अद्वैतशारदा

केनोपनिषद्वाक्यभाष्यम्

द्वितीयः खण्डः

व्याख्याः

यदि मन्यसे सुवेदेति दभ्रमेवापि नूनं त्वं वेत्थ ब्रह्मणो रूपं यदस्य त्वं यदस्य देवेष्वथ नु मीमांस्यमेव ते मन्ये विदितम् ॥ १ ॥

यदि मन्यसे सुवेदेति शिष्य­बु­द्धि­वि­चा­लना गृहीतस्थिरतायै । विदि­ता­वि­दि­ताभ्यां निवर्त्य बुद्धिं शिष्यस्य स्वात्म­न्य­व­स्थाप्य ‘तदेव ब्रह्म त्वं विद्धि’ इति स्वारा­ज्येऽ­भि­षिच्य उपा­स्य­प्र­ति­षे­धे­ना­थास्य बुद्धिं विचालयति — यदि मन्यसे सुष्ठु वेद अहं ब्रह्म­त­त्त्व­मिति, ततोऽल्पमेव ब्रह्मणो रूपं वेत्थ त्वमिति नूनं निश्चितं मन्यते आचार्यः । सा पुनर्विचालना किमर्थेति, उच्यते — पूर्वगृहीते वस्तुनि बुद्धेः स्थिरतायै । देवेष्वपि सु वेदाहमिति मन्यते यः सोऽप्यस्य ब्रह्मणो रूपं दभ्रमेव वेत्ति नूनम् । कस्मात् ? अवि­ष­य­त्वा­त्क­स्य­चि­द्ब्र­ह्मणः । अथवा अल्प­मे­वा­स्या­ध्या­त्मिकं मनुष्येषु देवेषु चाधिदैविकमस्य ब्रह्मणो यद्रूपं तदिति सम्बन्धः । अथ नु इति हेतु­र्मी­मां­सायाः । यस्माद्दभ्रमेव सुविदितं ब्रह्मणो रूपम् ‘अन्यदेव तद्विदितात्’ इत्युक्तत्वात् , सुवेदेति च मन्यसे ; अतः अल्पमेव वेत्थ त्वं ब्रह्मणो रूपं यस्मात् अथ नु तस्मात् मीमांस्यमेव अद्यापि ते तव ब्रह्म विचार्यमेव याव­द्वि­दि­ता­वि­दि­त­प्र­ति­षे­धा­ग­मा­र्था­नु­भव इत्यर्थः । मन्ये विदितमिति शिष्यस्य मीमां­सा­न­न्त­रोक्तिः प्रत्य­य­त्र­य­स­ङ्गतेः । सम्य­ग्व­स्तु­नि­श्च­याय विचालितः शिष्य आचार्येण मीमांस्यमेव ते इति चोक्तः एकान्ते समाहितो भूत्वा विचार्य यथोक्तं सुपरिनिश्चितः सन्नाह आग­मा­चा­र्या­त्मा­नु­भ­व­प्र­त्य­य­त्र­य­स्यै­क­वि­ष­य­त्वेन सङ्गत्यर्थम् । एवं हि ‘सुपरिनिष्ठिता विद्या सफला स्यान्ना­नि­श्चिता’ इति न्यायः प्रदर्शितो भवति ; मन्ये विदितमिति परि­नि­ष्ठि­त­नि­श्चि­त­वि­ज्ञा­न­प्र­ति­ज्ञा­हे­तूक्तेः ॥

नाह मन्ये सुवेदेति नो न वेदेति वेद च ।
यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥ २ ॥

परिनिष्ठितं सफलं विज्ञानं प्रतिजानीते आचा­र्या­त्म­नि­श्च­य­यो­स्तु­ल्य­तायै यस्माद्धेतुमाह — नाह मन्ये सुवेदेति । अहे­त्य­व­धा­र­णार्थो निपातः । नैव मन्ये इत्येतत् । यावदपरिनिष्ठितं विज्ञानं तावत् सु वेद सुष्ठु वेद अहं ब्रह्मेति विपरीतो मम निश्चय आसीत् । सोऽपजगाम भव­द्भि­र्वि­चा­लि­तस्य यथो­क्ता­र्थ­मी­मां­सा­फ­ल­भू­ता­त्स्वा­त्म­ब्र­ह्म­त्व­नि­श्च­य­रू­पा­त्स­म्य­क्प्र­त्य­यात् । विरुद्धत्वादतो नाह मन्ये सुवेदेति । यस्माच्चैतत् नैव न वेद नो न वेदेति ; मन्ये इत्यनुवर्तते, अवि­दि­त­ब्र­ह्म­प्र­ति­षे­धात् । कथं तर्हि मन्यसे इत्युक्त आह — वेद च । च—शब्दाद्वेद च न वेद च इत्यभिप्रायः, विदि­ता­वि­दि­ता­भ्या­म­न्य­त्वा­द्ब्र­ह्मणः । तस्मान्मया विदितं ब्रह्मेति मन्ये इति वाक्यार्थः । अथवा वेद चेति नित्य­वि­ज्ञा­न­ब्र­ह्म­स्व­रू­प­तया नो न वेद वेदैव चाहं स्वरू­प­वि­क्रि­या­भा­वात् । विशेषविज्ञानं च पराध्यस्तं न स्वत इति परमार्थतो न च वेदेति । यो नस्तद्वेद तद्वेदेति पक्षा­न्त­र­नि­रा­सा­र्थ­मा­म्नाय उक्ता­र्था­नु­वा­दात् । यः नः अस्माकं मध्ये तद्वेद स एव तद्ब्रह्म वेद नान्यः, उपा­स्य­ब्र­ह्म­वि­त्त्वात् । अतोऽन्यस्य यथाहं वेदेति पक्षान्तरे ब्रह्मवित्त्वं निरस्यते । कुतोऽ­य­म­र्थोऽ­व­सी­यत इति, उच्यते — उक्तानुवादात् । उक्तं ह्यनुवदति नो न वेदेति वेद चेति ॥

यस्यामतं तस्य मतं मतं यस्य न वेद सः ।
अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम् ॥ ३ ॥

यस्यामतमिति श्रौत­मा­ख्या­यि­का­र्थो­प­सं­हा­रा­र्थम् । शिष्या­चा­र्यो­क्ति­प्र­त्यु­क्ति­ल­क्ष­णया अनु­भ­व­यु­क्ति­प्र­धा­नया आख्यायिकया योऽर्थः सिद्धः स श्रौतेन वच­ने­ना­ग­म­प्र­धा­नेन निगमनस्थानीयेन सङ्क्षेपत उच्यते । यदुक्तं विदि­ता­वि­दि­ता­भ्या­म­न्य­द्वा­गा­दी­ना­म­गो­च­र­त्वात् मीमांसितं चानु­भ­वो­प­प­त्तिभ्यां ब्रह्म, तत्तथैव ज्ञातव्यम् । कस्मात् ? यस्यामतं यस्य विवि­दि­षा­प्र­यु­क्त­प्र­वृ­त्तस्य साधकस्य अमतम् अविज्ञातम् अविदितं ब्रह्म इत्या­त्म­त­त्त्व­नि­श्च­य­फ­ला­व­सा­ना­व­बो­ध­तया विविदिषा निवृ­त्ते­त्य­भि­प्रायः, तस्य मतं ज्ञातम् ; तेन विदितं ब्रह्म येनाविषयत्वेन आत्मत्वेन प्रति­बु­द्ध­मि­त्यर्थः । स सम्यग्दर्शी यस्य विज्ञा­ना­न­न्त­र­मेव ब्रह्मा­त्म­भा­व­स्या­व­सि­त­त्वात् सर्वतः कार्यभावो विपर्ययेण मिथ्याज्ञानो भवति । कथम् ? मतं विदितं ज्ञातं मया ब्रह्म इति यस्य विज्ञानम् , स मिथ्यादर्शी विपरीतविज्ञानो विदि­ता­द­न्य­त्वा­द्ब्र­ह्मणो न वेद सः न विजानाति । ततश्च सिद्धमवैदिकस्य विज्ञानस्य मिथ्यात्वम् , अब्रह्मविषयतया निन्दितत्वात् । तथा कपि­ल­क­ण­भु­गा­दि­स­म­य­स्यापि विदि­त­ब्र­ह्म­वि­ष­य­त्वात् अन­व­स्थि­त­त­र्क­ज­न्य­त्वा­वि­दि­त­वि­ष­य­तया विवि­दि­षा­नि­वृ­त्तेश्च मिथ्यात्वमिति । स्मृतेश्च — ‘या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रोक्ता­स्त­मो­निष्ठा हि ताः स्मृताः’(मनु. १२ । ९५) इति । ‘अविज्ञातं विजानतां विज्ञा­त­म­वि­जा­न­ताम्’ इति पूर्वहेतूक्तिः अनु­वा­द­स्या­न­र्थ­क्यात् — अनु­वा­द­मा­त्रेऽ­न­र्थकं वचनमिति विप­र्य­य­मि­थ्या­ज्ञा­न­यो­र्न­ष्ट­त्वात् पूर्वोक्तयोः यस्या­म­त­मि­त्या­दि­ज्ञा­ना­ज्ञा­न­यो­र्हे­त्व­र्थ­त्वे­ने­द­मु­च्यते — अविज्ञातम् अवि­दि­त­मा­त्म­त्वे­ना­वि­ष­य­तया ब्रह्म विजानतां यस्मात् , तस्मात्तदेव ज्ञानं यत्तेषां विज्ञातं विदितं व्यक्तमेव बुद्ध्यादिविषयं ब्रह्म अविजानतां विदि­ता­वि­दि­त­व्या­वृ­त्त­मा­त्म­भूतं नित्य­वि­ज्ञा­न­स्व­रू­प­मा­त्म­स्थ­म­वि­क्रि­य­म­मृ­त­म­ज­र­म­भ­य­म­न­न्य­त्वा­द­वि­ष­य­मि­त्ये­व­म­वि­जा­नतां बुद्ध्या­दि­वि­ष­या­त्म­त­यैव नित्यं विज्ञातं ब्रह्म । तस्मा­द्वि­दि­ता­वि­दि­त­व्य­क्ता­व्य­क्त­ध­र्मा­ध्या­रो­पेण कार्यकारणभावेन सवि­क­ल्प­म­य­था­र्थ­वि­ष­य­त्वात् । शुक्तिकादौ रज­ता­द्य­ध्या­रो­प­ण­ज्ञा­न­व­न्मि­थ्या­ज्ञानं तेषाम् ॥

प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।
आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४ ॥

प्रति­बो­ध­वि­दि­त­मिति वीप्सा­प्र­त्य­या­ना­मा­त्मा­व­बो­ध­द्वा­र­त्वात् बोधं प्रति बोधं प्रतीति वीप्सा सर्व­प्र­त्य­य­व्या­प्त्यर्था । बौद्धा हि सर्वे प्रत्य­या­स्त­प्त­लो­ह­व­न्नि­त्य­वि­ज्ञा­न­स्व­रू­पा­त्म­व्या­प्त­त्वा­द्वि­ज्ञा­न­स्व­रू­पा­व­भासाः तद­न्या­व­भा­स­श्चात्मा तद्वि­ल­क्ष­णोऽ­ग्नि­व­दु­प­ल­भ्यत इति ते द्वारी­भ­व­न्त्या­त्मो­प­लब्धौ । तस्मा­त्प्र­ति­बो­धा­व­भा­स­प्र­त्य­गा­त्म­तया यद्विदितं तद्ब्रह्म, तदेव मतं तदेव सम्यग्ज्ञानं यत्प्र­त्य­गा­त्म­वि­ज्ञा­नम् , न विषयविज्ञानम् । आत्मत्वेन ‘प्रत्य­गा­त्मा­न­मै­क्षत्’(क. उ. २ । १ । १) इति च काठके । अमृतत्वं हि विन्दते इति हेतुवचनं विपर्यये मृत्युप्राप्तेः । विष­या­त्म­वि­ज्ञाने हि मृत्युः प्रारभते इत्या­त्म­वि­ज्ञा­न­म­मृ­त­त्व­नि­मि­त्त­मिति युक्तं हेतुवचनममृतत्वं हि विन्दते इति । आत्मज्ञानेन किम­मृ­त­त्व­मु­त्पा­द्यते । न । कथं तर्हि ? आत्मना विन्दते स्वेनैव नित्या­त्म­स्व­भा­वे­ना­मृ­तत्वं विन्दते, नालम्बनपूर्वकं विन्दत इति आत्म­ज्ञा­ना­पे­क्षम् । यदि हि विद्यो­त्पा­द्य­म­मृ­तत्वं स्यात् , अनित्यं भवे­त्क­र्म­का­र्य­वत् । अतो न विद्योत्पाद्यम् ।

यदि चात्म­नै­वा­मृ­तत्वं विन्दते, किं पुनर्विद्यया क्रियत इत्युच्यते । अनात्मविज्ञानं निवर्तयन्ती सा तन्निवृत्त्या स्वाभा­वि­क­स्या­मृ­त­त्वस्य निमित्तमिति कल्प्यते ; यत आह — वीर्यं विद्यया विन्दते । वीर्यं सामर्थ्यम् अना­त्मा­ध्या­रो­प­मा­या­स्वा­न्त­ध्वा­न्ता­न­भि­भा­व्य­ल­क्षणं बलं विद्यया विन्दते । तच्च किंविशिष्टम् ? अमृतम् अविनाशि । अविद्याजं हि वीर्यं विनाशि, विद्ययाविद्याया बाध्यत्वात् । न तु विद्याया बाधकोऽस्तीति विद्याजममृतं वीर्यम् । अतो विद्या अमृतत्वे निमित्तमात्रं भवति । ‘नायमात्मा बलहीनेन लभ्यः’(मु. उ. ३ । २ । ४) इति चाथर्वणे । लोकेऽपि विद्याजमेव बलमभिभवति न शरी­रा­दि­सा­म­र्थ्यम् , यथा हस्त्यादेः । अथवा प्रतिबोधविदितं मतमिति सकृ­दे­वा­शे­ष­वि­प­री­त­नि­र­स्त­सं­स्का­रेण स्वप्न­प्र­ति­बो­ध­व­द्य­द्वि­दितं तदेव मतं ज्ञातं भवतीति । अथवा गुरूपदेशः प्रतिबोधः । तेन वा विदितं मतमिति । उभयत्र प्रति­बो­ध­श­ब्द­प्र­यो­गोऽस्ति — ‘सुप्त­प्र­ति­बुद्धः’ ‘गुरुणा प्रतिबोधितः’ इति । पूर्वं तु यथार्थम् ॥

इह चेदवेदीदथ सत्यमस्ति न चेदि­हा­वे­दी­न्म­हती विनष्टिः ।
भूतेषु भूतेषु विचित्य धीराः प्रेत्या­स्मा­ल्लो­का­द­मृता भवन्ति ॥ ५ ॥

इह चेदवेदीदिति अव­श्य­क­र्त­व्य­तोक्तिः विपर्यये विनाशश्रुतेः । इह मनुष्यजन्मनि सति अवश्यमात्मा वेदितव्य इत्येतद्विधीयते । कथम् ? इह चेत् अवेदीत् विदितवान् , अथ सत्यं परमार्थतत्त्वम् अस्ति अवाप्तम् ; तस्य जन्म सफ­ल­मि­त्य­भि­प्रायः । न चेदिहावेदीत् न विदितवान् , वृथैव जन्म । अपि च महती विनष्टिः महान्विनाशो जन्म­म­र­ण­प्र­ब­न्धा­वि­च्छे­द­प्रा­प्ति­ल­क्षणः स्याद्यतः, तस्मादवश्यं तद्विच्छेदाय ज्ञेय आत्मा । ज्ञानेन तु किं स्यादिति, उच्यते — भूतेषु भूतेषु चराचरेषु सर्वे­ष्वि­त्यर्थः । विचित्य विचार्य पृथ­ङ्नि­ष्कृ­ष्यै­क­मा­त्म­तत्त्वं संसा­र­ध­र्मै­र­स्पृ­ष्ट­मा­त्म­भा­वे­नो­प­ल­भ्ये­त्यर्थः, अने­का­र्थ­त्वा­द्धा­तू­नाम् । न पुनश्चित्वेति सम्भवति, विरोधात् । धीराः धीमन्तः विवेकिनः विनि­वृ­त्त­बा­ह्य­वि­ष­या­भि­लाषाः, प्रेत्य मृत्वा अस्मात् लोकात् शरी­रा­द्य­ना­त्म­ल­क्ष­णात् व्यावृ­त्त­म­म­त्वा­ह­ङ्काराः सन्त इत्यर्थः, अमृताः अमरणधर्माणो नित्य­वि­ज्ञा­ना­मृ­त­त्व­स्व­भावा एव भवन्ति ॥

इति द्विती­य­ख­ण्ड­भा­ष्यम् ॥