­त­स­म­द­र्श­न­फ­लम् अभिलषति -
न कस्यचिदिति ।

किमपेक्षया तस्य परमत्वम् ? तत्र आह -
सर्वेति
॥ ३२ ॥

“ मन­श्च­ञ्च­ल­म­स्थि­रम् “, इत्युपश्रृत्य निर्विशेषे चित्तस्थैर्यं दुश्शकम् इति मन्वानः तदुपायबुभुत्सया पृच्छति, इति प्रश्नम् उत्थापयति -
एतस्येति ।
तत्प्रा­प्त्यु­पायं शुश्रूषुः, इति सम्बन्धः ।
॥ ३३ ॥

मन­स­श्च­ञ्च­ल­त्वेऽपि तन्निग्रहद्वारा योगस्थैर्यं सम्पाद्यताम् , इत्याशङ्क्या, आह -
प्रसिद्धमिति

कृष्ण­प­द­प­रि­नि­ष्प­त्ति­प्र­कारं सूटयति -
कृष्ण इतीति ।

कथं कर्षकत्वं आप्तकामस्य भगवतः सम्भवति इत्याशङ्क्य आह -
भक्तेति ।
ऐहि­का­मु­ष्मि­क­स­र्व­स­म्पदां आक­र्ष­ण­शी­ल­त्वाच्च इति द्रष्टव्यम् ।

प्रमथ्नाति क्षोभयति । तदेव क्षोभकत्वं प्रकटयति -
विक्षिपतीति ।

दुर्निवारत्वं अभिप्रेतात् विषयात् आक्रष्टुं अशक्यत्वं विशेषणान्तरमाह - किञ्चेति । अवच्छेद्यत्वं विशेषणान्तरमाह -
किञ्च दृढम् इति ।
तन्तुनागः वरुणपाशशब्दितः जलचारी पदार्थः अत्यन्तदृढतया छेत्तु­म­श­क्य­त्वेन प्रसिद्धः विवक्षितः ।

वायोरित्युक्तं व्यनक्ति -
यथेति
॥ ३४ ॥

प्रश्नम् अङ्गीकृत्य प्रतिवचनम् उत्थापयति -
श्रीभगवानिति ।

कुत्र संशयराहित्यम् ? तत्र आह -
मन इति ।

कथं तर्हि मनोनिरोधो भवति, तत्र आह -
किन्तु इति ।

अभ्यासस्वरूपं सामान्येन निदर्शयति -
अभ्यासो नामेति ।
कस्याञ्चित् चित्तभूमौ इति अविशेषितः ध्येयो विषयो निर्दिश्यते, समा­न­प्र­त्य­या­वृत्तिः विजा­ती­य­प्र­त्य­या­न­न्त­रिता इति शेषः । चित्तस्येति षष्ठी प्रत्ययस्य तद्वि­का­र­त्व­द्यो­त­नार्था ।

वैराग्यस्वरूपं निरूपयति -
वैराग्यमिति ।
तेषु वैतृष्ण्यं वैराग्यं नाम, इति सम्बन्धः ।

तत्र हेतुं सूचयति -
दोषेति ।
विष­ये­षु­तृ­ष्णा­वि­ष­येषु दोषदर्शनम् अभ्यस्यते । तेन वैतृष्ण्यं जायते ।

तेन निगृह्यमाणं निर्दिशति -
विक्षेपेति ।

तस्मिन् गृहीते - निरुद्धे मनोनिरोधेऽस्य किं स्यात् ? इत्यपेक्षायाम् आह -
एवमिति ।
अभ्या­स­हे­तु­क­वै­रा­ग्य­द्वारा चित्त­प्र­चा­र­नि­रोधे निरुद्धवृत्तिकं मनोविषयविमुखम् अन्तर्निष्ठं भवति, इत्यर्थः
॥ ३५ ॥

संयतात्मनो योगप्राप्तिः सुलभा, इत्युक्त्वा, व्यतिरेकं दर्शयति -
यः पुनरिति ।

व्यति­रे­को­प­न्या­स­परं पूर्वार्धम् अनूद्य व्याकरोति - असंयतेति । पूर्वो­क्ता­न्व­य­व्या­ख्या­न­प­रम् उत्तरार्धं व्याचष्टे -
यस्त्वित्यादिना ।

अन्तःकरणस्य स्ववशत्वे सिद्धेऽपि वैराग्यादौ आस्थावता भवितव्यम् , इत्याह -
यततेति ।
उपायो वैरा­ग्या­दि­पू­र्वको मनोनिरोधः
॥ ३६ ॥

प्रश्नान्तरम् उत्थापयति -
तत्रेत्यादिना ।
मनोनिरोधस्य दुःखसाध्यत्वम् आशङ्क्य परिहृते सति, प्रष्टा पुनः अवकाशं प्रतिलभ्य उवाच, इति सम्बन्धः ।

लोक­द्व­य­प्रा­प­क­क­र्म­स­म्भवे कुतो योगिनो नाशाशङ्का ? इत्याशङ्क्य, आह -
योगाभ्यासेति ।

तथापि योगा­नु­ष्ठा­न­प­रि­पा­क­प­रि­प्रा­प्ति­स­म्य­ग्द­र्श­न­सा­म­र्थ्यात् मोक्षोपपत्तौ कुतः तस्य नाशाशङ्का ? इति चेत् , मैवम् , अने­का­न्त­रा­य­व­त्त्वात् योगस्य इह जन्मनि प्रायेण संसिद्धेः असिद्धिः, इत्यभिसन्धाय आह -
योगसिद्धीति ।
अभ्यु­द­य­निः­श्रे­य­स­ब­हि­र्भावो नाशः । योगमार्गे तत्फलस्य सम्यग्दर्शनस्य अदर्शनात् , इति शेषः ।

तर्हि ततो बहिर्मुखत्वमेव आत्यन्तिकं संवृत्तम् , इत्याश्क्य, आह -
श्रद्धयेति ।

तर्हि योगमार्गम् आश्रयते ? नेत्याह -
योगादिति ।

मरणकाले व्याकु­ले­न्द्रि­यस्य ज्ञान­सा­ध­ना­नु­ष्ठा­ना­व­का­शा­भा­वात् युक्तं तत­श्च­लि­त­मा­न­स­त्वम् , इत्याशङ्क्य, आह -
भ्रष्टेति ।
गम्यत इति गतिः - पुरुषार्थः, सामान्यप्रश्नम् अन्त­र्भा­व्य­वि­शे­ष­प्रश्नो द्रष्टव्यः
॥ ३७ ॥

प्रश्नमेव विवृणोति -
कच्चिदिति ।

प्रश­स्त­प्र­श्ना­र्थत्वं कच्चिदित्यस्य अङ्गीकृत्य व्याचष्टे -
किमिति ।

उभयविभ्रष्टत्वं स्पष्टयति -
कर्मेत्यादिना ।

वायुना छिन्नमु - विशकलितम् अभ्रं यथा नश्यति तद्वत् , इत्याह -
छिन्नेति ।

नाशा­श­ङ्क­नि­मि­त्तम् आह -
निराश्रय इति ।

कर्म­मा­र्ग­रू­पा­व­ष्ट­म्भा­भा­वेपि ज्ञान­मा­र्गा­व­ष्टम्भः तस्य भविष्यति, इत्याशङ्क्य आह -
विमूढः सन् इति ।
नहि कर्मिणं प्रति इयम् आशङ्का युक्ता, अभिलाषं त्यक्त्वा ईश्वरे समर्प्य वा कर्म अनुतिष्ठतः, निरुपचारेण तद्भ्रं­श­व­च­ना­स­म्भ­वात् । सर्व­क­र्म­सं­न्या­सिनः तु विहितानां त्यागात् ज्ञानोपायाच्च विच्युतेः अन­र्थ­प्रा­प्ति­शङ्का युक्ता इति भावः
॥ ३८ ॥

यथो­प­द­र्शि­त­सं­श­या­पा­क­र­णा­र्थम् अर्जुनो भगवन्तं प्रेरयन् आह -
एतदिति ।

मत्तोऽन्यः कश्चित् ऋषिर्वा देवो वा त्वदीयं संशयं छेत्स्यति इत्याशङ्क्य, आह -
त्वदन्य इति ।

अन्यस्य संशयछेत्तुः अभावे फलितम् आह -
अत इति ।
॥ ३९ ॥

योगिनो नाशाशङ्कां परिहरन् उत्तरम् आह -
भगवानिति ।

यदुक्तम् उभयभ्रष्टो योगी नश्यति, इति, तत्र आह -
पार्थेति ।

तत्र हेतुम् आह -
नहीति ।

योगिनो मार्गद्वयात् विभ्रष्टस्य ऐहिको नाशः - शिष्ट­ग­र्हा­ल­क्षणो न भवतीति श्रद्धादेः सद्भावात् , तथापि कथम् आमु­ष्मि­क­ना­श­शू­न्य­त्वम् ? इत्याशङ्क्य, तद्रू­प­नि­रू­प­ण­पू­र्वकं तदभावं प्रतिजानीते -
नाशो नामेति ।

तत्र हेतुभागं विभजते -
नहीत्यादिना ।
उभयभ्रष्टस्यापि श्रद्धे­न्द्रि­य­सं­य­मादेः सामि­कृ­त­श्र­व­णा­देश्च भावात् उपपन्नं शुभकृत्त्वम् ।

तातेति कथं पुत्र­स्था­नी­य­शिष्यः सम्बोध्यते ? पितुरेव तातशब्दत्वात् , इत्याशङ्क्य, आह -
तनोतीति ।
तेन पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनम् अविरुद्धम् , इत्यर्थः । न गच्छति कुत्सितां गतिम् , कल्या­ण­का­रि­त्वात् , इति नाशाभावः
॥ ४० ॥

योगभ्रष्टस्य लोकद्वयेऽपि नाशाभावे किं भवति ? इति पृच्छति -
किन्त्विति ।

तत्र श्लोकेन उत्तरम् आह -
प्राप्येति ।

कथं संन्यासी इति विशेष्यते ? तत्त्र आह -
सामर्थ्यादिति ।
कर्मणि व्यापृतस्य कर्मिणो योग­मा­र्ग­प्र­वृ­त्त्य­नु­प­पत्तेः, तत्प्रवृत्तावपि फलाभिलाषविकलस्य ईश्वरे सम­र्पि­त­स­र्व­क­र्मणः तद्भ्रं­शा­श­ङ्का­न­व­का­शात् , इत्यर्थः । समानां नित्यत्वं मानु­ष­स­मा­वि­ल­क्ष­ण­त्वम् । वैरा­ग्या­भा­व­वि­व­क्षया विभूतिमतां गृहे जन्म, इति विशिष्यते
॥ ४१ ॥

श्रद्धा­वै­रा­ग्या­दि­क­ल्या­णा­धिक्ये पक्षान्तरम् आह -
अथेति ।

योगिनामिति कर्मिणां ग्रहणं मा भूत् , इति विशिनष्टि -
धीमतामिति ।

ब्रह्म­वि­द्या­वतां शुचीनां दरिद्राणां कुलेजन्म दुर्लभादपि दुर्लभं प्रमा­द­का­र­णा­भा­वात् , इत्याह -
एतद्धीति ।

किमपेक्ष्य अस्य जन्मनो दुःखलभ्यादपि दुःखलभ्यतरत्वम् ? तदाह -
पूर्वमिति ।
यद्यपि विभूतिमतामपि शुचीनां गृहे जन्म दुःखलभ्यम् , तथापि तदपेक्षया इदं जन्म दुःखलभ्यतरम् , यत् ईदृशं शुचीनां दरिद्राणां विद्यावताम् , इति विशेषणोपेते कुले लोके जन्म वक्ष्यमाणम् , इत्यर्थः
॥ ४२ ॥

यत् उत्तमतरं जन्म उक्तम् , तस्य उत्तमत्वे हेत्वन्तरम् आह -
यस्मादिति ।
बुद्ध्येति आत्मविषयया, इति शेषः । पूर्वस्मिन् देहे भवम् - तत्र अनु­ष्ठि­त­सा­ध­न­वि­शे­ष­यु­क्तम् , इत्यर्थः ।

तर्हि यथोक्तजन्मनि साधनानुष्ठानम् अन्तरेणैव बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -
यतते चेति ।
प्रयत्नः श्रव­णा­द्य­नु­ष्ठा­न­वि­षयः
॥ ४३ ॥

यदि पूर्वसंस्कारः अस्य इच्छाम् उपनयन् न प्रवर्तयति, तथा च प्रवृत्तिः अनिच्छया स्यात् , इत्याशङ्क्य आह -
पूर्वेति ।
स हि योगभ्रष्टः सम­न­न्त­र­ज­न्म­कृ­त­सं­स्का­र­व­शात् उत्तरस्मिन् जन्मनि अनिच्छन्नपि योगं प्रत्येव आकृष्टो भवति, इत्यर्थः ।

तत्र कोमुतिकन्यायं सूचयति -
जिज्ञासुरिति ।

पूर्वार्धं विभजते -
यः पूर्वेति ।
तस्मात् , न इच्छया तस्य प्रवृत्तिः, इति शेषः ।

योगभ्रष्टस्य अध­र्मा­दि­प्र­ति­ब­न्धेऽपि तर्हि पूर्वा­भ्या­स­व­शात् बुद्धिसम्बन्धः स्यात् , इत्याशङ्क्य, आह -
नेत्यादिना ।
यदि योगभ्रष्टेन योगा­भ्या­स­ज­नि­त­सं­स्का­र­प्रा­ब­त्यात् प्रब­ल­त­रा­ध­र्म­भे­द­रूपं कर्म न कृतं स्यात् , तदा तेन संस्कारेण वशीकृतः सन् इच्छादिरहितोऽपि बुद्धि­स­म्ब­न्ध­भाक् भवति इत्यर्थः ।

विपक्षे योगसंस्कारस्य अभिभूतत्वात् न कार्या­र­म्भ­क­त्वम् , इत्याह -
अधर्मश्चेदिति ।

योगजसंस्कारस्य अधर्माभिभूतस्य कार्यम् अकृत्वैव अभि­भा­व­क­प्रा­बल्ये प्रणाशः स्यात् , इत्याशङ्क्य, आह -
तत्क्षयेत्विति ।

कालव्यवधानात् निवृत्तिं शङ्कित्वा उत्कम् -
नेति ।
तृण­ज­ला­यु­का­दृ­ष्टा­न्त­श्रुत्या संस्कारस्य दीर्घतायाः समाधिगतत्वात् , इति भावः ।

कॊमु­ति­क­न्या­यो­क्ति­प­रम् उत्तरार्धं विभजते -
जिज्ञा­सु­र­पी­त्या­दिना ।

अत्रापि ‘संन्यासी’ इति विशेषणं पूर्ववत् अवधेयम् , इत्याह -
सामर्थ्यादिति ।
न हि कर्मी कर्ममार्गे प्रवृत्तः ततो भ्रष्टः शङ्कितुं शक्यते, अतः संन्यासी पूर्वोक्तैः विशेषणैः विशिष्टो योग­भ्र­ष्टोऽ­भीष्टः । सोऽपि वैदिकं कर्म तत्फलं च अतिवर्तते, किमुत योगं बुद्ध्वा तन्निष्ठः - सदा अभ्यासं कुर्वन् कर्म तत्फलं च अतिवर्तत इति वक्तव्यम् , इति योजना । योगनिष्ठस्य कर्म­त­त्फ­ला­ति­व­र्तनं ततोऽ­धि­क­फ­ला­वाप्तिः विवक्ष्यते
॥ ४४ ॥

योगनिष्ठस्य श्रेष्ठत्वे हेत्वन्तरं वक्तुम् उत्तरश्लोकम् अवतारयति -
कुतश्चेति ।
मृदुप्रयत्नोऽपि क्रमेण मोक्ष्यते चेत् अधिकप्रयत्नस्य क्लेशहेतोः अकि­ञ्चि­त्क­र­त्वम् , इत्याशङ्क्य, हेत्वन्तरमेव प्रकटयति - प्रयत्नादिति । तत्र - योगविषये प्रयत्नातिरेके सति, इत्यर्थः । ततः - सञ्चि­त­सं­स्का­र­स­मु­दा­यात् , इति यावत् । समु­त्प­न्न­स­म्य­ग्द­र्श­न­व­शात् प्रकृष्टा गतिः संन्यासिना लभ्यते, तेन शीघ्रं मुक्तिम् इच्छन् अधिकप्रयत्नो भवेत् , अल्पप्रयत्नस्तु चिरेणैव मुक्तिभागी, इत्यर्थः
॥ ४५ ॥

सम्य­ग्ज्ञा­न­द्वारा मोक्षहेतुत्वं योगस्य उक्तम् अनूद्य योगिनः सर्वाधिकत्वम् आह -
यस्मादिति ।

योगस्य सर्वस्मात् उत्कर्षात् अव­श्य­क­र्त­व्य­त्वाय योगिनः सर्वाधिक्यं साधयति -
तपस्विभ्य इति ।

योगिनो ज्ञानिनश्च पर्यायत्वात् कथं तस्य ज्ञानिभ्यः अधिकत्वम् ? इत्याशङ्क्य, आह -
ज्ञानमिति ।

योगिनः सर्वाधिकत्वे फलितम् आह -
तस्मादिति
॥ ४६ ॥

ननु आदित्यो विराडात्मा सूत्रं कारणम् अक्षरम् इत्येषाम् उपासका भूयांसो योगिनो गम्यन्ते, तेषां कतमः श्रेयान् इष्यते ? तत्र आह -
योगिनामिति ।
यो भगवन्तं सगुणं निर्गुणं वा यथोक्तेन चेतसा श्रद्दधानः सन् , अनवरतम् अनुसन्धत्ते स युक्तानां मध्ये अतिशयेन युक्तः - श्रेयान् , ईश्वरस्य अभिप्रेतः, न हि तदीयो अभिप्रायः अन्यथा भवितुम् अर्हति, इत्यर्थः । तदनेन अध्यायेन कर्मयोगस्य संन्यासहेतोः मर्यादां दर्शयता, साङ्गं च योगं विवृण्वता, मनो­नि­ग्र­हो­पा­यो­प­दे­शेन योगभ्रष्टस्य आत्य­न्ति­क­ना­श­श­ङ्का­व­काशं शिथिलयता, त्वम्प­दा­र्था­भि­ज्ञस्य ज्ञान­नि­ष्ठ­त्वोक्त्या वाक्या­र्थ­ज्ञा­नात् मुक्तिः, इति साधितम्
॥ ४७ ॥
इति श्रीमत्परमहंस - परिव्राजकाचार्य - श्रीम­च्छु­द्धा­न­न्द­पू­ज्य­पा­द­शि­ष्या­ना­न्द­ज्ञा­न­वि­र­चिते श्रीम­द्भ­ग­व­द्गी­ता­शा­ङ्क­र­भा­ष्य­व्या­ख्याने षष्ठोऽध्यायः ॥