अद्वैतशारदा

पञ्चरत्नस्तोत्राणि

जाग्रत्पञ्चकम् - विवेकपञ्चकम्

माता नास्ति पिता नास्ति नास्ति बन्धुः सहोदरः ।
अर्थो नास्ति गृहं नास्ति तस्मात् जागृत जागृत ॥ १ ॥

जन्म दुःखं जरा दुःखं जाया दुःखं पुनः पुनः ।
संसारसागरं दुःखं तस्मात् जागृत जागृत ॥ २ ॥

कामः क्रोधश्च लोभश्च देहे तिष्ठन्ति तस्कराः ।
ज्ञान­र­त्ना­प­हा­राय तस्मात् जागृत जागृत ॥ ३ ॥

आशया बध्यते लोको कर्मणा बहुचिन्तया ।
आयुः क्षीणं न जानंति तस्मात् जागृत जागृत ॥ ४ ॥

संपदः स्वप्नसंकाशाः यौवनं कुसुमोपमम् ।
विद्यु­च्च­ञ्च­ल­मा­युष्यं तस्मात् जागृत जागृत ॥ ५ ॥