अद्वैतशारदा

श्रीमद्भगवद्गीताभाष्यम्

चतुर्दशोऽध्यायः

व्याख्याः

सर्वम् उत्पद्यमानं क्षेत्र­क्षे­त्र­ज्ञ­सं­यो­गात् उत्पद्यते इति उक्तम् । तत् कथमिति, तत्प्र­द­र्श­ना­र्थम् ‘परं भूयः’ इत्यादिः अध्यायः आरभ्यते । अथवा, ईश्व­र­प­र­त­न्त्रयोः क्षेत्र­क्षे­त्र­ज्ञयोः जगत्कारणत्वं न तु साङ्ख्यानामिव स्वतन्त्रयोः इत्येवमर्थम् । प्रकृतिस्थत्वं गुणेषु च सङ्गः संसारकारणम् इति उक्तम् । कस्मिन् गुणे कथं सङ्गः ? के वा गुणाः ? कथं वा ते बध्नन्ति इति ? गुणेभ्यश्च मोक्षणं कथं स्यात् ? मुक्तस्य च लक्षणं वक्तव्यम् , इत्येवमर्थं च भगवान् उवाच —

श्रीभगवानुवाच —

परं भूयः प्रवक्ष्यामि
ज्ञानानां ज्ञानमुत्तमम् ।
यज्ज्ञात्वा मुनयः सर्वे
परां सिद्धिमितो गताः ॥ १ ॥

परं ज्ञानम् इति व्यवहितेन सम्बन्धः, भूयः पुनः पूर्वेषु सर्वे­ष्व­ध्या­येषु असकृत् उक्तमपि प्रवक्ष्यामि । तच्च परं पर­व­स्तु­वि­ष­य­त्वात् । किं तत् ? ज्ञानं सर्वेषां ज्ञानानाम् उत्तमम् , उत्तमफलत्वात् । ज्ञानानाम् इति न अमानित्वादीनाम् ; किं तर्हि ? यज्ञा­दि­ज्ञे­य­व­स्तु­वि­ष­या­णाम् इति । तानि न मोक्षाय, इदं तु मोक्षाय इति परो­त्त­म­श­ब्दाभ्यां स्तौति श्रोतृ­बु­द्धि­रु­च्यु­त्पा­द­ना­र्थम् । यत् ज्ञात्वा यत् ज्ञानं ज्ञात्वा प्राप्य मुनयः संन्यासिनः मननशीलाः सर्वे परां सिद्धिं मोक्षाख्याम् इतः अस्मात् देहबन्धनात् ऊर्ध्वं गताः प्राप्ताः ॥ १ ॥

अस्याश्च सिद्धेः ऐकान्तिकत्वं दर्शयति —

इदं ज्ञान­मु­पा­श्रित्य मम साधर्म्यमागताः ।
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ २ ॥

इदं ज्ञानं यथो­क्त­मु­पा­श्रित्य, ज्ञानसाधनम् अनुष्ठाय इत्येतत् , मम परमेश्वरस्य साधर्म्यं मत्स्वरूपताम् आगताः प्राप्ताः इत्यर्थः । न तु समानधर्मता साधर्म्यम् , क्षेत्र­ज्ञे­श्व­रयोः भेदानभ्युपगमात् गीताशास्त्रे । फलवादश्च अयं स्तुत्यर्थम् उच्यते । सर्गेऽपि सृष्टिकालेऽपि न उपजायन्ते । न उत्पद्यन्ते । प्रलये ब्रह्मणोऽपि विनाशकाले न व्यथन्ति च व्यथां न आपद्यन्ते, न च्यवन्ति इत्यर्थः ॥ २ ॥

क्षेत्र­क्षे­त्र­ज्ञ­सं­योगः ईदृशः भूतकारणम् इत्याह —

मम योनि­र्म­ह­द्ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ ३ ॥

मम स्वभूता मदीया माया त्रिगुणात्मिका प्रकृतिः योनिः सर्वभूतानां कारणम् । सर्वकार्येभ्यो महत्त्वात् भरणाच्च स्वविकाराणां महत् ब्रह्म इति योनिरेव विशिष्यते । तस्मिन् महति ब्रह्मणि योनौ गर्भं हिरण्यगर्भस्य जन्मनः बीजं सर्व­भू­त­ज­न्म­का­रणं बीजं दधामि निक्षिपामि क्षेत्र­क्षे­त्र­ज्ञ­प्र­कृ­ति­द्व­य­श­क्ति­मान् ईश्वरः अहम् , अवि­द्या­का­म­क­र्मो­पा­धि­स्व­रू­पा­नु­वि­धा­यिनं क्षेत्रज्ञं क्षेत्रेण संयोजयामि इत्यर्थः । सम्भवः उत्पत्तिः सर्वभूतानां हिर­ण्य­ग­र्भो­त्प­त्ति­द्वा­रेण ततः तस्मात् गर्भाधानात् भवति हे भारत ॥ ३ ॥

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः ।
तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ॥ ४ ॥

देव­पि­तृ­म­नु­ष्य­प­शु­मृ­गा­दि­स­र्व­यो­निषु कौन्तेय, मूर्तयः देह­सं­स्था­न­ल­क्षणाः मूर्छि­ता­ङ्गा­व­यवाः मूर्तयः सम्भवन्ति याः, तासां मूर्तीनां ब्रह्म महत् सर्वावस्थं योनिः कारणम् अहम् ईश्वरः बीजप्रदः गर्भाधानस्य कर्ता पिता ॥ ४ ॥

के गुणाः कथं बध्नन्तीति, उच्यते —

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥

सत्त्वं रजः तमः इति एवंनामानः । गुणाः इति पारिभाषिकः शब्दः, न रूपादिवत् द्रव्याश्रिताः गुणाः । न च गुणगुणिनोः अन्यत्वमत्र विवक्षितम् । तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अवि­द्या­त्म­क­त्वात् क्षेत्रज्ञं निबध्नन्तीव । तम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यते । ते च प्रकृतिसम्भवाः भग­व­न्मा­या­स­म्भवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम् , अव्ययत्वं च उक्तम् ‘अनादित्वात्’(भ. गी. १३ । ३१) इत्यादिश्लोकेन । ननु ‘देही न लिप्यते’(भ. गी. १३ । ३१) इत्युक्तम् । तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते ? परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति ॥ ५ ॥

तत्र सत्त्वादीनां सत्त्वस्यैव तावत् लक्षणम् उच्यते —

तत्र सत्त्वं निर्म­ल­त्वा­त्प्र­का­श­क­म­ना­म­यम् ।
सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ॥ ६ ॥

निर्मलत्वात् स्फटिकमणिरिव प्रकाशकम् अनामयं निरुपद्रवं सत्त्वं तन्निबध्नाति । कथम् ? सुखसङ्गेन ‘सुखी अहम्’ इति विषयभूतस्य सुखस्य विषयिणि आत्मनि संश्लेषापादनं मृषैव सुखे सञ्जनम् इति । सैषा अविद्या । न हि विषयधर्मः विषयिणः भवति । इच्छादि च धृत्यन्तं क्षेत्रस्यैव विषयस्य धर्मः इति उक्तं भगवता । अतः अविद्ययैव स्वकीयधर्मभूतया विष­य­वि­ष­य्य­वि­वे­क­ल­क्ष­णया अस्वात्मभूते सुखे सञ्जयति इव, आसक्तमिव करोति, असङ्गं सक्तमिव करोति, असुखिनं सुखिनमिव । तथा ज्ञानसङ्गेन च, ज्ञानमिति सुखसाहचर्यात् क्षेत्रस्यैव विषयस्य अन्तःकरणस्य धर्मः, न आत्मनः ; आत्मधर्मत्वे सङ्गानुपपत्तेः, बन्धा­नु­प­प­त्तेश्च । सुखे इव ज्ञानादौ सङ्गः मन्तव्यः । हे अनघ अव्यसन ॥ ६ ॥

रजो रागात्मकं विद्धि तृष्णा­स­ङ्ग­स­मु­द्भ­वम् ।
तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ॥ ७ ॥

रजः रागात्मकं रञ्जनात् रागः गैरि­का­दि­व­द्रा­गा­त्मकं विद्धि जानीहि । तृष्णा­स­ङ्ग­स­मु­द्भवं तृष्णा अप्रा­प्ता­भि­लाषः, आसङ्गः प्राप्ते विषये मनसः प्रीतिलक्षणः संश्लेषः, तृष्णासङ्गयोः समुद्भवं तृष्णा­स­ङ्ग­स­मु­द्भ­वम् । तन्निबध्नाति तत् रजः निबध्नाति कौन्तेय कर्मसङ्गेन, दृष्टा­दृ­ष्टा­र्थेषु कर्मसु सञ्जनं तत्परता कर्मसङ्गः, तेन निबध्नाति रजः देहिनम् ॥ ७ ॥

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
प्रमा­दा­ल­स्य­नि­द्रा­भि­स्त­न्नि­ब­ध्नाति भारत ॥ ८ ॥

तमः तृतीयः गुणः अज्ञानजम् अज्ञानात् जातम् अज्ञानजं विद्धि मोहनं मोहकरम् अविवेककरं सर्वदेहिनां सर्वेषां देहवताम् । प्रमा­दा­ल­स्य­नि­द्राभिः प्रमादश्च आलस्यं च निद्रा च प्रमा­दा­ल­स्य­निद्राः ताभिः प्रमा­दा­ल­स्य­नि­द्राभिः तत् तमः निबध्नाति भारत ॥ ८ ॥

पुनः गुणानां व्यापारः सङ्क्षेपतः उच्यते —

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत ।
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥

सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत सञ्जयति इति अनुवर्तते । ज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्त­क­र्त­व्या­क­र­णम् ॥ ९ ॥

उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते —

रजस्तमश्चाभिभूय सत्त्वं भवति भारत ।
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥

१०

रजः तमश्च उभावपि अभिभूय सत्त्‌वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हे भारत । तथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा, तदा कर्म कृष्यादि स्वकार्यम् आरभते । तमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥ १० ॥

यदा यो गुणः उद्भूतः भवति, तदा तस्य किं लिङ्गमिति उच्यते —

सर्वद्वारेषु देहेऽ­स्मि­न्प्र­काश उपजायते ।
ज्ञानं यदा तदा विद्या­द्वि­वृद्धं सत्त्वमित्युत ॥ ११ ॥

११

सर्वद्वारेषु, आत्मनः उपलब्धिद्वाराणि श्रोत्रादीनि सर्वाणि करणानि, तेषु सर्वद्वारेषु अन्तःकरणस्य बुद्धेः वृत्तिः प्रकाशः देहे अस्मिन् उपजायते । तदेव ज्ञानम् । यदा एवं प्रकाशो ज्ञानाख्यः उपजायते, तदा ज्ञानप्रकाशेन लिङ्गेन विद्यात् विवृद्धम् उद्भूतं सत्त्वम् इति उत अपि ॥ ११ ॥

रजसः उद्भूतस्य इदं चिह्नम् —

लोभः प्रवृ­त्ति­रा­रम्भः कर्मणामशमः स्पृहा ।
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ॥ १२ ॥

१२

लोभः पर­द्र­व्या­दित्सा, प्रवृत्तिः प्रवर्तनं सामान्यचेष्टा, आरम्भः ; कस्य ? कर्मणाम् । अशमः अनुपशमः, हर्ष­रा­गा­दि­प्र­वृत्तिः, स्पृहा सर्व­सा­मा­न्य­व­स्तु­वि­षया तृष्णा — रजसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे भरतर्षभ ॥ १२ ॥

अप्र­का­शोऽ­प्र­वृ­त्तिश्च प्रमादो मोह एव च ।
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ॥ १३ ॥

१३

अप्रकाशः अविवेकः, अत्यन्तम् अप्रवृत्तिश्च प्रवृत्त्यभावः तत्कार्यं प्रमादो मोह एव च अविवेकः मूढता इत्यर्थः । तमसि गुणे विवृद्धे एतानि लिङ्गानि जायन्ते हे कुरुनन्दन ॥ १३ ॥

मरणद्वारेणापि यत् फलं प्राप्यते, तदपि सङ्गरागहेतुकं सर्वं गौणमेव इति दर्शयन् आह —

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् ।
तदोत्तमविदां लोका­न­म­ला­न्प्र­ति­प­द्यते ॥ १४ ॥

१४

यदा सत्त्वे प्रवृद्धे उद्भूते तु प्रलयं मरणं याति प्रतिपद्यते देहभृत् आत्मा, तदा उत्तमविदां मह­दा­दि­त­त्त्व­वि­दाम् इत्येतत् , लोकान् अमलान् मलरहितान् प्रतिपद्यते प्राप्नोति इत्येतत् ॥ १४ ॥

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते ।
तथा प्रलीनस्तमसि मूढयोनिषु जायते ॥ १५ ॥

१५

रजसि गुणे विवृद्धे प्रलयं मरणं गत्वा प्राप्य कर्मसङ्गिषु कर्मा­स­क्ति­यु­क्तेषु मनुष्येषु जायते । तथा तद्वदेव प्रलीनः मृतः तमसि विवृद्धे मूढयोनिषु पश्वादियोनिषु जायते ॥ १५ ॥

अती­त­श्लो­का­र्थ­स्यैव सङ्क्षेपः उच्यते —

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् ।
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥

१६

कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः सात्त्विकम् एव निर्मलं फलम् इति । रजसस्तु फलं दुःखं राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात् राजसमेव । तथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६ ॥

किञ्च गुणेभ्यो भवति —

सत्त्वा­त्स­ञ्जा­यते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १७ ॥

१७

सत्त्वात् लब्धात्मकात् सञ्जायते समुत्पद्यते ज्ञानम् , रजसो लोभ एव च, प्रमादमोहौ च उभौ तमसो भवतः, अज्ञानमेव च भवति ॥ १७ ॥

किञ्च —

ऊर्ध्वं गच्छन्ति सत्त्वस्था
मध्ये तिष्ठन्ति राजसाः ।
जघ­न्य­गु­ण­वृ­त्तस्था
अधो गच्छन्ति तामसाः ॥ १८ ॥

१८

ऊर्ध्वं गच्छन्ति देवलोकादिषु उत्पद्यन्ते सत्त्वस्थाः सत्त्व­गु­ण­वृ­त्तस्थाः । मध्ये तिष्ठन्ति मनुष्येषु उत्पद्यन्ते राजसाः । जघ­न्य­गु­ण­वृ­त्तस्थाः जघन्यश्च असौ गुणश्च जघन्यगुणः तमः, तस्य वृत्तं निद्रालस्यादि, तस्मिन् स्थिताः जघ­न्य­गु­ण­वृ­त्तस्थाः मूढाः अधः गच्छन्ति पश्वादिषु उत्पद्यन्ते तामसाः ॥ १८ ॥

पुरुषस्य प्रकृ­ति­स्थ­त्व­रू­पेण मिथ्याज्ञानेन युक्तस्य भोग्येषु गुणेषु सुख­दुः­ख­मो­हा­त्म­केषु ‘सुखी दुःखी मूढः अहम् अस्मि’ इत्येवंरूपः यः सङ्गः तत्कारणं पुरुषस्य सद­स­द्यो­नि­ज­न्म­प्रा­प्ति­ल­क्ष­णस्य संसारस्य इति समासेन पूर्वाध्याये यत् उक्तम् , तत् इह ‘सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः’(भ. गी. १४ । ५) इति आरभ्य गुणस्वरूपम् , गुणवृत्तम् , स्ववृत्तेन च गुणानां बन्धकत्वम् , गुण­वृ­त्त­नि­ब­द्धस्य च पुरुषस्य या गतिः, इत्येतत् सर्वं मिथ्याज्ञानमूलं बन्धकारणं विस्तरेण उक्त्वा, अधुना सम्य­ग्द­र्श­ना­न्मोक्षो वक्तव्यः इत्यत आह भगवान् —

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १९ ॥

१९

न अन्यं कार्य­क­र­ण­वि­ष­या­का­र­प­रि­ण­तेभ्यः गुणेभ्यः कर्तारम् अन्यं यदा द्रष्टा विद्वान् सन् न अनुपश्यति, गुणा एव सर्वावस्थाः सर्वकर्मणां कर्तारः इत्येवं पश्यति, गुणेभ्यश्च परं गुण­व्या­पा­र­सा­क्षि­भूतं वेत्ति, मद्भावं मम भावं सः द्रष्टा अधिगच्छति ॥ १९ ॥

कथम् अधिगच्छति इति, उच्यते —

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् ।
जन्म­मृ­त्यु­ज­रा­दुः­खै­र्वि­मु­क्तोऽ­मृ­त­म­श्नुते ॥ २० ॥

२०

गुणान् एतान् यथोक्तान् अतीत्य जीवन्नेव अतिक्रम्य मायोपाधिभूतान् त्रीन् देही देहसमुद्भवान् देहो­त्प­त्ति­बी­ज­भू­तान् जन्म­मृ­त्यु­ज­रा­दुःखैः जन्म च मृत्युश्च जरा च दुःखानि च जन्म­मृ­त्यु­ज­रा­दुः­खानि तैः जीवन्नेव विमुक्तः सन् विद्वान् अमृतम् अश्नुते, एवं मद्भावम् अधिगच्छति इत्यर्थः ॥ २० ॥

जीवन्नेव गुणान् अतीत्य अमृतम् अश्नुते इति प्रश्नबीजं प्रतिलभ्य, अर्जुन उवाच —

अर्जुन उवाच —

कैर्लि­ङ्गै­स्त्री­न्गु­णा­ने­ता­न­तीतो भवति प्रभो ।
किमाचारः कथं चैतां­स्त्री­न्गु­णा­न­ति­व­र्तते ॥ २१ ॥

२१

कैः लिङ्गैः चिह्नैः त्रीन् एतान् व्याख्यातान् गुणान् अतीतः अतिक्रान्तः भवति प्रभो, किमाचारः कः अस्य आचारः इति किमाचारः कथं केन च प्रकारेण एतान् त्रीन् गुणान् अतिवर्तते अतीत्य वर्तते ॥ २१ ॥

गुणातीतस्य लक्षणं गुणातीतत्वोपायं च अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाच । यत् तावत् ‘कैः लिङ्गैः युक्तो गुणातीतो भवति’ इति, तत् शृणु —

श्रीभगवानुवाच —

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव ।
न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ॥ २२ ॥

२२

प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहमेव च तमःकार्यम् इत्येतानि न द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेन अहं मूढः ; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् ; कष्टं मम वर्तते यः अयं मत्स्व­रू­पा­व­स्था­नात् भ्रंशः ; तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सञ्जयन् बध्नाति’ इति तानि द्वेष्टि अस­म्य­ग्द­र्शि­त्वेन । तत् एवं गुणातीतो न द्वेष्टि सम्प्रवृत्तानि । यथा च सात्त्वि­का­दि­पु­रुषः सत्त्वा­दि­का­र्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः । एतत् न परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्म­प्र­त्य­क्ष­त्वात् आत्मार्थमेव एतत् लक्षणम् । न हि स्वात्मविषयं द्वेष­मा­काङ्क्षां वा परः पश्यति ॥ २२ ॥

अथ इदानीम् ‘गुणातीतः किमाचारः ? ’ इति प्रश्नस्य प्रतिवचनम् आह —

उदासीनवदासीनो गुणैर्यो न विचाल्यते ।
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते ॥ २३ ॥

२३

उदासीनवत् यथा उदासीनः न कस्यचित् पक्षं भजते, तथा अयं गुणा­ती­त­त्वो­पा­य­मा­र्गेऽ­व­स्थितः आसीनः आत्मवित् गुणैः यः संन्यासी न विचाल्यते विवे­क­द­र्श­ना­व­स्थातः । तदेतत् स्फुटीकरोति — गुणाः कार्य­क­र­ण­वि­ष­या­का­र­प­रि­णताः अन्योऽन्यस्मिन् वर्तन्ते इति यः अवतिष्ठति । छन्दोभङ्गभयात् परस्मैपदप्रयोगः । योऽनुतिष्ठतीति वा पाठान्तरम् । न इङ्गते न चलति, स्वरूपावस्थ एव भवति इत्यर्थः ॥ २३ ॥

किञ्च —

समदुःखसुखः स्वस्थः सम­लो­ष्टा­श्म­का­ञ्चनः ।
तुल्य­प्रि­या­प्रियो धीर­स्तु­ल्य­नि­न्दा­त्म­सं­स्तुतिः ॥ २४ ॥

२४

समदुःखसुखः समे दुःखसुखे यस्य सः समदुःखसुखः, स्वस्थः स्वे आत्मनि स्थितः प्रसन्नः, सम­लो­ष्टा­श्म­का­ञ्चनः लोष्टं च अश्मा च काञ्चनं च लोष्टा­श्म­का­ञ्च­नानि समानि यस्य सः सम­लो­ष्टा­श्म­का­ञ्चनः, तुल्य­प्रि­या­प्रियः प्रियं च अप्रियं च प्रियाप्रिये तुल्ये समे यस्य सोऽयं तुल्य­प्रि­या­प्रियः, धीरः धीमान् , तुल्य­नि­न्दा­त्म­सं­स्तुतिः निन्दा च आत्मसंस्तुतिश्च निन्दा­त्म­सं­स्तुती, तुल्ये निन्दा­त्म­सं­स्तुती यस्य यतेः सः तुल्य­नि­न्दा­त्म­सं­स्तुतिः ॥ २४ ॥

किञ्च —

माना­प­मा­न­यो­स्तु­ल्य­स्तुल्यो मित्रारिपक्षयोः ।
सर्वा­र­म्भ­प­रि­त्यागी गुणातीतः स उच्यते ॥ २५ ॥

२५

मानापमानयोः तुल्यः समः निर्विकारः ; तुल्यः मित्रा­रि­प­क्षयोः, यद्यपि उदासीना भवन्ति केचित् स्वाभिप्रायेण, तथापि पराभिप्रायेण मित्रा­रि­प­क्ष­यो­रिव भवन्ति इति तुल्यो मित्रारिपक्षयोः इत्याह । सर्वा­र­म्भ­प­रि­त्यागी, दृष्टा­दृ­ष्टा­र्थानि कर्माणि आरभ्यन्ते इति आरम्भाः, सर्वान् आरम्भान् परित्यक्तुं शीलम् अस्य इति सर्वा­र­म्भ­प­रि­त्यागी, देह­धा­र­ण­मा­त्र­नि­मि­त्त­व्य­ति­रे­केण सर्व­क­र्म­प­रि­त्यागी इत्यर्थः । गुणातीतः सः उच्यते ‘उदासीनवत्’(भ. गी. १४ । २३) इत्यादि ‘गुणातीतः स उच्यते’(भ. गी. १४ । २५) इत्येतदन्तम् उक्तं यावत् यत्नसाध्यं तावत् संन्यासिनः अनुष्ठेयं गुणातीतत्वसाधनं मुमुक्षोः ; स्थिरीभूतं तु स्वसंवेद्यं सत् गुणातीतस्य यतेः लक्षणं भवति इति । ॥ २५ ॥

अधुना ‘कथं च त्रीन्गु­णा­न­ति­व­र्तते ? ’(भ. गी. १४ । २१) इत्यस्य प्रश्नस्य प्रतिवचनम् आह —

मां च योऽव्यभिचारेण भक्तियोगेन सेवते ।
स गुणा­न्स­म­ती­त्यै­ता­न्ब्र­ह्म­भू­याय कल्पते ॥ २६ ॥

२६

मां च ईश्वरं नारायणं सर्व­भू­त­हृ­द­या­श्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचित् यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति इत्यर्थः ॥ २६ ॥

कुत एतदिति उच्यते —

ब्रह्मणो हि प्रति­ष्ठा­ह­म­मृ­त­स्या­व्य­यस्य च ।
शाश्वतस्य च धर्मस्य सुख­स्यै­का­न्ति­कस्य च ॥ २७ ॥

२७

ब्रह्मणः परमात्मनः हि यस्मात् प्रतिष्ठा अहं प्रतितिष्ठति अस्मिन् इति प्रतिष्ठा अहं प्रत्यगात्मा । कीदृशस्य ब्रह्मणः ? अमृतस्य अविनाशिनः अव्ययस्य अविकारिणः शाश्वतस्य च नित्यस्य धर्मस्य धर्मज्ञानस्य ज्ञान­यो­ग­ध­र्म­प्रा­प्यस्य सुखस्य आनन्दरूपस्य ऐकान्तिकस्य अव्यभिचारिणः अमृ­ता­दि­स्व­भा­वस्य परमानन्दरूपस्य परमात्मनः प्रत्यगात्मा प्रतिष्ठा, सम्यग्ज्ञानेन परमात्मतया निश्चीयते । तदेतत् ‘ब्रह्मभूयाय कल्पते’(भ. गी. १४ । २६) इति उक्तम् । यया च ईश्वरशक्त्या भक्ता­नु­ग्र­हा­दि­प्र­यो­ज­नाय ब्रह्म प्रतिष्ठते प्रवर्तते, सा शक्तिः ब्रह्मैव अहम् , शक्तिशक्तिमतोः अनन्यत्वात् इत्यभिप्रायः । अथवा, ब्रह्म­श­ब्द­वा­च्य­त्वात् सविकल्पकं ब्रह्म । तस्य ब्रह्मणो निर्विकल्पकः अहमेव नान्यः प्रतिष्ठा आश्रयः । किंविशिष्टस्य ? अमृतस्य अमरणधर्मकस्य अव्ययस्य व्ययरहितस्य । किञ्च, शाश्वतस्य च नित्यस्य धर्मस्य ज्ञान­नि­ष्ठा­ल­क्ष­णस्य सुखस्य तज्जनितस्य ऐकान्तिकस्य एकान्तनियतस्य च, ‘प्रतिष्ठा अहम्’ इति वर्तते ॥ २७ ॥

इति श्रीम­त्प­र­म­हं­स­प­रि­व्रा­ज­का­चा­र्यस्य श्रीगो­वि­न्द­भ­ग­व­त्पू­ज्य­पा­द­शि­ष्यस्य श्रीम­च्छ­ङ्क­र­भ­ग­वतः कृतौ श्रीम­द्भ­ग­व­द्गी­ता­भाष्ये चतुर्दशोऽध्यायः ॥